All kośas › Nānārthodayasāgarakoṣa
नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa
2,302 verses · text only, tagging comes next
Part 14 (14/20)
अल्पिष्ठे ह्रस्व-निःसार-मनोज्ञागुरुषु त्रिषु ।कृष्णागुरुणि शीघ्रे च तथा लामज्जके लघु ॥ १५५५ ॥
1555 · p. 272
अनुष्टुप्
लट्वो नर्तकभेदे स्याद् रागभेदे तुरङ्गमे ।लञ्जे पुच्छे पदे कच्छे लट्वा तु स्यात् करञ्जके ॥ १५५६ ॥
1556 · p. 272
अनुष्टुप्
कुसुम्भे चटके वाद्यभेदे भ्रमरकेऽपि च ।रतिभेदे देशभेदे लतावेष्टः प्रकीर्तितः ॥ १५५७ ॥
1557 · p. 272
अनुष्टुप्
लम्बः क्षेत्रफले दीर्घे कान्तेऽङ्गे नर्तके तथा ।उत्कोचे लम्बनेऽपि स्याल्लम्बकेशस्तु विष्टरे ॥ १५५८ ॥
1558 · p. 273
अनुष्टुप्
त्रिषु दीर्घकचे लम्बा तु लक्ष्मी-दक्षकन्ययोः ।लम्बमानस्त्रियां गौर्यां तिक्ततुम्ब्याञ्च लम्बने ॥ १५५९ ॥
1559 · p. 273
अनुष्टुप्
संसिते शब्दिते लम्बान्विते स्याल्लम्बितस्त्रिषु ।तौर्यत्रिकस्य साम्ये स्याल्लयः श्लेषे विनाशने ॥ १५६० ॥
1560 · p. 273
अनुष्टुप्
वाच्यलिंगो ललत् क्षेपविशिष्टे भाषणान्विते ।वीप्साविशिष्टे जिह्वाले विलासोन्मन्थनान्विते ॥ १५६१ ॥
1561 · p. 273
अनुष्टुप्
ललज्जिह्वः कुक्कुरे स्यात् उष्ट्रे हिंस्रे त्वसौ त्रिषु ।ललनं चालने केलौ तथेप्सायामपीष्यते ॥ १५६२ ॥
1562 · p. 273
अनुष्टुप्
बाले साले प्रियाले च ललनः कामनान्विते ।लोहितो भुजगे भौमे रक्तवर्णे मृगान्तरे ॥ १५६३ ॥
1563 · p. 274
अनुष्टुप्
रक्तशालौ मसूरे च रक्तालू-बलभेदयोः ।रोहिताख्यझषे तद्वद् नदभेदे सुरान्तरे ॥ १५६४ ॥
1564 · p. 274
अनुष्टुप्
वंश इक्षौ सालवृक्षे वाद्यभाण्डान्तरे कुले ।स्यात् पृष्ठावयवे वेणु-गानस्वरविशेषयोः ॥ १५६५ ॥
1565 · p. 274
अनुष्टुप्
वक्रः शनैश्चरे चन्द्रे रुद्रे पर्पट-भौमयोः ।वक्रं च स्यान्नदीवंके त्रिषु तु क्रूर-भुग्नयोः ॥ १५६६ ॥
1566 · p. 274
अनुष्टुप्
वचण्डी शारिका-वर्ति-शस्त्रभेदेषु च स्त्रियाम् ।वज्रं धात्र्यां लौहभेदे काञ्जिके बालिके पवौ ॥ १५६७ ॥
1567 · p. 274
अनुष्टुप्
वज्रपुष्पे हीरकेऽथ वज्रः सेहुण्दपादपे ।कोकिलाक्षतरौ कृष्णप्रपौत्रे श्वेतबर्हिषि ॥ १५६८ ॥
1568 · p. 274
अनुष्टुप्
स्नुहीवृक्षे कोकिलाक्षवृक्षे स्याद्वज्रकण्टकः ।गणेशे मशके वज्रतुण्डो गरुड-गृध्रयोः ॥ १५६९ ॥
1569 · p. 274
अनुष्टुप्
इन्द्रे जिनेन्द्रप्रभेदे पुमान् वज्रधरः स्मृतः ।वञ्जुलः स्थलपद्मे स्यादशोके तिनिशद्रुमे ॥ १५७० ॥
1570 · p. 275
अनुष्टुप्
वेतसे पक्षिभेदे च वटुको भैरवे शिशौ ।वठरः पुंसि मूर्खे स्याद् वक्रेऽम्बष्ठे त्रिषु त्वसौ ॥ १५७१ ॥
1571 · p. 275
अनुष्टुप्
शठे मन्देऽथ वडभी वडिशाऽऽगारचूडयोः ।वण्टो भागे दात्रमुष्टावकृतोद्वहकर्मणि ॥ १५७२ ॥
1572 · p. 275
अनुष्टुप्
वण्ठः कुम्भायुधे खर्वे निर्विवाहक्रियेऽपि च ।वण्ठरः स्थगिकारज्जौ श्वपुच्छे तालपल्लवे ॥ १५७३ ॥
1573 · p. 275
अनुष्टुप्
पयोधरे चाश्वमारकोषेऽपि परिकीर्तितः ।वण्ठालः शूरसंग्रामे खर्वे नावि खनित्रके ॥ १५७४ ॥
1574 · p. 275
अनुष्टुप्
वण्डोऽनावृतमेढ्रे ना त्रिषु हस्तादिवर्जिते ॥ १५७५ ॥
1575 · p. 276
बतेत्यव्ययं खेद-सन्तोषयोः स्याद्दयायां तथाऽऽमन्त्रणे विस्मये च ।वतूः पुंसि मार्गेऽक्षिरोगे प्रयुक्तो वरैः सत्यवाग्देवनद्योः सुधीभिः ॥ १५७६ ॥
1576 · p. 276
भुजङ्गप्रयातम्
स्याद्वत्सो गोशिशौ वर्षे पुत्रादौ वाच्यलिंगकः ।वधूः स्नुषायां शट्यां च पृक्कायां शारिवौषधौ ॥ १५७७ ॥
1577 · p. 276
अनुष्टुप्
वनं निवासे विपिने जले प्रस्रवणे गृहे ।वनजो मुस्तके दन्ताबले च वनशूरणे ॥ १५७८ ॥
1578 · p. 276
अनुष्टुप्
वन्दनी याचने वट्यां जीवितौ प्रणतावपि ।वपा स्यान्मेदसि च्छिद्रे वप्ता तु जनके कवौ ॥ १५७९ ॥
1579 · p. 276
अनुष्टुप्
प्राकाराधःस्थले वप्रं पाटीर-क्षोणि-रेणुषु ।तटेऽथ वप्रः प्राकारे जनके च प्रजापतौ ॥ १५८० ॥
1580 · p. 276
अनुष्टुप्
वयः पतङ्गे बाल्यादौ यौवनेऽपि नपुंसकः ।वयःस्था सोमवल्लर्यां गुडूच्यां शाल्मलिद्रुमे ॥ १५८१ ॥
1581 · p. 277
अनुष्टुप्
सूक्ष्मेलाऽऽली-हरीतक्यामलकी-युवतीष्वपि ।अत्यम्लपर्णी-मत्स्याक्षी-काकोलीष्वप्युदीर्यते ॥ १५८२ ॥
1582 · p. 277
अनुष्टुप्
कुसुम्भबीजे हंस्याञ्च वरटा वरला तथा ।वेष्टनाऽर्चनयोः कन्यादिवृतौ वरणं न ना ॥ १५८३ ॥
1583 · p. 277
अनुष्टुप्
प्राकारे वृक्षभेदे च वरणः संक्रमोष्ट्रयोः ।वरण्डस्त्वन्तरावेद्यां समूहे च मुखाऽऽमये ॥ १५८४ ॥
1584 · p. 277
अनुष्टुप्
वरण्डको हस्तिवेद्यां भित्तौ यौवनकण्टके ।वर्तुले त्रिषु तु क्षुद्रे विपुले भयसंकुले ॥ १५८५ ॥
1585 · p. 277
अनुष्टुप्
वर्ति-सार्योः शस्त्रभेदे वरण्डा गृहपार्श्वके ।वरदा त्वादित्यभक्ताऽश्ववगन्धा-कन्यकास्वपि ॥ १५८६ ॥
1586 · p. 277
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 1 श्वव (syllable split)
वरा फलत्रिके ब्राह्मी-पाठा-मेदा-ऽमृतासु च ।विडङ्गे रेणुकागन्धे हरिद्रा-श्रेष्ठयोरपि ॥ १५८७ ॥
1587 · p. 278
अनुष्टुप्
वराङ्गं मस्तके योनौ तथा गुह्ये गुडत्वचि ।वराङ्गः कुञ्जरे विष्णौ सुन्दरांगे त्वसौ त्रिषु ॥ १५८८ ॥
1588 · p. 278
अनुष्टुप्
वराटकः पद्मबीजे रज्जौ किञ्च कपर्दके ।वर्णः कुथे ब्राह्मणादौ शुक्लादावक्षरे गुणे ॥ १५८९ ॥
1589 · p. 278
अनुष्टुप्
भेदे गीतक्रमे चित्रे तालभेदांग-रागयोः ।रूपे स्वर्णे व्रते कीर्तौ स्तवने च विलेपने ॥ १५९० ॥
1590 · p. 278
अनुष्टुप्
वर्णकं लेपनद्रव्ये हरितालेऽपि चन्दने ।वर्णनं दीपने वर्णीकृतौ विस्तरणे स्तुतौ ॥ १५९१ ॥
1591 · p. 278
अनुष्टुप्
वर्णमाला जातिमाला-ऽक्षरश्रेण्योः प्रकीर्तिता ।पुमान् वर्णी चित्रकरे लेखके ब्रह्मचारिणि ॥ १५९२ ॥
1592 · p. 278
अनुष्टुप्
स्तुतियुक्ते च शुक्लादिवर्णसम्बन्धिनि त्रिषु ।वर्तनं तूलनालायां तर्कुपीढे च जीवने ॥ १५९३ ॥
1593 · p. 279
अनुष्टुप्
वर्तरुको नदीभेदे काकनीडे जलाऽऽवटे ।द्वारपालो वर्तनी तु स्यात् पदव्यां च पेषणे ॥ १५९४ ॥
1594 · p. 279
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable)
वर्तिः स्त्रियां दीपदशा-लेखयोर्नयनाञ्जने ।द्वीपे भेषजनिर्माणे तथा गात्रानुलेपने ॥ १५९५ ॥
1595 · p. 279
अनुष्टुप्
वर्द्धनं छेदने वृद्धौ वर्द्धिष्णौ वर्द्धनास्त्रिषु ।वर्द्धनी शोधनी-घट्योः सनालजलभाजने ॥ १५९६ ॥
1596 · p. 279
अनुष्टुप्
वर्धमानो देशभेदे धनिनां भवनान्तरे ।विष्णौ शरावेऽन्त्यजिने पशुभेदोरुवूकयोः ॥ १५९७ ॥
1597 · p. 279
अनुष्टुप्
वर्वरः पामरे मत्ते केश-देशविशेषयोः ।चक्रले पञ्जिकायां च गन्धपत्रतरावपि ॥ १५९८ ॥
1598 · p. 279
अनुष्टुप्
क्लीवं स्याद्वर्वरं बोले हिंगूले पीतचन्दने ।पुष्पभेदे शाकभेदे वर्वरा मक्षिकान्तरे ॥ १५९९ ॥
1599 · p. 280
अनुष्टुप्
वर्षं संवत्सरे वृष्टौ जम्बूद्वीपे च वार्दले ।पुनर्नवायां भेक्यां स्त्री वर्षाभूस्तद्भवे त्रिषु ॥ १६०० ॥
1600 · p. 280
अनुष्टुप्
वलयो गलरोगे स्याद् वेला-कङ्कणयोरपि ।वला विद्याविशेषे स्यात् तथा वाट्यालकौषधौ ॥ १६०१ ॥
1601 · p. 280
अनुष्टुप्
वलाहको गिरौ मेघे मुस्ते कृष्णहयान्तरे ।दैत्यभेदे नागभेदे वल्गुस्तुच्छाग-कान्तयोः ॥ १६०२ ॥
1602 · p. 280
अनुष्टुप्
वल्गुकं चन्दनेऽरण्ये पणे स्याद्रुचिरे त्रिषु ।निशाचरी पतंगे च वाकुच्यामपि वल्गुला ॥ १६०३ ॥
1603 · p. 280
अनुष्टुप्
वल्मीकोऽस्त्री वामलूरे ना वल्मीकौ गदान्तरे ।वल्लरे मञ्जरौ कृष्णागुरौ कुञ्जे च कानने ॥ १६०४ ॥
1604 · p. 280
अनुष्टुप्
भीमे गोपे वल्लवो ना सूपकारे त्वसौ त्रिषु ।वल्लिः स्याद्वह्निदमनीक्षुपे क्ष्मा-लतयोः स्त्रियाम् ॥ १६०५ ॥
1605 · p. 281
अनुष्टुप्
वल्ली कैवर्तिका-चव्या-जमोदा-व्रततिष्वपि ।वल्लूरं मञ्जरी-क्षेत्र-कुञ्जारण्येषु शाद्वले ॥ १६०६ ॥
1606 · p. 281
अनुष्टुप्
त्रिषूषरक्षितौ शुष्कमांस-सूकर-मांसयोः ।वाहने च वशं त्विच्छा-प्रभुताऽऽयत्ततास्वपि ॥ १६०७ ॥
1607 · p. 281
अनुष्टुप्
वशो वेश्यागृहे स्वेच्छाऽऽयत्ततैश्वर्यजन्मसु ।वशा बन्ध्या-सुता-योषा-स्त्रीगवी-करिणीषु च ॥ १६०८ ॥
1608 · p. 281
अनुष्टुप्
वशिरो गजपिप्पल्यां वचाऽपामार्गयोस्तथा ।चव्येऽथ वशिनी वन्दा-शमीपादपयोः स्त्रियाम् ॥ १६०९ ॥
1609 · p. 281
अनुष्टुप्
यामिन्यां सदने वासे वसतिर्वसतीत्युभे ।वसन्तदूत आम्रे स्यात् पिक-पञ्चमरागयोः ॥ १६१० ॥
1610 · p. 281
अनुष्टुप्
वसु वृद्धौषध-श्याम-धन-रत्नाऽम्बुभर्मसु ।वसुकोऽर्कतरौ पाशुपतेऽथ वसुदः पुमान् ॥ १६११ ॥
1611 · p. 282
अनुष्टुप्
कुबेरे वाच्यलिङ्गस्तु धन-धान्यप्रदातरि ।वसुधारा जैनशक्ति-चेदिराजाऽऽज्य-धारयोः ॥ १६१२ ॥
1612 · p. 282
अनुष्टुप्
अलकायां च वस्तिस्तु नाभ्यधो-वस्त्रखण्डयोः ।वस्नं मूल्ये भृतौ द्रव्ये वेतने वसने धने ॥ १६१३ ॥
1613 · p. 282
अनुष्टुप्
त्वचि वस्वौकसारा तु पुर्यामिन्द्र-कुबेरयोः ।वहो वृषस्कन्धदेशे वायावश्वे नदे पथि ॥ १६१४ ॥
1614 · p. 282
अनुष्टुप्
सचिवे पवने किञ्च गवि स्याद्वहतिः पुमान् ।वह्निर्भल्लातके निम्बावग्नौ चित्रक-रेफयोः ॥ १६१५ ॥
1615 · p. 282
अनुष्टुप्
वागरो वारके शाणे निर्णये वाडवे वृके ।वावदूके त्यक्तभये मुमुक्षौ पण्डितेऽपि च ॥ १६१६ ॥
1616 · p. 282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्य (wrong syllable)
वाङ्मती मिथिलानद्यां वाङ्न्यासयुतयोषिति ।वाचकः कथके शब्दे वाचनं तूक्ति-पाठयोः ॥ १६१७ ॥
1617 · p. 283
अनुष्टुप्
कुत्सिते वचनार्हे च स्याद्वाच्यं शक्य-हीनयोः ।अन्ने यज्ञे घृते तोये वाजं वाजस्तु निस्वने ॥ १६१८ ॥
1618 · p. 283
अनुष्टुप्
शरपक्षे मुनौ वेग-पक्षयोर्गमनेऽपि च ।वाजी पुमान् हये बाणे वासके च विहंगमे ॥ १६१९ ॥
1619 · p. 283
अनुष्टुप्
वाटो मार्गे वृतिस्थाने गमने धारणेऽपि च ।वाटी वाट्यालके कुट्यां तथा वास्तुनि च स्त्रियाम् ॥ १६२० ॥
1620 · p. 283
अनुष्टुप्
त्रिषु बाढं दृढेऽत्यन्ते स्वीकारे त्वेतदव्ययम् ।बाणोऽग्नौ गोस्तने दैत्यभेदे कविवरे शरे ॥ १६२१ ॥
1621 · p. 283
अनुष्टुप्
काण्डाद्यवयवे भद्रमुञ्जे तद्वच्च केवले ।वाणी स्त्री वाग्देवतायां वचने वपनेऽपि च ॥ १६२२ ॥
1622 · p. 284
अनुष्टुप्
वातघ्नी शालपर्ण्यश्वगन्धयोः शिमृडीक्षुपे ।वातपुत्रो महाधूर्ते भीमसेने हनूमति ॥ १६२३ ॥
1623 · p. 284
अनुष्टुप्
वातरायण उन्मत्ते निष्प्रयोजनपूरुषे ।करपात्रे कूटकाण्ड-द्विट्-क्रान्ति-सरलद्रुषु ॥ १६२४ ॥
1624 · p. 284
अनुष्टुप्
वातरूषस्तु वातूलोत्कोचयोरिन्द्रधन्वनि ।वाताटः स्याद्वातमृगे सूर्याश्वे पन्नगेऽपि च ॥ १६२५ ॥
1625 · p. 284
अनुष्टुप्
वातारिरेरण्डतरौ शतमूल्यां च शूरणे ।भल्लातके पुत्रदात्र्यां भार्ग्यां स्नुह्यां विडङ्गके ॥ १६२६ ॥
1626 · p. 284
अनुष्टुप्
शैफालिकायां यवान्यां जतुका-तैलभेदयोः ।वातिः पुमान् वायु-सूर्य-चन्द्रेषु गमने स्त्रियाम् ॥ १६२७ ॥
1627 · p. 284
अनुष्टुप्
वातूलः पुंसि वात्यायां मत्ते वातासहे त्रिषु ।वानं शुष्कफले शुष्के वनसम्बन्धिनि त्रिषु ॥ १६२८ ॥
1628 · p. 285
अनुष्टुप्
क्लीवं वाटे सुरङ्गायां स्यूतिकर्मणि सौरभे ।जलसंप्लुतवातोर्मौ तवक्षीरे गतावपि ॥ १६२९ ॥
1629 · p. 285
अनुष्टुप्
वानप्रस्थो मधूकद्रौ तृतीयाश्रम-पर्णयोः ।वानीरः स्यात् परिव्याधद्रुमे वेतसपादपे ॥ १६३० ॥
1630 · p. 285
अनुष्टुप्
वापितं मुण्डिते बीजाकृते त्रिषु मतं सताम् ।वामं वास्तूक-धनयोः क्लीवं पुंसि पयोधरे ॥ १६३१ ॥
1631 · p. 285
अनुष्टुप्
महादेवे कामदेवे त्रिषु वल्गु-प्रतीपयोः ।सव्येऽधमे वामगते वक्रेऽथो वामनो हरौ ॥ १६३२ ॥
1632 · p. 285
अनुष्टुप्
अङ्कोठपादपे खर्वे स्मृतो दक्षिणदिग्गजे ।वामा स्मृतेह दुर्गायां तथा सामान्ययोषिति ॥ १६३३ ॥
1633 · p. 285
अनुष्टुप्
वामी शृगाल्यां करभी-रासभी-वडवासु च ।वायसोऽगुरुवृक्षे स्यात् काक-श्रीवासयोरपि ॥ १६३४ ॥
1634 · p. 285
अनुष्टुप्
महाज्योतिष्मती-काकतुण्ड्योः स्त्री वायसादनी ।काकादनी-काकमाची-महाज्योतिष्मतीषु च ॥ १६३५ ॥
1635 · p. 286
अनुष्टुप्
काकोदुम्बरिकायां च वकवृक्षेऽपि वायसी ।वारः समूहेऽवसरे द्वारे सूर्यादिवासरे ॥ १६३६ ॥
1636 · p. 286
अनुष्टुप्
हरे क्षणे कुब्जवृक्षे वारं मैरेयभाजने ।वारकोऽश्वविशेषेऽश्वगतौ त्रिषु निषेधके ॥ १६३७ ॥
1637 · p. 286
अनुष्टुप्
नपुंसकं स्यात् ह्रीवेरे कष्टस्थानेऽपि कीर्तितः ।सिन्धौ सपत्ने चित्राश्वे पर्णाजीविनि वारकी ॥ १६३८ ॥
1638 · p. 286
अनुष्टुप्
वारकीरस्तु यूकायां वाडवे च जलौकसि ।नीराजितहये श्याले वारग्राहिणि तु त्रिषु ॥ १६३९ ॥
1639 · p. 286
अनुष्टुप्
वारणः कुञ्जरे बाणवारे क्लीवं निषेधने ।वारिः स्त्री गजबन्धिन्यां सरस्वत्यामुपग्रहे ॥ १६४० ॥
1640 · p. 286
अनुष्टुप्
नपुंसकं स्यात् सलिले ह्रीवेरेऽपि प्रकीर्तितम् ।वारिजं तु लवङ्गे स्यात् पद्म-गौरसुवर्णयोः ॥ १६४१ ॥
1641 · p. 287
अनुष्टुप्
वारिजौ कम्बु-शम्बूकौ सूर्याब्दौ वारि-तस्करौ ।वारिदो मुस्तके मेघे बालायां तु नपुंसकम् ॥ १६४२ ॥
1642 · p. 287
अनुष्टुप्
वारिनाथो वारिवाहे वरुणे यादसांपतौ ।पद्मे वारिरुहं क्लीवं जलजाते त्रिलिंगकम् ॥ १६४३ ॥
1643 · p. 287
अनुष्टुप्
लवङ्गोशीरसौवीराञ्जनेषु वारिसंभवम् ।वारुण्डोऽस्त्री श्रोत्रनेत्रमले नौसेकभाजने ॥ १६४४ ॥
1644 · p. 287
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
आरोग्याऽसारयोर्वार्तण् वृत्तिमत्कल्पयोस्त्रिषु ।वार्ता वातिङ्गणे वृत्तौ वृत्तान्ते च जनश्रुतौ ॥ १६४५ ॥
1645 · p. 287
अनुष्टुप्
वार्तावहो वैवधिके त्रिषु संवादवाहके ।वार्तिकः स्यात् प्रवृत्तिज्ञे वैश्ये वार्तिकपक्षिणि ॥ १६४६ ॥
1646 · p. 287
अनुष्टुप्
वार्दरं कृष्णलाबीजे काकचिञ्चाऽम्रबीजयोः ।भारती-दक्षिणावर्तशंखयोः कृमिजे जले ॥ १६४७ ॥
1647 · p. 288
अनुष्टुप्
वार्दलं दुर्दिने क्लीवं मसीपात्रे पुमानसौ ।वार्द्धकं वृद्धसंघाते वृद्धस्य भावकर्मणोः ॥ १६४८ ॥
1648 · p. 288
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
बार्हस्पत्यो नास्तिके स्यात् नीतिशास्त्रे नपुंसकम् ।वार्क्ष्यमुक्तं वने क्लीवं वृक्षसम्बन्धिनि त्रिषु ॥ १६४९ ॥
1649 · p. 288
अनुष्टुप्
वालकोऽस्त्री पारिहार्ये त्रिलिंगस्त्वङ्गुलीयके ।चतुष्पथे मन्दिरे च वाश्रं घ्रस्रे त्वसौ पुमान् ॥ १६५० ॥
1650 · p. 288
अनुष्टुप्
वाष्पो नेत्रजले लोह उष्मण्यपि बुधैः स्मृतः ।वासोऽवस्थानगृहयोः सुगन्धौ वासके पटे ॥ १६५१ ॥
1651 · p. 288
अनुष्टुप्
वासनं धूपने वस्त्रे निक्षेपाधार-वासयोः ।तथा ज्ञाने वारिधान्यां वस्त्रसम्बन्धिनि त्रिषु ॥ १६५२ ॥
1652 · p. 288
अनुष्टुप्
वासना भावना-ज्ञान-प्रत्याशासु निगद्यते ।दुर्गा-देहात्म-बुद्धिजन्ममिथ्यासंस्कारयोरपि ॥ १६५३ ॥
1653 · p. 289
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वासन्तः कोकिले कृष्णमुद्गे मलयमारुते ।उष्ट्रे मुद्गे च मदनद्रुमेऽप्यवहिते त्रिषु ॥ १६५४ ॥
1654 · p. 289
अनुष्टुप्
वासन्ती माधवी-यूथी-पाटलासु मधूत्सवे ।नैपाली-गणिकार्योश्च वासरो दिन-नागयोः ॥ १६५५ ॥
1655 · p. 289
अनुष्टुप्
वासितं ज्ञानमात्रे स्याद् विहंगमरवे रुते ।त्रिलिंगः ख्यात-सुरभीकृतयोर्वस्त्रवेष्टिते ॥ १६५६ ॥
1656 · p. 289
अनुष्टुप्
स्त्री धेनुकायां स्त्रीमात्रे वाहो भारचतुष्टये ।तुरङ्गमे भुजे वायौ वृषे त्रिषु तु वाहके ॥ १६५७ ॥
1657 · p. 289
अनुष्टुप्
वाहसो वारिनिर्याणेऽजगरे सुनिषण्ण्के ।वाहिको भारिके ढक्का-गोवाह-शकटादिषु ॥ १६५८ ॥
1658 · p. 289
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सेना-तद्भेदयोर्नद्यां वाहिनी प्रोच्यते स्त्रियाम् ।सेनापतौ समुद्रे च कीर्तितो वाहिनीपतिः ॥ १६५९ ॥
1659 · p. 290
अनुष्टुप्
वाहुलः कार्तिकेमासि तथा शाक्यमुनेः सुते ।वाह्यं याने मतं क्लीवं वहनीये बहिस्त्रिषु ॥ १६६० ॥
1660 · p. 290
अनुष्टुप्
विकचः क्षपणे केतौ खलति-स्फुटयोस्त्रिषु ।विस्फोटके साकुरुण्डपादपे विकटः पुमान् ॥ १६६१ ॥
1661 · p. 290
अनुष्टुप्
विशाले विकराले च विकृते दन्तुरे त्रिषु ।बौद्धदेवी प्रभेदे तु कीर्तिता विकटा स्त्रियाम् ॥ १६६२ ॥
1662 · p. 290
अनुष्टुप्
त्रिषु स्वभावरहिते विह्वले विकलः स्मृतः ।विकला विकली च द्वे ऋतुवर्जितयोषिति ॥ १६६३ ॥
1663 · p. 290
अनुष्टुप्
विकल्पो भ्रान्ति-विविधकल्पयोः समुदाहृतः ।विकषा मांसरोहिण्यां मञ्जिष्ठायामपि स्त्रियाम् ॥ १६६४ ॥
1664 · p. 290
अनुष्टुप्
विकारो विकृतौ रोगे विकाशो रहसि स्फुटे ।विकृतं त्रिषु बीभत्सेऽसंस्कृते रोगसंयुते ॥ १६६५ ॥
1665 · p. 291
अनुष्टुप्
डिम्भे विकारे मद्यादौ रोगे च विकृती स्त्रियाम् ।विक्रमः केशवे शक्तौ चरण-क्रान्तिमात्रयोः ॥ १६६६ ॥
1666 · p. 291
अनुष्टुप्
विक्रमादित्यनृपतौ शौर्यातिशय-वर्षयोः ।विक्लिन्नो जरसा जीर्णे शीर्ण आर्द्रे त्रिलिंगभाक् ॥ १६६७ ॥
1667 · p. 291
अनुष्टुप्
विग्रहः पुंसि विस्तारे शरीर-प्रविभागयोः ।समासवाक्ये युद्धे तु विग्रहोऽस्त्री मतः सताम् ॥ १६६८ ॥
1668 · p. 291
अनुष्टुप्
मल्लीभेदे मदनकद्रुमे विचकिलः पुमान् ।विच्छित्तिः स्त्री हारभेदे गेहावधि-विनाशयोः ॥ १६६९ ॥
1669 · p. 291
अनुष्टुप्
अंगरागोऽङ्गहारे च विच्छदेऽपि प्रकीर्तिता ।विच्छिन्नस्त्रिषु वक्रे स्यात् समालब्ध-विभक्तयोः ॥ १६७० ॥
1670 · p. 291
अनुष्टुप्
विच्छेदो विरहे भेदे विच्युतः क्षरिते गते ।विजयः कल्कितनये कल्पराजसुतेऽर्जुने ॥ १६७१ ॥
1671 · p. 292
अनुष्टुप्
विमाने बलदेवे च केशवानुचरे जये ।विज्ञानं कर्मणि ज्ञाने कार्मणे द्विजलक्षणे ॥ १६७२ ॥
1672 · p. 292
अनुष्टुप्
विटः शैलान्तरे धूर्ते नारङ्गतरु-षिङ्गयोः ।कामुकानुचरे कामतन्त्रविज्ञे च मूषिके ॥ १६७३ ॥
1673 · p. 292
अनुष्टुप्
विटपोऽस्त्री स्तम्ब-शाखा-विस्तारेषु च पल्लवे ।पुमान् विटाधिप-पारदारिकाग्रेसरेऽपि च ॥ १६७४ ॥
1674 · p. 292
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 प (wrong syllable)