कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthodayasāgarakoṣa

नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa

2,302 verses · text only, tagging comes next

Part 11 (11/20)

परिग्रहः परिजने राहुवक्त्रस्थभास्करे ।स्वीकारे शपथे कन्दे सैन्यपृष्ठे स्त्रियामपि ॥ ११९६ ॥
1196 · p. 212
अनुष्टुप्
परिघो मुद्गरे शूले गोपुरे कलशेऽर्गले ।लोहसम्बद्धलगुडे योगे काचघटे गृहे ॥ ११९७ ॥
1197 · p. 213
अनुष्टुप्
परिघोषस्तु शब्दे स्यात् अवाच्ये मेघगर्जिते ।संस्तवे स्यात् परिचयः समन्ताच्चयने स्मृतः ॥ ११९८ ॥
1198 · p. 213
अनुष्टुप्
परिच्छिन्नोऽवधिप्राप्ते परिच्छेदयुते त्रिषु ।परिच्छेदोऽवधौ ग्रन्थाविच्छेदे कृतिनिश्चये ॥ ११९९ ॥
1199 · p. 213
अनुष्टुप्
परिवारे परिजनः समीपस्थितसेवके ।तिर्यग्दन्तप्रहारेभे पक्वे परिणतं त्रिषु ॥ १२०० ॥
1200 · p. 213
अनुष्टुप्
परिणामस्तु चरमे विकारेपि मतः पुमान् ।परितापो भये कम्पे नरकान्तर-दुःखयोः ॥ १२०१ ॥
1201 · p. 213
अनुष्टुप्
अत्युष्णतायां शोके च परित्राणन्तु रक्षणे ।परिधायः परिच्छेदे जनस्थान-नितम्बयोः ॥ १२०२ ॥
1202 · p. 213
अनुष्टुप्
परिधिस्तु पुमान् सूर्यचन्दिरासन्नमण्डले ।यज्ञीयद्रुमशाखायां स्याद्भूगोलादिवेष्टने ॥ १२०३ ॥
1203 · p. 214
अनुष्टुप्
नैपुण्ये परिपक्वत्वे परिपाकः प्रकीर्तितः ।परिबर्हो राजयोग्यवस्तुजाते परिच्छदे ॥ १२०४ ॥
1204 · p. 214
अनुष्टुप्
आलापे नियमे निन्दादुर्वादे परिभाषणम् ।परित्राणे मलत्यागे परिमोक्षो बुधैः स्मृतः ॥ १२०५ ॥
1205 · p. 214
अनुष्टुप्
मारणे च परित्यागे परिवर्जनमीरितम् ।परिवर्तो विनिमये कूर्मराजेऽपवर्तने ॥ १२०६ ॥
1206 · p. 214
अनुष्टुप्
युगान्ते ग्रन्थविच्छेदे मृत्युपौत्रान्तरेऽपि च ।परिवादोऽपवादे स्यात् वीणावादनवस्तुनि ॥ १२०७ ॥
1207 · p. 214
अनुष्टुप्
परिवापो जलस्थाने मुण्डने च परिच्छदे ।परिवारः परिजने खड्गकोषे परिच्छदे ॥ १२०८ ॥
1208 · p. 214
अनुष्टुप्
अग्न्याधाने परिज्ञाने विवाहे परिवेदनम् ।परिवेषः परिवृतौ परिधौ परिवेषणे ॥ १२०९ ॥
1209 · p. 215
अनुष्टुप्
परिष्कारस्त्वलंकारे शुद्धि-संस्कारयोरपि ।भूषिताऽऽहितसंस्कार-वेष्टितेषु परिष्कृतः ॥ १२१० ॥
1210 · p. 215
अनुष्टुप्
पर्यन्तभूमौ मृत्यौ च विधौ परिसरो मतः ।परिसर्याऽन्तसरणे सर्वतोगमने स्त्रियाम् ॥ १२११ ॥
1211 · p. 215
अनुष्टुप्
परिस्पन्दः परिकरे रचना-परिवारयोः ।परीवाहो जलोच्छ्वासे राजयोग्ये च वस्तुनि ॥ १२१२ ॥
1212 · p. 215
अनुष्टुप्
परीष्टिः परिचर्यायां प्राकाम्येऽन्वेषणे स्त्रियाम् ।परुः समुद्रे स्वर्लोके ग्रन्थि-पर्वतयोरपि ॥ १२१३ ॥
1213 · p. 215
अनुष्टुप्
परुषं निष्ठुरे वाक्ये नीलझिण्ट्यां परूषके ।परुषं त्रिषु रूक्षे स्याद् निष्ठुरोक्तौ च कर्बुरे ॥ १२१४ ॥
1214 · p. 215
अनुष्टुप्
मृते त्रिषु परेतः स्यात् भूतभेदे त्वसौ पुमान् ।परैधितः पिके पुंसि परसंवर्धिते त्रिषु ॥ १२१५ ॥
1215 · p. 216
अनुष्टुप्
पर्जन्यो वासवे मेघे स्तनिते ध्वनदम्बुदे ।स्त्री स्याद्दारुहरिद्रायां पर्णं ताम्बूलपत्रयोः ॥ १२१६ ॥
1216 · p. 216
अनुष्टुप्
पर्णसिः कमले शाके भूषणे जलसद्मनि ।पर्दः केशचयेऽपानवायूत्सर्गेऽपि कीर्तितः ॥ १२१७ ॥
1217 · p. 216
अनुष्टुप्
पर्पं गृहे खञ्जवाह्यशकटेऽभिनवे तृणे ।पर्पटः पुंसि तृष्णारिवृक्ष-पिष्टकभेदयोः ॥ १२१८ ॥
1218 · p. 216
अनुष्टुप्
पर्पटी जतुकृष्णायां सौराष्ट्रमृदि पिष्टके ।पर्परीकः सहस्रांशौ पावके च जलाशये ॥ १२१९ ॥
1219 · p. 216
अनुष्टुप्
पर्याप्तं वारणे तृप्तौ प्राप्तौ शक्ति-यथेष्ट्योः ।पर्याप्तिः स्यात् स्त्रियां प्राप्तौ परित्राण-प्रकाशयोः ॥ १२२० ॥
1220 · p. 216
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पर्यायोऽवसरे द्रव्यधर्म-निर्माणयोः क्रमे ।प्रकार-सम्पर्कभिदोः पर्यासः पतने हतौ ॥ १२२१ ॥
1221 · p. 217
अनुष्टुप्
पर्व क्लीवं क्षणे ग्रन्थौ प्रकारे लक्षणान्तरे ।दर्शप्रतिपदोः सन्धौ ग्रन्थविच्छेद ईरितम् ॥ १२२२ ॥
1222 · p. 217
अनुष्टुप्
पर्वतोऽद्रौ तरौ मीने शाक-देवर्षि-भेदयोः ।आकाशमांस्यां गायत्र्यां काल्यां पर्वतवासिनी ॥ १२२३ ॥
1223 · p. 217
अनुष्टुप्
शरभे शैलवास्तव्ये पर्वताश्रय ईरितः ।पर्वरीणोऽनिले गर्वे पर्णवृन्तरसे स्मृतः ॥ १२२४ ॥
1224 · p. 217
अनुष्टुप्
पत्रचूर्णरसे द्यूतकम्बले मृतकेऽपि च ।पलं विघटिकायां स्यात् साष्टरक्तिद्विमाषके ॥ १२२५ ॥
1225 · p. 217
अनुष्टुप्
तोलकत्रितये मांसे चतुष्कर्ष-पलालयोः ।मुण्डीरी-मक्षिका-लाक्षा-क्षुद्रगोक्षुरकेषु च ॥ १२२६ ॥
1226 · p. 217
अनुष्टुप्
किंशुके गुग्गुली-रास्नाद्रुमे स्त्री स्यात्पलंकषा ।पललं तिलचूर्णे स्यात् सैक्षवे पङ्क-मांसयोः ॥ १२२७ ॥
1227 · p. 218
अनुष्टुप्
पलाशः किंशुके शट्यां हरिते मगधेऽसुरे ।क्लीवं पत्रे त्रिलिंगस्तु हरिद्वर्णयुतेऽदये ॥ १२२८ ॥
1228 · p. 218
अनुष्टुप्
पलाशी क्षीरिवृक्षे स्यात् वृक्ष-राक्षसयोः पुमान् ।पलाशी सुरपर्ण्यां स्याल्लाक्षायां स्त्री प्रकीर्तिता ॥ १२२९ ॥
1229 · p. 218
अनुष्टुप्
पलिघः काचकलशे प्राकारे गोपुरे घटे ।पलितं कर्दमे तापे केशपाशे च शैलजे ॥ १२३० ॥
1230 · p. 218
अनुष्टुप्
केशादिशौक्ल्ये जरसा वृद्धयोः पलितो द्वयोः ।पल्लवोऽस्त्री किसलये शृङ्गारे विस्तरे बले ॥ १२३१ ॥
1231 · p. 218
अनुष्टुप्
विटपे नवपत्रादियुक्तशाखाग्रपर्वणि ।अलक्तरागे वलये चापलेऽपि प्रकीर्तितः ॥ १२३२ ॥
1232 · p. 218
अनुष्टुप्
वेश्यापतौ मत्स्यभेदे पुमान् पल्लवको मतः ।विस्तृते पल्लवाढ्ये च त्रिषु पल्लवितः स्मृतः ॥ १२३३ ॥
1233 · p. 219
अनुष्टुप्
पल्ली स्त्री गृहगोधायां कुटी-नगरभेदयोः ।स्थाने ग्रामटिकायां च गृह-ग्रामे कुटीचये ॥ १२३४ ॥
1234 · p. 219
अनुष्टुप्
आपाके प्रयते नीरे पावने पवनं मतम् ।पवनो मारुते राजमाषे पावयितर्यपि ॥ १२३५ ॥
1235 · p. 219
अनुष्टुप्
पवमानो गार्हपत्यवह्नि-मारुतयोः स्मृतः ।पवितस्त्रिषु पूते स्यात् क्लीवन्तु मरिचे मतम् ॥ १२३६ ॥
1236 · p. 219
अनुष्टुप्
पवित्रं वर्षणे ताम्रे कुशे पयसि घर्षणे ।मधुन्यर्घोपकरणे घृत-यज्ञोपवीतयोः ॥ १२३७ ॥
1237 · p. 219
अनुष्टुप्
पवित्रः प्रयते शुद्धद्रव्ये त्रिषु प्रकीर्तितः ।पुमांस्तु तिलवृक्षेऽसौ पुत्रजीवितरावपि ॥ १२३८ ॥
1238 · p. 219
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्रि (wrong syllable)
पवित्रको दमनकेऽश्वत्थे कुश उदुम्बरे ।पवित्रकन्तु जाले स्याच्छणसूत्रेऽपि कीर्तितम् ॥ १२३९ ॥
1239 · p. 219
अनुष्टुप्
पवित्रा स्याद्धरिद्रायां तुलस्यां सरिदन्तरे ।पशुः स्यात् प्रथमे देवे यज्ञोडुम्बर-यज्ञयोः ॥ १२४० ॥
1240 · p. 220
अनुष्टुप्
सिंहादिजन्तौ छगले प्राणिमात्रेऽपि कीर्तितः ।पक्षः सहाये मासार्धे चुल्लीरन्ध्रे विहङ्गमे ॥ १२४१ ॥
1241 · p. 220
अनुष्टुप्
वर्गे विरोधे वलये देहाङ्गे राजकुञ्जरे ।पिच्छे साध्ये बले पार्श्वे पतत्र-शरपक्षयोः ॥ १२४२ ॥
1242 · p. 220
अनुष्टुप्
सख्यौ गृहे ग्रहे शुद्धे कल्पे केशात् परश्चये ।पक्षकः पार्श्वमात्रे स्यात् पक्षद्वार-सहाययोः ॥ १२४३ ॥
1243 · p. 220
अनुष्टुप्
पक्षतिः स्त्री पक्षिपक्षमूले च प्रतिपत्तिथौ ।अन्याय्यसाहाय्यकृतौ पक्षपातः खगज्वरे ॥ १२४४ ॥
1244 · p. 220
अनुष्टुप्
अमायां पौर्णमास्यां च पक्षान्तः कीर्तितो बुधैः ।पक्षिणी शाकिनीभेदे पूर्णिमायां खगस्त्रियाम् ॥ १२४५ ॥
1245 · p. 220
अनुष्टुप्
आगामिवर्तमानाहर्युक्तायां रजनावपि ।पक्ष्म क्लीवं नेत्रलोम्नि किञ्जल्क-खगपक्षयोः ॥ १२४६ ॥
1246 · p. 221
अनुष्टुप्
सूत्रादेः स्वल्पभागेऽपि पांशवो लवणान्तरे ।पांशुर्ना पर्पटे धूलौ चिरसंचितगोमये ॥ १२४७ ॥
1247 · p. 221
अनुष्टुप्
दोषे कर्पूरभेदेऽथ पांशुरौ खञ्ज-दंशकौ ।वर्द्धापके प्रशंसायां पिष्टाते धूलिगुच्छके ॥ १२४८ ॥
1248 · p. 221
अनुष्टुप्
दूर्वाञ्चिततटीभूमौ पुरोटौ पांशुचामरः ।पांशुलः पुंश्चले शम्भुखट्वाङ्गे-कलिमारके ॥ १२४९ ॥
1249 · p. 221
अनुष्टुप्
हरे पापिन्यसौ पुंसि पांशुयुक्ते त्वयं त्रिषु ।पांशुला केतकी-भूमि-पुष्पिणी-कुलटासु च ॥ १२५० ॥
1250 · p. 221
अनुष्टुप्
पाकः परिणते दैत्ये रन्धने पेचके शिशौ ।स्थाल्यादौ साध्वसे भंगे राष्ट्रादौ पानकर्तरि ॥ १२५१ ॥
1251 · p. 221
अनुष्टुप्
जरसा केशशौक्ल्येऽथ पाकलं कुष्ठभेषजे ।पाकलो बोधनद्रव्ये पावके कुञ्जरज्वरे ॥ १२५२ ॥
1252 · p. 222
अनुष्टुप्
मारुतेऽपि त्रिलिंगस्तु व्रणादेः पाककर्तरि ।पाकलिः स्त्री वृक्षभेदे कर्कट्यां पाकली मता ॥ १२५३ ॥
1253 · p. 222
अनुष्टुप्
पाक्यः पुमान् यवक्षारे क्लीवं विड्लवणोषयोः ।पाचकः सूपकारेऽग्नौ पित्तभेदेषु पाचकम् ॥ १२५४ ॥
1254 · p. 222
अनुष्टुप्
प्रायश्चित्ते पाचनं स्यात् त्रिषु पाचयितर्यसौ ।पाचनोऽम्लरसे वह्नौ रक्तैरण्डे च टङ्कणौ ॥ १२५५ ॥
1255 · p. 222
अनुष्टुप्
पाचनी स्याद्धरिद्रायां पाचलं पाचने मतम् ।पाचलो रन्धनद्रव्ये पाचके मारुतेऽनले ॥ १२५६ ॥
1256 · p. 222
अनुष्टुप्
पाञ्चजन्यो विष्णुशङ्खे जातवेदस्यपि स्मृतः ।पांचालं नद्वयोः शास्त्रे त्रिषु पंचालदेशजे ॥ १२५७ ॥
1257 · p. 222
अनुष्टुप्
पांचाली शालभञ्ज्यां स्याद् द्रौपद्यामपि कीर्तिता ।पाटकः स्यान्महाकिष्कौ वाद्य-ग्रामैकदेशयोः ॥ १२५८ ॥
1258 · p. 223
अनुष्टुप्
अक्षादिचालने मूलद्रव्यापचय-रोधयोः ।पाटलः स्यादाशुधान्य-श्वेतलोहितवर्णयोः ॥ १२५९ ॥
1259 · p. 223
अनुष्टुप्
दुर्गायां कृष्णवृन्तायां रक्तलोध्रे च पाटला ।आरोग्ये पटुतायां च पाटवं क्लीवमीरितम् ॥ १२६० ॥
1260 · p. 223
अनुष्टुप्
धूर्ते पटौ पाटविकः पाटी वाट्यालके क्रमे ।पाठीनः पाठके मत्स्यविशेषे गुग्गुलद्रुमे ॥ १२६१ ॥
1261 · p. 223
अनुष्टुप्
कुलिकद्रौ करे पाणिः पाणिघः पाणिवादके ।गैरिके कुन्दपुष्पे च पाण्डरं क्लीवमीरितम् ॥ १२६२ ॥
1262 · p. 223
अनुष्टुप्
पुमान् मरुबके शुक्लवर्णे तद्वति तु त्रिषु ।पाण्डुर्नृपान्तरे रोगे पटोले श्वेतकुञ्जरे ॥ १२६३ ॥
1263 · p. 223
अनुष्टुप्
वर्णे च पीतभागार्द्धे केतकीधूलिसन्निभे ।सितवर्णे नागभेदे स्यात्पाण्डुरफलीक्षुपे ॥ १२६४ ॥
1264 · p. 224
अनुष्टुप्
पाण्डुः स्त्री माषपर्ण्यां स्यात् पाण्डुवर्णस्त्रियामपि ।श्वेतप्रावार-दृषदोः कम्बले पाण्डुकम्बलः ॥ १२६५ ॥
1265 · p. 224
अनुष्टुप्
पातो विधुन्तुदे त्राते पतने पातकं त्वघे ।पातालं नागलोके स्याद् विवरे वडवानले ॥ १२६६ ॥
1266 · p. 224
अनुष्टुप्
लग्नाच्चतुर्थस्थाने व जायुपाकार्थयन्त्रके ।पातालनिलयो दैत्ये सर्पे पातालवासिनि ॥ १२६७ ॥
1267 · p. 224
अनुष्टुप्
पातिली स्त्री वागुरायां नारी-मृत्पात्रभेदयोः ।पातुकः पतयालौ स्यात् प्रयाते जलहस्तिनि ॥ १२६८ ॥
1268 · p. 224
अनुष्टुप्
पात्रं मापकमाने स्यात् स्रुवादौ राजमन्त्रिणि ।तीरद्वयान्तरे पर्णे योग्ये नाट्यानुकर्तरि ॥ १२६९ ॥
1269 · p. 224
अनुष्टुप्
भाजने पात्रटीरस्तु युक्तव्यापारमंत्रिणि ।कांस्यपात्रे लौहपात्रे कङ्के राजतभाजने ॥ १२७० ॥
1270 · p. 224
अनुष्टुप्
सिंहाणे वायसे वह्नौ पिङ्गाशेऽपि प्रकीर्तितः ।पाथोऽनले सहस्रांसौ पाथन्तु सलिले मतम् ॥ १२७१ ॥
1271 · p. 225
अनुष्टुप्
पाथेयं शम्बले कन्याराशौ पाथोजमम्बुजे ।पादः श्लोकचतुर्थांशे शैलप्रत्यन्तपर्वते ॥ १२७२ ॥
1272 · p. 225
अनुष्टुप्
चतुर्थभागे चरणे किरण-द्रुममूलयोः ।पारी स्त्रियां पानपात्रे परागे जलसंचये ॥ १२७३ ॥
1273 · p. 225
अनुष्टुप्
दोहपात्रे प्रवाहे च कर्कर्यां करिशृंखले ।पार्श्वो जिनविशेषे त्रिष्वन्तिकेऽथास्त्रियामसौ ॥ १२७४ ॥
1274 · p. 225
अनुष्टुप्
पार्श्वास्थिसंघे कक्षाऽधोभागे पर्शुगणे तथा ।पार्ष्णिः स्त्रियामुन्मदस्त्रीकुन्ती स्त्रीपुंसयोस्त्वसौ ॥ १२७५ ॥
1275 · p. 225
अनुष्टुप्
पादग्रन्थ्यधरः पृष्ठे सैन्यपृष्ठे जयस्पृहा ।पाशीना वरुणे व्याधे यमे पाशधरे त्रिषु ॥ १२७६ ॥
1276 · p. 225
अनुष्टुप्
पाक्षिकः स्यात् पक्षभवे पक्षपातिनि च त्रिषु ।पक्षाघातान्विते पक्षसंयुते पक्षिघातके ॥ १२७७ ॥
1277 · p. 226
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
पिङ्गलो नागभेदे स्यात् ना रुद्रेऽग्नौ कपिले कपौ ।निधिभेदे स्थावराख्यविषभेदर्षिभेदयोः ॥ १२७८ ॥
1278 · p. 226
metre not recognisednearly अनुष्टुप्
क्षुद्रोलूके वर्षभेदे पिशङ्गे तद्वति त्रिषु ।नाडीभेदे पक्षिभेदे बलाकायामसौ त्रिषु ॥ १२७९ ॥
1279 · p. 226
अनुष्टुप्
शिंशया-कर्णिका-राजरीति-वेश्याभिदासु च ।पिच्छा छटायां मोचायां चोलिका-फणिलालयोः ॥ १२८० ॥
1280 · p. 226
अनुष्टुप्
भक्तमण्डे तथा पूगे पङ्क्तावश्वपदामये ।शाल्मलीवेष्टने कोषे चामरे शिंशपातरौ ॥ १२८१ ॥
1281 · p. 226
अनुष्टुप्
पिञ्जरं हरिताले स्यात् सुवर्णे नागकेशरे ।पक्ष्यादिबन्धनागारे शरीरास्थिकदम्बके ॥ १२८२ ॥
1282 · p. 227
अनुष्टुप्
अश्वभेदे वर्णभेदे पुंसि तद्वत्यसौ त्रिषु ।पिण्डो बोले बले सान्द्रे निवापे गोल-देशयोः ॥ १२८३ ॥
1283 · p. 227
अनुष्टुप्
सिल्हके स्यात् जपापुष्पे वृन्दे मदनपादपे ।गेहैकदेशे कवले देहमात्रे भ-कुम्भयोः ॥ १२८४ ॥
1284 · p. 227
अनुष्टुप्
पिशाचे पुंसि पिण्डालुः पिण्डमूले तु न द्वयोः ।पीयूषममृते दुग्धे नवदुग्धे तु पुंस्यपि ॥ १२८५ ॥
1285 · p. 227
अनुष्टुप्
पुण्यं धर्मे व्रते सत्ये पावने शुद्धकर्मणि ।सुगन्धौ सुन्दरे पूतात्मनि चोक्तं त्रिलिंगकम् ॥ १२८६ ॥
1286 · p. 227
अनुष्टुप्
पुत्रकः शरभे धूर्ते शैल-पादपभेदयोः ।पुराऽव्ययं चिरातीते भीरावासन्नभाविनि ॥ १२८७ ॥
1287 · p. 227
अनुष्टुप्
पुलको गन्धर्वभेदे रोमाञ्चे पानभाजने ।हरिताले रत्नदोषविशेषोपलभेदयोः ॥ १२८८ ॥
1288 · p. 227
अनुष्टुप्
पुष्करं कमले वाद्य भाण्डास्ये गगने जले ।कोषे करिकराग्रे चौषधि-तीर्थविशेषयोः ॥ १२८९ ॥
1289 · p. 228
अनुष्टुप्
पुष्करः सारसे नागभेदे नलसहोदरे ।रोगद्वीपाद्रिभेदेषु जीमूते वरुणात्मजे ॥ १२९० ॥
1290 · p. 228
अनुष्टुप्
करेणौ स्थलपद्मिन्यां खाते पुष्करिणी मता ।सरोजिन्यां पुष्कराह्वतीर्थभू-कुष्ठमूलयोः ॥ १२९१ ॥
1291 · p. 228
अनुष्टुप्
पुष्पकं मृत्तिकाऽङ्गारशकट्यां रत्नकङ्कणे ।काशीसे श्रीदविमाने नेत्ररोगे रसाञ्जने ॥ १२९२ ॥
1292 · p. 228
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
पुष्पदन्तस्तु दिङ्नागे जिनभेदे गणान्तरे ।पुष्पः कलियुगे पौषमास-नक्षत्रभेदयोः ॥ १२९३ ॥
1293 · p. 228
अनुष्टुप्
पूगः कण्टकिवृक्षे स्याद् गुवाके व्यूह-भावयोः ।पूतना दानवीभेदे गन्धमांस्यां गदान्तरे ॥ १२९४ ॥
1294 · p. 228
अनुष्टुप्
पूरणं पूरके पिण्डप्रभेदे वानतन्तुषु ।पृथग्जनो भिन्नलोके मूर्खे नीचे च पापिनि ॥ १२९५ ॥
1295 · p. 228
अनुष्टुप्
पृदाकुर्भुगजे व्याघ्रे वृश्चिके कुञ्जरे तरौ ।पेचको वायसारातौ पर्यङ्के मेघ-यूकयोः ॥ १२९६ ॥
1296 · p. 229
अनुष्टुप्
पेशलः कोमले दक्षे धूर्त-सुन्दरयोस्त्रिषु ।पोतो वस्त्रे गृहस्थाने दशवर्षीयहस्तिनि ॥ १२९७ ॥
1297 · p. 229
अनुष्टुप्
पोत्रं शूकरवक्त्राग्रे लाङ्गलाग्र-वहित्रयोः ।पौण्ड्र इक्षुप्रभेदे शंख-देशप्रभेदयोः ॥ १२९८ ॥
1298 · p. 229
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पौरुषं पुरुषस्योक्तौ भावे कर्मणि पौरुषे ।पौरुषेयो वधे संघे पुरुषस्य पदान्तरे ॥ १२९९ ॥
1299 · p. 229
अनुष्टुप्
प्रकाण्डो विटपे दण्डे शस्ते चोत्तरसंस्थिते ।प्रकाशो अतिप्रसिद्धे स्यात् प्रहासे व्यक्त आतपे ॥ १३०० ॥
1300 · p. 229
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विस्तारे चामरे ग्रन्थविच्छेदे च प्रकीर्णकम् ।प्रकृतिः पञ्चभूतेषु प्रधाने पूलकारणे ॥ १३०१ ॥
1301 · p. 230
अनुष्टुप्
प्रखरो हयसन्नाहे कुक्कुरेऽश्वतरे खरे ।प्रघणस्ताम्रकुण्डे स्यात् प्रघाणे लौहमुद्गरे ॥ १३०२ ॥
1302 · p. 230
अनुष्टुप्
प्रचालकः शराघाते भुजङ्गम-शिखण्डयोः ।प्रजापतिर्महीपाले जामातरि दिवाकरे ॥ १३०३ ॥
1303 · p. 230
अनुष्टुप्
पितरि त्वष्टरि ब्रह्म-दक्षादि-दहनेषु च ।प्रज्ञानं लाञ्छने बुद्धौ पण्डिते तु त्रिषु स्मृतम् ॥ १३०४ ॥
1304 · p. 230
अनुष्टुप्
प्रणयः प्रश्रये प्रेम्णि याञ्चा-निर्वाणयोरपि ।प्रणाय्योऽसम्मते साधावभिलाषविवर्जिते ॥ १३०५ ॥
1305 · p. 230
अनुष्टुप्
प्रतापोऽर्कतरौ तापे कोषदण्डजतेजसि ।प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे ॥ १३०६ ॥
1306 · p. 230
अनुष्टुप्
द्विजेभ्यो विधिवद्देये तद्ग्रह-ग्रहभेदयोः ।प्रतिपद्द्रगडे वाद्ये धिषणा-तिथिभेदयोः ॥ १३०७ ॥
1307 · p. 230
अनुष्टुप्
प्रतिपन्नं तु विक्रान्तेऽङ्गीकृतेऽवगते त्रिषु ।प्रतिपक्षस्तु सादृश्ये विपक्षे प्रतिवादिनि ॥ १३०८ ॥
1308 · p. 231
अनुष्टुप्
बोधने प्रतिपत्तौ च दानेऽपि प्रतिपादनम् ।प्रतिभा तु मतौ दीप्ति-प्रत्युत्पन्नमतित्वयोः ॥ १३०९ ॥
1309 · p. 231
अनुष्टुप्
प्रतिमा गजदन्तस्य बन्धे प्रतिकृतावपि ।प्रतियत्नो निग्रहादौ संस्कारे च प्रतिग्रहे ॥ १३१० ॥
1310 · p. 231
अनुष्टुप्
प्रतिष्कसः सहाये स्याद् वार्ताहर-पुरोगयोः ।प्रतिष्ठा गौरवे स्थाने पद्य-संस्कारभेदयोः ॥ १३११ ॥
1311 · p. 231
अनुष्टुप्
प्रातःकाले चमूपृष्ठे माल्ये प्रतिसरः पुमान् ।अस्त्रियां मण्डलाऽऽरक्ष-हस्तसूत्रेषु कीर्तितः ॥ १३१२ ॥
1312 · p. 231
अनुष्टुप्
त्रिषु प्रतिहतौ द्विष्टे प्रतिस्खलित-रुद्धयोः ।प्रतीकारश्चिकित्सायां वैरनिर्यातनेऽपि च ॥ १३१३ ॥
1313 · p. 231
अनुष्टुप्
प्रतीतस्त्रिषु विख्याते सादरे ज्ञात-हृष्टयोः ।प्रतीहारो द्वारपाले द्वार-सन्धिविशेषयोः ॥ १३१४ ॥
1314 · p. 231
अनुष्टुप्
प्रत्यक् पश्चिमदिक्देश-कालेष्वव्ययमीरितम् ।प्रत्ययः शपथेऽधीने ज्ञानविश्वासहेतुषु ॥ १३१५ ॥
1315 · p. 232
अनुष्टुप्