कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthodayasāgarakoṣa

नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa

2,302 verses · text only, tagging comes next

Part 8 (8/20)

दर्शको द्रष्टरि द्वास्थे दर्शयितृ-प्रवीणयोः ।दर्शनं दर्पणे शास्त्रे बुद्धि-धर्मोपलब्धिषु ॥ ८३७ ॥
837 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 यि (wrong syllable)
स्वप्ने निरीक्षणे वर्णे नयनेऽपि नपुंसकम् ।दलं शस्त्रीच्छदे खण्डे घन उत्सेध-पत्रयोः ॥ ८३८ ॥
838 · p. 152
अनुष्टुप्
तमालपत्रेऽपद्रव्ये दलितं खण्डिते स्फुटे ।दवो दावानलेऽरण्य उपतापेऽग्निमात्रके ॥ ८३९ ॥
839 · p. 152
अनुष्टुप्
दशा चेतस्यवस्थायां दीपवर्ति-पटान्तयोः ।दस्मो हुताशने स्तेने यजमाने खले पुमान् ॥ ८४० ॥
840 · p. 153
अनुष्टुप्
दस्युर्महासाहसिके तस्करे परिपन्थिनि ।दहनश्चित्रके वह्नौ कपोते दुष्टचेतसि ॥ ८४१ ॥
841 · p. 153
अनुष्टुप्
भल्लातकेऽथ दहनं भस्मीकरणकर्मणि ।दहरो भ्रातरि सूक्ष्मे बालके मूषिका-ऽल्पयोः ॥ ८४२ ॥
842 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
दह्रो दावानले कुक्षौ नरके वरुणेनऽले ।दक्षो महेश्वरे वह्नि-प्रजापतिविशेषयोः ॥ ८४३ ॥
843 · p. 153
अनुष्टुप्
मुनिभेदे हरवृषे ताम्रचूडे द्रुमान्तरे ।चतुरे तु त्रिलिंगोऽसौ दक्षा स्यादवनौ स्त्रियाम् ॥ ८४४ ॥
844 · p. 153
अनुष्टुप्
दक्षिणो दक्षिणोद्भूते परच्छन्दानुवर्तिनि ।आरामे सरले दक्षेऽपसव्ये नायकान्तरे ॥ ८४५ ॥
845 · p. 154
अनुष्टुप्
दक्षिणा नायिकाभेद-यज्ञादिविधिदानयोः ।दिगन्तरे प्रतिष्ठायां दाडिमः करकैलयोः ॥ ८४६ ॥
846 · p. 154
अनुष्टुप्
स्त्रीपुंसयोः स्याद्दात्यूहश्चातके कलकण्ठके ।जलकाके वारिवाहे लवित्रे दात्रमुच्यते ॥ ८४७ ॥
847 · p. 154
अनुष्टुप्
दानं गजमदे शुद्धौ छेदने त्याग-रक्षयोः ।दानुर्दातरि विक्रान्ते मारुते शर्मणि त्रिषु ॥ ८४८ ॥
848 · p. 154
अनुष्टुप्
दान्तस्तपःक्लेशसहे दमिते दातरि त्रिषु ।वित्तायत्तीकृते दाम रज्जु-संदानयोर्नना ॥ ८४९ ॥
849 · p. 154
अनुष्टुप्
दायो दाने यौतुकादौ स्थाने सोल्लुण्ठभाषणे ।विभक्तव्यपितृद्रव्ये लय-खण्डनयोरपि ॥ ८५० ॥
850 · p. 154
अनुष्टुप्
दारदः पारदे सिन्धौ हिंगुले गरलान्तरे ।दार्वी दारुहरिद्रयां देवदारु-हरिद्रयोः ॥ ८५१ ॥
851 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्र (wrong syllable)
दारु काष्ठे नना क्लीवं पित्तले देवदारुणि ।त्रिष्वसौ दारके दातृ-शिल्पिनोरथ दारुकः ॥ ८५२ ॥
852 · p. 155
अनुष्टुप्
श्रीकृष्णसारथौ क्लीवं देवदारुण्यथो स्त्रियाम् ।दारुका शालभञ्ज्यां स्याद् दार्दुरं जतु-नीरयोः ॥ ८५३ ॥
853 · p. 155
अनुष्टुप्
दासः शूद्रे दानपत्रे धीवरे शूद्रपद्धतौ ।ज्ञातात्म-प्रेष्ययोर्दासी भुजिष्या-काकजंघयोः ॥ ८५४ ॥
854 · p. 155
अनुष्टुप्
कैवर्तपत्नी-शूद्रस्त्री-वेदीष्वार्तगलेऽपि च ।दासेरो दासिकापत्ये उष्ट्रे कैवर्त-दासयोः ॥ ८५५ ॥
855 · p. 155
अनुष्टुप्
दाक्षिण्यमनुकूलत्व-दक्षिणाचारयोरपि ।दक्षिणार्हे त्रिलिंगोऽसौ दिक्पतिर्दिगधीश्वरे ॥ ८५६ ॥
856 · p. 155
अनुष्टुप्
दिगम्बरः शिवे नग्ने तमः-क्षपणयोरपि ।दिग्धो विषाक्तवाणेऽग्नौ प्रबन्ध-स्नेहयोरपि ॥ ८५७ ॥
857 · p. 156
अनुष्टुप्
दितिर्नृपविशेषे च खण्डने दैत्यमातरि ।दिवं स्वर्गे वने व्योम्नि दिवसेऽथ दिवाकरः ॥ ८५८ ॥
858 · p. 156
अनुष्टुप्
सूर्यवायसयोरर्कवृक्ष-पुष्पविशेषयोः ।दिवाकीर्तिस्तु चण्डाले नापितोलूकयोः पुमान् ॥ ८५९ ॥
859 · p. 156
अनुष्टुप्
दिवाभीत उलूके स्यात्तस्करे कुमुदाकरे ।स्याद्दिवौका दिवोकाश्च सुरे चातकपक्षिणि ॥ ८६० ॥
860 · p. 156
अनुष्टुप्
दिव्यं लवंगे शपथे मनोज्ञे हरिचन्दने ।दिव्यो यवे दिविभवे गुग्गुलौ नायकान्तरे ॥ ८६१ ॥
861 · p. 156
अनुष्टुप्
भावभेदेऽप्यथो दिव्यचक्षुः सुन्दरलोचने ।स्वर्गीयचक्षुषि ज्ञानचक्षुष्यन्धोपचक्षुषोः ॥ ८६२ ॥
862 · p. 156
अनुष्टुप्
मनोरथप्रसिद्ध्यर्थं देवेभ्यो यत् प्रदीयते ।उपयाचितकं दिव्यदोहदं तद्विदुर्बुधाः ॥ ८६३ ॥
863 · p. 157
अनुष्टुप्
दिव्या शतावरी-धात्री-वन्ध्या-कर्कोटकीषु च ।श्वेतदूर्वा-गन्धकुटी-ब्राह्मीषु स्थूलजीरके ॥ ८६४ ॥
864 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
हरीतक्यां महामेदा-नायिकाभेदयोरपि ।दिष्टो दारुहरिद्रायां काले भाग्ये नपुंसकम् ॥ ८६५ ॥
865 · p. 157
अनुष्टुप्
त्रिषूपदिष्टे दिष्टस्तु प्रमोद-परिमाणयोः ।दीनं तगरपुष्पे स्यात् त्रिषु भीतदरिद्रयोः ॥ ८६६ ॥
866 · p. 157
अनुष्टुप्
दीनारः स्वर्णभूषायां मुद्रायां मानवस्तुनि ।स्वर्णकर्षद्वये हेम्नि द्वात्रिंशद्रक्तिकामिते ॥ ८६७ ॥
867 · p. 157
अनुष्टुप्
निष्केऽथ दीपो वर्तिस्थज्वलद्वैश्वानरार्चिषि ।दीपकं कुंकुमे वाक्यालंकारे दीप्तिकारके ॥ ८६८ ॥
868 · p. 157
अनुष्टुप्
दीपको रागभेदे स्याद् यमान्यां लोचमस्तके ।दीपे शशादने दीपकिट्टं स्याद्दीपकज्जले ॥ ८६९ ॥
869 · p. 157
अनुष्टुप्
दीपनो बर्हिचूडायां पलाण्डौ कासमर्दके ।शालिञ्च शाके तगरमूल-कुंकुमयोरपि ॥ ८७० ॥
870 · p. 158
अनुष्टुप्
दीपनी मेथिका-पाठा-यमानीषु स्मृता स्त्रियाम् ।दीप्तस्त्रिलिंगो ज्वलिते दग्धे निर्भासितेऽप्यसौ ॥ ८७१ ॥
871 · p. 158
अनुष्टुप्
क्लीवं स्याद्धिंगुनि स्वर्णे पुमान्निम्बूक-सिंहयोः ।दीप्ता लाङ्गलिकावृक्षे सातलापिण्ययोः स्त्रियाम् ॥ ८७२ ॥
872 · p. 158
अनुष्टुप्
दीप्तिः प्रभायां लाक्षायां कांस्य-लावण्ययोरपि ।वाणवेगस्य तीव्रत्वे गुणे स्त्रीणामयत्नजे ॥ ८७३ ॥
873 · p. 158
अनुष्टुप्
दीर्घग्रीवो हये नीलक्रौञ्चपक्षि-क्रमेलयोः ।दीर्घदर्शी बुधे गृध्रे भल्लूके दूरदर्शके ॥ ८७४ ॥
874 · p. 158
अनुष्टुप्
दीर्घपत्रो विष्णुकन्दे कुपीलु-हरिदर्भयोः ।ताले राजपलाण्डौ च स्यादथो दीर्घपत्रकः ॥ ८७५ ॥
875 · p. 159
अनुष्टुप्
एरण्डे रक्तलशुने करवीरे च हिज्जले ।जलजातमधूके च लशुने वेतसे पुमान् ॥ ८७६ ॥
876 · p. 159
अनुष्टुप्
दीर्घायुः शाल्मलीवृक्षे वायसे जीवकद्रुमे ।मार्कण्डेयमुनौ पुंसि चिरजीविनि तु त्रिषु ॥ ८७७ ॥
877 · p. 159
अनुष्टुप्
दीक्षा स्याद्यजने पूजा-व्रतसंग्रहयोरपि ।श्रीमद्गुरुमुखात् स्वेष्टदेवमन्त्रग्रहे स्त्रियाम् ॥ ८७८ ॥
878 · p. 159
अनुष्टुप्
दुःखं व्यथायां संसारे दुःस्थो दुर्गतमूर्खयोः ।दुकूलं पट्टवसने सूक्ष्मवस्त्रेंऽशुके स्मृतम् ॥ ८७९ ॥
879 · p. 159
अनुष्टुप्
दुग्धं क्षीरे दोहनेऽपि कृतदोहे प्रपूरिते ।दुग्धाम्रे दुग्धतालीयं दुग्धाग्र-क्षीरफेनयोः ॥ ८८० ॥
880 · p. 159
अनुष्टुप्
दुन्दुभिर्वरुणे रक्षोभेद-दैत्यविशेषयोः ।अक्षे भेरी-गरलयोरक्षबिन्दुत्रिकद्वये ॥ ८८१ ॥
881 · p. 159
अनुष्टुप्
दुरोदरः पणे द्यूतकृति द्यूते नपुंसकम् ।दुर्गं कोट्टे पुमान् दैत्ये गुग्गुलौ त्रिषु दुर्गमे ॥ ८८२ ॥
882 · p. 160
अनुष्टुप्
दुर्गाऽपराजिता-नीली-पार्वती-शारिवासु च ।दुर्जातं व्यसनेऽसम्यग्जाते त्रिष्वसमञ्जसे ॥ ८८३ ॥
883 · p. 160
अनुष्टुप्
दुर्दान्तः कलहे वत्सतरेऽशान्ते त्वसौ त्रिषु ।मेघाच्छन्नदिने वृष्टौ दुर्दिनं कवयो विदुः ॥ ८८४ ॥
884 · p. 160
अनुष्टुप्
दुर्द्धरः पुंसि नरकप्रभेद ऋषभौषधौ ।महिषासुरसेनानी-सूत-भल्लातकेषु च ॥ ८८५ ॥
885 · p. 160
अनुष्टुप्
त्रिषु स्याद्दुःखसन्धार्ये दुर्मुखोऽप्रियवादिनि ।दुर्लभोऽतिप्रशस्ते स्यात् प्रिय-दुष्प्रापयोस्त्रिषु ॥ ८८६ ॥
886 · p. 160
अनुष्टुप्
दुर्विधो निर्द्धने मूर्खे दुर्जनेऽपि त्रिलिंगकः ।दूतो वार्ताहरे दूती सारिकायां मता स्त्रियोः ॥ ८८७ ॥
887 · p. 160
अनुष्टुप्
दौत्यव्यापारपारीण-दौत्यकर्मनियुक्तयोः ।दूत्यं दूतस्वभावेऽपि दूतस्यभावकर्मणोः ॥ ८८८ ॥
888 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
दूतस्त्रिषूपतप्ते स्यादध्वजातश्रमान्विते ।दूषिका तूलिकायां च मले स्याल्लोचनस्य च ॥ ८८९ ॥
889 · p. 161
अनुष्टुप्
दूष्यं वस्त्रे दूषणीये पूये वस्त्रगृहेऽपि च ।दृक् दर्शने मतौ नेत्रे वीक्षके ज्ञातरि त्रिषु ॥ ८९० ॥
890 · p. 161
अनुष्टुप्
दृढं लोहे त्रिषु स्थूले प्रगाढे बलशालिनि ।कठिनेऽतिशये पुंसि स्यादसौ रूपकान्तरे ॥ ८९१ ॥
891 · p. 161
अनुष्टुप्
दृढमूलो नारिकेले मुञ्जे मन्थानके तृणे ।दृतिश्चर्मपुटे मत्स्ये दृन्भूः स्त्री सर्प-चक्रयोः ॥ ८९२ ॥
892 · p. 161
अनुष्टुप्
पुमानसौ सहस्रांशौ नृपतौ कुलिशेऽन्तके ।दृशानः पुंस्युपाध्याये लोकपाले विरोचने ॥ ८९३ ॥
893 · p. 161
अनुष्टुप्
आचार्ये ब्राह्मणे क्लीवन्त्वसौ ज्योतिषि कीर्तितम् ।दृषन्निष्पेषणशिलापट्ट-पाषाणयोः स्त्रियाम् ॥ ८९४ ॥
894 · p. 161
अनुष्टुप्
दृष्टान्तः पुंसि मरण उदाहरण-शास्त्रयोः ।दृष्टिर्विलोचने बुद्धौ ग्रहदृष्टौ च दर्शने ॥ ८९५ ॥
895 · p. 162
अनुष्टुप्
देवः स्याद्ब्राह्मणोपाधौ त्रिदशे पारदे घने ।कायस्थपद्धतौ राज्ञि देवमाख्यातमिन्द्रिये ॥ ८९६ ॥
896 · p. 162
अनुष्टुप्
देवखातं गुहायां स्याद् अकृत्रिमजलाशये ।देवालये देवगृहं ज्योतिर्बिम्बेऽर्कचन्द्रयोः ॥ ८९७ ॥
897 · p. 162
अनुष्टुप्
चैत्यवृक्षे देवतरुर्मन्दारे हरिचन्दने ।सन्ताने पारिजाते च कल्पवृक्षमहीरुहे ॥ ८९८ ॥
898 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
देवताडोऽनले राहौ घोषे जीमूतकद्रुमे ।देवदेवः पद्मनाभे महादेवे जिनेश्वरे ॥ ८९९ ॥
899 · p. 162
अनुष्टुप्
देवनं कमले द्यूते व्यवहारे गतौ द्युतौ ।लीलोद्याने जिगीषायां क्रीडायां स्तुति-शोकयोः ॥ ९०० ॥
900 · p. 162
अनुष्टुप्
कान्तौ विलापे स्यात् क्लीवं देवनः पाशके पुमान् ।देवना वरिवस्यायां क्रीडायामपि कीर्तिता ॥ ९०१ ॥
901 · p. 163
अनुष्टुप्
देवयुर्धार्मिके लोकयातृके त्रिदशे स्मृतः ।देवलो नारदे देवाजीवे मुन्यन्तरे पुमान् ॥ ९०२ ॥
902 · p. 163
अनुष्टुप्
देवोपजीविजीवे च धार्मिके देवरे स्मृतः ।देववृक्षस्तु मन्दारे सप्तपर्णे च गुग्गुलौ ॥ ९०३ ॥
903 · p. 163
अनुष्टुप्
अथ देवश्रुतः शास्त्रे ईश्वरे नारदे मुनौ ।देवी कृताभिषेकायां दुर्गायां देवयोषिति ॥ ९०४ ॥
904 · p. 163
अनुष्टुप्
स्पृक्कायां ब्राह्मणीनामोपपदे मुस्तकान्तरे ।बन्ध्या-कर्कोटकी-मूर्वाऽऽदित्यभक्ताऽतसीषु च ॥ ९०५ ॥
905 · p. 163
अनुष्टुप्
शालपर्ण्यां हरीतक्यां लिङ्गिनी-पाठयोरपि ।महाद्रोणी-मृगेर्वारु-शारिवा-पक्षिजातिषु ॥ ९०६ ॥
906 · p. 163
अनुष्टुप्
दैत्या चण्डौषधौ मद्ये मुरायां दैत्ययोषिति ।दोलो हिन्दोलके प्रेङ्खा-नीलिन्योरपि कीर्तिता ॥ ९०७ ॥
907 · p. 164
अनुष्टुप्
दोषो दूषण-गोवत्स-कल्मलेषु कफादिके ।दोषज्ञः पण्डिते दोषज्ञानयुक्ते चिकित्सके ॥ ९०८ ॥
908 · p. 164
अनुष्टुप्
दोषा स्त्रियां भुजे रात्रौ रात्रौ रात्रिमुखेऽव्ययम् ।दोषाकरश्चन्द्रमसि दोषाणामाकरेऽप्यसौ ॥ ९०९ ॥
909 · p. 164
अनुष्टुप्
दोस्थः स्यात् सेवके सेवा-क्रीडयोः क्रीडके पुमान् ।दोःस्थिते तु त्रिलिंगोऽसौ दोहदो गर्भलक्षणे ॥ ९१० ॥
910 · p. 164
अनुष्टुप्
वाञ्छायां गर्भिणीच्छायां द्युस्वर्गे गगने दिने ।द्युतिः प्रभायां शोभायां रश्मौ द्यौर्व्योमनाकयोः ।द्रविणं काञ्चने वित्ते बले द्युम्नं धने बले ॥ ९११ ॥
911 · p. 164
अनुष्टुप्
द्रावको हृदयग्राहि-षिङ्गयोर्द्रवकारके ।रसभेदे विदग्धे च मोषके प्रस्तरान्तरे ॥ ९१२ ॥
912 · p. 165
अनुष्टुप्
क्लीवन्तु सिक्यक-प्लीहरोगभेषजभेदयोः ।द्रुघणः द्रुहिणे भूमिचम्पके च परश्वधे ॥ ९१३ ॥
913 · p. 165
अनुष्टुप्
मुद्गरेऽस्त्रविशेषेऽथ द्रुणो वृश्चिक-भृङ्गयोः ।द्रुतं जातद्रवीभावघृतस्वर्णादि-शीघ्रयोः ॥ ९१४ ॥
914 · p. 165
अनुष्टुप्
विद्राण-शीघ्रलययोर्द्रुमो वृक्ष-कुबेरयोः ।द्रोणोऽस्त्रियामाढकेऽपि स्यात् आढकचतुष्तये ॥ ९१५ ॥
915 · p. 165
अनुष्टुप्impossible sibilant cluster: आढकचतुष्तये
द्रोणाचार्ये दग्धकाके वृश्चिके मेघनायके ।जलाशय-श्वेतवर्ण-क्षुद्रपुष्पद्रुमान्तरे ॥ ९१६ ॥
916 · p. 165
अनुष्टुप्
द्रोणी काष्ठाम्बुवाहिन्यां गवादन्यां सरिद्भिदि ।शैलभेदे शैलसन्धौ द्विसूर्पपरिमाणके ॥ ९१७ ॥
917 · p. 165
अनुष्टुप्
नीलीवृक्षे देशभेद-द्रोणीलवणयोरपि ।इन्द्रचिर्भटिकायां च द्रोहाटो मृगलुब्धके ॥ ९१८ ॥
918 · p. 166
अनुष्टुप्
वैडालव्रतिके गाथाप्रभेदेऽपि मतः पुमान् ।द्वन्द्वं रहस्ये कलहे युग्मे मिथुन-दुर्गयोः ॥ ९१९ ॥
919 · p. 166
अनुष्टुप्
पुमान् समासभेदे च रोगभेदेऽपि कीर्तितः ।द्वारुपाये द्वारदेशे द्वापरः संशये युगे ॥ ९२० ॥
920 · p. 166
अनुष्टुप्
द्वारयन्त्रं तालकेऽपि द्विकः स्यात् काक-कोकयोः ।द्विजो विप्रेऽण्डजे दन्ते द्विर्जाते तुम्बुरुद्रुमे ॥ ९२१ ॥
921 · p. 166
अनुष्टुप्
द्विजन्मा ब्राह्मणे दन्ते खगे क्षत्रिय-वैश्ययोः ।द्विजराजस्तु कर्पूरे गरुडेऽनन्त-चन्द्रयोः ॥ ९२२ ॥
922 · p. 166
अनुष्टुप्
द्विजिह्वः सूचके सर्पे खले दुःसाध्य-चोरयोः ।द्विजातिः ब्राह्मणे वैश्ये क्षत्रियाऽण्डजयोः पुमान् ॥ ९२३ ॥
923 · p. 166
अनुष्टुप्
द्वितीया सहधर्मिण्यां तिथिभेदे पुमान् सुते ।द्विपः स्त्रीपुंसयोर्नागे स्यात्पुमान्नागकेशरे ॥ ९२४ ॥
924 · p. 167
अनुष्टुप्
द्विपदस्त्रिदशे मर्त्ये राक्षसे च विहंगमे ।द्वीपोऽस्त्रियामन्तरीपे जम्बुद्वीपादिके स्मृतः ॥ ९२५ ॥
925 · p. 167
अनुष्टुप्
नद्यां भूमौ द्वीपवती द्वीपी व्याघ्रे च चित्रके ।द्वैमातुरो गणेशे स्यात् जरासन्धे द्विमातृजे ॥ ९२६ ॥
926 · p. 167
अनुष्टुप्
धटः तुलापरीक्षायां तुलायां च तुलाधरे ।धटी स्त्री चीरवस्त्रे स्यात् कौपीनेऽपि प्रयुज्यते ॥ ९२७ ॥
927 · p. 167
अनुष्टुप्
धनं वित्ते स्नेहपात्र-जीवनोपाय-गोधने ।धनञ्जयोऽर्जुने वह्नौ चित्रके देहमारुते ॥ ९२८ ॥
928 · p. 167
अनुष्टुप्
नागभेदेऽर्जुनतरौ धनदो गुह्यकेश्वरे ।हिज्जले त्रिषु वित्तादिप्रदातरि प्रकीर्तितः ॥ ९२९ ॥
929 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
धनाध्यक्षः किन्नरेश-धनाधिकृतयोरपि ।धनिकः पुंसि धन्याके धवे धनवति त्रिषु ॥ ९३० ॥
930 · p. 168
अनुष्टुप्
साधौ च धनिका साधु स्त्रियां तरुणयोषिति ।वध्वां प्रियंगुवृक्षेऽथ धनुराशौ च कार्मुके ॥ ९३१ ॥
931 · p. 168
अनुष्टुप्
भल्लातके धनुर्वृक्षो धन्वनेऽश्वत्थ-वंशयोः ।धन्वन्तरिर्दिवोदासे देववैद्ये कवौ स्मृतः ॥ ९३२ ॥
932 · p. 168
अनुष्टुप्
धन्वी दुरालभा-पार्थ-बकुलेष्वर्जुनद्रुमे ।क्रूरे भस्त्राध्मापके च त्रिषु स्याद्धमनो नले ॥ ९३३ ॥
933 · p. 168
अनुष्टुप्
धमनी कन्धरा-नाडी-हरिद्रा-नलिकासु च ।गुहा हट्टविलासिन्योर्धरः कार्पासतूलके ॥ ९३४ ॥
934 · p. 169
अनुष्टुप्
वसुभेदे कूर्मराजे शैलेऽथ धरणो रवौ ।सेतावद्रिपतौ धान्ये लोक-वक्षोजयोः पुमान् ॥ ९३५ ॥
935 · p. 169
अनुष्टुप्
क्लीवन्तु धारणे माने दशमांशे पलस्य च ।धरणी पृथिवी-नाडी-कन्दभेदेषु शाल्मलौ ॥ ९३६ ॥
936 · p. 169
अनुष्टुप्
नारायणे महीध्रे च कच्छपे धरणीधरः ।धरा गर्भाशये भूमौ धमनी-मेदसोरपि ॥ ९३७ ॥
937 · p. 169
अनुष्टुप्
महादानविशेषेऽथ विष्णौ शैले धराधरः ।धरुणो ब्रह्मणि स्वर्गे सम्मते सलिले पुमान् ॥ ९३८ ॥
938 · p. 169
अनुष्टुप्
धर्तव्यं धारणीये स्यात् स्थातव्य-पतनीययोः ।धर्मोऽस्त्री स्यादहिंसायामाचारे न्याय-पुण्ययोः ॥ ९३९ ॥
939 · p. 169
अनुष्टुप्
स्वभावोपमयोः सप्ततन्तूपनिषदोरपि ।दानादिके त्वसौ क्लीवं पुमान् स्याद्भगवज्जिने ॥ ९४० ॥
940 · p. 170
अनुष्टुप्
कृतान्ते सोमपे चापे सत्संगे देवतान्तरे ।धर्मराजो जिने दण्डधरे भूपे युधिष्ठिरे ॥ ९४१ ॥
941 · p. 170
अनुष्टुप्
मरीचे धर्मपुर्यां च धर्मपतनमीरितम् ।धर्माध्यक्षः प्राड्विवाके कुल-शील-गुणान्विते ॥ ९४२ ॥
942 · p. 170
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 र्म (wrong syllable)
धर्मोऽमर्षे प्रगल्भत्वे हिंसायां शक्तिबन्धने ।धर्षणिर्वृलेऽसत्यां धर्षणं रति-रीढयोः ॥ ९४३ ॥
943 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
धवः पत्यौ नरे धूर्ते स्वनामख्यातपादपे ।धवलश्चीनकर्पूरे वृषश्रेष्ठे धवद्रुमे ॥ ९४४ ॥
944 · p. 170
अनुष्टुप्
शुक्ले रागविशेषेऽसौ त्रिषु सुन्दर-गौरयोः ।क्लीवं स्याच्छ्वेतमरिचे धाः स्याद्ब्रह्मणि धारके ॥ ९४५ ॥
945 · p. 170
अनुष्टुप्
धाता प्रजापतौ विष्णौ मरुद्भेदे भृगोः सुते ।त्रिष्वसौ धारके रक्षाकरे सद्भिः प्रयुज्यते ॥ ९४६ ॥
946 · p. 171
अनुष्टुप्
धातुर्भूप्रभृतौ ग्रावविकृताविन्द्रियेऽस्थनि ।श्लेष्मादौ रसरक्तादौ शब्दादौ काञ्चनादिके ॥ ९४७ ॥
947 · p. 171
अनुष्टुप्
महाभूतेषु लोहेषु धात्री स्यादुपमातरि ।भूमावामलकीवृक्षे जनन्यामपि कीर्तिता ॥ ९४८ ॥
948 · p. 171
अनुष्टुप्
धाना भृष्टयवे भिन्ने धन्याकेऽभिनवेऽङ्कुरे ।चूर्ण-सक्तुष्वथो धानी स्त्र्याधारे पीलुपादपे ॥ ९४९ ॥
949 · p. 171
अनुष्टुप्
धान्यं धनीयके व्रीहौ तिलमाने कुटन्नटे ।धाम स्थाने गृहे देहे प्रभावे रश्मि-जन्मनोः ॥ ९५० ॥
950 · p. 171
अनुष्टुप्
धामार्गवस्त्वपामार्गे घोषके पीतघोषके ।धारो जलधरासारवर्षणे प्रस्तरान्तरे ॥ ९५१ ॥
951 · p. 171
अनुष्टुप्
ऋणे प्रान्ते च गम्भीरे स्यादथो धारणा मतौ ।मर्यादायां च योगांगे ब्रह्मणि स्वान्तधारणे ॥ ९५२ ॥
952 · p. 172
अनुष्टुप्
धारणी नाडिकायां च श्रेणी-बुद्धोक्तमन्त्रयोः ।धारा सैन्याग्रिमस्कन्धे समूह-रथचक्रयोः ॥ ९५३ ॥
953 · p. 172
अनुष्टुप्
सन्ततौ सदृशे कीर्तौ जीमूतासारवर्षणे ।द्रवप्रपाते उत्कर्ष-खड्गादिनिशिताग्रयोः ॥ ९५४ ॥
954 · p. 172
अनुष्टुप्
अतिवृष्टौ घटच्छिद्रे वाजिनां पञ्चधा गतौ ।धारांकुरः शीकरे स्यान्नाशीरे च घनोपले ॥ ९५५ ॥
955 · p. 172
अनुष्टुप्
धाराटो घोटके मेघे चातके मत्तकुञ्जरे ।धाराधरो घने खड्गे धाराङ्गस्तीर्थ-खड्गयोः ॥ ९५६ ॥
956 · p. 172
अनुष्टुप्