कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthodayasāgarakoṣa

नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa

2,302 verses · text only, tagging comes next

Part 2 (2/20)

इन्द्रिये धनुरभ्यासवस्तुन्याकर्षणेऽपि च ।आकल्पो मण्डने वेषे रोग-कल्पनयोः पुमान् ॥ १२२ ॥
122 · p. 24
अनुष्टुप्
आक्रन्दो रोदने नाथे भ्रातर्याह्वानमित्रयोः ।ध्वनौ दारुण-संग्रामे पार्ष्णिग्राहात्परे नृपे ॥ १२३ ॥
123 · p. 24
अनुष्टुप्
आखुश्चौरे देवतालवृक्षे शूकर उन्दुरौ ।आग्रहो ग्रहणासक्त्योराक्रमेऽनुग्रहे पुमान् ॥ १२४ ॥
124 · p. 24
अनुष्टुप्
आडम्बरस्तु पटहे तुर्ये कुञ्जरगर्जिते ।आरम्भे पक्ष्मणि क्रोधे भुजंगे सम्मदे पुमान् ॥ १२५ ॥
125 · p. 24
अनुष्टुप्
आढ्यस्त्रिलिंगो धनिके विशिष्टेपि च वाच्यवत् ।आतङ्कः पुंसि शंकायां सन्तापे मुरजध्वनौ ॥ १२६ ॥
126 · p. 24
अनुष्टुप्
आमये ज्वर आणिस्तु सीम्न्यऽश्र्यऽक्षाग्रकीलयोः ।आत्मभूर्ब्रह्मणि शिवे कन्दर्पे गरुडध्वजे ॥ १२७ ॥
127 · p. 24
अनुष्टुप्
आत्मा जीवे धृतौ बुद्धौ पुत्रे ब्रह्मणि मानसे ।यत्ने स्वभावे मार्तण्डे परव्यावर्तनेऽनले ॥ १२८ ॥
128 · p. 25
अनुष्टुप्
आदर्शः पुंसि टीकायां दर्पणे प्रतिपुस्तके ।अष्टापदस्तु शरभे लूतायां कीलके कृमौ ॥ १२९ ॥
129 · p. 25
अनुष्टुप्
कैलासपर्वते चन्द्रमल्ल्यां शाखामृगे पुमान् ।असत् मूर्खेऽविद्यमानेऽनित्येऽसाधौ च निष्फले ॥ १३० ॥
130 · p. 25
अनुष्टुप्
निन्दिते जडवर्गेऽपि त्रिष्वसन् पुंसि वासवे ।असितः कृष्णपक्षे च कृष्णवर्णे शनिग्रहे ॥ १३१ ॥
131 · p. 25
अनुष्टुप्
अस्त्वव्ययमसूयायां पीडा-स्वीकारयोरपि ।अहाऽव्ययं प्रशंसायां नियोगे निग्रहेऽसने ॥ १३२ ॥
132 · p. 25
अनुष्टुप्
अहहेत्यद्भूते खेदे परिक्लेश-प्रकर्षयोः ।अहिर्विधुन्तुदे सूर्ये पथिके वृत्र-सर्पयोः ॥ १३३ ॥
133 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्भू (wrong syllable)
अहोऽव्ययं प्रशंसायां संबोधन-विषादयोः ।न्यक्कार-विस्मयाऽसूयावितर्क-पदपूरणे ॥ १३४ ॥
134 · p. 26
अनुष्टुप्
अक्षं सौवर्चले तुत्थ इन्द्रियेऽपि नपुंसकम् ।अक्षो रुद्राक्ष इन्द्राक्षे शकटे सर्पचक्रयोः ॥ १३५ ॥
135 · p. 26
अनुष्टुप्
पाशके गरुडे ज्ञाने ज्ञातार्थे रावणात्मजे ।कर्ष आत्मनि जातान्धे व्यवहारे बिभीतके ॥ १३६ ॥
136 · p. 26
अनुष्टुप्
आवापो वलये पात्रे परिक्षेपाऽऽलवालयोः ।निम्नोन्नतावनौ भाण्डपचने शत्रु-चिन्तने ॥ १३७ ॥
137 · p. 26
अनुष्टुप्
संयोजने पानभेदे बीजवापोग्रयज्ञयोः ।आविर्भावः प्रकाशे स्याद् देवावतरणेऽपि च ॥ १३८ ॥
138 · p. 26
अनुष्टुप्
आविर्भूतो जन्मयुक्तेऽवतीर्णे च प्रकाशिते ।आविर्भावविशिष्टे च त्रिलिंगोऽयमधिष्ठिते ॥ १३९ ॥
139 · p. 27
अनुष्टुप्
आवेशो भूतसंचारेऽहंकाराभिनिवेशयोः ।अपस्मारे तथाऽऽसक्तौ संरम्भेऽपि पुमान् स्मृतः ॥ १४० ॥
140 · p. 27
अनुष्टुप्
आवेशनं शिल्पिगृहे भूतावेश-प्रवेशयोः ।अमर्षे परिवेशे चाऽप्याशादिग्दीर्घतृष्णयोः ॥ १४१ ॥
141 · p. 27
अनुष्टुप्
आशयः पनसेऽजीर्णेऽदृष्टेऽभिप्रायचेतसोः ।कोष्ठागारे किम्पचाने विभवाधारयोरपि ॥ १४२ ॥
142 · p. 27
अनुष्टुप्
आश्रमो ब्रह्मचर्यादिचतुष्के कानने मठे ।आश्रयो व्यपदेशे च सामीप्याधारयोरपि ॥ १४३ ॥
143 · p. 27
अनुष्टुप्
राज्ञां गुणान्तरे गेहे पुंसि संश्रयणेऽपि च ।आसंगं क्लीबमासक्तौ सौराष्ट्रमृदि सन्तते ॥ १४४ ॥
144 · p. 28
अनुष्टुप्
आसत्तिः संगमे लाभे पदसन्निधिकारणे ।आसनं कुञ्जरस्कन्धदेशे यात्रानिवर्तने ॥ १४५ ॥
145 · p. 28
अनुष्टुप्
राज्ञां गुणान्तरे पीठे योगांगेऽपि नपुंसकम् ।आसनो ना जीवकद्रौ स्यात् स्त्रियां विपणौ स्थितौ ॥ १४६ ॥
146 · p. 28
अनुष्टुप्
आसन्दी लघुखट्वायां नासन्नो निकटे त्रिषु ।आसारो धारासम्पाते सैन्यव्याप्तौ सुहृद्बले ॥ १४७ ॥
147 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
आस्कन्दनं शोषणेऽपि तिरस्कारे रणे त्रिषु ।आस्था स्त्री यत्न आस्थानेऽपेक्षाऽऽलम्बनयोरपि ॥ १४८ ॥
148 · p. 28
अनुष्टुप्
आस्पदं प्रभुताकृत्यस्थानेषु स्यान्नपुंसकम् ।आहतो गुणिते ज्ञाते मिथ्योक्ते ताडिते त्रिषु ॥ १४९ ॥
149 · p. 29
अनुष्टुप्
आह्निकं भोजने नित्यकृत्य-ग्रन्थविभागयोः ।आक्षेपो निन्दने काव्यालंकारे भर्त्सने पुमान् ॥ १५० ॥
150 · p. 29
अनुष्टुप्
निन्दकव्याधयोस्त्रिष्वाक्षेपको नाऽनिलाऽऽमये ।इज्या दानेऽध्वरे संगे कुट्टन्यां गवि पूजने ॥ १५१ ॥
151 · p. 29
अनुष्टुप्
इडा भूमौ गवि स्वर्गे वाङ्नाड्योर्बुधयोषिति ।हेतौ प्रकारे प्रकाश इति प्रकरणेऽव्ययम् ॥ १५२ ॥
152 · p. 29
अनुष्टुप्
आदौ समाप्तौ निदर्शे परकृत्यनुकर्षयोः ।त्रिष्वित्वरः क्रूरकृत्ये दुर्विधेऽध्वग-नीचयोः ॥ १५३ ॥
153 · p. 29
अनुष्टुप्
इद्धं नपुंसकं दीप्तौ विस्मयाऽऽतपयोरपि ।त्रिषु स्यान्निर्मलेऽपीध्ममग्निदीपनदारुणि ॥ १५४ ॥
154 · p. 30
अनुष्टुप्
इनो नृपान्तरे सूर्ये प्रभौ पत्यावपीष्यते ।इन्दिन्दिरो द्विरेफः स्यादिन्दिरा मन्दिरे हरौ ॥ १५५ ॥
155 · p. 30
अनुष्टुप्
इन्दुः सुधांशौ कर्पूर इन्दुरोऽपि च मूषिके ।इन्द्रः पुमान् देवराजे कुटजे परमेश्वरे ॥ १५६ ॥
156 · p. 30
अनुष्टुप्
उपद्वीपान्तरे सूर्ये रजन्यामन्तरात्मनि ।इन्द्रकोषस्तु निर्यूहे पर्यङ्केऽपि तमङ्गके ॥ १५७ ॥
157 · p. 30
अनुष्टुप्
इन्द्राणी सेन्दुवारे स्याद् दुर्गायां मातृकान्तरे ।शची स्त्रीकरण-स्थूल-सूक्ष्मैलासु प्रयुज्यते ॥ १५८ ॥
158 · p. 30
अनुष्टुप्
इरा भूमौ सरस्वत्यां वाक्ये सलिल-मद्ययोः ।कश्यपस्त्रीविशेषेऽपि गोभूवाक्येष्विला स्त्रियाम् ॥ १५९ ॥
159 · p. 30
अनुष्टुप्
इषीका तूलिका-काशतृण-हस्त्यक्षिगोलके ।इष्टं यथेप्सिते क्लीबं संस्कारे यज्ञकर्मणि ॥ १६० ॥
160 · p. 31
अनुष्टुप्
इष्टिर्यागेऽभिलाषेऽपि श्लोकसंग्रहणे स्त्रियाम् ।ईतिः प्रवासे स्त्री डिम्बकृष्युपद्रवषड्कयोः ॥ १६१ ॥
161 · p. 31
अनुष्टुप्
ईशा लांगलदण्डे स्त्री दुर्गायामपि कीर्त्यते ।ईश्वरः शिव-कन्दर्पकेशवैश्वर्यशालिषु ॥ १६२ ॥
162 · p. 31
अनुष्टुप्
ईश्वरा पार्वती-लक्ष्मी-सरस्वत्यादिशक्तिषु ।उग्रः केरलदेशेऽपि शोभाञ्जनतरौ शिवे ॥ १६३ ॥
163 · p. 31
अनुष्टुप्
उग्रगन्धस्तु लशुने चम्पकेऽर्जकपादपे ।कट्फले च पुमानुक्तस्त्रिषु तूत्कटगन्धिनि ॥ १६४ ॥
164 · p. 32
अनुष्टुप्
उग्रगन्धाऽजगन्धायां यवान्यां चिक्किकौषधौ ।वचायामजमोदायामुग्रगन्धा स्त्रियां मता ॥ १६५ ॥
165 · p. 32
अनुष्टुप्
उग्रा वचायां धान्याके उग्रजातिस्त्रियामपि ।तीव्रस्वभावयोषायां यवन्यां छिक्किकौषधौ ॥ १६६ ॥
166 · p. 32
अनुष्टुप्
उचितं विदिते न्यस्ते ग्राह्ये परिमिते युते ।उच्चता चक्रलागुञ्जाचर्यादम्भेषु कीर्तिता ॥ १६७ ॥
167 · p. 32
अनुष्टुप्
भूम्यामलक्यां नादेयी लशुनान्तरयोः स्त्रियाम् ।उच्छ्रितं त्रिषु संजाते समुन्नद्ध-प्रवृद्धयोः ॥ १६८ ॥
168 · p. 32
अनुष्टुप्
उच्चे त्यक्तेऽथोडुपोऽस्त्री मेलके चन्दिरे पुमान् ।उत्कटविषमे तीव्रे मत्ते त्रिषु गुडत्वचि ॥ १६९ ॥
169 · p. 32
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 ट (wrong syllable)
उत्कटो मदसंजातमदकुञ्जरयोः शरे ।उत्कण्ठा कलिका-हेला-वीचिषूत्कलिका स्त्रियाम् ॥ १७० ॥
170 · p. 33
अनुष्टुप्
उत्तालो मर्कटे श्रेष्ठे करालत्वरितोत्कटे ।उत्थानं पौरुषे युद्धे सैन्ये पुस्तक उद्गमे ॥ १७१ ॥
171 · p. 33
अनुष्टुप्
वास्त्वन्ते हर्ष उद्योगो गात्रोत्तोलन-चैत्ययोः ।मालोत्सर्गेऽङ्गने तन्त्रे सन्निविष्टेऽपि दृश्यते ॥ १७२ ॥
172 · p. 33
अनुष्टुप्
उत्पलं नीलकमले कुष्ठौषध-हिमाब्जयोः ।पुष्पे कुवलये क्लीबमांसशून्ये त्रिलिङ्गकम् ॥ १७३ ॥
173 · p. 33
अनुष्टुप्
उत्प्रेक्षाऽनवधाने च काव्यालंकरणान्तरे ।उत्सर्गो वर्जने त्यागे सामान्यविधि-दानयोः ॥ १७४ ॥
174 · p. 33
अनुष्टुप्
उत्साह उद्यमे सूत्रे कल्याणे ध्रुवकान्तरे ।क्षेपणं तालवृन्ते स्याद् धान्यमर्दनवस्तुनि ॥ १७५ ॥
175 · p. 34
अनुष्टुप्
ऊर्ध्वप्रक्षेपणे क्लीबं पणे षोडशकेऽपि च ।उदन्तः पुंसि वृत्तान्ते साधो स्याद्वृत्तिजायने ॥ १७६ ॥
176 · p. 34
अनुष्टुप्
उदयो मंगले दीप्तावुदयाद्रौ समुन्नतौ ।उदर्क आगामिकालफले मदनकण्टके ॥ १७७ ॥
177 · p. 34
अनुष्टुप्
त्रिषूदात्तो दयायुक्ते हृद्ये महति दातरि ।त्यागिन्यप्यथ दानेऽपि स्वरवाद्यान्तरे पुमान् ॥ १७८ ॥
178 · p. 34
अनुष्टुप्
उदान उदरावर्त्ते पक्ष्म सर्पविशेषयोः ।पुंलिङ्गो नाभिदेशे स्यात् कण्ठदेशस्थमारुते ॥ १७९ ॥
179 · p. 34
अनुष्टुप्
उदारो दातृमहतोः दक्षिणेऽपि त्रिलिङ्गकः ।उदास्थितः पुमान्नष्टसंन्यास-द्वारपालयोः ॥ १८० ॥
180 · p. 34
अनुष्टुप्
अध्यक्षे गूढपुरुषेऽथोद्गारः कण्ठगर्जने ।शब्द उद्वमने चाथोद्ग्राहो विद्याविचारणे ॥ १८१ ॥
181 · p. 34
अनुष्टुप्
उद्घाटनं घटीयन्त्र उत्तोलन-विकासयोः ।उद्घातो मुद्गरे तुङ्गारम्भयोः समुपक्रमे ॥ १८२ ॥
182 · p. 35
अनुष्टुप्
शास्त्रे ग्रन्थपरिच्छेदे चरणस्खलने पुमान् ।उद्दानं वाडवे चुल्ल्यां बंधने मध्यलग्नयोः ॥ १८३ ॥
183 · p. 35
अनुष्टुप्
उद्दामो वरुणे पुंसि स्वतन्त्रे महति त्रिषु ।उद्धवो यज्ञवह्नौ स्यादुत्सवे यादवान्तरे ॥ १८४ ॥
184 · p. 35
अनुष्टुप्
उद्भटः कच्छपे सूर्ये महेच्छे प्रवरे त्रिषु ।उद्यानं क्लीबमाक्रीडे निर्गमे च प्रयोजने ॥ १८५ ॥
185 · p. 35
अनुष्टुप्
उद्रस्तु जलमार्जारेऽथोद्रेकौ वृद्ध्युपक्रमौ ।उद्वर्तनं स्याद्विलेपे घर्षणोत्पातयोः ॥ १८६ ॥
186 · p. 35
अनुष्टुप्metre not read in every line
उन्माथः कूटयन्त्रे स्यान्मारणे घातके पुमान् ।उन्मादश्चित्तविभ्रान्तौ मनोरोगान्तरेपि च ॥ १८७ ॥
187 · p. 36
अनुष्टुप्
उपकण्ठन्तु निकटे ग्रामान्ते शीतगौ तु ना ।कण्ठान्तिकास्कन्दितयोः क्लीबं हि सविधे पुमान् ॥ १८८ ॥
188 · p. 36
अनुष्टुप्
उपकारिकोपकर्त्र्यां कुशूले राजवेश्मनि ।उपक्रमश्चिकित्सायां ज्ञात्वारम्भे पलायने ॥ १८९ ॥
189 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
उपधा-प्रथमारम्भ-विक्रमेषु पुमानयम् ।उपतापोऽशुभे रोगे पीडोत्ताप-त्वरासु च ॥ १९० ॥
190 · p. 36
अनुष्टुप्
उपदंशो मेढ्ररोगविशेषे मद्यप्राशने ।उपदेशस्तु दीक्षायां शिक्षायां हितभाषणे ॥ १९१ ॥
191 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 द्य (wrong syllable)
उपधानं विषे गण्डौ व्रतप्रणययोरपि ।उपपत्तिः समाधाने सिद्धान्ते निर्वृतावपि ॥ १९२ ॥
192 · p. 36
अनुष्टुप्
हेतौ युक्तौ संगतौ च स्त्रियां सद्भिरुदाहृता ।उपरागः पुमान् राहुग्रस्ते चन्दिरसूर्ययोः ॥ १९३ ॥
193 · p. 37
अनुष्टुप्
दुर्णये ग्रहकल्लोले परीवाद-विगानयोः ।व्यसनेऽथोपसर्गस्तु रोगभेद उपप्लवे ॥ १९४ ॥
194 · p. 37
अनुष्टुप्
उपस्थो निकटे लिंगे भगे क्रोडे गुदेऽपि च ।उपस्थितः समीपस्थे मृष्ट-शोधितयोस्त्रिषु ॥ १९५ ॥
195 · p. 37
अनुष्टुप्
उपाधिर्धर्मचिन्तायां कुटुम्बव्यापृते छले ।विशेषणे नामचिह्नेऽथोपायः साधने पुमान् ॥ १९६ ॥
196 · p. 37
अनुष्टुप्
स्वार्थसम्पादके सामादिचतुष्के गतावपि ।शुश्रूषाऽऽसनहिंसासु बाणाभ्यास उपासनम् ॥ १९७ ॥
197 · p. 38
अनुष्टुप्
उमा दुर्गाऽसती-कान्ति-हरिद्रा-कीर्तिषु स्त्रियाम् ।उष्णीषोऽस्त्री शिरोवेष्टे चिह्नान्तर-किरीटयोः ॥ १९८ ॥
198 · p. 38
अनुष्टुप्
ऊतिर्लीलाजवनयोः स्यूतौ क्षारणरक्षणे ।ऊर्जो बल-प्राणनयोरुत्साहे कार्तिके पुमान् ॥ १९९ ॥
199 · p. 38
अनुष्टुप्
ऊर्णा भ्रुवोरन्तरालाऽऽवर्त्ते मेषादिलोमनि ।ऊर्णायुरूर्णनामे स्यान्मेषे तल्लोमकम्बले ॥ २०० ॥
200 · p. 38
अनुष्टुप्
ऊर्मिः स्त्रीपुंसयोः पीडावस्त्रसंकोच-रेखयोः ।तरङ्गोत्कण्ठयोर्वेगे प्रकाशेऽथोर्मिका मुदि ॥ २०१ ॥
201 · p. 38
अनुष्टुप्
वीच्युत्कण्ठा भृङ्गनाद-भृङ्गेष्वप्यंगुलीयके ।ऋतमुञ्छशिले सत्ये जले त्रिष्वर्च्यदीप्तयोः ॥ २०२ ॥
202 · p. 38
अनुष्टुप्
ऋतिर्वर्त्मनि कल्याणे जुगुप्सा-स्पर्द्धयोर्गतौ ।ऋतुः स्त्री-कुसुमे दीप्तौ मासे सुग्रीवकालयोः ॥ २०३ ॥
203 · p. 39
अनुष्टुप्
ऋद्धं समृद्धे सम्पन्नधान्य-सिद्धान्तयोरपि ।ऋद्धिः समृद्धौ पार्वत्यां सिद्धिनामौषधे स्त्रियाम् ॥ २०४ ॥
204 · p. 39
अनुष्टुप्
ऋभुक्षः पुंसि कुलिशे सुरलोके पुरन्दरे ।ऋषभः पुंसि वृषभे कर्णरन्ध्रे स्वरान्तरे ॥ २०५ ॥
205 · p. 39
अनुष्टुप्
आदितीर्थङ्करे विष्णोरवतारान्तरेऽपि च ।वराहपुच्छकुम्भीरपुच्छयोः पर्वतान्तरे ॥ २०६ ॥
206 · p. 39
अनुष्टुप्
श्रेष्ठोऽप्यौषधभेदे स्यात्तथैवेप्सितवर्षिणि ।ऋषिः पुंसि मुनौ वेदे ज्ञान-संसारपारगे ॥ २०७ ॥
207 · p. 39
अनुष्टुप्
एकः साधारणे स्वल्पे केवले प्रथमाऽन्ययोः ।प्रधानेऽप्यादिसंख्यायां विद्वद्भिस्त्रिषु कीर्त्यते ॥ २०८ ॥
208 · p. 40
अनुष्टुप्
एडमूकः शठे मूके बधिरेऽपि त्रिलिङ्गकः ।एनः पापे च निन्दायामपराधे नपुंसकम् ॥ २०९ ॥
209 · p. 40
अनुष्टुप्
ऐन्द्रिः पुमान् जयन्ते स्याद् बालिन्यर्जुन-काकयोः ।ऐन्द्री स्त्रियां शची दुर्गाऽलक्ष्मीपूर्वदिशासु च ॥ २१० ॥
210 · p. 40
अनुष्टुप्
एलायामिन्द्रवारुण्यामैन्द्रज्येष्ठावनार्द्रयोः ।ऐरावतः पुमान् इन्द्रकुञ्जरे पूर्वदिग्गजे ॥ २११ ॥
211 · p. 40
अनुष्टुप्
लकुचद्रौ नागरंगे क्लीबन्त्विन्द्रायुधे मतम् ।ऐरावती सरिद्भेदे वटपत्रीतरावपि ॥ २१२ ॥
212 · p. 40
अनुष्टुप्
ऐरावतस्त्रियां विद्युद्विशेषे तडिति स्त्रियाम् ।ओकमोको गृहे क्लीबमाश्रये यूक ओकणिः ॥ २१३ ॥
213 · p. 41
अनुष्टुप्
ओघः पुंस्युपदेशे स्यात् समूहे जलवेगयोः ।परम्पायां शीघ्रनृत्य-गीतवाद्येऽपि कीर्त्यते ॥ २१४ ॥
214 · p. 41
अनुष्टुप्
ओजः प्रकाशेऽवष्टम्भे बले दीप्तौ नपुंसकम् ।ओड्रो देशविशेषे स्याद् जपापुष्पतरौ पुमान् ॥ २१५ ॥
215 · p. 41
अनुष्टुप्
औशीरं चामरे दण्डे नपुंसकमुशीरजे ।शयनासन औशीरः पुमान् चामरदण्डके ॥ २१६ ॥
216 · p. 41
अनुष्टुप्
कंसोऽस्त्री तैजसद्रव्ये पान-भाजन-कांस्ययोः ।परिमाणविशेषेऽथ कंसः श्रीकृष्णमातुलो ॥ २१७ ॥
217 · p. 41
अनुष्टुप्
ककुदो राजचिह्नेऽस्त्री प्राधान्यवृषभाङ्गयोः ।शैलाग्रेऽथ वृषे शैले ककुद्मानृषभौषधौ ॥ २१८ ॥
218 · p. 41
अनुष्टुप्
ककुप् चम्पकमाला-दिक्प्रवेणीशास्त्रदीप्तिषु ।ककुभो रागभेदेऽपि वीणाग्रेऽर्जुनपादपे ॥ २१९ ॥
219 · p. 42
अनुष्टुप्
कङ्कश्छद्मद्विजे कंसासुरभ्रातरि बाहुजे ।लोहपृष्ठे महाराजचूते पुंसि युधिष्ठिरे ॥ २२० ॥
220 · p. 42
अनुष्टुप्
कङ्कणं करभूषायां हस्तसूत्रेऽपि मण्डने ।शेखरे चाथ किङ्किण्यां कङ्कणीत्युच्यते स्त्रियाम् ॥ २२१ ॥
221 · p. 42
अनुष्टुप्
स्त्रियां कङ्कतिका नागवलायां केशमार्जने ।कंकालः पुंसि देहास्थिपञ्जरे सद्भिरुच्यते ॥ २२२ ॥
222 · p. 42
अनुष्टुप्
कचः शुष्कव्रणे केशे बृहस्पतिसुते घने ।कच्छो जलाशयप्रान्तदेशनौकाङ्गयोः पुमान् ॥ २२३ ॥
223 · p. 42
अनुष्टुप्
परिधानाञ्चले तुन्नवृक्षेऽनूपस्थलेऽपि च ।कच्छपो मदिरायन्त्रविशेष-निधिभेदयोः ॥ २२४ ॥
224 · p. 42
अनुष्टुप्
मल्लबन्धान्तरे कूर्मे नन्दीवृक्षे पुमान् स्मृतः ।कच्छपी भारती वीणा कूर्मीकच्छपिकागदे ॥ २२५ ॥
225 · p. 42
अनुष्टुप्
कच्छुरा ग्राहिणीवृक्षे शूकशिम्बीयवासयोः ।शट्यां दुरालभायां स्त्रीकच्छुरः पामनि त्रिषु ॥ २२६ ॥
226 · p. 43
अनुष्टुप्
कञ्चिका वेणुशाखायां क्षुद्रस्फोटे स्त्रियां मता ।कञ्चुको वारबाणेऽस्त्री निर्मोके चोलकेपि च ॥ २२७ ॥
227 · p. 43
अनुष्टुप्
वर्द्धापकगृहीताङ्गवसने वस्त्रमात्रके ।कञ्चुकी सौविदल्ले स्यात् चणके यवसर्पयोः ॥ २२८ ॥
228 · p. 43
अनुष्टुप्
खिङ्गे जोङ्गकवृक्षे च पुमान् सद्भिरुदाहृतः ।कञ्जं पद्मेऽमृते कञ्जश्चिकुरे ब्रह्मणि स्मृतः ॥ २२९ ॥
229 · p. 43
अनुष्टुप्
कञ्जारः कुञ्जरे सूर्ये विरिञ्चौ जठरे मुनौ ।कटः किलिञ्जके हस्तिगण्डदेशश्मशानयोः ॥ २३० ॥
230 · p. 43
अनुष्टुप्
समयेऽतिशये पुंसि शवे शवरथे तृणे ।कटौ तक्षितकाष्ठेपि क्रियाकारे च भेषजे ॥ २३१ ॥
231 · p. 44
अनुष्टुप्
कटकोऽस्त्री नितम्बेऽद्रेः सानौ वलयचकयोः ।राजधान्यां नगरी-हस्तिदन्तमण्डनयोरपि ॥ २३२ ॥
232 · p. 44
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 च (wrong syllable)
सैन्ये सामुद्रलवणे पर्वतीयसमावनौ ।कटप्रूः शंकरे विद्याधरे कीटेऽक्षदेवने ॥ २३३ ॥
233 · p. 44
अनुष्टुप्
कटभंगस्तु शस्यानां हस्तच्छेदे नृपात्यये ।कटभी तरुभिज्ज्योतिष्मती कैडर्यपाडपे ॥ २३४ ॥
234 · p. 44
अनुष्टुप्
कटम्भरा राजवला-वर्षभू-रोहिणीषु च ।मूर्वा प्रासरणी-गोला-कलम्बी-हस्तिनीष्वपि ॥ २३५ ॥
235 · p. 44
अनुष्टुप्
कटाहो नरके कूपे कर्बुरे कूर्मकर्पूरे ।जायमानविषाणाग्रमहिषीशावकेऽर्भके ॥ २३६ ॥
236 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 र्पू (wrong syllable)
द्वीपप्रभेदे तैलादिपाकपात्रेऽपि कीर्तितः ।कटुः कट्वीलतायां स्यात् पटोले चम्पकद्रुमे ॥ २३७ ॥
237 · p. 45
अनुष्टुप्
पुमान् कटुरसे चीनकर्पूरेऽथ कटु स्त्रियाम् ।प्रियंगुवृक्ष-कटुकी-राजिकास्वथ मत्सरे ॥ २३८ ॥
238 · p. 45
अनुष्टुप्
तीक्ष्णेऽप्रिये कटुरसयुक्ते त्रिषु कटुः स्मृतः ।कणोऽतिसूक्ष्मे धान्यांशे पुंसि स्यवनजीरके ॥ २३९ ॥
239 · p. 45
अनुष्टुप्
कणा स्त्री पिप्पली-श्वेतजीरकाऽल्पेषु जीरके ।कणिकः शुष्कगोधूमचूर्णे शत्रौ कणे पुमान् ॥ २४० ॥
240 · p. 45
अनुष्टुप्
नीराजनविधौ स्यात्तु कणिका तण्डुलांशके ।अग्निमन्थकणाऽत्यन्तसूक्ष्मवस्तुषु कीर्तिता ॥ २४१ ॥
241 · p. 45
अनुष्टुप्