All kośas › Nānārthodayasāgarakoṣa
नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa
2,302 verses · text only, tagging comes next
Part 1 (1/20)
नानार्थोदयसागर कोषः
अंशुः प्रभायां किरणे लेशे वेशे विवस्वति ।असमञ्जसपुत्रेऽर्केंऽशुमानंशुयुते त्रिषु ॥ १ ॥
1 · p. 1
अनुष्टुप्
अंहतिः स्त्री वितरणे रोगे त्यागेऽभिधीयते ।अकूपारः कूर्मराजे पाषाणादि सरित्पतौ ॥ २ ॥
2 · p. 1
अनुष्टुप्
अगः सूर्ये भुजंगे च पर्वतेऽपि महीरुहे ।अग्निर्भल्लातके स्वर्णे पित्तनिम्बुकवह्निषु ॥ ३ ॥
3 · p. 1
अनुष्टुप्
अग्रोऽधिके प्रधाने च प्रथमेऽपि त्रिलिंगकः ।अग्रजो ब्राह्मणे ज्येष्ठभ्रातर्यग्रजनौ त्रिषु ॥ ४ ॥
4 · p. 2
अनुष्टुप्
अङ्कः क्रोडेऽपवादे च चिह्ने भूषणरेखयोः ।नाटकांशे चित्रयुद्धे समीपे स्थानदेहयोः ॥ ५ ॥
5 · p. 2
अनुष्टुप्
अंकुरो लोम्नि रुधिरे सलिलेऽभिनवोद्भिदे ।अंगो देशान्तरे पुंसि निकटे कायचित्तयोः ॥ ६ ॥
6 · p. 2
अनुष्टुप्
अंगना सार्वभौमाख्य दिग्गजस्त्रीस्त्रियोर्मता ।अंसः स्कन्धे विभागेऽथ दुःखैनोव्यसनेष्वघम् ॥ ८ ॥
8 · p. 2
अनुष्टुप्
अजपस्त्वसदध्येतृच्छागपालकयोर्द्वयोः ।अतुलस्तिलवृक्षे स्यात्तुलना रहिते त्रिषु ॥ ९ ॥
9 · p. 3
अनुष्टुप्
अत्ययोऽतिक्रमे मृत्यौ दण्डे दोषे कलाकले ।अत्याहितं जीवनाशाशून्यकृत्ये महाभये ॥ १० ॥
10 · p. 3
अनुष्टुप्
मान्ये पूज्ये श्लाघनीये स्मर्यतेऽत्रभवांस्त्रिषु ।अथो अथेत्यव्यये द्वे प्रारम्भे प्रश्नकार्त्स्न्ययोः ॥ ११ ॥
11 · p. 3
अनुष्टुप्
विकल्पे संशये चार्थेऽधिकारेऽनन्तरे शुभे ।अदृष्टं भागधेये स्याज्जलाग्नि जनिते भये ॥ १२ ॥
12 · p. 3
अनुष्टुप्
जन्मान्तरीयसंस्कारेऽवीक्षिते वाच्यलिंगभाक् ।अद्रिः पुंसि गिरौ सूर्ये परिमाणान्ते च तरौ ॥ १३ ॥
13 · p. 3
अनुष्टुप्metre not read in every line
अधोऽव्ययं तलेऽनूर्ध्वे योनिपातालयोरपि ।अधरस्त्रिषु हीने स्यादधोदेशाधऽरोष्ठयोः ॥ १४ ॥
14 · p. 4
अनुष्टुप्
अधिकारः प्रकरणे स्वामित्वे प्रक्रियादिके ।तथाऽधिकृतदेशादौ दन्तरोगेऽधिमांसकः ॥ १५ ॥
15 · p. 4
अनुष्टुप्
अधिवासो निवासे स्यात् संस्कारे धूपनादिभिः ।अधिष्ठानं पुरे चक्रे प्रभावेऽध्यासने स्थितौ ॥ १६ ॥
16 · p. 4
अनुष्टुप्
अधिक्षिप्तः प्रणिहिते प्रेरिते भर्त्सिते त्रिषु ।अभिष्यन्दोऽतिवृद्धौ स्यात्स्रावे लोचनामये ॥ १७ ॥
17 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अधीरश्चञ्चले भीरौ त्रिषु विद्युति तु स्त्रियाम् ।अध्वगः पथिके सूर्ये खेसरे व क्रमेलके ॥ १८ ॥
18 · p. 5
अनुष्टुप्
अध्वरः सावधाने स्याद् वसुभेदे सवे पुमान् ।अध्वा संस्थान-समय-स्कन्ध-शास्त्रेषु वर्त्मनि ॥ १९ ॥
19 · p. 5
अनुष्टुप्
अनो नपुंसकं जन्म-जनन्योः शकटेऽन्धसि ।अनघो निर्मलेऽपापे मनोज्ञे वाच्यलिंगभाक् ॥ २० ॥
20 · p. 5
अनुष्टुप्
अनगं गगने चित्ते कामदेवे त्वसौ पुमान् ।अनन्तो बलदेवे स्याच्चतुर्दशजिनेऽच्युते ॥ २१ ॥
21 · p. 5
अनुष्टुप्
वासुकौ शेषनागे च सिन्दुवारतरौ पुमान् ।अनन्तमभ्रके व्योम्नि निस्सीमे त्वभिधेयवत् ॥ २२ ॥
22 · p. 6
अनुष्टुप्
अनन्ताऽग्निशिखा वृक्ष-गुडूची-पिप्पलीषु च ।पार्वती-भूमि-दुर्वासु यवासाऽनन्तमूलयोः ॥ २३ ॥
23 · p. 6
अनुष्टुप्
दुरालभाऽऽमलक्योश्च हरीतक्यामपि स्मृता ।अनयो व्यसने दैवेऽमगंले ना विपद्यपि ॥ २४ ॥
24 · p. 6
अनुष्टुप्
अनलो वसुभेदेऽग्नौ पित्ते भल्लातके पुमान् ।अनुबन्धः प्रकृत्यादौ बन्धे लेशे विनश्वरो ॥ २५ ॥
25 · p. 6
अनुष्टुप्
मुख्यानुगुशिशौ पश्चाद्बन्धने प्रकृतान्वये ।दोषोत्पत्तौ तथाऽऽरम्भे सम्बन्धादिचतुष्टये ॥ २६ ॥
26 · p. 6
अनुष्टुप्
अनुरागः पुमान् स्नेहे व्यासक्तावपि कीर्तितः ॥ २७ ॥
27 · p. 7
द्वेषेऽनुतापेऽनुशयोऽनुबन्धेपि पुमान् मतः ।अनुकूलं स्वभावे स्यात्कुले च गतजन्मनि ॥ २८ ॥
28 · p. 7
अनुष्टुप्
अन्तःस्वरूपे सीमायां निश्चयेऽवयवेऽन्तिके ।रम्ये समाप्तौ निधने स्वभावेऽवसितेऽपि च ॥ २९ ॥
29 · p. 7
अनुष्टुप्
अन्तरं छिद्र-तादर्थ्य-भेदेष्वन्तर्द्धि-मध्ययोः ।आत्मीयेऽवसरे तुल्ये परिधानेऽन्तरात्मनि ॥ ३० ॥
30 · p. 7
अनुष्टुप्
बहिर्विनाऽवधि-प्रान्ता-वकाशेषु नपुंसकम् ।अन्तरा वर्जने मध्ये विनार्थे निकटेऽव्ययम् ॥ ३१ ॥
31 · p. 7
अनुष्टुप्
अपकारोऽपक्रियायां द्रोहे निःक्षेपकर्मणि ।पूजायां निष्कृतौ हानौ व्ययेऽप्यपचितिः स्त्रियाम् ॥ ३२ ॥
32 · p. 7
अनुष्टुप्
चूर्णीकृते परित्यक्तेऽपध्वस्तो निन्दिते त्रिषु ।शमी-शेफालिका-दुर्गा-शङ्खिनीष्वपराजिता ॥ ३३ ॥
33 · p. 8
अनुष्टुप्
विष्णुक्रान्ता-स्वप्नफला-हपुष्पेषु च कीर्तिता ।अचलः कीलके शैले पुंस्यकम्पे त्रिषु स्मृतः ॥ ३४ ॥
34 · p. 8
अनुष्टुप्
अच्छो निर्मलः भल्लूक-स्फटिकेष्वच्छमव्ययम् ।अञ्जनं म्रक्षणे व्यक्तीकरणे कज्जले गतौ ॥ ३५ ॥
35 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लः (wrong syllable)
अट्टस्त्वतिशये क्षौमे हट्टे हर्म्यादिवेश्मनि ।अजो ब्रह्मणि कन्दर्पे शिवे विष्णौ रघोः सुते ॥ ३६ ॥
36 · p. 8
अनुष्टुप्
मेषे माक्षिकधातौ च जन्महीने त्वसौ त्रिषु ।अपवर्गः कर्मफले क्रियान्ते त्याग-मोक्षयोः ॥ ३७ ॥
37 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
क्रियावसानसाफल्ये पूर्णतायामपि स्मृतः ।अपवादस्तु विश्वासे निदेशे गर्हणे तथा ॥ ३८ ॥
38 · p. 9
अनुष्टुप्
अमृता तुलसी दूर्वा-पिप्पली-मदिरासु च ।गो-रक्ष-दुग्धाऽतिविषाऽभया-रक्तत्रिवृत्स्वपि ॥ ४० ॥
40 · p. 9
अनुष्टुप्
अम्बरम् वस्त्र आकाशे कार्पासे गिरिजामले ।अम्बरीषः शिवे विष्णौ भास्करे नरकान्तरे ॥ ४१ ॥
41 · p. 9
अनुष्टुप्
अनुतापे किशोऽरेऽपि सूर्यवंश्यनृपे पुमान् ।क्लीबं भर्जनपात्रे स्यात्संग्रामेऽपि प्रकीर्तितः ॥ ४२ ॥
42 · p. 9
अनुष्टुप्
अये सम्बोधने कोपे विषादे संभ्रमे स्मृतौ ।अयोगो विधुरे कूटे विश्लेषे कठिनोधमे ॥ ४३ ॥
43 · p. 10
अनुष्टुप्
अयनं गमने शास्त्रे सूर्यसंक्रमणान्तरे ।सूर्यगत्यन्तरे मार्गेऽनुनय-प्रश्नयोरपि ॥ ४४ ॥
44 · p. 10
अनुष्टुप्
अरः पुमान् कालचक्रद्वादशांशे जिनान्तरे ।अरं नपुंसके शीघ्रे चक्रांगे शीघ्रगे त्रिषु ॥ ४५ ॥
45 · p. 10
अनुष्टुप्
अरिः पुमान् स्मृतश्चक्रे विपक्षे खदिरान्तरे ।अरिष्टमशुभे मृत्युचिह्नोपद्रवयोरपि ॥ ४६ ॥
46 · p. 10
अनुष्टुप्
शुभे प्रसूतिकागेहे क्लीबमुक्तं मनिषिभिः ।अरिष्टः पुंसि लशुने वायसे वृषभासुरे ॥ ४७ ॥
47 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
निम्बे फेनिलवृक्षे मद्यभेदे कङ्कपक्षिणि ।अरिष्टनेमिर्द्वाविंशे तिर्थङ्करजिने पुमान् ॥ ४८ ॥
48 · p. 10
अनुष्टुप्
अरुणो भास्करेऽनूरौ कुष्ठभेदेऽर्कपादपे ।सन्ध्यारागेऽव्यक्तरागे पुन्नागे कपिले गुडे ॥ ४९ ॥
49 · p. 11
अनुष्टुप्
अरुणाऽतिविषा-गुञ्जा-मञ्जिष्ठा-त्रिवृतासु च ।अलंबुषेन्द्रवारुण्योः श्यामायामपि कीर्तिता ॥ ५० ॥
50 · p. 11
अनुष्टुप्
अरोको दीप्तिरहिते रन्ध्रहीने त्रिलिंगकः ।अर्कः पुरन्दरे ताम्रे पण्डिते स्फटिके रवौ ॥ ५१ ॥
51 · p. 11
अनुष्टुप्
ज्येष्ठभ्रातर्यर्कवृक्षे निर्यासे रविवासरे ।अर्घः पूजाविधौ मूल्येऽर्चिष्मान् वैश्वानरे रवौ ॥ ५२ ॥
52 · p. 11
अनुष्टुप्
अर्जुनस्तु मयूरे स्यात् कार्तवीर्याऽर्जुने सिते ।मध्यमे पाण्डवे मातुरेकपुत्रे द्रुमान्तरे ॥ ५३ ॥
53 · p. 11
अनुष्टुप्
अर्थः प्रयोजने वित्ते वाच्ये विषयवस्तुनोः ।निवृत्तौ याचनायां च प्रकारे कारणेऽपि च ॥ ५४ ॥
54 · p. 11
अनुष्टुप्
अर्थी सहाये धनिके विवादिनि च याचके ।सेवकेऽपि बुधैः प्रोक्तः प्रयोजनवति त्रिषु ॥ ५५ ॥
55 · p. 12
अनुष्टुप्
याचने पीडने गत्यां हनने गमनेऽर्दनम् ।अर्द्धचन्द्रश्चन्द्रखण्डे गलहस्ते नखक्षते ॥ ५६ ॥
56 · p. 12
अनुष्टुप्
पुमान् वाणविशेषेऽपि चन्द्रकेऽपि प्रयुज्यते ।अर्भकः सदृशे स्वल्पे शिशौ मूर्खे कृशे पुमान् ॥ ५७ ॥
57 · p. 12
अनुष्टुप्
अर्हः पुरन्दरे पुंसि त्रिषु योग्योपयुक्तयोः ।अलमत्यर्थपर्याप्त-निरर्थकनिवारणे ॥ ५८ ॥
58 · p. 12
अनुष्टुप्
शक्तिभूषणयोरेतदव्ययं विदुषां मतम् ।अलिः स्त्रीपुंसयोः काके वृश्चिके भ्रमरे पिके ॥ ५९ ॥
59 · p. 12
अनुष्टुप्
अलीकमप्रिये स्वर्गे ललाटे वितथेऽपि च ।अवग्रहो वृष्टिरोधे स्वभावे प्रतिबन्धके ॥ ६० ॥
60 · p. 13
अनुष्टुप्
अवनं रक्षणे शक्तौ कामेऽवगमने वधे ।प्रीणने शोभने तृप्तौ स्पृहायां श्रवणे गतौ ॥ ६२ ॥
62 · p. 13
अनुष्टुप्
सत्तायां करणे बुद्धौ श्लेषे प्राप्तौ प्रवेशने ।याचने ग्रहणे भागे स्वाम्यर्थे च नपुंसकम् ॥ ६३ ॥
63 · p. 13
अनुष्टुप्
अथोऽवष्टम्भ आरम्भे सुवर्णे स्तम्भ उच्यते ।अवष्टब्धोऽन्तिके बद्ध आक्रान्ते रुद्ध आश्रिते ॥ ६५ ॥
65 · p. 13
अनुष्टुप्
अवष्टम्भो स्तम्भ-हेम-प्रारम्भेषु च सौष्ठवे ।अवष्टम्भस्तु प्रारम्भे स्तम्भे हेमनि सौष्ठवे ॥ ६६ ॥
66 · p. 14
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 स्तु (wrong syllable)
प्रस्तावे वर्षणे मन्त्रविशेषे वत्सरे क्षणे ।अवकाशेऽप्यवसरोऽवस्करो गुह्य-गूथयोः ॥ ६७ ॥
67 · p. 14
अनुष्टुप्
जिनकालविशेषे स्त्री चोत्सर्पिण्यवसर्पिणी ।अवसानं विरामे स्यान्मृत्यौ सीमनि चेष्यते ॥ ६८ ॥
68 · p. 14
अनुष्टुप्
अवसायः पुमान् शेषे समाप्तौ निश्चयेऽपि च ।अविर्मेषे गिरौ सूर्ये नाथे मूषिक-कम्बले ॥ ६९ ॥
69 · p. 14
अनुष्टुप्
प्राचीरे मारुते पुंसि पुष्पवत्यां स्त्रियां मता ।अब्दः संवत्सरे मेघे मुस्तायां पर्वतान्तरे ॥ ७० ॥
70 · p. 14
अनुष्टुप्
अव्यक्तः पुंसि कन्दर्पे शिवे कृष्णेऽस्फुटे त्रिषु ।अव्यक्तं महदादौ च प्रकृतौ परमात्मनि ॥ ७१ ॥
71 · p. 14
अनुष्टुप्
अष्टापदं शारिफले स्वर्ण-धत्तूरयोर्द्वयोः ।अचिरा स्त्र्यर्हतां मातृविशेषे कीर्तिता बुधैः ॥ ७२ ॥
72 · p. 15
अनुष्टुप्
अभीकः कामुके क्रूरे निर्भयोत्सुकयोस्त्रिषु ।अभीषुः प्रग्रहे कामेऽनुरागे किरणे पुमान् ॥ ७३ ॥
73 · p. 15
अनुष्टुप्
अभ्यागमोऽन्तिके युद्धे वैराभ्युत्थान-मारणे ।अभ्यासोऽभ्यसनाऽऽवृत्ति-शराभ्यासान्तिकेष्वपि ॥ ७४ ॥
74 · p. 15
अनुष्टुप्
अमरः पारदे देवेऽस्थिसंहारे मृत्युवर्जिते ।अमरा नाभिनालायां दूर्वास्थूणाजरायुषु ॥ ७५ ॥
75 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गुडूच्याममरावत्यां महानीली वटीतरौ ।अमृतं भेषजे स्वादु द्रव्ये हृद्येऽन्नवित्तयोः ॥ ७६ ॥
76 · p. 16
अनुष्टुप्
जले घृते यज्ञशेषद्रव्येऽयाचितवस्तुनि ।कैवल्ये विषसामान्ये सुधायां पारदे घने ॥ ७७ ॥
77 · p. 16
अनुष्टुप्
क्षीरे स्वर्णे भक्षणीयद्रव्ये नित्यनपुंसकम् ।पुमान् धन्वन्तरौ देवे वाराहीकन्दरुच्ययोः ॥ ७८ ॥
78 · p. 16
अनुष्टुप्
अपवर्गः कर्मफले क्रियान्ते त्यागमोक्षयोः ।क्रियावसानसाफल्ये पूर्णतायामपि स्मृतः ॥ ७९ ॥
79 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
अपवादस्तु विश्वासे निदेशे गर्हणे पुमान् ।विशेषे बाधकेऽपष्ठु विपरीते च शोभने ॥ ८० ॥
80 · p. 16
अनुष्टुप्
अफेनो महिफेने स्यात्फेनहीने त्रिलिंगकः ।अब्जं नपुंसकं पद्मे शतकोटावपि स्मृतम् ॥ ८२ ॥
82 · p. 17
अनुष्टुप्
पुमान् धन्वन्तरौ चन्द्रे शंखे निचुलपादपे ।अभ्रमभ्रकधातौ स्यान्मेघे गगनमुस्तयोः ॥ ८३ ॥
83 · p. 17
अनुष्टुप्
अभियोगोऽपराधादि योजनाऽभिग्रहोद्यमे ।अभिरूपः शिवे विष्णौ चन्द्रे कामे पुमान् स्मृतः ॥ ८४ ॥
84 · p. 17
अनुष्टुप्
मिथ्याऽपवादे संश्लेषे भूतावेशे पुमान् मतः ।नाकः स्वर्गेऽन्तरिक्षे च खड्गे बाणे च सायकः ॥ ८६ ॥
86 · p. 17
अनुष्टुप्
श्लोकः पद्ये यशसि च लोकस्तु विष्टपे जने ।जम्बुको वरुणे नीचे श्रृगालेपि स्मृतो बुधैः ॥ ८७ ॥
87 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
पृथुकश्चिपिटे पुंसि शावके त्वभिधेयवत् ।आलोको दर्शने द्योते बन्द्युक्तिजयशब्दयोः ॥ ८८ ॥
88 · p. 18
अनुष्टुप्
आनकस्तु मृदंगे स्यात् भेर्यां पटहमेघयोः ।अंकः क्रोडेऽपवादे च रेखाचिह्नविभूषणे ॥ ८९ ॥
89 · p. 18
अनुष्टुप्
नाटकांगे चित्रयुद्धे समीपे स्थानदेहयोः ।अर्कस्ताम्रे भास्करे च स्फटिकेऽर्कदलेऽपि च ॥ ९० ॥
90 · p. 18
अनुष्टुप्
कलंकश्चिह्नेऽपवादे कालायासमले स्मृतः ।पुलाकोऽन्नावयवे रिक्तधान्ये ह्यविस्तरे ॥ ९१ ॥
91 · p. 18
metre not recognisednearly अनुष्टुप्
कोशातकः पटोल्यां च घोषके चिकुरेपि च ।सोमवल्कः कट्फले च घबले खदिरे स्मृतः ॥ ९४ ॥
94 · p. 19
अनुष्टुप्
पिण्याकस्तिलकल्के च सिल्हकेपि प्रकीर्तितः ।कौशिको नकुले शक्रे व्यालग्राहे च गुग्गुलौ ॥ ९५ ॥
95 · p. 19
अनुष्टुप्
उलूके कोशविज्ञे च विश्वामित्रेपि कीर्तितः ।आतङ्को रोग-सन्ताप-शङ्कासु मुरजध्वनौ ॥ ९६ ॥
96 · p. 19
अनुष्टुप्
क्षुल्लकस्त्रिषु नीचेऽल्पे कनिष्ठे दुर्गतेऽपि च ।आयुष्मतीन्दौ कर्पूरेऽगदे जैवातृकः सुते ॥ ९७ ॥
97 · p. 19
अनुष्टुप्
वर्तकः पक्षिभेदे च तुरगस्य शफेपि च ।पुण्डरीकं सिताम्भोजे श्वेतच्छत्रेऽगदान्तरे ॥ ९८ ॥
98 · p. 19
अनुष्टुप्
पुण्डरीको गणधरे सहकारे गजज्वरे ।कोषकारान्तरे व्याघ्रे राजिले दिग्गजान्तरे ॥ ९९ ॥
99 · p. 20
अनुष्टुप्
कमण्डलौ कुष्ठभेदे तरौ दमनकाभिधे ।शालावृकः शृगाले स्याद् वानरे कुक्कुरेपि च ॥ १०० ॥
100 · p. 20
अनुष्टुप्
अलीकमप्रियेऽसत्ये स्वर्गे भाले नपुंसकम् ।व्यलीकं पीडनेऽकार्ये वैलक्ष्याप्रिययोरपि ॥ १०१ ॥
101 · p. 20
अनुष्टुप्
निष्कः पले च दीनारे वक्षःस्थलविभूषणे ।अष्टाधिकशते स्वर्णकर्षाणां स्वर्णमात्रके ॥ १०२ ॥
102 · p. 20
अनुष्टुप्
कल्को बिभीतके दम्भे पापे विट्किट्टयोरपि ।आरं मुण्डायसे कोणे पित्तल-प्रान्तभागयोः ॥ १०३ ॥
103 · p. 20
अनुष्टुप्
आरः कुजे वृक्षभेदे पित्तले च शनिग्रहे ।आरम्भ उद्यमे दर्पे वध आद्यकृतावपि ॥ १०४ ॥
104 · p. 20
अनुष्टुप्
प्रस्तावनायां शैघ्य्रे चाभ्यादानेऽपि पुमानयम् ।आराधनं साधने स्यात्पचने प्राप्ति-तोषयोः ॥ १०५ ॥
105 · p. 21
अनुष्टुप्
आरोहस्तु गजारोहे वरस्त्रीश्रोणिदैर्घ्ययोः ।परिमाणान्तरारोहनितम्बेषु समुच्छ्रये ॥ १०६ ॥
106 · p. 21
अनुष्टुप्
आरोहणं समारोहे सोपानेऽङ्कुरनिर्गमे ।आर्तस्तु पीडितेऽसुस्थेऽप्यार्तिस्तु रोगपीडयोः ॥ १०७ ॥
107 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
धनुष्कोटावथाऽऽर्यस्तु संगते श्रेष्ठपूज्ययोः ।बुद्धे सत्कुलजाते च त्रिषु मित्रे प्रभो पुमान् ॥ १०८ ॥
108 · p. 21
अनुष्टुप्
आलानं बन्धने रज्जौ गजबन्धनदारुणि ।आलिः पंक्तौ वयस्यायां सतौ च संततौ स्त्रियाम् ॥ १०९ ॥
109 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
पुमान् स्याद्वृश्चिके भृङ्गे त्रिषु स्याद्विशदाशये ।आलोको दर्शने द्योते गवाक्षे वन्दिभाषणे ॥ ११० ॥
110 · p. 22
अनुष्टुप्
आवर्तः सलिलभ्रान्तौ चिन्ता मेघाधिपान्तरे ।राजावर्ताऽख्योपरत्ने पुमान् आवर्तनेपि च ॥ १११ ॥
111 · p. 22
अनुष्टुप्
आदानं ग्रहणे रोगलक्षणेऽश्वविभूषणे ।आदीनवः पुमान् दोषे दुरन्त-क्लेशयोरपि ॥ ११२ ॥
112 · p. 22
अनुष्टुप्
आधिर्व्यसनप्रत्याशामनःपीडासु बन्धके ।आध्मातः संयते दग्धे वातरोगेपि शब्दिते ॥ ११३ ॥
113 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न (wrong syllable)
आप्तः प्रत्ययिते प्राप्ते सम्बद्धे स्यात् त्रिलिंगकः ।आप्तिर्लाभे च सम्बन्धेऽप्याऽऽप्यमम्मयोः ॥ ११४ ॥
114 · p. 22
अनुष्टुप्metre not read in every line
आबन्धो भूषणे योक्त्रे बन्धन-स्नेहयोः पुमान् ।आभोगे वरुणच्छत्रे परिपूर्णत्वयत्नयोः ॥ ११५ ॥
115 · p. 22
अनुष्टुप्
आमिषं मञ्जुलाकार-रूपादौ भोग्यवस्तुनि ।लोभ-संचय-उत्कोच-संभोगे मांसलाभयोः ॥ ११६ ॥
116 · p. 23
अनुष्टुप्
लाभे कामगुणे रूपे भोजनेऽस्त्री प्रयुज्यते ।आमोदः सुमहद्गन्धे हर्षे गन्धेऽतिदूरगे ॥ ११७ ॥
117 · p. 23
अनुष्टुप्
आम्नाय आगमे वंशे सम्प्रदाये कुलक्रमे ।आयो धनागमे लाभे पुमान् स्त्रीगृहरक्षिणि ॥ ११८ ॥
118 · p. 23
अनुष्टुप्
आयतिः प्रापणे दैर्घ्ये भविष्यत्काल-संगयोः ।आयत्तिः शयने स्नेहे भविष्यत्कालदैर्घ्ययोः ॥ ११९ ॥
119 · p. 23
अनुष्टुप्
प्रभावे वासरे सीम्नि स्त्रियां शक्तिवशित्वयोः ।आयोगो गन्धमाल्योपहारे व्यापार-रोगयोः ॥ १२० ॥
120 · p. 23
अनुष्टुप्
आकारः पुंसि सन्दोहे श्रेष्ठे खनौ बुधैः स्मृतः ।आकर्षः शारिफलके देवने पाशके पुमान् ॥ १२१ ॥
121 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ख (wrong syllable)