All kośas › Nānārthodayasāgarakoṣa
नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa
2,302 verses · text only, tagging comes next
Part 18 (18/20)
श्येनः शशादने यागप्रभेदे पाण्डुरेऽपि ना ।श्रथनं मोक्षणे यत्ने शिथिलीकरणे वधे ॥ २०३५ ॥
2035 · p. 351
अनुष्टुप्
श्रद्धा संप्रत्यये शुद्धौ स्पृहायामादरे तथा ।चेतःप्रसादे श्रद्धालुः स्त्री दोहदवती स्त्रियाम् ॥ २०३६ ॥
2036 · p. 352
अनुष्टुप्
श्रद्धायुक्ते त्वसौ प्राज्ञैर्वाच्यवत् परिकीर्तितः ।श्रन्थितो ग्रथिते बद्धे मुक्ते कृतवधे त्रिषु ॥ २०३७ ॥
2037 · p. 352
अनुष्टुप्
श्रमः परिश्रमे खेदे शस्त्राभ्यासे तपस्यपि ।श्रमणो जैनसाधौ ना निन्द्यजीविन्यसौ त्रिषु ॥ २०३८ ॥
2038 · p. 352
अनुष्टुप्
सुदर्शनायां मुण्डीरी-शवर्योः श्रमणा मता ।श्रवणं न स्त्रियां कर्णे नक्षत्रे श्रवणाभिधे ॥ २०३९ ॥
2039 · p. 352
अनुष्टुप्
क्लीवं कर्णेन्द्रियज्ञाने श्रवः क्षरण-कर्णयोः ।श्रान्तो जितेन्द्रिये शान्ते श्रमयुक्ते त्वसौ त्रिषु ॥ २०४० ॥
2040 · p. 352
अनुष्टुप्
श्रामो मासे च काले च मण्डपेऽपि प्रकीर्तितः ।श्रायस्त्वाश्रयणे पुंसि श्रीसम्बन्धिन्यसौ त्रिषु ॥ २०४१ ॥
2041 · p. 352
अनुष्टुप्
श्रमणोपासके काके श्रावाकः श्रोतरि त्रिषु ।श्रावणः पुंसि पाखण्डे मासे श्रावणिकाभिधे ॥ २०४२ ॥
2042 · p. 353
अनुष्टुप्
श्रीर्बिल्ववृक्षे नलिने वृद्धिनामौषधौ मतौ ।वृत्तार्हज्जननी-कीर्त्योः प्रभायां सरलद्रुमे ॥ २०४३ ॥
2043 · p. 353
अनुष्टुप्
सिद्धौ वृद्धौ विभूतौ च लक्ष्म्यां शोभा-त्रिवर्गयोः ।श्रीधरो माधवे शालग्रामेऽतीतजिनान्तरे ॥ २०४४ ॥
2044 · p. 353
अनुष्टुप्
श्रीपतिः पृथिवीनाथे केशवेऽपि प्रकीर्तितः ।श्रीपर्णी शाल्मलीवृक्षे गम्भारी-कट्फलदुमे ॥ २०४५ ॥
2045 · p. 353
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ल (wrong syllable)
हठवृक्षेऽग्निमन्थद्रौ श्रीपर्णं कमलेऽपि च ।श्रीमान् पुंसि शिवे विष्णौ पिप्पले तिलकद्रुमे ॥ २०४६ ॥
2046 · p. 353
अनुष्टुप्
आसौ वाच्यवदाख्यातो मनोज्ञे धनिके बुधैः ।श्रीवत्सोऽर्हद्ध्वजे विष्णौ तद्वक्षःस्थितलाञ्चने ॥ २०४७ ॥
2047 · p. 353
अनुष्टुप्
श्रीवासो माधवे शम्भौ कमले सरलद्रवे ।श्रुतिः स्त्री श्रवणे वेदे वार्ता-नक्षत्रभेदयोः ॥ २०४८ ॥
2048 · p. 354
अनुष्टुप्
षड्जाद्यारम्भिकायां च श्रोत्रकर्मण्यपि स्मृता ।प्रोक्तः श्रुतिकटः प्राञ्चल्लोहेऽहौ पापशोधने ॥ २०४९ ॥
2049 · p. 354
अनुष्टुप्
कठोरशब्दे साहित्यदोषे श्रुतिकटुः पुमान् ।श्रेणिः स्त्रीपुंसयोः पंक्तौ समान शिल्पिसंहतौ ॥ २०५० ॥
2050 · p. 354
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते त्वसौ त्रिषु ।श्रेयसी स्त्री हरीतक्यां रास्ना-कल्याणयुक्तयोः ॥ २०५१ ॥
2051 · p. 354
अनुष्टुप्
पाठायां करिपिप्पल्यां श्रेयान् श्रेष्ठे शुभान्विते ।श्रेष्ठो विष्णौ महीपाले कुबेरे च द्विजन्मनि ॥ २०५२ ॥
2052 · p. 354
अनुष्टुप्
त्रिषु ज्येष्ठे वरे वृद्धे क्लीवं गोपयसि स्मृतम् ।श्रेष्ठा स्त्री स्थलपद्मिन्यां मेदायामुत्तमस्त्रियाम् ॥ २०५३ ॥
2053 · p. 354
अनुष्टुप्
श्रेष्ठी व्याह्रियते धीरैरोसवालवणिग्जने ।श्रोतः क्लीवं नदीवेगे कर्ण इन्द्रियमात्रके ॥ २०५४ ॥
2054 · p. 355
अनुष्टुप्
श्रोत्रं श्रोत्रियतायां स्यात् कर्णेऽपि क्लीवमीरितम् ।श्रोत्रं श्रोत्रियतायां स्यात्कर्णे च श्रोत्रकर्मणि ॥ २०५५ ॥
2055 · p. 355
अनुष्टुप्
श्लक्ष्णं मनोहरे सूक्ष्मे दुर्बले शिथिले श्लथः ।श्लाघा स्त्री परिचर्यायामभिलाषे प्रशंसने ॥ २०५६ ॥
2056 · p. 355
अनुष्टुप्
श्लिकुर्ना किंकरे षिंगे ज्योतिःशास्त्रे श्लिकु स्मृतम् ।श्लेष आलिंगने दाहे संयोगेऽलंकृतौ कवेः ॥ २०५७ ॥
2057 · p. 355
अनुष्टुप्
श्लोको यशसि पद्येऽथ शुभे श्वश्रेयसं विदुः ।परमात्मनि कल्याणे कल्याणवति तु त्रिषु ॥ २०५८ ॥
2058 · p. 355
अनुष्टुप्
श्वशुर्यो देवरे श्याले श्वसनो वायु-शल्ययोः ।श्वासो रोगविशेषे स्यात् श्वसिते च समीरणे ॥ २०५९ ॥
2059 · p. 355
अनुष्टुप्
श्वेतः शुक्रे द्वीपभेदे शुक्लवर्णे कपर्दके ।श्वेताभ्रे जीरके शंखे शैलभेदे नृपान्तरे ॥ २०६० ॥
2060 · p. 356
अनुष्टुप्
शिवाववतारभेदेऽसौ क्लीवं तु रजते स्मृतम् ।शुक्लवर्णयुते चायं कथितो वाच्यलिंगकः ॥ २०६१ ॥
2061 · p. 356
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
केतुग्रहे तथा बुद्धे श्वेतकेतुः पुमान् मतः ।श्वेतधामा पुमानिन्दौ कर्पूरेऽब्धिकफे स्मृतः ॥ २०६२ ॥
2062 · p. 356
अनुष्टुप्
अर्जुने मकरे चन्द्रे पुंल्लिगः श्वेतवाहनः ।श्वेता वराटिका-काष्ठपाटलाऽतिविषासु च ॥ २०६३ ॥
2063 · p. 356
अनुष्टुप्
शंखिनी क्षुरिकापत्री-तुगा-पाषाणभेदिषु ।वलक्षबृहती-श्वेतकण्टकार्योरपि स्मृता ॥ २०६४ ॥
2064 · p. 356
अनुष्टुप्
इन्दिन्दिरे च यूकायां पुमान् षट्चरणो मतः ।षट्पदोऽलिनि यूकायामलिन्यां षट्पदी स्मृता ॥ २०६५ ॥
2065 · p. 356
अनुष्टुप्
षट्प्रज्ञः कामुके धर्म-काम-शास्त्रज्ञमानवे ।षण्डः स्याद्गोपतौ वर्षवरे पद्मादिसंहतौ ॥ २०६६ ॥
2066 · p. 356
अनुष्टुप्
गजे धान्यविशेषे च कथितः षष्टिहायनः ।षाडवो ना रसे गाने रागजात्यन्तरेऽपि च ॥ २०६७ ॥
2067 · p. 357
अनुष्टुप्
संग्राही पुंसि कुटजद्रुमे त्रिषु तु धारके ।संज्ञं क्लीवं पीतकाष्ठे त्रिष्वसौ लग्नजानुके ॥ २०६८ ॥
2068 · p. 357
अनुष्टुप्
विज्ञापने मारणे च क्लीवं संज्ञपनं विदुः ।संज्ञा स्यात् चेतना-नाम्नोर्हस्ताद्यैश्चार्थसूचने ॥ २०६९ ॥
2069 · p. 357
अनुष्टुप्
संयतो वाच्यवल्लिंगो बद्धे च कृतसंयमे ।वाग्यते जन्तुनिवहे संयत्वर उदीरितः ॥ २०७० ॥
2070 · p. 357
अनुष्टुप्
चतुःशाले व्रते बन्धे क्लीवं संयमनं स्मृतम् ।संयमी ना मुनौ प्रोक्तो निगृहीतेऽन्द्रिये त्रिषु ॥ २०७१ ॥
2071 · p. 357
अनुष्टुप्
संयोजनं तु संयोगे मैथुनेऽपि प्रकीर्तितम् ।संरम्भः क्रोध उत्साह आटोपे च निगद्यते ॥ २०७२ ॥
2072 · p. 357
अनुष्टुप्
आलोचने वशीकारे प्राज्ञैः संवेदनं स्मृतम् ।संरोधो रोधने क्षेपे संलयः प्रलयेऽपि च ॥ २०७३ ॥
2073 · p. 358
अनुष्टुप्
संवरं सलिले दैत्यभेदे बौद्धव्रतान्तरे ।जैनानां षष्ठतत्त्वे च तथैव हरिणान्तरे ॥ २०७४ ॥
2074 · p. 358
अनुष्टुप्
संवर्तो मुनिभेदे स्यात् कल्पे कर्षफलद्रुमे ।मेघनायकभेदे च वारिवाहेऽपि कीर्तितः ॥ २०७५ ॥
2075 · p. 358
अनुष्टुप्
आलये संनिवेशे च संवासः सद्भिरीरितः ।संवाहनं तु भारादिवहनेऽप्यङ्गमर्दने ॥ २०७६ ॥
2076 · p. 358
अनुष्टुप्
संवित्तिस्तु स्त्रियां बुद्धौ प्रतिपत्तावपीष्यते ।संवित् स्त्री तोषणे नाम्नि ज्ञाने संभाषणे रणे ॥ २०७७ ॥
2077 · p. 358
अनुष्टुप्
प्रतिज्ञायां क्रियाकारे संकेते संयमेऽपि च ।संवेशः सुरते पीठे निद्रायामपि कीर्तितः ॥ २०७८ ॥
2078 · p. 358
अनुष्टुप्
संव्यानं वस्त्रमात्रे स्यात् उत्तरीये च वाससि ।संसिद्धिः स्त्रीस्वभावे स्यान्मोक्ष-सिद्धिविशेषयोः ॥ २०७९ ॥
2079 · p. 358
अनुष्टुप्
संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि ।संस्कृतः कृत्रिमे शस्ते पक्वभूषितयोस्त्रिषु ॥ २०८० ॥
2080 · p. 359
अनुष्टुप्
संस्त्यायो विस्तृतौ गेहे संस्थाने संनिवाशके ।संस्था व्यक्तौ व्यवसाये सादृश्ये निधने स्थितौ ॥ २०८१ ॥
2081 · p. 359
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
समाप्तौ क्रतुभेदे च नाशे कल्पचतुष्टये ।संस्थानं निधने चिह्ने संनिवेशे चतुष्पथे ॥ २०८२ ॥
2082 · p. 359
अनुष्टुप्
संस्थितिः स्त्रीगृहे मृत्यौ संस्थानेऽपि निगद्यते ।दृढसन्धौ च मिलिते दृढे स्यात् त्रिषु संहतः ॥ २०८३ ॥
2083 · p. 359
अनुष्टुप्
संघातने शरीरे च प्राज्ञैः संहननं स्मृतम् ।संहर्षो ना प्रमोदे स्यात् स्पर्द्धायां मातरिश्वनि ॥ २०८४ ॥
2084 · p. 359
अनुष्टुप्
संहारो नरकेऽपि स्यात् संक्षेपे प्रलये ह्रतो ।सखा मित्रे सहायेऽथ सगरो भूपतौ जिने ॥ २०८५ ॥
2085 · p. 359
अनुष्टुप्
संकटस्त्रिषु संबाधे दुःखे तु क्लीवमीरितम् ।संकरोऽग्निचटत्कारे मिश्रत्वेऽवकरे तथा ॥ २०८६ ॥
2086 · p. 360
अनुष्टुप्
वर्णसंकरजातौ च संकरी दूषितस्त्रियाम् ।संकर्षणः प्रलम्बघ्ने क्लीवन्त्वाकर्षणे स्मृतम् ॥ २०८७ ॥
2087 · p. 360
अनुष्टुप्
संकीर्णे दुर्बले मन्देऽस्थिरे संकसुकस्त्रिषु ।संकुलं समरे वाक्ये परस्परपराहते ॥ २०८८ ॥
2088 · p. 360
अनुष्टुप्
संकीर्णे वाच्यचत् प्रोक्तं संकोचं स्यात्तु कुंकुमे ।संकोचो ना मत्स्यभेदे जडीभावे च बन्धने ॥ २०८९ ॥
2089 · p. 360
अनुष्टुप्
संक्रन्दनः पुमान् इन्द्रे रोदने तु नपुंसकम् ।संक्रमः क्रमणे सम्यग्राशिसंचारवस्तुनि ॥ २०९० ॥
2090 · p. 360
अनुष्टुप्
संख्यं तु समरे क्लीवं संख्येये त्वभिधेयवत् ।संख्यकत्वादिके बुद्धौ चर्चायां गणिते त्रिषु ॥ २०९१ ॥
2091 · p. 360
अनुष्टुप्
संगः स्यान्मेलने रागे संगतिर्ज्ञान-संगयोः ।नद्यादिमेलके संगे संगमोऽस्त्री प्रकीर्तितः ॥ २०९२ ॥
2092 · p. 361
अनुष्टुप्
संगरोऽङ्गीकृतौ युद्धे क्रियाकारे च संविदि ।गरले संगरं तु स्यात् शमीवृक्षफलेऽद्वयोः ॥ २०९३ ॥
2093 · p. 361
अनुष्टुप्
संगुप्तो बुद्धभेदे ना त्रिषु संगोपनाश्रये ।संग्रहो ग्रहणे मुष्टौ महोद्योगे समाहतौ ॥ २०९४ ॥
2094 · p. 361
अनुष्टुप्
बृहत्-संक्षेपयोरङ्गीकृतौ संचय-तुङ्गयोः ।संघट्टोऽन्यविमर्दे स्याद् गठनेऽपि निगद्यते ॥ २०९५ ॥
2095 · p. 361
अनुष्टुप्
संघाटिका युगे घ्राणे कुट्टिन्यां जलकण्टके ।संघातो हनने व्राते कफे च नरकान्तरे ॥ २०९६ ॥
2096 · p. 361
अनुष्टुप्
सचिवः कृष्णधत्तूरे सहाये मन्त्रिणि स्मृतः ।सन्नद्धे निभृते सज्जो वाच्यवत् संभृतेऽपि च ॥ २०९७ ॥
2097 · p. 361
अनुष्टुप्
सज्जा वेशे च सन्नाहे संचयः संग्रहे गणे ।संचारो गमने दुर्गसंचरे ग्रहसंक्रमे ॥ २०९८ ॥
2098 · p. 361
अनुष्टुप्
कुट्टन्यां युगले घ्राणे दूत्यां संचारिका स्मृता ।सटा तु स्त्री शिखायां स्यात् जटा-केशरयोरपि ॥ २०९९ ॥
2099 · p. 362
अनुष्टुप्
सती पतिव्रता-दुर्गा-सौराष्ट्री-मृत्तिकासु च ।सावित्र्यां विद्यमानायां तथा दानाऽवसानयोः ॥ २१०० ॥
2100 · p. 362
अनुष्टुप्
सतीलो मारुते वंशे कलायेऽपि प्रकीर्तितः ।सत्ये धीरे विद्यमाने साधौ शस्ते च सत् त्रिषु ॥ २१०१ ॥
2101 · p. 362
अनुष्टुप्
सम्माने संस्क्रियायां च सत्क्रिया स्त्री निगद्यते ।सत्रं गृहे धने दाने कानने कपटेऽध्वरे ॥ २१०२ ॥
2102 · p. 362
अनुष्टुप्
सत्कृतः कृतसत्कारे पूजितेऽप्यभिधेयवत् ।सत्वं बले पिशाचादौ व्यवसाय-स्वभावोः ॥ २१०३ ॥
2103 · p. 362
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्रव्ये चित्ते च प्राणेषु गुणे जन्तौ तु न स्त्रियाम् ।सत्यं कृते च सिद्धान्ते यथार्थे तद्वति त्रिषु ॥ २१०४ ॥
2104 · p. 362
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
सदस्यः पुंसि सभ्ये स्यात् तथैव विधिदर्शिनि ।सदाप्रसूनो नाऽर्कद्रौ कुन्दे रोहितकद्रुमे ॥ २१०५ ॥
2105 · p. 362
अनुष्टुप्
सदाफलो नारिकेले बिल्बे स्कन्दफले तथा ।सदृशस्तूचिते तुल्ये वाच्यलिङ्ग उदाहृतः ॥ २१०६ ॥
2106 · p. 363
अनुष्टुप्
देशान्विते सन्निकृष्टे सदृशस्त्रिषु कीर्तितः ।सनातनः शिवे विष्णौ ब्रह्म-दिव्यमनुष्ययोः ॥ २१०७ ॥
2107 · p. 363
अनुष्टुप्
असौ वाच्यवदाख्यातो नित्ये तद्वत् सुनिश्चले ।दुर्गायामिन्दिरायां सरस्वत्यां सनातनी ॥ २१०८ ॥
2108 · p. 363
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सनाभिः स्यात् सपिण्डे ना तूल्ये स्नेहयुते त्रिषु ।सन्ततिर्गोत्रविस्तार-पंक्ति-कन्यासुतेषु च ॥ २१०९ ॥
2109 · p. 363
अनुष्टुप्
सन्धिर्ना भेद-संश्लेष-सुरुङ्गासु भगे तथा ।संघट्टने सावकाशेऽक्षरद्वितयमेलने ॥ २११० ॥
2110 · p. 363
अनुष्टुप्
सन्धितो मिलिते सन्धियुक्ते त्रिष्वासवादिके ।सन्धिला मदिरा-नद्योः सुरुङ्गायामपि स्मृता ॥ २१११ ॥
2111 · p. 363
अनुष्टुप्
प्रणतौ नम्रतायां च ध्वनौ स्यात् सन्ततिः स्त्रियाम् ।पृष्ठस्थायिबले वृन्दे सन्नयः परिकीर्तितः ॥ २११२ ॥
2112 · p. 364
अनुष्टुप्
आश्रये निकटे क्लीवं सन्निधानं प्रकीर्तितम् ।सन्निधिः स्त्री सन्निकर्षे तद्वदिन्द्रियगोचरे ॥ २११३ ॥
2113 · p. 364
अनुष्टुप्
सप्तला पाटला-चर्मकषा-गुञ्जासु कीर्तिता ।सप्तार्चिर्नाऽनले तद्वद् शनौ चित्रकपादपे ॥ २११४ ॥
2114 · p. 364
अनुष्टुप्
वाच्यवत्तु स्मृतोऽसौ च क्रूरचक्षुषि कोविदैः ।सभा सामाजिके द्यूते समितौ निवहे गृहे ॥ २११५ ॥
2115 · p. 364
अनुष्टुप्
सभ्यो ना सभिके साधौ सभासदि मतः सताम् ।साधु-सर्व-समानेषु समो वाच्यवदीरितः ॥ २११६ ॥
2116 · p. 364
अनुष्टुप्
समजो ना पशुव्राते मूर्खवृन्दे वनेऽद्वयोः ।समज्या समितौ कीर्तावुचिते तु समञ्जसम् ॥ २११७ ॥
2117 · p. 364
अनुष्टुप्
समञ्जसः समीचीनेऽभ्यस्ते वाक्यवदीरितः ।समयः शपथे काले क्रियाकारे च संविदि ॥ २११८ ॥
2118 · p. 365
अनुष्टुप्
सिद्धान्तेऽवसरे सम्पद्-विपदोर्नियमे तथा ।निर्देशाऽऽचार-भाषासु संकेते च बुधैः स्मृतः ॥ २११९ ॥
2119 · p. 365
अनुष्टुप्
समया निकटे मध्ये कालविज्ञापनेऽव्ययम् ।समर्थो हित-शक्तिष्ठ-सम्बन्धार्थेषु वाच्यवत् ॥ २१२० ॥
2120 · p. 365
अनुष्टुप्
समर्यादः समीपे ना मर्यादासहिते त्रिषु ।समलं त्रिष्वनच्छे स्याद् विष्ठायां तु नपुंसकम् ॥ २१२१ ॥
2121 · p. 365
अनुष्टुप्
समवायस्तु सम्बन्धविशेषे निवहेऽपि च ।समष्ठिलो ना भण्डीरे गण्डीरे तु समष्ठिला ॥ २१२२ ॥
2122 · p. 365
अनुष्टुप्
समागमस्तु सम्प्राप्तौ सम्यगागमनेऽपि च ।समाजः पशुभिन्नानां संघे समिति-हस्तिनोः ॥ २१२३ ॥
2123 · p. 365
अनुष्टुप्
समादानं समीचीनग्रहणे सौगताह्निके ।ना समाधाः समाधाने विरोधस्य च भञ्जने ॥ २१२४ ॥
2124 · p. 366
अनुष्टुप्
चित्तैकाग्रे समाधानं पूर्वपक्षोत्तरेऽपि च ।समाधिः पुंसि नीवाके ध्यान इन्द्रियरोधने ॥ २१२५ ॥
2125 · p. 366
अनुष्टुप्
समर्थनेऽङ्गीकरणे योगे काव्यगुणान्तरे ।समापन्नं त्रिषु प्राप्ते वधे क्लिष्ट-समाप्तयोः ॥ २१२६ ॥
2126 · p. 366
अनुष्टुप्
समाप्तिः स्त्री परिप्राप्ताववसाने समर्थने ।समवाये समायोगः संयोगे च प्रयुज्यते ॥ २१२७ ॥
2127 · p. 366
अनुष्टुप्
स्यात् समालम्भनं स्पर्शे मारणे च विलेपने ।समासः स्यात्समाहारे संक्षेपे च समर्थने ॥ २१२८ ॥
2128 · p. 366
अनुष्टुप्
ऐकपद्येऽथ संक्षेपे समाहारः समुच्चये ।समाहितः समाधिस्थे निष्पन्नाऽऽहितयोस्त्रिषु ॥ २१२९ ॥
2129 · p. 366
अनुष्टुप्
प्रतिज्ञातोक्तसिद्धान्त-निर्विवादीकृतेष्वपि ।आयोधने सभायां च संगेऽपि समितिः स्त्रियाम् ॥ २१३० ॥
2130 · p. 367
अनुष्टुप्
समीरणो मरुवके पथिके मातरिश्वनि ।सम्प्रेक्षणे सांख्यशास्त्रे समीक्षणमीतीरितम् ॥ २१३१ ॥
2131 · p. 367
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 मी (wrong syllable)
समीक्षा धिषणायां स्यात् तत्वे यत्ने निभालने ।पर्यालोचन-मीमांसाशास्त्रयोरप्युदीरिता ॥ २१३२ ॥
2132 · p. 367
अनुष्टुप्
समुच्छ्रय-समुच्छ्रायौ विरोधोत्सेधयोः स्मृतौ ।समुद्गमे दिने युद्धे वृन्दे समुदयः स्मृतः ॥ २१३३ ॥
2133 · p. 367
अनुष्टुप्
समुदायः समूहे स्यात् पृष्ठस्थायिबले रणे ।समुद्धतः समुद्गीर्णे दुर्विनीतेऽपि वाच्यवत् ॥ २१३४ ॥
2134 · p. 367
अनुष्टुप्
समुद्धतं समुत्कीर्णा-पनीतोत्थापिते त्रिषु ।समुद्रनवनीतं तु चन्द्रमस्यमृते स्मृतम् ॥ २१३५ ॥
2135 · p. 367
अनुष्टुप्
कुम्भीरे सेतुबन्धे च समुद्रारुस्तिमिङ्गिले ।गर्विते पण्डितम्मन्ये समुद्भूतोर्द्धबन्धयोः ॥ २१३६ ॥
2136 · p. 368
अनुष्टुप्
प्रभौ च वाच्यवल्लिंगः समुन्नद्ध उदाहृतः ।समूढो वाच्यवद्भुग्ने सद्योजाते विवाहिते ॥ २१३७ ॥
2137 · p. 368
अनुष्टुप्
दमिते मूढसहिते शोधिते चानुपप्लुते ।समुह्यः पुंसि यज्ञाग्नौ सम्यगूहोचिते त्रिषु ॥ २१३८ ॥
2138 · p. 368
अनुष्टुप्
सम्पत् स्त्रियां गुणोत्कर्षे विभवोत्कर्ष-हारयोः ।सम्पन्नस्त्रिषु सम्पत्तिशालि-शोधितयोः स्मृतः ॥ २१३९ ॥
2139 · p. 368
अनुष्टुप्
सम्परायस्तु संग्राम आपदुत्तरकालयोः ।सम्पर्कः पुंसि विज्ञेयः संसर्गे मेलके रतौ ॥ २१४० ॥
2140 · p. 368
अनुष्टुप्
सम्पाको लम्पटे धृष्टे तर्ककेऽल्पे च वाच्यवत् ।सम्प्रयोगस्तु सम्बन्धे मैथुने कार्मणेऽर्थिते ॥ २१४१ ॥
2141 · p. 368
अनुष्टुप्
संप्रयोगी कलाकेलौ कामुके संप्रयोजके ।सम्प्रहारस्तु गमने संग्रामे हननेऽपि च ॥ २१४२ ॥
2142 · p. 368
अनुष्टुप्
सम्बद्धस्त्रिषु सम्पर्के बद्ध-सम्बन्धयुक्तयोः ।सम्बन्धो न्याय-सम्पर्क-समृद्धिषु निगद्यते ॥ २१४३ ॥
2143 · p. 369
अनुष्टुप्
सम्बरं संयमे नीर-बौद्धव्रतविशेषयोः ।भेदे दैत्यस्य मीनस्य हरिणस्य च पुंस्ययम् ॥ २१४४ ॥
2144 · p. 369
अनुष्टुप्
सेतौ शैलान्तरे भावितीर्थकृत्यपि कीर्तितः ।आखुपर्ण्यां शतवर्यां सम्बरी स्त्री प्रकीर्तिता ॥ २१४५ ॥
2145 · p. 369
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
सम्बलं सलिले क्लीवं पाथेये सम्बलोऽस्त्रियाम् ।संबाधः संकटे भीतौ भगे नरकवर्त्मनि ॥ २१४६ ॥
2146 · p. 369
अनुष्टुप्
सम्बाधनं स्मरद्वारे शूलाग्र-द्वारपालयोः ।सम्भवो मेलकेऽपाये संकेतोत्पत्ति-हेतुषु ॥ २१४७ ॥
2147 · p. 369
अनुष्टुप्
आधारानतिरिक्तत्व आधेयस्य जिनान्तरे ।सम्भावः सर्वपूर्णत्वे सम्भूति-समवाययोः ॥ २१४८ ॥
2148 · p. 369
अनुष्टुप्
स्फुटने मेलने प्रोक्तः सम्भेदः सिन्धुसंगमे ।सम्भोगः सुरते भोगे प्रमोदे केलिनागरे ॥ २१४९ ॥
2149 · p. 369
अनुष्टुप्
जिनशासन-शृङारभेदयोरप्युदीरितः ।संम्भ्रमः स्याद्भये सूत्रे संवेगे च महाभ्रमे ॥ २१५० ॥
2150 · p. 370
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शृ (wrong syllable)
सम्मतिः स्यादनुज्ञायामात्मज्ञानाभिलाषयोः ।सम्मिश्रस्त्रिषु संयुक्ते मिश्रितेऽपि प्रयुज्यते ॥ २१५१ ॥
2151 · p. 370
अनुष्टुप्
सम्मूर्च्छनमभिव्याप्तौ तद्वदुच्छ्राय-मोहयोः ।सम्यक् स्याद्वाच्यवल्लिंगः संगते सत्यवाच्यपि ॥ २१५२ ॥
2152 · p. 370
अनुष्टुप्
रम्ये प्रथमकल्पादौ सम्यक् समुदयेऽव्ययम् ।सरो ना लवणे बाणे दध्यग्रे च गतावपि ॥ २१५३ ॥
2153 · p. 370
अनुष्टुप्
निर्झरे तु द्वयोः प्रोक्तः सारके गन्तरि त्रिषु ।सरं स्यात् सरसा सार्द्धं तडागे सलिलेऽपि च ॥ २१५४ ॥
2154 · p. 370
अनुष्टुप्