All kośas › Nānārthodayasāgarakoṣa
नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa
2,302 verses · text only, tagging comes next
Part 13 (13/20)
मात्रा परिच्छदे स्वल्पे वित्ते श्रवणभूषणे ।अक्षरावयवे कालविशेष-परिमाणयोः ॥ १४३६ ॥
1436 · p. 252
अनुष्टुप्
मादो दर्पे मत्ततायां प्रमोदेऽपि प्रकीर्तितः ।वसन्ते कृष्णमुद्गे च वैशाखे माधवो हरौ ॥ १४३७ ॥
1437 · p. 252
अनुष्टुप्
दुर्गायां पुण्ड्रके मद्ये कुट्टन्यां माधवी मता ।मानसं सरसि स्वान्ते त्रिलिंगन्तु मनोभवे ॥ १४३८ ॥
1438 · p. 252
अनुष्टुप्
माया कृपायां पद्मायां कपटे बुद्धमातरि ।दुर्गायां विष्णुमायायां मायः पीताम्बरेऽसुरे ॥ १४३९ ॥
1439 · p. 252
अनुष्टुप्
मारोऽन्तराये कन्दर्पे धुस्तूरे मारणे मृतौ ।मारुण्डः पथि सर्पाण्डे पुमान् गोमयमण्डले ॥ १४४० ॥
1440 · p. 253
अनुष्टुप्
मार्गो मृगमदे मार्गशीर्षमासे गवेषणे ।अध्वन्यपाने नक्षत्रे विष्टरश्रवसि स्मृतः ॥ १४४१ ॥
1441 · p. 253
अनुष्टुप्
मार्तण्डः स्यात् सहसांशौ शूकरेऽर्कमहीरुहे ।मालं क्षेत्रे च कपटे वन उन्नतभूतले ॥ १४४२ ॥
1442 · p. 253
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
मालती जातिकुसुमे युवतीज्योत्स्नयोर्निशि ।माला पंक्तौ पुष्पदाम्नि जपमालादिकेऽपि च ॥ १४४३ ॥
1443 · p. 253
अनुष्टुप्
मालाकारे पक्षिभेदे रञ्जके मालिकः स्मृतः ।मिहिरोऽर्कतरौ सूर्ये चन्द्रे मेघे च मारुते ॥ १४४४ ॥
1444 · p. 253
अनुष्टुप्
मीनो राश्यन्तरे मत्स्ये मुकुन्दः केशवे निधौ ।मुकुरो मल्लिकापुष्पवृक्षे बकुलपादपे ॥ १४४५ ॥
1445 · p. 253
अनुष्टुप्
कुलालदण्ड आदर्शे कोरके कुलपादपे ।मुक्ताफलं स्यात् कर्पूरे मौक्तिके लवलीफले ॥ १४४६ ॥
1446 · p. 254
अनुष्टुप्
मुखं प्रधाने प्रारम्भे वक्त्रे शब्दे च नाटके ।उपाये सन्धिभेदे च वेदे निःसारणाऽऽद्ययोः ॥ १४४७ ॥
1447 · p. 254
अनुष्टुप्
मुण्डो राहुग्रहे दैत्ये नापित-स्थाणुवृक्षयोः ।अस्त्रियां मस्तके प्रोक्तस्त्रिषु मुण्डितमूर्द्धनि ॥ १४४८ ॥
1448 · p. 254
अनुष्टुप्
मुद्रा प्रत्ययकारिण्यां रुप्यके सीसकाक्षरे ।मुनिर्जिने वशिष्ठादौ पियाले किंशुकद्रुमे ॥ १४४९ ॥
1449 · p. 254
अनुष्टुप्
मुष्कोऽण्डकोशे संघाते तस्करे मोक्षकद्रुमे ।मुष्टिः पलवमाने स्यात् त्सरौ संपिण्डितांगुलौ ॥ १४५० ॥
1450 · p. 254
अनुष्टुप्
मुहूर्तमल्पकाले स्याद्घटिकाद्वितयेऽस्त्रियाम् ।मूर्तिः स्वरूपे काठिन्ये प्रतिमान-शरीरयोः ॥ १४५१ ॥
1451 · p. 255
अनुष्टुप्
मूलं ब्रध्ने मूलवित्ते निजे कुञ्ज-समीपयोः ।मृगो मृगमदे राशौ मार्गशीर्ष-कुरङ्गयोः ॥ १४५२ ॥
1452 · p. 255
अनुष्टुप्
पशुमात्रे हस्तिभेदे याञ्चा-नक्षत्रभेदयोः ।मृगायुः पुंसि गोमायौ व्याधे च परमेष्ठिनि ॥ १४५३ ॥
1453 · p. 255
अनुष्टुप्
मृगाङ्कश्चन्दिरे वायौ कर्पूर-मृगचिह्नयोः ।मृगारिः सिंह-शार्दूल-कुक्कुरेषु मतः पुमान् ॥ १४५४ ॥
1454 · p. 255
अनुष्टुप्
मृगी पुलहभार्यायां छन्दोभेदे मृगस्त्रियाम् ।मृतं स्यात् प्राप्तपञ्चत्वे त्रिषु याचितवस्तुनि ॥ १४५५ ॥
1455 · p. 255
अनुष्टुप्
मृतकं मरणाशौचे कुणपेऽपि नपुंसकम् ।मृत्युः पुमान् यमे कंसे त्रिषु प्राणवियोजने ॥ १४५६ ॥
1456 · p. 255
अनुष्टुप्
शिवे बिल्वद्रुमे दण्डकाके च मृत्युवञ्चनः ।मृदुच्छदो भूर्जवृक्षे श्रीताले कुक्कुरद्रुमे ॥ १४५७ ॥
1457 · p. 255
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
मेघनादस्तु वरुणे स्तनिते रावणात्मजे ।मेचकः श्यामले बर्हिचन्द्रिके मेघ-धूमयोः ॥ १४५८ ॥
1458 · p. 256
अनुष्टुप्
मेधावी पण्डिते व्याडौ मदिरा-शुकपक्षिणोः ।मेषो राश्यान्तरे मेढ्रे लग्न-भेषजभेदयोः ॥ १४५९ ॥
1459 · p. 256
अनुष्टुप्
मेहः प्रमेहरोगे स्यान्मेष-प्रस्रावयोरपि ।मोचनं कल्कने दम्भे शाठ्य-कैवल्ययोरपि ॥ १४६० ॥
1460 · p. 256
अनुष्टुप्
कस्तूर्यामजमोदायां मल्लिकायां च मोदिनी ।मोहो दुःखे च मूर्च्छायामविद्यायामपि स्मृतः ॥ १४६१ ॥
1461 · p. 256
अनुष्टुप्
मोक्षः पाटलिवृक्षे स्यान्मुक्तौ मृत्यौ च मोचने ।मौलिः किरीटे धम्मिल्ले चूडायामनपुंसकम् ॥ १४६२ ॥
1462 · p. 256
अनुष्टुप्
म्रक्षणं स्नेहने तैले राशीकरण इष्यते ।म्लेच्छोऽपभाषणे पापरक्त-पामरभेदयोः ॥ १४६३ ॥
1463 · p. 256
अनुष्टुप्
यतिर्जितेन्द्रियग्रामे निकारे विरतौ पुमान् ।यतिः स्त्री पाठविच्छेदे विधवा-रागयोरपि ॥ १४६४ ॥
1464 · p. 257
अनुष्टुप्
यन्ता हस्तिपके सूते प्रोक्तो विरतिकारके ।यन्त्रं देवाद्यधिष्ठाने दारुयन्त्रे नियन्त्रणे ॥ १४६५ ॥
1465 · p. 257
अनुष्टुप्
यमो दण्दधरे ध्वाङ्क्षे संयमे यमनेऽपि च ।यमकः संयमे शब्दालंकारे यमजे त्रिषु ॥ १४६६ ॥
1466 · p. 257
अनुष्टुप्
यवनो जातिभेदे स्याद् वेग-वेगाधिकाश्वयोः ।प्लक्षवृक्षे जटामांस्यां वंशे यवफलो मतः ॥ १४६७ ॥
1467 · p. 257
अनुष्टुप्
दुरालभायां खदिरे यवासः कण्टकीक्षुपे ।यशः शक्रग्रहे श्रीदे गुह्यके धनरक्षके ॥ १४६८ ॥
1468 · p. 257
अनुष्टुप्
याज्ञिको दर्भभेदे स्यात् पलाशे यज्ञकर्तरि ।उपायोत्सवयोर्यात्रा प्राणने यापने गतौ ॥ १४६९ ॥
1469 · p. 257
अनुष्टुप्
त्रिषु याप्यो ऽधमे निन्द्ये यापनीये रुगन्तरे ।संयमे प्रहरे यामो याम्योऽगस्त्ये च चन्दने ॥ १४७० ॥
1470 · p. 258
अनुष्टुप्
यावत् तावच्चाव्ययं स्यान्माने कार्त्स्न्येऽवधारणे ।पक्षान्तरे प्रशंसायामवधौ निश्चये तथा ॥ १४७१ ॥
1471 · p. 258
अनुष्टुप्
परिच्छेदे तु वत्वन्तारेतौ स्तो वाच्यलिंगकौ ।त्रिषु युक्तो न्याययुक्ते मिलिते योगशालिनि ॥ १४७२ ॥
1472 · p. 258
अनुष्टुप्
युगं कृतादौ युगले रथाद्यङ्गे त्वसौ पुमान् ।गिरिभेदे रथादीनां युगकाष्ठे युगन्धरः ॥ १४७३ ॥
1473 · p. 258
अनुष्टुप्
युतकं यौतुके मैत्रीकरणे चलनाग्रके ।संशये संश्रये युक्ते नारीवस्त्राञ्चले युगे ॥ १४७४ ॥
1474 · p. 258
अनुष्टुप्
युवराजो भाविबुद्धभेदे राजात्मजोत्तमे ।योगो नैयायिके द्रव्ये कार्मणे धन-सूत्रयोः ॥ १४७५ ॥
1475 · p. 259
अनुष्टुप्
उपाये संगतौ युक्तौ ध्याने सन्नहने तथा ।चारेऽपूर्वार्थसम्प्राप्तौ वपुःस्थैर्ये च भेषजे ॥ १४७६ ॥
1476 · p. 259
अनुष्टुप्
विश्रब्धघाते विष्कम्भाऽऽदौ प्रयोगेऽपि कीर्तितः ।योगिनी योगयुक्ता स्यात् तथाऽऽवरणदेवता ॥ १४७७ ॥
1477 · p. 259
अनुष्टुप्
योग्यः प्रवीणे योगार्हे संशक्तोपाययोस्त्रिषु ।सम्बन्धबाधाभावे च क्षमतायां च योग्यता ॥ १४७८ ॥
1478 · p. 259
अनुष्टुप्
योनिः स्त्रीपुंसयोरम्भस्याकरे कारणे भगे ।प्राचीनाऽऽमलके रक्तं रुधिरे पद्म-ताम्रयोः ॥ १४७९ ॥
1479 · p. 259
अनुष्टुप्
सिन्दूरे कुंकुमे हिंगुले कुसुम्भे च हिज्जले ।रक्तवर्णो दाडिमे स्याद् बन्धूके च निशाद्वये ॥ १४८० ॥
1480 · p. 259
अनुष्टुप्
कुसुम्भपुष्पे लाक्षायां मञ्जिष्ठायाञ्च किंशुके ।रक्तबीजो दाडिमे स्यात् शुम्भासुरचमूपतिः ॥ १४८१ ॥
1481 · p. 260
अनुष्टुप्
रक्ताङ्गो मत्कुणे किञ्च प्रवाते मंगलग्रहे ।रक्ताक्षो महिषे क्रूरे पारावत-चकोरयोः ॥ १४८२ ॥
1482 · p. 260
अनुष्टुप्
सारसे रक्तवर्णाक्षे मानवे वाच्यलिंगवान् ।रजो रजोगुणे क्लीवं परागार्तवरेणुषु ॥ १४८३ ॥
1483 · p. 260
अनुष्टुप्
रजतं धवले रूप्ये ह्रदे हारे च शोणिते ।शैले स्वर्णे हस्तिदन्ते शुक्लवर्णिनि तु त्रिषु ॥ १४८४ ॥
1484 · p. 260
अनुष्टुप्
रागे गुह्ये रते कामपत्न्यामपि रतिः ।रत्नं मुक्ताद्यश्मजातौ स्वजातिप्रवरेऽपि च ॥ १४८५ ॥
1485 · p. 260
metre not recognisednearly अनुष्टुप्
रथ्या रथसमूहे स्यात् प्रतोल्यामपि चत्वरे ।रन्तुः स्त्री वर्त्मसरितो रदो दन्ते विलेखने ॥ १४८६ ॥
1486 · p. 260
अनुष्टुप्
औत्सुक्य-वेग-हर्षेषु रभसो निर्विचारणे ।पटोलमूले जघने मैथुने रमणे स्मृतम् ॥ १४८७ ॥
1487 · p. 261
अनुष्टुप्
गर्दभे वृषणे पत्यौ रमणौ मीनकेतने ।रमा लक्ष्मी-कल्किराजपत्नी-शोभासु कीर्तिता ॥ १४८८ ॥
1488 · p. 261
अनुष्टुप्
काले कामे नायके ना रमतिः स्वर्ग-काकयोः ।रम्भा तु कदली-गौर्योर्वेश्याभेदे च गोध्वनौ ॥ १४८९ ॥
1489 · p. 261
अनुष्टुप्
मृगभेदे कम्बले च रल्लको रवणस्त्वसौ ।चञ्चले भण्डके तीक्ष्णे शब्दने कोकिले त्रिषु ॥ १४९० ॥
1490 · p. 261
अनुष्टुप्
रविरर्केऽर्कवृक्षे च रश्मिर्ना प्रग्रहोस्रयोः ।रसो वीर्ये गुणे रागे द्रवे गन्धरसे जले ॥ १४९१ ॥
1491 · p. 261
अनुष्टुप्
पारदे षड्रसे शृङ्गारादि-काव्यरसे विषे ।रसा स्त्रियां रसमयी-द्राक्षा-कंगूषु कीर्तिता ॥ १४९२ ॥
1492 · p. 261
अनुष्टुप्
पृथिवी-रसना-पाठा-काकोली-शल्लकीष्वपि ।रसाल इक्षावाम्रे च गोधूमे कण्टकीफले ॥ १४९३ ॥
1493 · p. 262
अनुष्टुप्
रसाला रसना-दूर्वा-द्राक्षा-शिखरिणीष्वपि ।राग इन्दौ रवौ प्रीतौ रतौ राजनिरञ्जने ॥ १४९४ ॥
1494 · p. 262
अनुष्टुप्
क्लेशादौ लोहितादौ च गानरागेषु मत्सरे ।धानस्यादौ विदग्धायामिन्दिरायां च रागिणी ॥ १४९५ ॥
1495 · p. 262
अनुष्टुप्
राघवो रामचन्द्रे स्यान्मत्स्यभेदे सरित्पतौ ।राजन्यः क्षीरिकावृक्षे क्षत्रियेऽग्नौ नृपात्मजे ॥ १४९६ ॥
1496 · p. 262
अनुष्टुप्
करिण्यां क्षत्रियाज्जाते राजपुत्रो बुधग्रहे ।राजपुत्री राजसुता-जात्योर्मञ्जुलताजुषि ॥ १४९७ ॥
1497 · p. 262
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
मालती-रेणुका-राजरीति-च्छुच्छुन्दरीष्वपि ।इन्द्रे चन्द्रे प्रभो पक्षे राजा क्षत्रिय-भूभृतोः ॥ १४९८ ॥
1498 · p. 262
अनुष्टुप्
रेखा-केदारयोः पंक्तौ राजिका कृष्णसर्षपे ।राज्ञी राजप्रिया-सूर्यपत्न्योर्नील्यां च कांस्यके ॥ १४९९ ॥
1499 · p. 263
अनुष्टुप्
राढा सूक्ष्मे पुरीभेदे शोभायामपि कीर्तिता ।विष्णुक्रान्ताऽऽमलक्योः स्याद् राधा धानुष्कचित्रके ॥ १५०० ॥
1500 · p. 263
अनुष्टुप्
गोपीविशेषे नक्षत्रभेदे विद्युति हिंसने ।तमालपत्रे वास्तूके कुष्ठे रामं नपुंसकम् ॥ १५०१ ॥
1501 · p. 263
अनुष्टुप्
सितेऽसिते मनोज्ञे च त्रिषु रामः पुमान् हये ।भार्गवे पशुभेदे च राघवे हलि-पाशिनोः ॥ १५०२ ॥
1502 · p. 263
अनुष्टुप्
रासः कोलाहल-ध्वान-क्रीडा-भाषासु शृङ्खले ।परिहासे रसावासे रासे रासे रसः पुमान् ॥ १५०३ ॥
1503 · p. 263
अनुष्टुप्
षष्ठीजागरके गोष्ठ्यां शृङ्गारोत्सवयोरपि ।रससिद्धौ चाथ राहुस्त्याग-ग्रहविशेषयोः ॥ १५०४ ॥
1504 · p. 263
अनुष्टुप्
राक्षसी कौणपी दंष्ट्रा-चण्डा-सन्ध्यासु कीर्तिता ।रिष्टं शुभाशुभभावपापेषु खड्गे स्यात्पुमान् पुनः ॥ १५०५ ॥
1505 · p. 264
अनुष्टुप्metre not read in every line
रीतिः स्त्रियां लोहकिट्टे स्यन्दे गत्यारकूटयोः ।प्रचारे स्रवणे सीम्नि परिपाटी-स्वभावयोः ॥ १५०६ ॥
1506 · p. 264
अनुष्टुप्
रुचकं सर्जिकाक्षरे माङ्गल्यद्रव्य-माल्ययोः ।विडङ्गोत्कट्योः स्वाद्यरसेऽश्वभरणे तथा ॥ १५०७ ॥
1507 · p. 264
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 क्ष (wrong syllable); pāda 3, syllable 4 त्क (syllables merged)
सौवर्चले रोचनायां लवणे रुचकस्त्वयम् ।दन्ते पारावते बीजपूरे निष्केऽपि कीर्तितः ॥ १५०८ ॥
1508 · p. 264
अनुष्टुप्
रुचा दीप्तौ तथेच्छायां शारिका-शुकवाच्यपि ।रुचिः स्त्रियामभिष्वङ्गानुरागेच्छा-गभस्तिषु ॥ १५०९ ॥
1509 · p. 264
अनुष्टुप्
शोभा-बुभुक्षयोः किञ्च रोचनाऽऽलिंगभेदयोः ।रुद्रः शिवे वृक्षभेद-गणदेवविशेषयोः ॥ १५१० ॥
1510 · p. 264
अनुष्टुप्
रूपं स्वभावे सौन्दर्ये पशावाकार-शब्दयोः ।ग्रन्थाऽऽवृत्तौ नाटकादौ श्लोक-शुक्लादिवर्णयोः ॥ १५११ ॥
1511 · p. 265
अनुष्टुप्
रूपकं नाटके मूर्ते संख्याऽलंकारभेदयोः ।रेको भेके च तथा शंकायां नीचे विरेचने ॥ १५१२ ॥
1512 · p. 265
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
छद्मोल्लेखनयो रेखा स्यादाभोगाल्पयोरपि ।तिलके जयपाले च यवक्षारेऽपि रेचकः ॥ १५१३ ॥
1513 · p. 265
अनुष्टुप्
जलनिःक्षेपयन्त्रे च प्राणायामविधावपि ।रेणुका भस्मगान्धिन्यां जमदग्नेश्च योषिति ॥ १५१४ ॥
1514 · p. 265
अनुष्टुप्
पुच्छे प्रधाने भूषायां रम्ये चिह्ने ध्वजे हये ।पुण्ड्रे प्रभावे शृङ्गेऽश्वे ललामञ्च ललाम च ॥ १५१५ ॥
1515 · p. 265
अनुष्टुप्
अभीप्सिते सुन्दरे च चलिते ललितस्त्रिषु ।ललिता सप्तमीभेदे कस्तूर्यां सरिदन्तरे ॥ १५१६ ॥
1516 · p. 265
अनुष्टुप्
लामज्जके लवङ्गेऽल्पे लवं जातीफलेऽपि च ।लवो लेशे रामपुत्रे विलासे छेद-नाशयोः ॥ १५१७ ॥
1517 · p. 266
अनुष्टुप्
कालभेदे पक्षिभेदे लवणस्तु रसान्तरे ।रक्षाभेदे सिन्धुभेदे छेदके लवणासुरे ॥ १५१८ ॥
1518 · p. 266
अनुष्टुप्
क्रीडायुक्ते शिल्पयुक्ते श्लिष्टे लस्तस्त्रिलिंगकः ।दशायुत प्रसंख्यायां लक्षं स्याद्व्याज-लक्ष्ययोः ॥ १५१९ ॥
1519 · p. 266
अनुष्टुप्
लक्षणं दर्शने वस्तुस्वरूपे नामचिह्नयोः ।लक्षणा शक्यसम्बन्धे हंस्यां सारसयोषिति ॥ १५२० ॥
1520 · p. 266
अनुष्टुप्
सौमित्रौ सारसे च स्याल्लक्ष्मणो लक्षणस्थथा ।सारस्यां लक्ष्मणा श्वेतकण्टकारीवनस्पतौ ॥ १५२१ ॥
1521 · p. 266
अनुष्टुप्
दुर्योधनस्य कन्यायां पुत्रकन्दौषधावपि ।लक्ष्मी-दुर्गा-शमी-मुक्ता-सीता-सम्पत्तिषूच्यते ॥ १५२२ ॥
1522 · p. 266
अनुष्टुप्
स्थलाब्जायां हरिद्रायां मोक्षाऽऽप्तौ फलनीतरौ ।ऋद्ध्यौषधे तथा द्रव्ये गुणाढ्यवरयोषिति ॥ १५२३ ॥
1523 · p. 267
अनुष्टुप्
लक्ष्मीतालस्तालभेदे श्रीतालाऽख्यमहीरुहे ।शौरो लवंगे नृपतौ पूगे लक्ष्मीपतिः पुमान् ॥ १५२४ ॥
1524 · p. 267
अनुष्टुप्
लक्ष्मीपुत्रः कामदेवे घोटके च कुशे लवे ।त्रिषु लक्ष्यो दर्शनीये लक्ष्यार्थोद्देश्ययोरपि ॥ १५२५ ॥
1525 · p. 267
अनुष्टुप्
ला स्त्रियां ग्रहणे दाने लांगलन्तु हले तथा ।लिंगे तालतरौ पुष्पभेदे च गृहदारुणि ॥ १५२६ ॥
1526 · p. 267
अनुष्टुप्
बलरामे नारिकेले सर्पे स्याल्लांगली पुमान् ।शेफे कुशूले लांगूलं पुच्छे लांगुलमित्यपि ॥ १५२७ ॥
1527 · p. 267
अनुष्टुप्
लाटो देशान्तरे जीर्ण-भूषणादौ च वाससि ।लालाविशिष्टे व्यासक्तियुक्ते लालायितस्त्रिषु ॥ १५२८ ॥
1528 · p. 267
अनुष्टुप्
लवणत्वे सुन्दरत्वे लावण्यमपि कीर्तितम् ।लासकं सट्टके लास्यकरे बर्हिणि लासकः ॥ १५२९ ॥
1529 · p. 268
अनुष्टुप्
लिगुर्मूर्खे भूप्रदेशे मृगे लिगु तु मानसे ।लिंगं सामर्थ्येऽनुमाने प्रकृतौ शेफ-चिह्नयोः ॥ १५३० ॥
1530 · p. 268
अनुष्टुप्
शिवमूर्तिविशेषे च व्याप्ये पुंस्त्वादिलक्षणे ।त्रिषु लिप्तं लेपयुक्ते भक्षिते मिलितेऽपि च ॥ १५३१ ॥
1531 · p. 268
अनुष्टुप्
लीनस्त्रिषु लयप्राप्ते श्लिष्टे किञ्च तिरोहिते ।लीला केलौ विलासे च खेलायामपि कीर्तिता ॥ १५३२ ॥
1532 · p. 268
अनुष्टुप्
लोकनाथो जिने विष्णौ शिवे बुद्धे प्रजापतौ ।राज्ञि लोकस्तु भुवने जने च परिकीर्तितः ॥ १५३३ ॥
1533 · p. 268
अनुष्टुप्
लोकेशः स्याद्बुद्धभेदे तथा ब्रह्मणि पारदे ।लोचकः कज्जले कर्णपूरे निर्बुद्धि-रम्भयोः ॥ १५३४ ॥
1534 · p. 268
अनुष्टुप्
स्त्रीभालाऽभरणे मूर्व्यां निर्मोके श्लथचर्मणि ।मांसपिण्डेऽक्षितारायां तथा नीलवाससि ॥ १५३५ ॥
1535 · p. 269
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मयूरे जैनसाधौ च स्याद्द्वयोर्लोचमस्तकः ।लोतश्चिह्नेऽश्रुपाते च लवणे लोचनाम्भसि ॥ १५३६ ॥
1536 · p. 269
अनुष्टुप्
लोमशो मुनिभेदे स्यात् मेषेऽपि परिकीर्तितः ।लोला लक्ष्म्यां च जिह्वायां किञ्च चञ्चलयोषिति ॥ १५३७ ॥
1537 · p. 269
अनुष्टुप्
लोहोऽस्त्री जोङ्गके लौहे रुधिरे सर्वतैजसे ।लोहार्गलस्तीर्थभेदे लौहकीले त्वसौ नना ॥ १५३८ ॥
1538 · p. 269
अनुष्टुप्
रेत्रं रेतसि पीयूषे पटवासे च सूतके ।रेतः शुक्रे पारदे च रेपः क्रूर-कदर्ययोः ॥ १५३९ ॥
1539 · p. 269
अनुष्टुप्
रेफस्त्रिष्वधमे क्रूरे तथा दुष्ट-कदर्ययोः ।रेवटः शूकरे रेणौ वातूले विषवैद्यके ॥ १५४० ॥
1540 · p. 269
अनुष्टुप्
रेवती नक्षत्रभेदे स्त्रीगव्यां बलयोषिति ।दुर्गायां मातृकाभेदे शैलभेदे तु रैवतः ॥ १५४१ ॥
1541 · p. 270
अनुष्टुप्
स्वर्णालूपादपे शम्भौ रोकस्तु क्रय-रोचिषोः ।रोकं छिद्रे चले नावि रोचकस्तु पुमान् क्षुधि ॥ १५४२ ॥
1542 · p. 270
अनुष्टुप्
कदल्यामवदंशे च त्रिषु स्याद्रुचिकारके ।आरग्वधे करञ्जे च रोचनः कूटशाल्मलौ ॥ १५४३ ॥
1543 · p. 270
अनुष्टुप्
पलांड्वङ्गोठ-करक-रोचक-श्वेतशिग्रुषु ।रोचना रक्तह्लारे गोपिते वरयोषिति ॥ १५४४ ॥
1544 · p. 270
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (syllables merged)
रोदः क्लीवं स्वर्गभुवो रोदनं क्रन्दनेऽश्रुणि ।विमोहे रोपणं प्रादुर्भावे स्याज्जननेऽञ्जने ॥ १५४५ ॥
1545 · p. 270
अनुष्टुप्
रोमकं पांशुलवणेऽयस्कान्तेऽपि प्रकीर्तितम् ।पिण्डालौ शूकरे कुम्भि-मेषयोः पुंसि रोमशः ॥ १५४६ ॥
1546 · p. 271
अनुष्टुप्
रोहिनी धार्मिके बीजे वृक्षे स्यादथ रोहिणः ।भूतृणे वटवृक्षे च तथा रोहितकद्रुमे ॥ १५४७ ॥
1547 · p. 271
अनुष्टुप्
कालभेदे त्वसौ क्लीवो मञ्जिष्ठायां तु रोहिणी ।सोमवल्के लोहितायां विद्यादेव्यां तडित्यपि ॥ १५४८ ॥
1548 · p. 271
अनुष्टुप्
कटुम्भरायां स्त्रीगव्यां काश्मर्यां बलमातरि ।ताराभेदे हरीतक्यां कन्या-रोगविशेषयोः ॥ १५४९ ॥
1549 · p. 271
अनुष्टुप्
रोहितं कुंकुमे रक्ते ऋजुशक्रशरासने ।वर्णभेदे मत्स्यभेदे रोहित् पुंसि दिवाकरे ॥ १५५० ॥
1550 · p. 271
अनुष्टुप्
स्त्रियां रोहिल्लताभेदे मृग्यामप्यथ रोहितः ।वृक्षभेदे वर्णभेदे मीनभेदे मृगान्तरे ॥ १५५१ ॥
1551 · p. 271
अनुष्टुप्
रोही ना रोहिताश्वत्थ-वटवृक्षेषु कीर्तितः ।हेमन्ते ना यमे रौद्रो रसभेदेऽर्कतेजसि ॥ १५५२ ॥
1552 · p. 272
अनुष्टुप्
तीव्रे विभीषणे किञ्च रुद्रसम्बन्धिनि त्रिषु ।त्रिषु धूर्ते चञ्चले च रौरवो नरके पुमान् ॥ १५५३ ॥
1553 · p. 272
अनुष्टुप्
लग्नं राश्युदये लग्नः सूते बन्दिन्यथ त्रिषु ॥
1559 · p. 272
आसक्ते लज्जिते च स्याल्लघुः पृक्कौषधौ स्त्रियाम् ॥ १५५४ ॥
1554 · p. 272