कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthodayasāgarakoṣa

नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa

2,302 verses · text only, tagging comes next

Part 5 (5/20)

काकचिञ्च्यां चतुर्धान्यमान-त्रियवमानयोः ।पटहे मदिरागारे गुडो गोलेक्षुपाकयोः ॥ ४७८ ॥
478 · p. 89
अनुष्टुप्
कार्पासी हस्तिसन्नाह-ग्रासेषु च प्रयुज्यते ।गुणो रूपादि-शुक्लादि-शौर्याद्या-ऽऽवृत्तिरज्जुषु ॥ ४७९ ॥
479 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
त्यागेऽप्रधाने सत्त्वादौ सन्ध्यादौ सूद-इन्द्रिये ।मौर्व्यां तन्तौ भीमसेने दोषेतरविशेषणे ॥ ४८० ॥
480 · p. 89
अनुष्टुप्
नृत्ये गुणनिका माल्ये शून्याङ्के पाठनिर्णये ।गुण्डको धूलि-मलिन-स्नेहपात्र-कलोक्तिषु ॥ ४८१ ॥
481 · p. 90
अनुष्टुप्
गुप्तं स्याद्रक्षिते गूढे संगते वैश्यपद्धतौ ।गुप्तिर्गोपन-भूगर्त-कारागारेषु रक्षणे ॥ ४८२ ॥
482 · p. 90
अनुष्टुप्
अन्तकेऽवकरस्थाने नौकाछिद्रेऽपि कीर्तिता ।गुम्फः श्मश्रुणि सन्दर्भे भुजालंकरणेऽपि च ॥ ४८३ ॥
483 · p. 90
अनुष्टुप्
गुरुर्निषेकादिकरे गीष्पतौ धर्मदेशके ।कपिकच्छौ द्विमात्रेऽपि मन्त्रदातरि दुर्भरे ॥ ४८४ ॥
484 · p. 90
अनुष्टुप्
दुर्जरेऽध्यापके श्रेष्ठे गुल्मी वसनवेश्मनि ।आमलक्यां वनी-गृध्रनखी गुल्मयुतेष्वपि ॥ ४८५ ॥
485 · p. 90
अनुष्टुप्
गुहो विष्णौ कार्तिकेय-राममित्रे तुरङ्गमे ।गुहा गर्ते सिंहपुच्छीलतायां गह्वरेऽपि च ॥ ४८६ ॥
486 · p. 90
अनुष्टुप्
गृञ्जनो रक्तलशुने रसोनेऽथ नपुंसकम् ।विषदिग्धपशोर्मांसे ग्रन्थिमूलेऽपि कीर्तितम् ॥ ४८७ ॥
487 · p. 91
अनुष्टुप्
गृहं कलत्रे भवने नामधेये बुधैः स्मृतम् ।स्मृतो गृहपतिर्धर्मे गृहस्थे सचिवे पुमान् ॥ ४८८ ॥
488 · p. 91
अनुष्टुप्
गृहीतं स्वीकृते प्राप्ते धृते ज्ञाते त्रिलिंगकम् ।गोकर्णोऽश्वतरे सर्पविशेषे हरिणान्तरे ॥ ४८९ ॥
489 · p. 91
अनुष्टुप्
तीर्थान्तरे मानभेद-गणदेवविशेषयोः ।गोकुलं गोसमूहे स्याद् गोस्थाने नन्दसंस्थितौ ॥ ४९० ॥
490 · p. 91
अनुष्टुप्
जैनश्रमणभिक्षायां गोचरी गोचरक्षितौ ।गोत्रं कुले धने छत्रे संघे वर्त्मनि कानने ॥ ४९१ ॥
491 · p. 91
अनुष्टुप्
संभावनीयबोधेऽपि वृद्धौ क्षेत्राभिधानयोः ।गोत्रः शैले स्त्रियामेषा-पृथिवी-गोसमूहयोः ॥ ४९२ ॥
492 · p. 92
अनुष्टुप्
गोधास्त्रियां निहाकाऽऽख्यजन्तौ ज्याघातवारणे ।गोधूमो नागरंगेऽपि भेदे भेषजसस्ययोः ॥ ४९३ ॥
493 · p. 92
अनुष्टुप्
गोपो राजनि गोपाले बोले गोष्ठाधिपे स्मृतः ।रक्षके बहुलग्रामाधिपतावुपकारके ॥ ४९४ ॥
494 · p. 92
अनुष्टुप्
गोपतिः शंकरे सूर्ये राज्ञि सण्ढेऽगदान्तरे ।गोपनं व्याकुलत्वे स्यात् कुत्सनेऽपहवे द्युतौ ॥ ४९५ ॥
495 · p. 92
अनुष्टुप्
गोपी प्रकृति-गोपस्त्री-रक्षिका-शारिवासु च ।गोपालकः शिवे कृष्णे गोपे गोरक्षकेऽपि च ॥ ४९६ ॥
496 · p. 92
अनुष्टुप्
गोपुरं नगरद्वारे द्वारमात्रेऽपि कीर्तितम् ।कैवर्तीमुस्तके दुर्गपुरद्वारे नपुंसकम् ॥ ४९७ ॥
497 · p. 93
अनुष्टुप्
गोमुखं कुटिलागारे वाद्यभाण्डे विलेपने ।चौरकार्य-सुरंगायां वस्त्रनिर्मितयन्त्रके ॥ ४९८ ॥
498 · p. 93
अनुष्टुप्
पुमान् यक्षान्तरे नक्रे स्त्री तु स्यात् सरिदन्तरे ।हिमाद्रिगंगापतनगोमुखाकारगह्वरे ॥ ४९९ ॥
499 · p. 93
अनुष्टुप्
गोरसो दध्नि दुग्धे च छच्छिकायामपि स्मृतः ।गोलः खगोले भूगोले सर्ववर्तुल-बोलयोः ॥ ५०० ॥
500 · p. 93
अनुष्टुप्
मुचुकुन्दतरौ जाराद्विधवायाः सुतेऽपि च ।गोलकोऽलिञ्जरे पिण्डे मृते भर्तरि जारजे ॥ ५०१ ॥
501 · p. 93
अनुष्टुप्
गोला गोदावरी-दुर्गा-कुनटी-मण्डलेष्वपि ।पत्राञ्जनेऽलिञ्जरे च बालक्रीडनदारुणि ॥ ५०२ ॥
502 · p. 94
अनुष्टुप्
गोलोमी श्वेतदुर्वायां षड्ग्रन्था-भूतकेशयोः ।गोलोमिकाऽभिधक्षुद्रक्षुपे वारस्त्रियामपि ॥ ५०३ ॥
503 · p. 94
अनुष्टुप्
गोविन्दः परमब्रह्म-कृष्णयोर्गोधिपे गुरौ ।गोष्ठी सभाया संलापे पोष्यवर्गेऽपि कीर्तिता ॥ ५०४ ॥
504 · p. 94
अनुष्टुप्
गोष्पदं गोखुर-श्वभ्रे क्लीबं गोसेवितस्थले ।गौः पुमान् चन्दिरे सूर्ये किरणे स्वर्गवज्रयोः ॥ ५०५ ॥
505 · p. 94
अनुष्टुप्
क्रतुभेदे बलीवर्दे ऋषभाभिधभेषजे ।स्त्री तु स्यात् लोचने भूमौ दिशि वाचि शरे जले ॥ ५०६ ॥
506 · p. 94
अनुष्टुप्
जनन्यां सौरभेय्यां च न स्त्रियां लोमनीरयोः ।गोतमो गणभृद्भेदे शतानन्दे महामुनौ ॥ ५०७ ॥
507 · p. 94
अनुष्टुप्
गौरश्चैतन्यदेवे स्यात् चन्दिरे श्वेतसर्षपे ।धववृक्षे श्वेत-पीतारुण-वर्णेषु कीर्तितः ॥ ५०८ ॥
508 · p. 94
अनुष्टुप्
गौरी त्वसंजातरजःकन्यायां वरुणस्त्रियाम् ।मल्लिका-तुलसी-दारु-हरिद्रा-वसुधासु च ॥ ५०९ ॥
509 · p. 95
अनुष्टुप्
सुवर्णकदली-श्वेतदूर्वा-गोरोचनास्वपि ।आकाशमांसी-मञ्जिष्ठा-सरिद्भेद-प्रियङ्गुषु ॥ ५१० ॥
510 · p. 95
अनुष्टुप्
प्रसेनजित् स्त्रियां बुद्धशक्तिभेद-हरिद्रयोः ।पार्वत्यां रागिणीभेदे गौरीजं क्लीवमभ्रके ॥ ५११ ॥
511 · p. 95
अनुष्टुप्
ग्रन्थः शास्त्रे धने गुम्फे ग्रन्थनायामनुष्टुभि ।ग्रन्थिः पिण्डालु-रुग्भेद-भद्रमुस्तासु पर्वणि ॥ ५१२ ॥
512 · p. 95
अनुष्टुप्
वस्त्रदिबन्धे कौटिल्ये ग्रन्थिलो ग्रन्थिपर्णयोः ।ग्रन्थिकं पिप्पलीमूले गुग्गुलु ग्रन्थिपर्णयोः ॥ ५१३ ॥
513 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 स्त्र (wrong syllable)
पुमान् करीरे दैवज्ञे सदहेवाख्यपाण्डवे ।ग्रन्थिलस्तु हितावल्यां विकङ्कतकरीरयोः ॥ ५१४ ॥
514 · p. 96
अनुष्टुप्
पिण्डालौ गणहासे च तुण्डलीये विकण्टके ।ग्रन्थियुक्ते त्रिषु क्लीवं पिप्पलीमूल आर्द्रके ॥ ५१५ ॥
515 · p. 96
अनुष्टुप्
मालादूर्वा-गण्डदूर्वा-भद्रमुस्तासु तु स्त्रियाम् ।ग्रहोऽनुग्रह-निर्बन्ध-सूर्यादिषु विधुन्तुदे ॥ ५१६ ॥
516 · p. 96
अनुष्टुप्
ग्रहणे पूतनादौ स्याद् उपरागे रणोद्यमे ।ग्रहणं स्वीकृतौ शब्दे कर-आदर-इन्द्रिये ॥ ५१७ ॥
517 · p. 96
अनुष्टुप्
उपरागे चोपलब्धौ बन्दियपि प्रकीर्तितः ।ग्रहराजः सूर्य-चन्द्र-बृहस्पतिषु कीर्त्यते ॥ ५१८ ॥
518 · p. 96
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
ग्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वके ।ग्रामीणः केशवे यक्षे नापिते पुंस्यथ स्त्रियाम् ॥ ५१९ ॥
519 · p. 96
अनुष्टुप्
वारस्त्रियां ग्रामनार्यां नीलिकायामपि स्मृता ।त्रिलिंगस्तु प्रधाने स्याद् भोगिकेऽधिपतावपि ॥ ५२० ॥
520 · p. 97
अनुष्टुप्
ग्रामीणः कुक्कुरे ग्राम्यशूकरे वायसे पुमान् ।ग्रामोत्पन्ने त्रिलिंगोऽथ स्त्रियां पालंक्य-नीलयोः ॥ ५२१ ॥
521 · p. 97
अनुष्टुप्
ग्राम्यो ग्रामेयकेऽश्लीले भण्ड्यादि वचने त्रिषु ।ग्रावा पुमान् मेघ-शैल-प्रस्तरेषु दृढे त्रिषु ॥ ५२२ ॥
522 · p. 97
अनुष्टुप्
ग्राहोऽवराहे ग्रहणे शिशुमारेऽपि कीर्तितः ।ग्राहको हिंस्रविहगे ग्रहीतरि सितावरे ॥ ५२३ ॥
523 · p. 97
अनुष्टुप्
व्यालग्राहिण्यथो गीष्मो निदाघेऽप्युष्ण आतपे ।घटो हस्तिशिरःकूटे कुम्भे राश्यन्तरे स्मृतः ॥ ५२४ ॥
524 · p. 97
अनुष्टुप्
कुम्भकाख्यसमाधौ च कुम्भमानेऽपि कीर्तितः ।घटा समूहीकरणे सभायां घटने चये ॥ ५२५ ॥
525 · p. 98
अनुष्टुप्
घटिका तु मुहूर्ते स्यात् चरण-ग्रन्थिदण्दयोः ।घट्टः तीर्थावतारेऽथ घट्टगा सरिदन्तरः ॥ ५२६ ॥
526 · p. 98
अनुष्टुप्
घण्टा स्त्रियां नागवला-कांस्यवाद्यविशेषयोः ।घण्टा पाटलिवृक्षेऽथ घण्टाकर्णो गणान्तरे ॥ ५२७ ॥
527 · p. 98
अनुष्टुप्
घण्टापथो राजमार्गे दशधन्वन्तरे स्मृतः ।घनं मध्यमनृत्ये स्यात् लौहवाद्यविशेषयोः ॥ ५२८ ॥
528 · p. 98
अनुष्टुप्
घनः शरीरे विस्तारे मुद्गरे वारिदेऽभ्रके ।लोहे समूहे मुस्तायाः दृढे दार्ढ्ये निरन्तरे ॥ ५२९ ॥
529 · p. 98
अनुष्टुप्
सम्पुटे पूर्ण-कफयोः सजातीयाङ्कपूरणे ।पुमान् घनरसो नीरे पीलुपर्ण्यां च मोरटे ॥ ५३० ॥
530 · p. 98
अनुष्टुप्
सम्यक् सिद्धरसे सान्द्र-निर्यास-घनसारयोः ।घनसारो वृक्षभेदे दक्षिणावर्तपारदे ॥ ५३१ ॥
531 · p. 99
अनुष्टुप्
कर्पूरे सलिलेचाऽथ वर्षुकाब्दे घनाघनः ।अन्योन्यघट्टने शक्रे घातुकोन्मत्तकुञ्जरे ॥ ५३२ ॥
532 · p. 99
अनुष्टुप्
त्रिषु स्याद्घातुके काकमाच्यां घनाघना ।घरट्टः पुंसिपेषण्यां घर्घटस्तु झषान्तरे ॥ ५३३ ॥
533 · p. 99
अनुष्टुप्metre not read in every line
घर्घरः पर्वतद्वारे द्वारमात्रे तुषानले ।उलूकध्वनिहास्येषु स्वरभेदे नदान्तरे ॥ ५३४ ॥
534 · p. 99
अनुष्टुप्
स्त्रियां घर्घरिका क्षुद्रघण्टिका-भृष्टधान्ययोः ।नदीविशेषे वादित्रदण्डवाद्यप्रभेदयोः ॥ ५३५ ॥
535 · p. 99
अनुष्टुप्
घर्मः स्वेदाम्भसि ग्रीष्म आतपेऽप्यष्मणि स्मृतः ।घर्षणालः शिलापुत्रे संघर्षे घर्षणं स्मृतम् ॥ ५३६ ॥
536 · p. 99
अनुष्टुप्
घातोऽङ्कपूरणे काण्डे प्रहारे प्रतिघातने ।घुणः काष्ठकृमौ घातिः प्रहारे पक्षिबन्धने ॥ ५३७ ॥
537 · p. 100
अनुष्टुप्
घुर्घुरो यमकीटेऽथ मृत्किरायां घुर्घुरी ।घुसृणं कुंकुमे क्लीवं घृष्टन्तु त्रिषु शब्दिते ॥ ५३८ ॥
538 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
घूकारिर्वायसे घूक उलूके च प्रयुज्यते ।घृणा स्त्रियां जुगुप्सायां कारुण्येऽथ घृणिः पुमान् ॥ ५३९ ॥
539 · p. 100
अनुष्टुप्
भास्करे किरणे नीरे घृतमाज्ये नपुंसकम् ।त्रिषु स्यात् सेचके दीप्ते घृतपूरस्तु घार्तिके ॥ ५४० ॥
540 · p. 100
अनुष्टुप्
घोटकः पुंसि तुरगे तुरंगी पादपे स्त्रियाम् ।घोण्टा गुवाकवृक्षे स्याद् घस्तिकोलितरावणि ॥ ५४१ ॥
541 · p. 100
अनुष्टुप्
घोष आभीरपल्ल्यां स्याद् गोपाले ध्वनि-कांस्ययोः ।मशके स्तनिते धामार्गवे कायस्थपद्धतौ ॥ ५४२ ॥
542 · p. 101
अनुष्टुप्
लोकविज्ञापनायोच्चैः शब्दिते घोषणा स्मृता ।घोषयित्नुर्ब्राह्मणे स्यात् कोकिले स्तुतिपाटके ॥ ५४३ ॥
543 · p. 101
अनुष्टुप्
घ्राणं क्लीवं नासिकायां स्यात् त्रिलिंगस्तु शिंघिते ।चकोरः चन्द्रिकापानशील-शालिविहङ्गमे ॥ ५४४ ॥
544 · p. 101
अनुष्टुप्
चक्रं सैन्ये जलावर्ते ग्रामजाल-रथाङ्गयोः ।राष्ट्रे व्यूहविशेषेऽपि तैलयन्त्राऽस्त्रभेदयोः ॥ ५४५ ॥
545 · p. 101
अनुष्टुप्
कुम्भकारोपकरणे दम्भभेद-समूहयोः ।चक्रवर्ती सार्वभौमे वास्तूकेऽथ स्त्रियामसौ ॥ ५४६ ॥
546 · p. 101
अनुष्टुप्
अलक्तके जटामांसी-गन्धद्रव्यविशेषयोः ।चक्रवाको द्वयो रात्रिविश्लेषिणि विहंगमे ॥ ५४७ ॥
547 · p. 101
अनुष्टुप्
चक्रवाटस्तु पर्यन्ते क्रियारोहे शिखातरौ ।चक्रवातस्तु वात्यायां चक्रवालन्तु मण्डले ॥ ५४८ ॥
548 · p. 102
अनुष्टुप्
वृद्धेरपि पुनर्वृद्धौ चक्रवृद्धिरुदाहृता ।चक्राङ्गी कटुरोहिण्यां हंसीमञ्जिष्ठयोरपि ॥ ५४९ ॥
549 · p. 102
अनुष्टुप्
हिलमोच्यां कुलिंग्यां वृषपर्ण्यामपि स्मृता ।चक्री विष्णौ चक्रवाके वायसे ग्रामजालिके ॥ ५५० ॥
550 · p. 102
metre not recognisednearly अनुष्टुप्
तिनिशे सूचके सर्पे चक्रवर्तिनि गर्दभे ।चक्रमर्दे व्यालनखे तैलिके चक्रसंयुते ॥ ५५१ ॥
551 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable)
अजं च कुम्भकारेऽथ चङ्गः शोभन-दक्षयोः ।चञ्चरीको मधुकरे चञ्चरी भ्रमरा स्त्रियाम् ॥ ५५२ ॥
552 · p. 102
अनुष्टुप्
चञ्चलं चपले क्लीबं मारुते तु पुमान् स्मृतः ।चञ्चला कमला-विद्युत्-पिप्पली-पुंश्चलीषु च ॥ ५५३ ॥
553 · p. 102
अनुष्टुप्
चञ्चा तृणमये पुंसि स्त्रियां खलु प्रकीर्तिता ।चञ्चुर्नाडी च शाके स्यात् मृगे पञ्चांगुले पुमान् ॥ ५५४ ॥
554 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ख (wrong syllable)
स्त्रियां त्रोटौ पत्रशाकविशेषेऽपि प्रयुज्यते ।चटकः कलविंके स्यात् चटका चटकस्त्रियाम् ॥ ५५५ ॥
555 · p. 102
अनुष्टुप्
श्यामायां पिप्पलीमूले चटुलः सुन्दरे चले ॥ ५५६ ॥
556 · p. 103
चटुः प्रियोक्तौ जठरे व्रतिनामासनान्तरे ॥ ५५७ ॥
557 · p. 103
चणको हरिमन्थाख्यशस्ये मुन्यन्तरे स्मृतः ।चण्डो दैत्यविशेषे स्यात्तितिण्ड्यां यमकिंकरे ॥ ५५८ ॥
558 · p. 103
अनुष्टुप्
अर्धोरुके वरस्त्रीणामस्त्री चण्डातकः स्मृतः ।चण्डालः पुक्कशे क्रूरकर्मण्यपि प्रकीर्तितः ॥ ५५९ ॥
559 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्य (wrong syllable)
चण्डिलो नापिते रुद्रे वास्तूके स्त्री नदीभिदि ।चण्डी दाक्षायणीदेव्यां कोपनायामपि स्मृतः ॥ ५६० ॥
560 · p. 103
अनुष्टुप्
मार्कण्डेयपुराणोक्तदेवीमाहात्म्य-हिंस्रयोः ॥ ५६१ ॥
561 · p. 104
चतुरो निपुणे दक्षे त्रिषु लोचनगोचरे ।पुमांस्तु हस्तिशालायां चक्रगण्डावपीष्यते ॥ ५६२ ॥
562 · p. 104
अनुष्टुप्
चतुष्पथः पुमान् विप्रे क्लीवं शृङ्गाटके स्मृतम् ।चतुष्पदी स्त्रियां पद्ये पुमांस्तु करणे पक्षौ ॥ ५६३ ॥
563 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 प (wrong syllable)
चन्दनाऽगरु-कस्तूरी-कुंकुमे तु चतुःसमम् ।चदिरो भुजगे चन्द्रे कर्पूरे कुञ्जरे पुमान् ॥ ५६४ ॥
564 · p. 104
अनुष्टुप्
चन्दनोऽस्त्री भद्रसारे क्लीबन्तु रक्तचन्दने ।चन्दिरः कञ्जरे चन्द्रे चन्दनी सरिदन्तरे ॥ ५६५ ॥
565 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)
चन्द्रश्चन्द्रमसि स्वर्णे काम्पिल्ये बर्हचन्द्रके ।शोणमुक्ताफले द्वीपविशेष-कमनीययोः ॥ ५६६ ॥
566 · p. 104
अनुष्टुप्
आह्लादजनकद्रव्ये विसर्गे सलिले पुमान् ॥ ५६७ ॥
567 · p. 105
चन्द्रको मत्स्यभेदे स्यान्नखरे बर्हमेचके ।अथ चन्द्रकला वाचमत्स्य-द्रगडवाद्ययोः ॥ ५६८ ॥
568 · p. 105
अनुष्टुप्
चन्द्रस्य षोडशे भागे भेदे भूषण-पुष्पयोः ।चन्द्रकान्तश्चन्द्रमणौ कैरवे रजनौ स्त्रियाम् ॥ ५६९ ॥
569 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्च (wrong syllable)
चन्द्रपल्यामथो चन्द्रप्रभस्तीर्थङ्करान्तरे ।चन्द्रशाला स्मृता ज्योत्स्ना-प्रासादोपरिगेहयोः ॥ ५७० ॥
570 · p. 105
अनुष्टुप्
चन्द्रशेखर ईशाने भैरवे पर्वतान्तरे ।चन्द्रा गुडूच्यामेलायां वितानेऽपि स्मृतां स्त्रियाम् ॥ ५७१ ॥
571 · p. 105
अनुष्टुप्
चन्द्रातपश्चन्द्रिकायामुल्लोचेऽपि प्रकीर्तितः ।चन्द्रिका मल्लिका-ज्योत्स्ना-सूक्ष्मैलामेथिकासु च ॥ ५७२ ॥
572 · p. 106
अनुष्टुप्
स्थूलैलायां चन्द्रशूर-क्षुद्रवार्ताकिनीष्वपि ।कर्णस्फोटा चन्द्रभागा चन्द्रकेषु प्रकीर्तिता ॥ ५७३ ॥
573 · p. 106
अनुष्टुप्
चपलश्चोरके मत्स्ये पारदे प्रस्तरान्तरे ।क्षवेऽप्यथ त्रिलिंगस्तु विकले चिकुरे चले ॥ ५७४ ॥
574 · p. 106
अनुष्टुप्
क्लीबं स्यात् क्षणिके शीघ्रे चपेटः प्रतले पुमान् ।चपला त्विन्दिरा-जिह्वा-विजया-मदिरासु च ॥ ५७५ ॥
575 · p. 106
अनुष्टुप्
सौदामिन्यां पांशुलायां पिप्पल्यामपि कीर्तिता ।डमरौ चित्तविस्तारे चमत्कारो मयूरके ॥ ५७६ ॥
576 · p. 106
अनुष्टुप्
चमसो लड्डुके पिष्टभेद-पर्पटयोरपि ।चमसी मुद्गमाषादिशुष्कचूर्णेऽभिधीयते ॥ ५७७ ॥
577 · p. 107
अनुष्टुप्
चमूः सेनाविशेषेऽपि सेनामात्रेऽपि कीर्तिता ।गद्यपदमयी वाणी चम्पूरित्यभिधीयते ॥ ५७८ ॥
578 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
चयः समूहे प्राकारे पीठे वप्रे समाहृतौ ।चरः कपर्दके भौमे खञ्जरीटे स्पशे चले ॥ ५७९ ॥
579 · p. 107
अनुष्टुप्
अक्षद्यूतप्रभेदेऽथ चरकः पर्पटे मुनौ ।चरणं गमनाऽऽचार-भक्षणेषु नपुंसकम् ॥ ५८० ॥
580 · p. 107
अनुष्टुप्
अस्त्रियां बह्वृचादौ स्यान्मूलेऽपि पद-गोत्रयोः ।चराचरं स्याद्भुवने जङ्गमाजङ्गमे दिवि ॥ ५८१ ॥
581 · p. 107
अनुष्टुप्
इष्टे कपर्दके पुंसि चरित्रं चरिते स्मृतम् ।चर्चरीको महाकाले केशविन्यास-शाकयोः ॥ ५८२ ॥
582 · p. 107
अनुष्टुप्
चर्चा विचारणा-दुर्गा-चिन्तासु स्थासकेऽपि च ।चर्माऽजिने च फलके शरीरावरणेन्द्रिये ॥ ५८३ ॥
583 · p. 108
अनुष्टुप्
पुंसि स्याच्चर्म पुटकश्चर्म निर्मितभाजने ।ईर्य्यापथस्थितौ चर्या चर्वणं दन्तचूर्णने ॥ ५८४ ॥
584 · p. 108
अनुष्टुप्
चलं लोले चलः कम्पे कम्पयुक्ते त्वसौ त्रिषु ।चषकोऽस्त्री सुरापात्रे मधु-मद्यविशेषयोः ॥ ५८५ ॥
585 · p. 108
अनुष्टुप्
चक्षा जीव उपाध्याये चक्षुः क्लीबं विलोचने ।चक्षुष्पं खर्परीतुत्थ-सौवीराञ्जनयोरपि ॥ ५८६ ॥
586 · p. 108
अनुष्टुप्
प्रपौण्डरीकेऽथ पुमान् पुण्डरीके रसाञ्जने ।शोभाञ्जने केतकेऽथ रम्ये चक्षुर्हिते त्रिषु ॥ ५८७ ॥
587 · p. 108
अनुष्टुप्
औज्ज्वल्ये चाकचक्यं स्यात् चाक्रिको घाण्टिकार्थके ।तैलकारे शाकटिके चाटश्चौरे प्रतारके ॥ ५८८ ॥
588 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
चाटुः स्त्रीपुंसयोर्मिथ्याप्रियवाक्ये प्रियोदिते ।स्फुटवादिन्यथो चाटुपटुः कामुक-भण्डयोः ॥ ५८९ ॥
589 · p. 109
अनुष्टुप्
चारः स्पशे गतौ बन्धे कारागार-प्रियालयोः ।चारकोऽश्वादिपाले स्याद् बन्धे संचारके पटे ॥ ५९० ॥
590 · p. 109
अनुष्टुप्
वस्त्रादौ कुंकुमादीनां छटा चार्चिक्यमुच्यते ।चिकुरस्तरले केशे पक्षिभेदे भुजङ्गमे ॥ ५९१ ॥
591 · p. 109
अनुष्टुप्
गृहबभ्रौ वृक्षभेदे चपले तु त्रिलिंगकः ।चितिश्चितायां दुर्गायां समूहाङ्कविशेषयोः ॥ ५९२ ॥
592 · p. 109
अनुष्टुप्
चित्रं कुष्ठप्रभेदे स्यादालेख्ये तिलकेऽद्भुते ।व्योम्नि कर्बुरवर्णेऽथ त्रिषु तद्वति कीर्तितः ॥ ५९३ ॥
593 · p. 110
अनुष्टुप्
चित्रो यमान्तरेऽशोके एरण्डे चित्रकद्रुमे ।स्त्रियां चित्रफला मत्स्यभेद-चिर्भिटयोः स्मृतः ॥ ५९४ ॥
594 · p. 110
अनुष्टुप्
मृगेर्वारौ कण्टकारी-वार्ताकी-लिङ्गिनीषु च ।महेन्द्रवारुणीवल्ल्यां चित्रभानुस्तु भास्करे ॥ ५९५ ॥
595 · p. 110
अनुष्टुप्
चित्रभानुः पुमान् सूर्येऽनले चित्रकपादपे ।भैरवेऽर्कतरौ चित्ररथो गन्धर्व-सूर्ययोः ॥ ५९६ ॥
596 · p. 110
अनुष्टुप्
चित्राऽप्सरोविशेषे स्यात् मञ्जिष्ठा-गण्डदूर्वयोः ।सुतश्रेणी मृगेर्वारु-सुभद्रादन्तिकासु च ॥ ५९७ ॥
597 · p. 110
अनुष्टुप्