All kośas › Nānārthodayasāgarakoṣa
नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa
2,302 verses · text only, tagging comes next
Part 3 (3/20)
कण्टकोऽस्त्री क्षुद्रशत्रौ केन्द्ररोमाञ्चयोरपि ।नैयायिकादिदोषोक्तौ मत्स्याद्यस्थिद्रुमाङ्गयोः ॥ २४२ ॥
242 · p. 46
अनुष्टुप्
पुमांस्तु लोमहर्षे स्यात् रेणु सूच्यग्रभागयोः ।कर्मस्थाने क्षुद्रशत्रौ दोषे मकरकेन्द्रयोः ॥ २४३ ॥
243 · p. 46
अनुष्टुप्
कण्टकी वदरे मत्स्ये वंशे मदनपादपे ।गोक्षुरे खदिरे पुंसि स्त्रियां तु कङ्गणे मता ॥ २४४ ॥
244 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
पुमान् कण्टकफलः क्षुद्र गोक्षुरे पनसेऽपि च ।लता करञ्ज एरण्डे तेजः फलमहीरुहे ॥ २४५ ॥
245 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कण्ठो ग्रीवापुरोभागे त्रिलिंगो निकटे ध्वनौ ।पुमान् मदनवृक्षे स्यात् कुण्डाद्बाह्यस्थलेपि च ॥ २४६ ॥
246 · p. 46
अनुष्टुप्
कण्ठालः शूरणे गोणीप्रभेदे युद्धनौकयोः ।क्रमेलके खनित्रेऽथ कण्ठिका कण्ठभूषणौ ॥ २४७ ॥
247 · p. 46
अनुष्टुप्
कण्ठीरवः पुमान् सिंहे कपोते मत्तकुञ्जरे ।प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः ॥ २४८ ॥
248 · p. 47
अनुष्टुप्
कथाप्रसंगो वार्तायां वातूल-विषवैद्ययोः ।कदनं मारणे युद्धे मर्दे पापे नपुंसकम् ॥ २४९ ॥
249 · p. 47
अनुष्टुप्
प्रकाशांकुशयोः पुंसि कदर्यः कृपणे त्रिषु ।कदली स्त्री पताकायां रम्भायां हरिणान्तरे ॥ २५१ ॥
251 · p. 47
अनुष्टुप्
कनकः काञ्चनाले स्यात् लाक्षातरु-पलाशयोः ।धुस्तूरे चम्पके नागकेशरे कणगुग्गुले ॥ २५२ ॥
252 · p. 47
अनुष्टुप्
कालीये कासमर्दे च पुमान् क्लीवन्तु काञ्चने ।कन्था मृन्मयभित्तौ स्यात् स्त्रीलिंगः स्यूतकर्पटे ॥ २५३ ॥
253 · p. 47
अनुष्टुप्
कन्दमस्त्री शस्यमूले गृञ्जने शूरणे स्मृतम् ।योनिरोगान्तरे मेघे पुमानेव सदा मतः ॥ २५४ ॥
254 · p. 48
अनुष्टुप्
कन्दलन्तूपरागे स्यादपवादे नवांकुरे ।कलध्वनौ कपाले च त्रिलिंगोऽथ मृधे पुमान् ॥ २५५ ॥
255 · p. 48
अनुष्टुप्
कपाले तपनीयेऽथ कन्दली हरिणान्तरे ।पद्मबीजे वैजयन्त्यां रम्भा-गुल्मप्रभेदयोः ॥ २५६ ॥
256 · p. 48
अनुष्टुप्
कपिलः कुक्कुरे वह्नौ पिङ्गले सिह्लके मुनौ ।कपिला पुण्डरीकाख्यदिग्गजस्त्रीनदीभिदोः ॥ २५७ ॥
257 · p. 48
अनुष्टुप्
गृहकन्या भस्मगर्भा रेणुका राजरीतिषु ।गोविशेषेऽथ कपिशः पुमान् श्यावे च सिह्लके ॥ २५८ ॥
258 · p. 48
अनुष्टुप्
कपीतने गर्दभाण्डवृक्षेऽश्वत्थ-शिरीषयोः ।आम्रातके गुवाकद्रौ पुमान् बिल्वमहीरुहे ॥ २५९ ॥
259 · p. 49
अनुष्टुप्
कफः श्लेष्मणि हिण्डीरे लालायां कफकूर्चिका ।कमठः कच्छपे वंशे शल्लकीदैत्यभेदयोः ॥ २६० ॥
260 · p. 49
अनुष्टुप्
मुनीनां जलपात्रेऽथ प्लक्षे कुण्ड्यां कमण्डलुः ।कमलं सलिलो पद्मे क्लोम्नि भेषज-ताम्रयोः ॥ २६१ ॥
261 · p. 49
अनुष्टुप्
सारसे मृगभेदे तु कमलो ध्रुवकान्तरे ।कमला निम्बुके लक्ष्म्यां श्रेष्ठनार्यामपीष्यते ॥ २६२ ॥
262 · p. 49
अनुष्टुप्
कम्बलो रल्लके नागराज-प्रवारयोः कृमौ ।सास्नायामुत्तरासंगे मृगभेदे करस्त्वसौ ॥ २६३ ॥
263 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
नारिकेलास्थ्नि बकुले कोविदार-करीरयोः ।वर्षोपले स्त्रियां क्लीबं कमण्डलु-करङ्कयोः ॥ २६५ ॥
265 · p. 50
अनुष्टुप्
करटो दुर्दुरूटे स्याद् वायसे निन्द्यजीवने ।कुसुम्भे द्रविणे श्राद्धे वाद्यभेदेभगण्डयोः ॥ २६६ ॥
266 · p. 50
अनुष्टुप्
करणं साधने क्षेत्रे गात्रे कारण-कर्मणोः ।तिथियोगे हस्तलेपेन्द्रिय-गीत-क्रियास्वपि ॥ २६७ ॥
267 · p. 50
अनुष्टुप्
मुन्यासने च सुरते कायस्थे तु पुमानसौ ।करुणः करमर्दे ना स्याद्बुद्ध-रसभेदयोः ॥ २६८ ॥
268 · p. 50
अनुष्टुप्
कर्कटः पद्मकन्दे च तुम्ब्यां कर्के कुलीरके ।वृक्षभेदे पक्षिभेदे क्षुद्रधात्र्यां भुजंगमे ॥ २६९ ॥
269 · p. 50
अनुष्टुप्
कर्कशस्त्रिषु दुःस्पर्शे कृपणे साहसान्विते ।पुमानिक्षौ कासमर्दे खड्गे काम्पिल्य-पादपे ॥ २७० ॥
270 · p. 50
अनुष्टुप्
कर्कोटको नागराज इक्षौ बिल्बे सुगन्धके ।कर्णः कुन्तीसुते श्रोत्रे सुवर्णालिमहीरुहे ॥ २७१ ॥
271 · p. 51
अनुष्टुप्
कर्णिका कर्णभूषायां करिहस्तांगुलौ तथा ।पूगच्छतांशे लेखन्यामग्निमन्थे वराटको ॥ २७२ ॥
272 · p. 51
अनुष्टुप्
कलशो मण्डने वाटे खड्गकोशे च विग्रहे ।कला मूलधनोच्छ्राये शिल्पादावंशमात्रके ॥ २७३ ॥
273 · p. 51
अनुष्टुप्
चन्द्रषोडशभागे स्यादार्तवे कपटे तरौ ।कलिर्बिभीतके शूरे विवादेऽल्पयुगे रणे ॥ २७४ ॥
274 · p. 51
अनुष्टुप्
कलिका कोरके वीणामूले पदनिबन्धने ।कलितं घृत आप्ते च विदिते गणिते त्रिषु ॥ २७५ ॥
275 · p. 51
अनुष्टुप्
कलिंगः पूतिकरजे धूम्याटे प्लक्षपादपे ।शिरीषे कुटजे देशविशेषे भूम्नि पुंसि च ॥ २७६ ॥
276 · p. 51
अनुष्टुप्
कलिंगो भास्करे शैलविशेषे च बिभीतके ।कल्को बिभीतके दम्भ घृततैलादिशेषयोः ॥ २७७ ॥
277 · p. 52
अनुष्टुप्
अस्त्री पुरीषे कलुषे त्रिषु पापाशये स्मृतः ।कल्पो ब्राह्मदिने न्याये प्रलये विधिशास्त्रयोः ॥ २७८ ॥
278 · p. 52
अनुष्टुप्
विकल्पे कल्पवृक्षे च व्याकृतिप्रत्ययान्तरे ।कल्पनाऽनुमितौ हस्तिसज्जना-गुम्फयोः स्त्रियाम् ॥ २७९ ॥
279 · p. 52
अनुष्टुप्
कल्माषो राक्षसे श्यामे गन्धशालौ च कर्बुरे ।कल्यो निरामये सज्जे दक्षे वाक्श्रुतिवर्जिते ॥ २८० ॥
280 · p. 52
अनुष्टुप्
उपायवचने भद्रवचनेऽपि त्रिलिंगकः ।कल्याणं मंगले स्वर्णे त्रिलिंगस्तु शुभान्विते ॥ २८१ ॥
281 · p. 52
अनुष्टुप्
कल्लोलस्तु महावीच-हर्षयोस्त्रिषु वैरिणि ।कवचोऽस्त्री कन्दराले सन्नाहे पटहे स्तुते ॥ २८२ ॥
282 · p. 53
अनुष्टुप्
कविः काव्यकरे सूर्ये वाल्मीकिमुनि-शुक्रयोः ।विरिञ्चौ पण्डिते कल्किज्येष्ठभ्रातरि तस्करे ॥ २८३ ॥
283 · p. 53
अनुष्टुप्
कविका कवयीमीने खलीने केविका सुमे ।कश्यं मद्येऽश्वमध्येऽपि कशार्हे तु त्रिलिंगकः ॥ २८४ ॥
284 · p. 53
अनुष्टुप्
कश्यपो मद्यपे मत्स्य-मृगभेदे मरीचिके ।कषायोऽस्त्री पाचनादौ वङ्गरागे विलेपने ॥ २८५ ॥
285 · p. 53
अनुष्टुप्
निर्यासे तुवरेऽपि स्यात्त्रिषु तूवरवत्यपि ।पुमान् श्योनाकवृक्षे स्याद् रागे कलियुगे स्मृतः ॥ २८६ ॥
286 · p. 53
अनुष्टुप्
त्रिलिंगो लोहिते रक्त-पीत-मिश्रितवर्णके ।सुरभौ धववृक्षेऽथ कसिपुर्वसनान्नयोः ॥ २८७ ॥
287 · p. 54
अनुष्टुप्
कक्षस्तृणे बाहुमूले कच्छे वीरुधि कल्मषे ।वने शुष्कवने पार्श्वे भित्तौ शुष्कतृणे पुमान् ॥ २८८ ॥
288 · p. 54
अनुष्टुप्
कक्षा स्पर्द्धापदे काञ्च्यां भित्तौ गेहप्रकोष्ठके ।क्षुद्ररोगान्तरे साम्ये कक्ष्या स्पन्दन-भागयोः ॥ २८९ ॥
289 · p. 54
अनुष्टुप्
स्यात् कक्षावेक्षको रङ्गाजीव-शुद्धान्तपालयोः ।उद्यानरक्षके द्वारपालके कविषिङ्गयोः ॥ २९० ॥
290 · p. 54
अनुष्टुप्
कक्ष्या काञ्च्यां चर्मरज्जौ सादृश्येऽन्तर्गृहे स्त्रियाम् ।कक्षरज्जौ वरत्रायां गुञ्जायामुद्यमे स्मृता ॥ २९१ ॥
291 · p. 54
अनुष्टुप्
काकोऽतिधृष्टे तिलके वायसे पादपान्तरे ।शिरोऽवक्षालने द्वीपविशेषे पीठसर्पिणि ॥ २९२ ॥
292 · p. 54
अनुष्टुप्
परिमाणविशेषेऽथ काकपक्षः शिखण्डके ।काकरूकः पुमान् दम्भे स्त्रीजिते घूकपक्षिणि ॥ २९३ ॥
293 · p. 55
अनुष्टुप्
दिगम्बरे दरिद्रे च भीरुके स्यात्त्रिलिंगकः ।काकिणी पणतुर्यांशे कृष्णला मानदण्डयोः ॥ २९४ ॥
294 · p. 55
अनुष्टुप्
काकोलो द्रोणकाके स्यात् काकोल्याख्यौषधान्तरे ।भुजङ्गमे कुम्भकारे पुमान् स्यात् सूकरान्तरे ॥ २९५ ॥
295 · p. 55
अनुष्टुप्
काञ्चनं कनके वित्ते किञ्जल्के नागकेशरे ।पुमांस्तु कोविदारे स्यान्नागकेशरपादपे ॥ २९६ ॥
296 · p. 55
अनुष्टुप्
उदुम्बरे च धुस्तूरे चम्पकेऽपि प्रयुज्यते ।स्त्रीकट्याभरणे कांची मोक्षदायिपुरान्तरे ॥ २९७ ॥
297 · p. 55
अनुष्टुप्
काण्डोऽस्त्री कुत्सिते बाणे दण्डे नीरसमूहयोः ।वर्गे रहसि प्रस्तावे श्लाघायां स्तम्ब-चन्द्रयोः ॥ २९८ ॥
298 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सि (wrong syllable)
पापीयसि तरुस्कन्धे काणो विकललोचने ।कादम्बः कलहंसे स्यात् कदम्बतरु-बाणयोः ॥ २९९ ॥
299 · p. 56
अनुष्टुप्
कादम्बरी सरस्वत्यां मदिरा-ग्रन्थभेदयोः ।कोकिलायां शारिकाख्यपक्षिण्यामपि कीर्तिता ॥ ३०० ॥
300 · p. 56
अनुष्टुप्
काननं भवनेऽरण्ये ब्रह्मणो वदने स्मृतम् ।कान्तः पुमान् चन्द्रमसि श्रीकृष्णे हिज्जलद्रुमे ॥ ३०१ ॥
301 · p. 56
अनुष्टुप्
पत्यौ वसन्ते क्लीवन्तु कुङ्कुमे त्रिषु शोभने ।कान्ता नागरमुस्तायां रेणुका-स्त्रीविशेषयोः ॥ ३०२ ॥
302 · p. 56
अनुष्टुप्
पोषायां बृहदेलायां प्रियङ्गुपादपे स्त्रियाम् ।कान्तार इक्षुभेदे स्याद् वंशे कुद्दालपादपे ॥ ३०३ ॥
303 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्गु (wrong syllable)
कान्तारोऽस्त्री बिले दुःखगम्यम्यमार्गे महावने ।कान्तिर्द्युतौ स्त्री शोभायां दुर्गायां वाञ्छनेपि च ॥ ३०४ ॥
304 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कामं रेतस्यनुमितौ निकामे काम्य-बाढयोः ।कामोऽभिलाषे कन्दर्पे काम्ये संकर्षणे पुमान् ॥ ३०५ ॥
305 · p. 57
अनुष्टुप्
कामिनी गाढकन्दर्पयोषा-सामान्ययोषितोः ।मदिरा-वन्दयोर्दारु-हरिद्रायामपि स्रियाम् ॥ ३०६ ॥
306 · p. 57
अनुष्टुप्
कामी पारावते चन्द्रे कामुके चटके पुमान् ।चक्रवाके सारसाख्यपक्षि-भेषजभेदयोः ॥ ३०७ ॥
307 · p. 57
अनुष्टुप्
कायो मूलधने संघ-प्राजापत्यविवाहयोः ।स्वभावे ब्राह्मतीर्थे च मूर्तौ लक्ष्ये पुमान् स्मृतः ॥ ३०८ ॥
308 · p. 57
अनुष्टुप्
कारो वधे तुषाराद्रौ निश्चये बलियत्नयोः ।पत्यौ यतौ क्रियायां स्यादथ कारणमिन्द्रिये ॥ ३०९ ॥
309 · p. 57
अनुष्टुप्
वाद्यभेदे वधे देहे कर्मगीतप्रभेदयोः ।कायस्थे करणे हेतौ साधनेऽपि प्रयुज्यते ॥ ३१० ॥
310 · p. 58
अनुष्टुप्
कारा प्रसेवके दूत्यां पीडायां बन्धनालये ।सुवर्णकारिकायां च बन्धनेऽपि स्त्रियां मता ॥ ३११ ॥
311 · p. 58
अनुष्टुप्
कारिका यातना-वृद्धि-शिल्पेषु नटयोषिति ।कृतौ विवरणश्लोके क्लीबं कर्मादिकारके ॥ ३१२ ॥
312 · p. 58
अनुष्टुप्
कारुजो गैरिके शिल्पिचित्रे वल्मीक-फेनयोः ।स्वयंजाततिले नागकेशरे करभे पुमान् ॥ ३१३ ॥
313 · p. 58
अनुष्टुप्
कार्तिकः कार्तिकेये स्याद् बाहुले हायनान्तरे ।कार्मण मन्त्र-तन्त्रादियोजने मूलकर्मणि ॥ ३१४ ॥
314 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
कर्मठे तु त्रिलिंगः स्यादथ स्यात् पुंसि कार्मुकः ।हिज्जले कदरे वंशे महानिम्बे क्रियाक्षमे ॥ ३१५ ॥
315 · p. 58
अनुष्टुप्
कार्यं प्रयोजने हेतौ विवादे प्रत्ययादिषु ।उन्मत्ते क्षपणेऽनर्थकरे कार्यपुटः पुमान् ॥ ३१६ ॥
316 · p. 59
अनुष्टुप्
कार्श्यः कचूर-लकुश-कृशता-सालपादपे ।कार्षिके षोडशपणे प्रोक्तः कार्षापणेऽस्त्रियाम् ॥ ३१७ ॥
317 · p. 59
अनुष्टुप्
कालः क्षणादिसमये कासमर्दे शनौ यमे ।मृत्यौ राले महाकाले कोकिले रक्तचित्रके ॥ ३१८ ॥
318 · p. 59
अनुष्टुप्
कृष्णवर्णे त्रिलिंगस्तु मतः कृष्णगुणान्विते ।कालकण्ठोः महादेवे मयूर-कलविङ्कयोः ॥ ३१९ ॥
319 · p. 59
अनुष्टुप्
पीतसारे खंजरीटे पुमान् दात्यूहपक्षिणि ।कालंजरो योगिचक्रमेलके पर्वतान्तरे ॥ ३२० ॥
320 · p. 59
अनुष्टुप्
देशभेदे भैरवेऽथ कालज्ञः कुक्कुटे पुमान् ।मंजिष्ठा-त्रिवृतोः सोमवल्ल्यां कालमषी स्त्रियाम् ॥ ३२१ ॥
321 · p. 60
अनुष्टुप्
कालरात्रिर्भीमरथी-शक्तिभेद-कल्पनिशास्वपि ।कालस्कन्धो दुष्खदिरे तमाले जीवकद्रुमे ॥ ३२२ ॥
322 · p. 60
अनुष्टुप्metre not read in every line
उदुम्बरे तिन्दुकेऽथ कालसूत्रं तु नारके ।काला कुलिकवृक्षेऽश्वगन्धा-मंजिष्ठयोः स्त्रियाम् ॥ ३२३ ॥
323 · p. 60
अनुष्टुप्
नीलिनी पाटलावृक्ष-पालिन्दी-सुषवीष्वपि ।कालानुनादी भ्रमरे कलविङ्के कपिंजले ॥ ३२४ ॥
324 · p. 60
अनुष्टुप्
चातकेऽप्यथ कालिङ्गं कालिन्दकफलं स्मृतम् ।कालिङ्गो भूमिकूष्माण्डे सर्पे लोहान्तरे गजे ॥ ३२५ ॥
325 · p. 60
अनुष्टुप्
कावेरी स्त्री हरिद्रायां वेश्यायां सरिदन्तरे ।ग्रन्थे रसात्मके वाक्ये काव्यं शुक्रे तु पुंस्ययम् ॥ ३२६ ॥
326 · p. 60
अनुष्टुप्
काव्या स्त्री पूतनायां स्यात् धीषणायामपीष्यते ।काष्ठा दारुहरिद्रायामुत्कर्षे स्थिति-सीमयोः ॥ ३२७ ॥
327 · p. 61
अनुष्टुप्
अष्टादशनिमेषात्मकाले दिशि मता स्त्रियाम् ।कासः शोभाञ्जने काशतृणरोगविशेषयोः ॥ ३२८ ॥
328 · p. 61
अनुष्टुप्
कासूर्विकलवाग्बुद्धि-रोग-शक्त्यस्त्रदीप्तिषु ।काहलस्तु पुमान् वाद्यभाण्डभेदविडालयोः ॥ ३२९ ॥
329 · p. 61
अनुष्टुप्
शब्दमात्रे कुक्कुटेऽथ भृशे शुष्के खले त्रिषु ।काहारकस्तु शिविकावाहके किंकरः पुमान् ॥ ३३० ॥
330 · p. 61
अनुष्टुप्
घोटके कोकिले कामदेव इन्दिन्दिरेऽपि च ।किङ्किरातः शुकेऽशोके कन्दर्पे पीतभद्रके ॥ ३३१ ॥
331 · p. 61
अनुष्टुप्
रक्ताम्लाने कोकिलेऽथ किञ्जल्कः केशरे पुमान् ।किट्टालस्तु पुमान् ताम्रकलशे लोहगूहके ॥ ३३२ ॥
332 · p. 61
अनुष्टुप्
किणिः स्त्रियामपामार्गे मांसग्रन्थौ घुणे पुमान् ।कितवौ वाचके मत्ते द्यूतकृत्-खलयोः पुमान् ॥ ३३३ ॥
333 · p. 61
अनुष्टुप्
किन्नरोऽस्त्री किंपुरुषे स्याज्जिनोपासकान्तरे ।किरणो भास्करे रश्मिसामान्ये सूर्यतेजसि ॥ ३३४ ॥
334 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 किं (wrong syllable)
किरतोऽल्पतनौ म्लेच्छे भूनिम्बे वाजिरक्षके ।किराती जाह्नवी-दुर्गा-स्वर्गङ्गा-कुट्टनीषु च ॥ ३३५ ॥
335 · p. 62
अनुष्टुप्
किशोरोऽश्वशिशौ तैलपर्ण्यां तरुणसूर्ययोः ।किष्कुः प्रकोष्ठे हस्ते च वितस्तौ कुत्सिते त्रिषु ॥ ३३६ ॥
336 · p. 62
अनुष्टुप्
कीचकोऽनिलसंम्बन्ध-ध्वनद्वंशे द्रुमान्तरे ।नले विराट श्याले च राक्षसान्तर-दैत्ययोः ॥ ३३७ ॥
337 · p. 62
अनुष्टुप्
कीनाशः कर्षके क्षुद्रे पशुघातिनि वाच्यवत् ।यमे वानरभेदेऽथ कीरः शुकविहङ्गमे ॥ ३३८ ॥
338 · p. 62
अनुष्टुप्
कीर्तिर्यशसि विस्तारे प्रसादे मातृकान्तरे ।शब्द-कर्दमयोर्दीप्तौ कीलो वैश्वानरार्चिषि ॥ ३३९ ॥
339 · p. 63
अनुष्टुप्
तम्भे कफोणिनिर्घाते कफोणौ शंकु-लेशयोः ।कीशः सूर्ये खगे पुंसि वानरे त्रिष्ववाससि ॥ ३४० ॥
340 · p. 63
अनुष्टुप्
कुक्कुटोऽस्त्री तृणोल्कायां स्फुलिंग-चरणायुधे ।कुक्कुभे शूद्रपुत्रेपि निषादतनये स्मृतः ॥ ३४१ ॥
341 · p. 63
अनुष्टुप्
कुक्कुरः सारमेये स्यात् कुक्कुरी कुक्कुरस्त्रियाम् ।कुञ्चिका वंशशाखायां गुञ्जायां कृष्णजीरके ॥ ३४२ ॥
342 · p. 63
अनुष्टुप्
मत्स्यभेदे मिथिकायां कूर्चिका(कुञ्चिका)यामपि स्त्रियाम् ।कुञ्जोऽस्त्रियां लतागेहे हनु-कुञ्जरदन्तयोः ॥ ३४३ ॥
343 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थि (wrong syllable)
कुञ्जरो देशभेदे स्यात् केशे दन्तावले पुमान् ।कुटः कोट्टे शिलाकुट्टे वृक्षपर्वतयोः पुमान् ॥ ३४४ ॥
344 · p. 64
अनुष्टुप्
कुटुम्बः पोष्यवर्गेऽस्त्री ज्ञाति-सन्ततिनामसु ।कुट्टनं छेदने क्लीबं कुत्सने च प्रतापने ॥ ३४५ ॥
345 · p. 64
अनुष्टुप्
कुट्टिमोऽस्त्री कुटीरे स्यात् सुधाघटितभूतले ।मणिभूमौ दाडिमेऽथ कुठारः परशौ द्वयोः ॥ ३४६ ॥
346 · p. 64
अनुष्टुप्
कुड्यं कौतूहले भित्तौ लेपने च नपुंसकम् ।कुणपः शवे शस्त्रभेदे पूतिगन्धौ त्वसौ त्रिषु ॥ ३४७ ॥
347 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कुण्डं मानान्तरे नीराधारभेदे नपुंसकम् ।होमीयाग्न्यालये देवसलिलाशय इष्यते ॥ ३४८ ॥
348 · p. 64
अनुष्टुप्
स्थाल्यां क्लीबे स्त्रियां कुण्डः पत्यौ जीवति जारजे ।कुण्डलं वलये पाशे श्रावणाऽऽभरणेऽपि च ॥ ३४९ ॥
349 · p. 64
अनुष्टुप्
कुण्डली वरुणे सर्पे मयूरे चित्तले मृगे ।त्रिषु कुण्डलयुक्तेऽथ कुण्डी स्थाल्यां कमण्डलौ ॥ ३५० ॥
350 · p. 65
अनुष्टुप्
कुतपोऽस्त्री कुशतृणे छागलोमजकम्बले ।वाद्य-दौहित्रयोरह्नेऽष्टमांशेऽपि कीर्तितः ॥ ३५१ ॥
351 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुमान् सूर्येऽतिथौ वह्नौ भागिनेये द्विजे गवि ।कुतुपश्चर्मरचिते लघूनि स्नेहभाजने ॥ ३५२ ॥
352 · p. 65
अनुष्टुप्
कुतूः स्त्री चर्मरचिते महति स्नेहभाजने ।कुथो गजपृष्ठास्तरणे चासनेऽपि प्रकीर्तितः ॥ ३५३ ॥
353 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कुद्दालः कोविदारद्रु-भूमिदारणशस्त्रयोः ।कुन्ते भल्लास्त्रचण्डत्व-क्षुद्रजन्तु-गवेधुषु ॥ ३५४ ॥
354 · p. 65
अनुष्टुप्
कुन्तलो लाङ्गले केशे ह्रीवेरे चषके यवे ।कुन्ती स्त्री पाण्डुभार्यायां शल्लक्यां गुग्गुलुद्रुमे ॥ ३५५ ॥
355 · p. 66
अनुष्टुप्
ब्राह्मण्यामप्यथो कुन्थुश्चक्रवर्तिजिनान्तरे ।कुन्दोऽस्त्री माध्यपुष्पे स्यात् निध्यन्तरे स्मृतः ॥ ३५६ ॥
356 · p. 66
अनुष्टुप्metre not read in every line
कुन्दुरौ भ्रमियन्त्रेऽपि करवीरमहीरुहे ।कुब्जस्त्रिलिंगो गडुले खड्गापामार्गयोः पुमान् ॥ ३५७ ॥
357 · p. 66
अनुष्टुप्
कुब्रं तन्तौ वने कुण्डे कुण्डले शकटेऽनसि ।कुमारः कार्तिकेये स्यात् पञ्चवर्षीयबालके ॥ ३५८ ॥
358 · p. 66
अनुष्टुप्
शुक्रेऽश्ववारके सिन्धुनदे वरुणपादपे ।जिनोपासकभेदेऽपि युवराजे प्रकीर्त्यते ॥ ३५९ ॥
359 · p. 66
अनुष्टुप्
कुमारी पार्वती-सीता-सरिद्भेद-सहासु च ।श्यामा-द्वादशवर्षीयकन्ययोस्तरुणीसुमे ॥ ३६० ॥
360 · p. 67
अनुष्टुप्
स्थूलैला-मेदिनी-पुष्पबन्ध्या-कर्कोटकीष्वपि ।अपराजितायां वासन्त्यां जम्बुद्वीपेऽपि कीर्तिता ॥ ३६१ ॥
361 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्