All kośas › Nānārthodayasāgarakoṣa
नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa
2,302 verses · text only, tagging comes next
Part 6 (6/20)
सर्पान्तरे सरिद्भेदे माया छन्दोविशेषयोः ।कृष्णसख्यां गवादन्यां ताराभेदेऽपि कीर्तिताः ॥ ५९८ ॥
598 · p. 110
अनुष्टुप्
चित्राङ्गो भुजगे रक्तचित्रके चित्रकद्रुमे ।हिंगुले हरितालेऽथ चित्रापूपश्चरुव्रणे ॥ ५९९ ॥
599 · p. 111
अनुष्टुप्
हृदयालौ ज्ञानमये चिद्रूपः स्फूर्तिमत्यपि ।चित्रिणी स्त्रीविशेषे स्यात् चिंता वेश्यान्तरे स्मृता ॥ ६०० ॥
600 · p. 111
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्ञा (wrong syllable)
चिंतामणिः स्पर्शमणौ बुद्धे मण्यन्तरे विधौ ।चिपिटो धान्यचमसे दीर्घसूत्रे चिरक्रियः ॥ ६०१ ॥
601 · p. 111
अनुष्टुप्
चिरजीवी पुमान् विष्णौ मार्कण्डेये हनूमति ।व्यासे परशुरामे च कृपाचार्ये विभीषणे ॥ ६०२ ॥
602 · p. 111
अनुष्टुप्
अश्वत्थाम्नि बलौ काके शाल्मलौ जीवकद्रुमे ।एष्वर्थेषु चिरञ्जीवी त्रिषु स्यात् चिरजीविनि ॥ ६०३ ॥
603 · p. 111
अनुष्टुप्
प्रसह्य चौरे चिल्लाभश्चिल्ल आतायिपक्षिणि ।चिल्ली लोघ्रे झिल्लिकायामोष्ठाधाश्चिबुकं मतम् ॥ ६०४ ॥
604 · p. 111
अनुष्टुप्
चिह्नमंके वैजयन्त्यां चिह्नितौ लक्षितेऽङ्किते ।चीनो मृगान्तरे तन्तौ देशभेदेंऽशुकान्तरे ॥ ६०५ ॥
605 · p. 112
अनुष्टुप्
शस्यप्रभेदे क्लीबं तु पताकायां च सीसके ।चीनकश्चीनकर्पूरे चीनधान्येऽपि कीर्तितः ॥ ६०६ ॥
606 · p. 112
अनुष्टुप्
चीरं वस्त्रे तद्विशेषे रेखाभेदे च गोस्तने ।चूडायां सीसके जीर्णवस्त्रखण्डे तरुत्वचि ॥ ६०७ ॥
607 · p. 112
अनुष्टुप्
लेखभेदे चीरकस्तु विक्रियालेखने स्मृतः ।चुक्रं सन्धानभेदे स्यात् तितिण्डीकेऽम्लवास्तुके ॥ ६०८ ॥
608 · p. 112
अनुष्टुप्
काञ्जिकेऽथ पुमान् अम्लवेतसेऽम्लरसेऽपि च ।चुञ्चुली तिन्तिडीद्यूते चूचूकं तु कुचानने ॥ ६०९ ॥
609 · p. 112
अनुष्टुप्
चुम्बकः कान्त (लोहे स्यात्) पाषाणे घटस्योर्द्धावलम्बने ।बहुग्रन्थैकदेशज्ञे धूर्ते चुम्बनतत्परे ॥ ६१० ॥
610 · p. 112
अनुष्टुप्
चुलुको भाण्डभेदे स्यात् प्रसृतौ घनकर्दमे ।चूडा शिखाग्रवडभी-कूप-बर्हिशिखासु च ॥ ६११ ॥
611 · p. 113
अनुष्टुप्
बाहुभूषण-संस्कारभेदयोरपि कीर्तिता ।चूडामणिः शिरोरत्ने काकचिञ्चाफले पुमान् ॥ ६१२ ॥
612 · p. 113
अनुष्टुप्
वंगीयपण्डितोपाधौ योगभेदे स्मृतो बुधैः ।चूर्णक्षोदे वासयोगे धूलि-क्षार-विशेषणे ॥ ६१३ ॥
613 · p. 113
अनुष्टुप्
चैत्यो देवतरौ बुद्धेऽश्वत्थे जिनसभातरौ ।क्लीवश्चितागृहे यज्ञगृहे ज्ञानिनि तु त्रिषु ॥ ६१४ ॥
614 · p. 113
अनुष्टुप्
चैत्रं मृते देवकुले पुमांस्तु बुद्धभिक्षुके ।वर्षपर्वतभेदे मासभेदे बुधात्मजे ॥ ६१५ ॥
615 · p. 113
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
चोचं तालफले चर्म-वल्कयोः कदलीफले ।उपभुक्तफलोद्वर्ते नारिकेले गुडत्वचि ॥ ६१६ ॥
616 · p. 114
अनुष्टुप्
चोरः स्तेने कृष्णशटी-गन्धद्रव्यविशेषयोः ।चोलः कञ्चुलिकायां स्यात् प्रभेदे म्लेच्छदेशयोः ॥ ६१७ ॥
617 · p. 114
अनुष्टुप्
चोक्षस्तीक्ष्णे शुचौ गीते मनोज्ञे चतुरे त्रिषु ।चौरी दस्यौ चोरपुष्पी-सुगन्धिद्रव्यभेदयोः ॥ ६१८ ॥
618 · p. 114
अनुष्टुप्
च्युतिर्भगे गुदद्वारे क्षरणेऽपि मता स्त्रियाम् ।च्योतं घृतादिक्षरणे च्यौलस्त्याज्येऽण्डजे गमे ॥ ६१९ ॥
619 · p. 114
अनुष्टुप्
छटा दीप्तौ छटाभा स्यात् सौदामिन्यां बुधैः स्मृता ।आतपत्रे स्मृतं छत्रमतिच्छत्रे तृणान्तरे ॥ ६२० ॥
620 · p. 114
अनुष्टुप्
छत्रपत्रो मानकचौ भूर्जे सप्तच्छदद्रुमे ।छत्रभंगस्तु वैधव्ये स्वातन्त्र्य-नृपनाशयोः ॥ ६२१ ॥
621 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
छत्रा शिलीन्ध्र-मञ्जिष्ठाऽतिच्छत्रासु धनीयके ।छदः पत्रे ग्रन्थिपर्णे तमालतरु-पक्षयोः ॥ ६२२ ॥
622 · p. 115
अनुष्टुप्
छदनं तमालपत्रे स्यात् पक्षे दलपिधानयोः ।छन्दोऽभिलाषेऽभिप्राये वशे रहसि तु त्रिषु ॥ ६२३ ॥
623 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विषेऽथ सान्तछन्दस्तु वेदे पद्ये मनोरथे ।छविर्दीप्तावजे छागश्छात्रोऽन्तेवासिनि स्मृतः ॥ ६२४ ॥
624 · p. 115
अनुष्टुप्
छादनं छदने पत्रेऽन्तर्द्धाऽऽच्छादनयोरपि ।छाया कान्तौ सूर्यपत्न्यामुत्कोच-प्रतिबिम्बयोः ॥ ६२५ ॥
625 · p. 115
अनुष्टुप्
पालनेऽनातप-पङ्क्तौ तमः-सादृश्ययोरपि ।कात्यायन्यां सुशोभायामथच्छायासुतः शनौ ॥ ६२६ ॥
626 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
छित्वरश्छेदनद्रव्ये धूर्ते वैरिणि चेष्यते ।छिदिरः परशौ रज्जौ निर्स्त्रिशे हव्यवाहने ॥ ६२७ ॥
627 · p. 116
अनुष्टुप्
छिदुरस्तु सपत्ने स्याच्छेदनद्रव्य-धूर्तयोः ।छिद्रं बिले दूषणे च रन्ध्रे छिन्नस्तु खण्डिता ॥ ६२८ ॥
628 · p. 116
अनुष्टुप्
छुपो युद्धे क्षुपे स्पर्शे चपलेऽथ निगद्यते ।छुछुन्दरी स्त्रियां गन्धमूषिकायामथो छुरा ॥ ६२९ ॥
629 · p. 116
अनुष्टुप्
चूर्णे सुधायां छुरिकाऽसिपुत्र्यां गदिता बुधैः ।छेको गृहासक्ते खगमृगयोर्नागरे त्रिषु ॥ ६३० ॥
630 · p. 116
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क्ते (wrong syllable)
छेदनं कर्तने भेदे छोरणं परिवर्तने ।जगत् क्लीवं च संसारे ना वायौ त्रिषु जंगमे ॥ ६३१ ॥
631 · p. 116
अनुष्टुप्
पिष्टमद्ये सुराकल्के कवचे गोमयेऽपि च ।जग्धं भुक्ते स्त्रियां जग्धिभक्षणे सहभोजने ॥ ६३३ ॥
633 · p. 117
अनुष्टुप्
नारीकटिपुरोभागे क्लीवं जघनमुच्यते ।जघन्यो मेहने शूद्रे गर्हिते चरमेऽधमे ॥ ६३४ ॥
634 · p. 117
अनुष्टुप्
जङ्गलं निर्जनस्थाने त्रिलिंगः पिशिते स्त्रियाम् ।जंघालोऽतिजवे जंघात्राणन्तु मंक्षुणे स्मृतम् ॥ ६३५ ॥
635 · p. 117
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)
जटा शतावरी-र्मासि-मूल-व्रतिशिखासु च ।मूले रुद्रजटायां च कपिकच्छावपि स्मृतम् ॥ ६३६ ॥
636 · p. 117
अनुष्टुप्
जटाजूटे जटापुञ्जे कपर्देऽपि पिनाकिनः ।जटालो वट-कर्चूर-क्षारवृक्षेषु गुग्गुलौ ॥ ६३७ ॥
637 · p. 117
अनुष्टुप्
त्रिलिंगस्तु जटायुक्ते जटिः प्लक्ष-समूहयोः ।जटिलः पुंसि पञ्चास्ये जटायुक्ते त्रिषु स्मृतः ॥ ६३८ ॥
638 · p. 117
अनुष्टुप्
जटिला राधिकाश्वश्रू-जटामांसी-वचासु च ।पिप्पल्यामुच्चटायां च स्मृता दमनकद्रुमे ॥ ६३९ ॥
639 · p. 118
अनुष्टुप्
जठरं कठिने बद्धे त्रिषु स्यादुदरेद्वरोः ।जडोऽप्रज्ञे हिमग्रस्ते मूके त्रिषु जलेऽद्वयोः ॥ ६४० ॥
640 · p. 118
अनुष्टुप्
इष्टानिष्टाऽपरिज्ञाने यत्र प्रश्नेष्वनुत्तरम् ।दर्शनश्रवणाभावो जडिमा सोऽभिधीयते ॥ ६४१ ॥
641 · p. 118
अनुष्टुप्
जतुकाऽजिनपक्षायां पर्पटी-वल्लिभेदयोः ।जनो लोके महर्लोकादूर्ध्वलोके च पामरे ॥ ६४२ ॥
642 · p. 118
अनुष्टुप्
जनकस्तु विदेहे स्यात् पितर्युत्पादके स्मृतः ।जनता जनसमूहेऽपि जननं वंश जन्मनोः ॥ ६४३ ॥
643 · p. 118
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जननी मातृ-मञ्जिष्ठा-जटामांसी-दयास्वपि ।कटुका-यूथिका-चर्मचटिकाऽलक्तकेषु च ॥ ६४४ ॥
644 · p. 119
अनुष्टुप्
देशे जने जनपदः किंवदन्त्यां जनश्रुतिः ।जनिर्नार्यां जनीनामगन्धद्रव्ये च मातरि ॥ ६४५ ॥
645 · p. 119
अनुष्टुप्
जनी पुत्रवधू-नारी-जननेष्वौषधान्तरे ।जन्यं क्लीबं परीवादे हट्ट-संग्रामयोरपि ॥ ६४६ ॥
646 · p. 119
अनुष्टुप्
जन्यो जनहिते ताते नवोढा ज्ञाति-भृत्ययोः ।जामातृस्निग्धमित्रादातुत्पाद्येऽपि त्रिलिंगकम् ॥ ६४७ ॥
647 · p. 119
अनुष्टुप्
जन्या मातृवयस्यायां प्रीतावपि निगद्यते ।जन्युर्वैश्वानरे धातृ-प्राणिनोः पुंस्यथो जपा ॥ ६४८ ॥
648 · p. 119
अनुष्टुप्
ओड्रपुष्पेऽथ जम्बालः शैवाले पङ्क-मेध्ययोः ।जम्बीरः स्यान्मरुबकेऽर्जके जम्भे सितार्जके ॥ ६४९ ॥
649 · p. 119
अनुष्टुप्
जम्बूको वरुणे नीचे शृगाले पादपान्तरे ।जम्बूद्वीपो द्वीपभेदे जम्बूर्जम्बुफलद्रुमे ॥ ६५० ॥
650 · p. 120
अनुष्टुप्
जम्भोंऽशे भक्षणे दन्ते जम्बीरे हनुतूणयोः ।दैत्यभेदेऽथ जम्भारिर्वह्नौ वज्रे पुरन्दरे ॥ ६५१ ॥
651 · p. 120
अनुष्टुप्
जयोऽग्निमन्थे विजये युधिष्ठिर-जयन्तयोः ।इक्ष्वाकुवंश्यनृपतौ श्रीनारायणपार्षदे ॥ ६५२ ॥
652 · p. 120
अनुष्टुप्
जयन्तः शंकरे चन्द्रे पाकशासनि-भीमयोः ।जयन्ती पार्वतीदेव्यामिन्द्रपुत्री-पताकयोः ॥ ६५३ ॥
653 · p. 120
अनुष्टुप्
जयपालो विधौ विष्णौ भूपाले बीजरेचने ।दुर्गायां पार्वतीसख्यां विजया-तिथिभेदयोः ॥ ६५५ ॥
655 · p. 121
अनुष्टुप्
शान्ता वृक्षे हरीतक्यामग्निमन्थे द्रुमान्तरे ।नीलदूर्वा-वैजयन्तीभेदयोश्च जया स्मृता ॥ ६५६ ॥
656 · p. 121
अनुष्टुप्
जरठो जीर्ण-कठिन-जरा-कर्कश-पाण्डुषु ।जरणो जीरके कासमर्दे सौवर्चले स्मृतः ॥ ६५७ ॥
657 · p. 121
अनुष्टुप्
जरद्गवो जीर्णवृक्ष-गृध्रपक्षिविशेषयोः ।जरा स्याद्राक्षसीभेदे वार्द्धक्ये क्षीरिकाद्रुमे ॥ ६५८ ॥
658 · p. 121
अनुष्टुप्
जरन्तो महिषे वृद्धे जरसानस्तु मानवे ।गर्भाशये जरायुः स्यात् अग्निजारमहीरुहे ॥ ६५९ ॥
659 · p. 121
अनुष्टुप्
जर्जरः शैलजे शक्रध्वजे शीर्णे जरातुरे ।जर्जरीको बहुच्छिद्रद्रव्ये त्रिषु जरातुरे ॥ ६६० ॥
660 · p. 121
अनुष्टुप्
जलं गोकलने नीरे ह्रीबेरेऽथ जडे त्रिषु ।जलगुल्मो जलावर्ते कमठे नीरचत्वरे ॥ ६६१ ॥
661 · p. 122
अनुष्टुप्
जलप्रायमनूपेऽथ चातकेऽपि जलप्रियः ॥
667 · p. 122
जलयन्त्रगृहं प्रोक्तं जलयन्त्रनिकेतने ॥ ६६४ ॥
664 · p. 122
जलरुण्डो जलावर्ते पयोरेणौ भुजंगमे ।जलव्यालोऽलगर्दे स्यात् क्रूरकर्मणि यादसि ॥ ६६५ ॥
665 · p. 122
अनुष्टुप्
जलसूचिर्जलौकायां शृङ्गाट-शिशुमारयोः ।कङ्कत्रोटेऽथ शैवाले स्रोतस्यापि जलाञ्चलम् ॥ ६६६ ॥
666 · p. 123
अनुष्टुप्
जलाशयो जलाधाते शृङ्गाटक समुद्रयोः ।जलेन्द्रो वरुणे सिन्धौ जम्भलेऽपि निगद्यते ॥ ६६७ ॥
667 · p. 123
अनुष्टुप्
जवनो वेगयुक्ताश्वे वेग-देशविशेषयोः ।म्लेच्छजात्यन्तरे पुंसि वेगयुक्ते त्वसौ त्रिषु ॥ ६६८ ॥
668 · p. 123
अनुष्टुप्
जातवेदाः स्मृतो वह्नौ चित्रकाख्यौषधे पुमान् ।जातरूपन्तु धुस्तूरे काञ्चनोत्पन्नरूपयोः ॥ ६६९ ॥
669 · p. 123
अनुष्टुप्
जातिरश्मन्तिका-जन्म-सामान्याऽऽमलकीषु च ।गोत्रे जातीफले छन्दोविशेषे मालतीसुमे ॥ ६७० ॥
670 · p. 123
अनुष्टुप्
काम्पिल्लतरु-गीत्वाद्योर्जात्यः श्रेष्ठ-कुलीनयोः ।जावालस्त्रिष्वजाजीवे मुनिभेदे पुमानसौ ॥ ६७१ ॥
671 · p. 123
अनुष्टुप्
जामाता दुहितुःपत्यौ सूर्यावर्ते धवेऽपि च ।जाम्बूनदं स्वर्णभेदे धुस्तूर-स्वर्णमात्रयोः ॥ ६७२ ॥
672 · p. 124
अनुष्टुप्
जाया स्त्रियां जायकन्तु पीतगन्धाढ्यदारुणि ।जायानुजीवीदुःस्थे स्याद् बके वेश्यापतौ नटे ॥ ६७३ ॥
673 · p. 124
अनुष्टुप्
जालं वातायने दम्भे इन्द्रजाल-समूहयोः ।आनेये क्षारके क्लीवं कदम्बे तु पुमानसौ ॥ ६७४ ॥
674 · p. 124
अनुष्टुप्
जालकं कोरके दम्भे कुलाय-समुदाययोः ।कूष्माण्डादिक्षुद्रफले क्षारकाऽऽनाययोरपि ॥ ६७५ ॥
675 · p. 124
अनुष्टुप्
स्याज्जालिको वागुरिके कैवर्ते ग्रामजालिनि ।ऊर्णनाभे जालिका तु गिरिसारेंऽशुकान्तरे ॥ ६७६ ॥
676 · p. 124
अनुष्टुप्
भटानामश्मरचिताऽङ्गरक्षिण्यां जलौकसि ।विधवास्त्रियामथो जाली स्मृता ज्यौत्स्नीपटोलयोः ॥ ६७७ ॥
677 · p. 124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जाल्मस्तु पामरे क्रूरेऽप्यसमीक्ष्यविधायिनि ।जाहको घोंघ-मार्जार-खट्वा-कारुण्डिकासु च ॥ ६७८ ॥
678 · p. 125
अनुष्टुप्
जिनोऽर्हति हृषीकेशे बुद्धेऽपि त्रिषु जित्वरे ।जिष्णुर्विष्णौ शुनासीरेऽर्जुने जेतरि तु त्रिषु ॥ ६७९ ॥
679 · p. 125
अनुष्टुप्
जिह्मगो मन्दगे सर्पे जिह्मः कुटिलमन्दयोः ।जिह्वलो लोलुपे लोले जिह्वा स्याद्रसनेन्द्रिये ॥ ६८० ॥
680 · p. 125
अनुष्टुप्
जिह्वापः कुक्कुरे व्याघ्रे भल्लूके वृषदंशके ।जीमूतो वासवे मेघे देवताडद्रुमे गिरौ ॥ ६८१ ॥
681 · p. 125
अनुष्टुप्
कुरुविन्दे भृतिकरे घोषकेऽपि प्रकीर्तितः ।जीरः स्याज्जीरके खड्गे जीर्णे वृद्धे पुरातने ॥ ६८२ ॥
682 · p. 125
अनुष्टुप्
जीवोऽसुधारणे वृत्तौ शरीरिणि बृहस्पतौ ।क्षेत्रज्ञ-कर्णयोर्वृक्षविशेषेऽथौषधान्तरे ॥ ६८३ ॥
683 · p. 126
अनुष्टुप्
प्राणके क्षपणे पीतशालेऽपि जीवकः पुमान् ।जीवि-सेवक-वृद्धाशि-व्यालग्राहिष्वसौ त्रिषु ॥ ६८४ ॥
684 · p. 126
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
जीवंजीवश्चकोराख्यपक्षि-वृक्षविशेषयोः ।जीवथः कच्छपे प्राणे मयूरे धार्मिकेऽम्बुदे ॥ ६८५ ॥
685 · p. 126
अनुष्टुप्
चिरायौ जीवदो वैद्ये रिपौ जीवनदातरि ।जीवनं सलिले वृत्तौ मज्ज-हैयङ्गवीनयोः ॥ ६८६ ॥
686 · p. 126
अनुष्टुप्
जीवितेऽथ पुमान् वाते पुत्रे क्षुद्रफलद्रुमे ।जीवन्तिका हरीतक्यां गुडुची जीवशाकयोः ॥ ६८७ ॥
687 · p. 126
अनुष्टुप्
वन्दायामथ जीवन्ती शमी-वन्दास्रवासु च ।जीवा वचायामवनौ शिञ्जिते जीवनीतरौ ॥ ६८८ ॥
688 · p. 127
अनुष्टुप्
मौर्वी जीवितयोरस्त्री जीवातुर्जीविनौषधौ ।ओदने जीविते चाथो जीवात्मा स्यात् शरीरिणि ॥ ६८९ ॥
689 · p. 127
अनुष्टुप्
जिवितेशः सहस्रांशौ चन्दिरे जीवितेश्वरे ।प्रिये कृतान्ते जीवातौ जूटककेशबन्धने ॥ ६९० ॥
690 · p. 127
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
जूर्णिर्ब्रह्मणि मार्तण्डे वेगे ज्वर-शरीरयोः ।जृम्भस्त्रिषु विकाशे स्यात् जृम्भणे स्फारितेऽपि च ॥ ६९१ ॥
691 · p. 127
अनुष्टुप्
जृम्भितं तु प्रवृद्धे स्यात् स्फुटितं च विचेष्टिते ।जृम्भे स्त्रीकरणे जैनो जिनोपासक-बौद्धयोः ॥ ६९२ ॥
692 · p. 127
अनुष्टुप्
आयुष्मतीन्दौ कर्पूरे सुते जैवातृकोऽगदे ।ज्ञः स्मृतः पण्डिते सौम्ये सदानन्दे महीसुते ॥ ६९३ ॥
693 · p. 127
अनुष्टुप्
ज्ञातिस्ताते सपिण्डादौ प्राग्जिने ज्ञानदर्पणः ॥ ६९४ ॥
694 · p. 128
ज्ञानं मोक्षधियि ज्ञानी दैवज्ञ-ज्ञानयुक्तयोः ।ज्या शिञ्जिन्यां जनन्यां वसुधायामपि स्मृता ॥ ६९५ ॥
695 · p. 128
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ज्यानिर्हानौ जीर्णतायां तटिन्यामपि कीर्तिता ।ज्येष्ठोऽग्रजे ज्येष्ठमासि श्रेष्ठेऽधिकवयोयुते ॥ ६९६ ॥
696 · p. 128
अनुष्टुप्
ज्योतिः प्रकाशे नक्षत्रे दृष्टावपि नपुंसकम् ।पुमान् वैश्वानरे सूर्ये मेथिकायामपीष्यते ॥ ६९७ ॥
697 · p. 128
अनुष्टुप्
ज्योतिश्चक्रं राशिचक्रे खद्योते ज्योतिरिङ्गणः ।ज्योत्स्ना पटोलिका-दुर्गा-चन्द्रिकोल्लासिरात्रिषु ॥ ६९८ ॥
698 · p. 128
अनुष्टुप्
कौमुद्यां श्वेतघोषायां ज्वरो ज्वरण-रोगयोः ।ज्वलो दीप्तियुते दीप्तौ ज्वालो वैश्वानरार्चिषि ॥ ६९९ ॥
699 · p. 128
अनुष्टुप्
दीप्तियुक्तेऽथ दग्धान्ने ज्वाला वह्न्यर्चिषि स्त्रियाम् ।झम्पः सम्पातपतने लम्फे झम्पी तु मर्कटे ॥ ७०० ॥
700 · p. 129
अनुष्टुप्
शैलावतीर्णसलिलप्रवाहे झरनिर्झरौ ।झर्झरः स्यात् कलियुगे झल्लीवाद्ये नदान्तरे ॥ ७०१ ॥
701 · p. 129
अनुष्टुप्
झल्लकं कांस्यरचितकरतालक उच्यते ।झल्लरी झल्लकी वाद्ये वालचक्र-हुडुक्कयोः ॥ ७०२ ॥
702 · p. 129
अनुष्टुप्
शुद्धं क्लेदेऽथ झल्लोलस्तर्कुलासक ईरितः ।झषो वैसारिणे तापे मीनराशौ च कानने ॥ ७०३ ॥
703 · p. 129
अनुष्टुप्
झाटो निकुञ्जे कान्तारे व्रणादीनां च मार्जने ।दग्धेष्टका झामकं स्यात् तर्कुशाणे तु झामरः ॥ ७०४ ॥
704 · p. 129
अनुष्टुप्
झिल्ली स्यात् झिल्लिकाकीटे वर्त्त्यामुद्वर्तनेंशुके ।स्थाली संलग्नदग्धान्ने स्यादातपरुचावपि ॥ ७०५ ॥
705 · p. 129
अनुष्टुप्
टङ्कोऽवलेपे जंघायां कोपे पाषाणदारणे ।परिमाणान्तरे कोषे करवाले पुमान् स्मृतः ॥ ७०६ ॥
706 · p. 130
अनुष्टुप्
अस्त्री नीलकपित्थे टङ्कणे दर्प-खनित्रयोः ।टङ्को रुप्यके टङ्कशाला रुप्यकालये ॥ ७०७ ॥
707 · p. 130
अनुष्टुप्metre not read in every line
टङ्करस्तु प्रसिद्धौ स्यादाश्चर्ये शिञ्जिनीध्वनौ ।टङ्गोऽस्त्रियां खनित्रे स्यात् जंघानिस्त्रिंशभेदयोः ॥ ७०८ ॥
708 · p. 130
अनुष्टुप्
टिट्टिभः पक्षिभेदे स्याद् इन्द्रारिदानवान्तरे ।टीका विवरणग्रन्थे टीकायां टिप्पनी स्मृता ॥ ७०९ ॥
709 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)
टुण्टुकः कृष्ण्खदिरे भेदे श्योनाकपक्षिणोः ।क्रूरे नीचे त्रिलिंगोऽसौ टङ्गिणीपादपे स्त्रियाम् ॥ ७१० ॥
710 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ठक्कुरो देवतायां स्याद् ठेरो वृद्धे त्रिलिंगकः ।डमरुः स्याच्चमत्कारे कपालियोगिवाद्ययोः ॥ ७११ ॥
711 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
डल्लकं वंशरचितपात्रादौ लकुचे डहुः ।डिङ्गरः सेवके धूर्ते क्षेप-डङ्गरयोः खले ॥ ७१२ ॥
712 · p. 130
अनुष्टुप्
डिण्डिमो वाद्यभेदे स्यात् कृष्णपाकफलेऽपि च ।डित्थो गजे काष्ठमये सुलक्षणयुते नरि ॥ ७१३ ॥
713 · p. 131
अनुष्टुप्
डिम्बो भयध्वनौ डिम्भे प्लीहायां विप्लवाण्डयोः ।नपुंसकं तु कलले डमरे फुस्फुसे भये ॥ ७१४ ॥
714 · p. 131
अनुष्टुप्
डिम्बिका जलबिम्बे स्यात् कामुक्यां शोणकद्रुमे ।डिम्भो मूर्खे शिशौ डीनं विहङ्गमगतौ मतम् ॥ ७१५ ॥
715 · p. 131
अनुष्टुप्
डुण्डुभो राजिले सर्पे क्षुद्रोलूके तु डुण्डुलः ।डोमः स्वनामप्रथिताऽस्पृश्यजातौ प्रकीर्तितम् ॥ ७१६ ॥
716 · p. 131
अनुष्टुप्