All kośas › Nānārthodayasāgarakoṣa
नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa
2,302 verses · text only, tagging comes next
Part 15 (15/20)
प्रवेशे मनुजे वैश्ये विट् कन्या-विष्ठयोः स्त्रियाम् ।प्रतारणेऽनुकरणे स्त्रियां क्लीवे विडम्बनम् ॥ १६७५ ॥
1675 · p. 292
अनुष्टुप्
विडालो नेत्रपिण्डे स्यात् मार्जारे लोचनौषधौ ।विततं त्रिषु वीणादिवाद्ये व्याप्ते च विस्तृते ॥ १६७६ ॥
1676 · p. 292
अनुष्टुप्
वितर्कः संशय-ज्ञानसूचकाऽध्याहारयोरपि ।अस्त्री वितानमुल्लोचे यज्ञ-विस्तारयोः स्मृतम् ॥ १६७७ ॥
1677 · p. 293
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्लीवन्त्ववसरे वृत्तौ त्रिलिंगो मन्द-शून्ययोः ।वित्तो विचारिते लब्धे विज्ञाते न द्वयोर्धने ॥ १६७८ ॥
1678 · p. 293
अनुष्टुप्
वित्तिः संभावना-लाभ-विचारेषु स्त्रियां मता ।विदग्धो नागरे विज्ञे पण्डिते त्रिषु कीर्तिता ॥ १६७९ ॥
1679 · p. 293
अनुष्टुप्
विदर्भजाऽगस्त्यपत्न्यां दमयन्त्यामपि स्मृता ।विदारः स्याज्जलोच्छ्वासे युंगेऽपि च विदारणे ॥ १६८० ॥
1680 · p. 293
अनुष्टुप्
विदारणं मारणे स्याद् विडंगे भेदने मतम् ।स्त्रीपुंसयोः सम्पराये कर्णिकारतरौ पुमान् ॥ १६८१ ॥
1681 · p. 293
अनुष्टुप्
विदारी भूमिकुष्माण्डे शालपर्ण्यां गलाऽऽमये ।विदुरो नागरे धीरे कौरवाणां च मन्त्रिणि ॥ १६८२ ॥
1682 · p. 293
अनुष्टुप्
विद्धः क्षिप्ते कृतच्छिद्रे बाधिते ताडिते त्रिषु ।विद्या ज्ञेया ज्ञान-दुर्गा-शास्त्राष्टादशकेषु च ॥ १६८३ ॥
1683 · p. 294
अनुष्टुप्
विद्रवः क्षरणे बुद्धौ निन्दायां च पलायने ।रत्नवृक्षे किशलये प्रवाले विद्रुमः पुमान् ॥ १६८४ ॥
1684 · p. 294
अनुष्टुप्
विधः प्रकारे हस्त्यन्ने विमान-वेधनर्द्धिषु ।विधा स्त्री गजदेयान्न ऋद्धौ कर्म-प्रकारयोः ॥ १६८५ ॥
1685 · p. 294
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
वेधने वेतने चाथो विधानं करणे विधौ ।विधिर्ब्रह्मणि गोविन्दे विधाने क्रम-भाग्ययोः ॥ १६८६ ॥
1686 · p. 294
अनुष्टुप्
गजान्ने विधिवाक्ये च नियोगे काल-कर्मणोः ।यागोपदेशकग्रन्थे प्रकारे च चिकित्सके ॥ १६८७ ॥
1687 · p. 294
अनुष्टुप्
विधुर्नारायणे चन्द्रे कर्पूरे वायु-रक्षसोः ।विधुरं तु प्रविश्लेषे कैवल्ये विकले त्रिषु ॥ १६८८ ॥
1688 · p. 294
अनुष्टुप्
विनतस्त्रिषु भुग्ने स्यात् प्रणते शिक्षितेऽपि च ।स्त्रियां स्यात् पिटकाभेदे तथा गरुडमातरि ॥ १६८९ ॥
1689 · p. 295
अनुष्टुप्
विनयः प्रणतौ दण्डे शिक्षायामपि कीर्तितः ।विनायकस्तु रम्बे गुरौ गरुड-बुद्धयोः ॥ १६९० ॥
1690 · p. 295
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विनिपातो निपतने दैवे व्यसन-रीढयोः ।विनीतः सुवहाश्वे स्याद् वणिग्-दमनवृक्षयोः ॥ १६९१ ॥
1691 · p. 295
अनुष्टुप्
त्रिष्वसौ निभृते क्षिप्ते कृतदण्डे जितेन्द्रिये ।विनीयः कल्मषे कल्के विनेता राज्ञि देशके ॥ १६९२ ॥
1692 · p. 295
अनुष्टुप्
विनेयस्त्रिषु नेतव्ये दण्डनीयेऽपि कीर्तितः ।विनोदः कौतुके क्रीडा-परिष्वङ्गविशेषयोः ॥ १६९३ ॥
1693 · p. 295
अनुष्टुप्
बिन्दुः पुमान् रूपकार्थप्रकृति-ज्ञानशीलयोः ।अनुस्वारे भ्रुवोर्मध्ये दशनक्षत-विप्रुषोः ॥ १६९४ ॥
1694 · p. 295
अनुष्टुप्
त्रिलिंगोऽसौ वेदितव्ये दातरि ज्ञातरि स्मृतः ।विन्ध्यः शैलान्तरे व्याधे लवलीपादपे स्त्रियाम् ॥ १६९५ ॥
1695 · p. 296
अनुष्टुप्
विन्नस्त्रिषु स्थिते ज्ञाते तथा प्राप्ते विचारिते ।आपणे पण्यवीथ्यां च पण्येऽपि विपणद्वयोः ॥ १६९६ ॥
1696 · p. 296
अनुष्टुप्
विपत्तिः स्त्री यातनायां विनाशे विपदि स्मृतः ।विपन्नो विपदाक्रान्ते विनष्टे वाच्यलिंगभाक् ॥ १६९७ ॥
1697 · p. 296
अनुष्टुप्
विपाको दुर्गतौ भोगे कर्मणो विसदृक्फले ।परिणामे च पचने स्वादौ स्वेदे च जीविते ॥ १६९८ ॥
1698 · p. 296
अनुष्टुप्
विप्रकारस्तिरस्कारेऽपकारेऽपि स्मृतः पुमान् ।रोषेऽनुतापे कौकृत्ये विप्रतीसार उच्यते ॥ १६९९ ॥
1699 · p. 296
अनुष्टुप्
विप्रलापो विरोधोक्तौ वाक्ये चानर्थकेऽप्यसौ ।विप्लवः परचक्रादिभये राष्ट्राद्युपद्रवे ॥ १७०० ॥
1700 · p. 296
अनुष्टुप्
विप्रलम्भो विसंवाद-शृङ्गाररसभेदयोः ।प्रतारणे विप्रयोगे विच्छेदेपि पुमानयम् ॥ १७०१ ॥
1701 · p. 297
अनुष्टुप्
विफलं वाच्यवद्व्यर्थे केतव्यां विफला स्मृता ।पर्याहारेऽयने भावे विवधो वीवधोऽपि च ॥ १७०२ ॥
1702 · p. 297
अनुष्टुप्
विबुधश्चन्दिरे देवे पण्डितेऽपि स्मृतो बुधैः ।विभवो मोक्ष ऐश्वर्ये द्रविणे वत्सरान्तरे ॥ १७०३ ॥
1703 · p. 297
अनुष्टुप्
विभा प्रकाशे शोभायां किरणेऽपि स्त्रियां मता ।विभाकरः सूर्यवह्नि-चित्राकाऽर्कद्रुमेषु च ॥ १७०४ ॥
1704 · p. 297
अनुष्टुप्
विभावरी हरिद्राभ्यां कुट्टन्यां वक्रयोषिति ।रात्रौ मौखर्यनिरतस्त्रियां मेदामहीरुहे ॥ १७०५ ॥
1705 · p. 297
अनुष्टुप्
विभावसुः सूर्यचन्द्रमसोश्चित्रकपादपे ।वैश्वानरेऽर्कवृक्षे च हारभेदेऽपि कीर्तितः ॥ १७०६ ॥
1706 · p. 297
अनुष्टुप्
विभुर्विष्णो सुरज्येष्ठे शिवे सर्वगते जिने ।प्रभौ नित्ये व्यापके च दृढे भृत्ये प्रकीर्तितः ॥ १७०७ ॥
1707 · p. 297
अनुष्टुप्
विभ्रमः संशये हारभेदे भ्रमण-शोभयोः ।विमानोऽस्त्री व्योमयाने यानमात्रे तुरङ्गमे ॥ १७०८ ॥
1708 · p. 298
अनुष्टुप्
बिम्बन्तु प्रतिबिम्बे स्यात् तुण्डिकेर्यां कमण्डलौ ।अस्त्रियां सूर्य-शुभ्रांशुमण्डले विबुधैः स्मृतः ॥ १७०९ ॥
1709 · p. 298
अनुष्टुप्
विरोचनो भास्करेऽर्कद्रुमे चन्द्रे धनञ्जये ।प्रह्लादतनये रोहिद्रुम-श्योनाकभेदयोः ॥ १७१० ॥
1710 · p. 298
अनुष्टुप्
बिलं गुहायां विवरे शक्राश्वे वेतसे पुमान् ।विलासी केशवे चन्द्रे हरे वैश्वानरे स्मरे ॥ १७११ ॥
1711 · p. 298
अनुष्टुप्
भुजङ्गमे भोगिनि च विलासो हारलीलयोः ।बिलेशयः शशे सर्पे गोधाऽऽखु-शल्लकीषु च ॥ १७१२ ॥
1712 · p. 298
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 खु (wrong syllable)
विवरं तु बिले दोषे विवर्तः संघ-नृत्ययोः ।विवस्वान् भास्करेऽर्कद्रौ वैवस्वतमनौ सुरे ॥ १७१३ ॥
1713 · p. 298
अनुष्टुप्
विवक्षा वक्तुमिच्छायां शक्तावपि निगद्यते ।विवक्षितो वक्तुमिष्टे शक्यार्थेऽपि मतस्त्रिषु ॥ १७१४ ॥
1714 · p. 299
अनुष्टुप्
विविक्तं निर्जने पूतेऽसंपृक्ते वाच्यलिङ्गयुक् ।विवेकः पृथगात्मत्वे जलद्रोणी-विचारयोः ॥ १७१५ ॥
1715 · p. 299
अनुष्टुप्
विशदो निर्मले व्यक्ते शौक्ल्यवत्यभिधेयवत् ।विशल्याऽग्निशिखावृक्षे दन्तीवृक्षाऽजमोदयोः ॥ १७१६ ॥
1716 · p. 299
अनुष्टुप्
कलिकारी-गुडुच्योश्च विशाखौ स्कन्द-याचकौ ।विशारदस्त्रिषु श्रेष्ठे प्रगल्भे विश्रुते बुधे ॥ १७१७ ॥
1717 · p. 299
अनुष्टुप्
बकुलेऽसौ पुमान् स्त्री तु दुरालभामहीरुहे ।विशालः पक्षि-नृपति-मृग-वृक्षभिदासु च ॥ १७१८ ॥
1718 · p. 299
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
विशाला त्विन्द्रवारुण्यां तीर्थभिद्-दक्षकन्ययोः ।उज्जयिन्यामुपोदक्यां विशालं बृहति त्रिषु ॥ १७१९ ॥
1719 · p. 299
अनुष्टुप्
विशालाक्षः शिवे तार्क्ष्ये सुनेत्रे त्वभिधेयवत् ।विशालाक्षी तु पार्वत्यां नागदन्त्यां वरस्त्रियाम् ॥ १७२० ॥
1720 · p. 300
अनुष्टुप्
विशिखस्तोमरे बाणे शिखाहीने त्वसौ त्रिषु ।विशाखा नालिकायां स्यात् खनित्री-रथ्ययोः स्त्रियाम् ॥ १७२१ ॥
1721 · p. 300
अनुष्टुप्
विशुद्धं विशदे सत्ये चक्रे च निभृते त्रिषु ।विशेषस्तिलके व्यक्तौ काव्यालंकरणेऽपि च ॥ १७२२ ॥
1722 · p. 300
अनुष्टुप्
प्रकारे च प्रभेदे च पदार्थान्तर एव च ।विश्रम्भः केलिकलहे विश्वासे प्रणये वधे ॥ १७२३ ॥
1723 · p. 300
अनुष्टुप्
विश्रुतस्त्रिषु संहृष्टे प्रसिद्ध-ज्ञातयोरपि ।विश्वं तु भुवने शुण्ठ्यां बोले पुंसि तु नागरे ॥ १७२४ ॥
1724 · p. 300
अनुष्टुप्
गणदेवविशेषे च मानभेदेऽखिले त्रिषु ।विश्वकर्मा सहस्रांशौ त्रिदशानां च शिल्पिनि ॥ १७२५ ॥
1725 · p. 300
अनुष्टुप्
विश्वंभरो हरौ शक्रे पृथिव्यां तु स्त्रियामसौ ।विषं जले वत्सनाभे गरले पद्मकेशरे ॥ १७२६ ॥
1726 · p. 301
अनुष्टुप्
नियामके जनपदे कान्तादौ नित्यसेविते ।रूपादौ विषयोऽव्यक्ते आरोपाश्रय-शुक्रयोः ॥ १७२७ ॥
1727 · p. 301
अनुष्टुप्
विषयी राज्ञि कन्दर्पे ध्वनौ वैषयिके पुमान् ।त्रिलिंङ्गो विषयासक्ते हृषीके तु नपुंसकम् ॥ १७२८ ॥
1728 · p. 301
अनुष्टुप्
विषाणं गजदन्ते स्यात् कुष्ठभेषज-शृङ्गयोः ।विषाणिका मेषशृङ्गी-सातलाऽऽवर्तकीषु च ॥ १७२९ ॥
1729 · p. 301
अनुष्टुप्
विष्कम्भः प्रतिबन्धे स्यात् विस्तारेऽर्गल-वृक्षयोः ।योगिबन्धान्तरे योग-रूपकाङ्गप्रभेदयोः ॥ १७३० ॥
1730 · p. 301
अनुष्टुप्
विष्टम्भः प्रतिबन्धे स्याद् आनाहरुजि कीर्तितः ।विष्टरो दर्भमुष्टौ स्यात् पीठाद्यासन-शाखिनोः ॥ १७३१ ॥
1731 · p. 301
अनुष्टुप्
विष्टिः स्त्री वेतने वृष्टौ भद्राऽऽजू-कर्मसु स्मृता ।त्रिषु कर्मकरे विष्टिर्दूरस्थाने तु बिष्ठलम् ॥ १७३२ ॥
1732 · p. 301
अनुष्टुप्
विष्णुर्नारायणे वह्नौ शुद्धे मुन्यन्तरे वसौ ।पद्मेऽन्तरिक्षे क्षीरोदे क्लीवं विष्णुपदे स्मृतम् ॥ १७३३ ॥
1733 · p. 302
अनुष्टुप्
विसरः प्रसरे संघे विसर्गो मलनिर्गमे ।विसर्जनीये कैवल्ये दाने त्याग-विसृष्ट्ययोः ॥ १७३४ ॥
1734 · p. 302
अनुष्टुप्
विसर्जनं परित्यागे दाने सम्प्रेषणे मतम् ।विसृत्वरो विसरणे गतिभेदे त्रिलिंगभाक् ॥ १७३५ ॥
1735 · p. 302
अनुष्टुप्
विस्तरो वाक्प्रपञ्चे विस्तारे प्रणये चये ।विस्तारो विटपे स्तम्बे विस्तीर्णत्वेऽपि कीर्तितः ॥ १७३६ ॥
1736 · p. 302
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विस्मापनस्तु कुहके गन्धर्वनगरे स्मरे ।विहगो भास्करे चन्द्रे ग्रहेभे पक्षि-वाणयोः ॥ १७३७ ॥
1737 · p. 302
अनुष्टुप्
विहङ्गश्चन्दिरे सूर्ये मेघे वाणे पतत्रिणि ।विहङ्गमा भारयष्टौ स्त्री खगे तु विहंगमः ॥ १७३८ ॥
1738 · p. 303
अनुष्टुप्
उक्तं विहननं हिंसा-विघ्नयोस्तूलपिञ्जरे ।विहस्तः पुंसि पण्डे स्यात् पण्डिते व्याकुले त्रिषु ॥ १७३९ ॥
1739 · p. 303
अनुष्टुप्
विहारो भ्रमणे स्कन्धे विन्दुरेखकरक्षिणि ।परिक्रमे वैजयन्ते च लीलायां सुगतालये ॥ १७४० ॥
1740 · p. 303
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विहेठनं विबाधायां हिंसायां च विडम्बने ।विक्षेपः प्रेरणे त्यागे पुमान् विक्षेपणेऽप्यसौ ॥ १७४१ ॥
1741 · p. 303
अनुष्टुप्
वीको वायौ खगे चित्ते वीकाशो रहसि स्फुटे ।वीङ्खा स्त्री शूकशिम्ब्यां स्यात् सन्धौ नृत्ये गतेर्भिदि ॥ १७४२ ॥
1742 · p. 303
अनुष्टुप्
वीचिः स्त्रीपुंसयोः स्वल्पतरङ्गे किरणाल्पयोः ।अवकाशे सुखे भंगे वीची वीचिरिमावपि ॥ १७४३ ॥
1743 · p. 303
अनुष्टुप्
बीजं शुक्रेऽङ्कुरे मन्त्रे कारणे गणितान्तरे ।तत्त्वाधाने बीजकस्तु सर्जके मातुलुंगके ॥ १७४४ ॥
1744 · p. 304
अनुष्टुप्
वीजनं व्यजने क्लीवं पुमान् कोक-चकोरयोः ।वीजी पितरि ना बीजविशिष्टे त्वभिधेयवत् ॥ १७४५ ॥
1745 · p. 304
अनुष्टुप्
सुसज्जीकृतताम्बूले वीटी वीटिश्च वीटिका ।विपञ्ची-विद्युतोर्वीणावीतः शान्तगते त्रिषु ॥ १७४६ ॥
1746 · p. 304
अनुष्टुप्
वीतरागो जिने बुद्धे रागहीने त्वसौ त्रिषु ।वीतशोकोऽशोकवृक्षे शोकहीने त्वसौ त्रिषु ॥ १७४७ ॥
1747 · p. 304
अनुष्टुप्
वीतिः स्त्री प्रजने दीप्तौ भोजने धावने गतौ ।वीतिः पुमान् हये वीतिहोत्रो वह्नौ दिवाकरे ॥ १७४८ ॥
1748 · p. 304
अनुष्टुप्
गृहांगे वर्त्मनि श्रेण्यां वीथिर्वीथी च वीथिका ।वीध्रं व्योम्न्यनले वायौ निर्मले तु त्रिलिंगभाक् ॥ १७४९ ॥
1749 · p. 304
अनुष्टुप्
वीरं तु तगरो-शीर-काञ्जिकेषु विषौषधौ ।आरूके मरिचे पोटगल-पुष्करमूलयोः ॥ १७५० ॥
1750 · p. 305
अनुष्टुप्
वीरः पुंसि जिने विष्णौ हनूमति रसान्तरे ।करवीरे यज्ञवह्नावर्जुने सुभटे नटे ॥ १७५१ ॥
1751 · p. 305
अनुष्टुप्
लताकरञ्जे वाराहकन्द-तान्त्रिकभावयोः ।वाच्यलिंगस्त्वसौ श्रेष्ठ-वीराचारविशिष्टयोः ॥ १७५२ ॥
1752 · p. 305
अनुष्टुप्
वीरा स्त्रियां तामलकी-शिंशपाऽतिविषासु च ।पतिपुत्रवती-क्षीरकाकोली-कदलीष्वपि ॥ १७५३ ॥
1753 · p. 305
अनुष्टुप्
एलावालुक-गम्भारी-गृहकन्या-सुरासु च ।मुरो-दुम्बरिका-क्षीरविदारी-दुग्धिकास्वपि ॥ १७५४ ॥
1754 · p. 305
अनुष्टुप्
काकोदुम्बरिका-ब्राह्मी-विदारीष्वपि कीर्तिता ।काकिलाक्षे नदीसर्जे वह्नौ वीरतरुः पुमान् ॥ १७५५ ॥
1755 · p. 305
अनुष्टुप्
वीरभद्रोऽश्वमेधाश्वे वीरश्रेष्ठे त्रिदिग्गणे ।वीर्यं बले प्रभावे च शक्तौ चेतसि रेतसि ॥ १७५६ ॥
1756 · p. 306
अनुष्टुप्
दीप्तावतिशयोत्साहे वीक्ष्यं विस्मय-दृश्ययोः ।वीक्ष्यो ना लासके वाहे दर्शनीये त्वसौ त्रिषु ॥ १७५७ ॥
1757 · p. 306
अनुष्टुप्
वृकः शृगाले सरलद्रवे काके वकद्रुमे ।ईहामृगेऽनेकधूपे क्षत्रियेऽपि पुमानसौ ॥ १७५८ ॥
1758 · p. 306
अनुष्टुप्
अम्बष्ठायां वृका प्रोक्ता पाठायां तु वृकी मता ।वृजिनाश्चकुरे पुंसि कुटिले तु त्रिलिंगकः ॥ १७५९ ॥
1759 · p. 306
अनुष्टुप्
कल्मषे कुटिले रक्तचर्मण्यपि नपुंसकम् ।वृतिः स्त्री वेष्टने गुप्तौ वरणे प्रार्थनान्तरे ॥ १७६० ॥
1760 · p. 306
अनुष्टुप्
वृत्तं पद्ये चरित्रे च शास्त्रोक्ताचारपालने ।वृत्तस्त्रिषु दृढेऽतीते मृतेऽधीते च वर्तुले ॥ १७६१ ॥
1761 · p. 306
अनुष्टुप्
कृताऽऽवृतौ च कूर्मे तु पुल्लिंगोऽथ स्त्रियामसौ ।प्रियंगौ मांसरोहिण्यां रेणुका-झिञ्झिरिष्टयोः ॥ १७६२ ॥
1762 · p. 307
अनुष्टुप्
शिरीषे कुब्जके वृत्तपुष्पो वानीर-नीपयोः ।वृत्तान्तः प्रक्रिया-भाव-कार्त्स्न्येष्वेकान्तवाचके ॥ १७६३ ॥
1763 · p. 307
अनुष्टुप्
वार्ताप्रभेदे संवादे प्रस्तावेऽवसरे तथा ।वृत्तिः स्त्रियां विवरणे जीविकायां प्रवर्तने ॥ १७६४ ॥
1764 · p. 307
अनुष्टुप्
कौशिक्यादौ च विधृतौ वार्तायामपि कीर्तिता ।वृत्रः पुरन्दरे मेघे सपत्ने दानवान्तरे ॥ १७६५ ॥
1765 · p. 307
अनुष्टुप्
शैलभेदेऽन्धकारे च शब्देऽपि कथितः क्वचित् ।वृत्तं प्रसवबन्धे स्याद् घटीधारा-कुचाग्रयोः ॥ १७६६ ॥
1766 · p. 307
अनुष्टुप्
वृन्दारकः पुंसि यूथपातरि त्रिदशे स्मृतः ।त्रिलिंगः सुन्दरे श्रेष्ठे वृशो वासक उन्दरौ ॥ १७६७ ॥
1767 · p. 307
अनुष्टुप्
वृश्चिकः शूककीटेऽलौ कर्कटे भेषजानतरे ।आग्रहायणिके हाले हालिके मदनद्रुमे ॥ १७६८ ॥
1768 · p. 308
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
राशौ गोमयकीटे ना नखपर्ण्यां स्त्रियामसौ ।वृषो ना वृषभे धर्मे मूषिके शुक्रले रिपौ ॥ १७६९ ॥
1769 · p. 308
अनुष्टुप्
श्रीकृष्णे मदने वास्तुस्थानभेदे च वासके ।वलिष्ठ ऋषभौषध्यां श्रेष्ठे चोत्तरसंस्थिते ॥ १७७० ॥
1770 · p. 308
अनुष्टुप्
वृषध्वजो हरे विघ्नराजे च पुण्यकर्मणि ।वृषपर्वा शिवे दैत्यभेदे भृङ्गारुपादपे ॥ १७७१ ॥
1771 · p. 308
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
वृषभो ना बलीवर्द-वैदर्भीरीतिभेदयोः ।आद्यतीर्थंकरे श्रेष्ठे कर्णरन्ध्रेऽगदान्तरे ॥ १७७२ ॥
1772 · p. 308
अनुष्टुप्
वृषलोऽधार्मिके शूद्रे चन्द्रगुप्तनृपे हये ।शूद्र्यां सार्तवकन्यायां वृषली परिकीर्त्यते ॥ १७७३ ॥
1773 · p. 309
अनुष्टुप्
वृषा पुमान् शुनाशीरे वेदनाज्ञान-दुःखयोः ।घोटके श्रवणे भद्रे कपिकच्छ्वां वृषा स्त्रियाम् ॥ १७७४ ॥
1774 · p. 309
अनुष्टुप्
वृशाकपायी गौरी-श्री-शची-स्वाहासु कीर्तिता ।वृषाकपिः शिवे विष्णौ शक्रे वैश्वानरे पुमान् ॥ १७७५ ॥
1775 · p. 309
अनुष्टुप्
वृषाङ्कः शंकरे षण्डे साधौ भल्लातके स्मृतः ।वृष्णिः कृष्णे यदौ गोपे मेषे पाषण्ड-चण्डयोः ॥ १७७६ ॥
1776 · p. 309
अनुष्टुप्
बृहती स्त्री वारिधानी-भण्टाकी-महतीषु च ।संव्याने कण्टकारी-वाक्-छन्दोभेदेषु कीर्तिता ॥ १७७७ ॥
1777 · p. 309
अनुष्टुप्
कटुतुम्बी-महाजम्बू-कूष्माण्डीषु बृहत्फला ।इन्द्रे मन्त्रे यज्ञपात्रे सामांशेऽपि बृहद्रथः ॥ १७७८ ॥
1778 · p. 309
अनुष्टुप्
बृहन्नलो गुडाकेशे महानड उदुम्बरे ।वृक्षादनो मधुच्छत्रे कुठारे वृक्षभेदिनि ॥ १७७९ ॥
1779 · p. 310
अनुष्टुप्
प्रियाले पिप्पलेऽसौ स्त्री विदारीकन्द-वन्दयोः ।वेगो महाकालफले जवे रेतः-प्रवाहयोः ॥ १७८० ॥
1780 · p. 310
अनुष्टुप्
वेगी शशादने जंघाकरिके च त्रिलिंगकः ।वेडा स्त्री नावि वेडं तु सान्द्रविच्छिन्नचन्दने ॥ १७८१ ॥
1781 · p. 310
अनुष्टुप्
वेणिः स्त्रियां विहरिणीबद्धकेशे जलोच्चये ।वेणी स्त्री देवताऽद्रौ प्रवाहे सरिदन्तरे ॥ १७८२ ॥
1782 · p. 310
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रवेण्यामथ वेणुर्ना वंशे वंश्यां नृपान्तरे ।वेतनं जीवनोपाये रुप्य-कर्मण्ययोरपि ॥ १७८३ ॥
1783 · p. 310
अनुष्टुप्
वेतालो मल्लभेदे स्यात् द्वास्थे शिवगणाधिपे ।भूताधिष्ठितकुपणे वेत्रोऽसुर-सुदण्डयोः ॥ १७८४ ॥
1784 · p. 310
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ष्ठि (wrong syllable)
वेदो नारायणे वृत्ते यज्ञाङ्काऽऽम्नाययोरपि ।वेदना स्त्री परिणयेऽनुभवे ज्ञान-दुःखयोः ॥ १७८५ ॥
1785 · p. 311
अनुष्टुप्
वेदिः पुमान् बुधे वेदिर्वेदी स्त्री संस्कृतावनौ ।अपि चांगुलिमुद्रायां सरस्वत्यामपि स्मृता ॥ १७८६ ॥
1786 · p. 311
अनुष्टुप्
वेदी पुमान् कोविदे स्याद् ब्रह्मणि ज्ञातरि त्रिषु ।वेधो व्यधे गभीरत्वे वेधकं धान्यके मतम् ॥ १७८७ ॥
1787 · p. 311
अनुष्टुप्
चन्द्रेऽम्लवेतसे पुंसि वेधकर्तरि तु त्रिषु ।वेधनी मेथिका-हस्ति-कर्णवेधनशस्त्रयोः ॥ १७८८ ॥
1788 · p. 311
अनुष्टुप्
वेधा ब्रह्मणि गोविन्दे सहस्रांशौ विपश्चिति ।अनन्तपुत्रे श्वेतार्कपादपेऽपि पुमानयम् ॥ १७८९ ॥
1789 · p. 311
अनुष्टुप्
वेरं कुंकुम-वार्ताकु-शरीरेषु नपुंसकम् ।बेला क्षणादिसमये मर्यादा-दन्तमांसयोः ॥ १७९० ॥
1790 · p. 311
अनुष्टुप्
अक्लिष्टमरणे वाचि रोगे रागे बुधस्त्रियाम् ।अब्ध्यम्बुविकृतौ सिन्धुकूले चेश्वरभोजने ॥ १७९१ ॥
1791 · p. 312
अनुष्टुप्
वेल्लमस्त्री विडङ्गे स्याद् गमने तु पुमानसौ ।वेल्लनं लुण्ठनेऽश्वादेः रोढी निर्माणदारुणि ॥ १७९२ ॥
1792 · p. 312
अनुष्टुप्
वेल्लितं गमने क्लीवं कुटिले कम्पिते त्रिषु ।वेशः प्रवेशे नेपथ्ये वेश्यावेश्मनि सद्मनि ॥ १७९३ ॥
1793 · p. 312
अनुष्टुप्
वेशको भवने पुंसि त्रिलिंगो वेशकारके ।वेशन्तः पल्लवे वह्नौ वेशरोऽश्वरतेऽपि च ॥ १७९४ ॥
1794 · p. 312
अनुष्टुप्