All kośas › Nānārthodayasāgarakoṣa
नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa
2,302 verses · text only, tagging comes next
Part 9 (9/20)
धारिणी धरणौ देवस्त्रीगणे शाल्मलतरौ ।धार्तराष्ट्रो हंस-सर्पभेदे दुर्योधनादिके ॥ ९५७ ॥
957 · p. 172
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 ल (wrong syllable)
धावनं गमने शुद्धौ पृश्निपर्ण्यां तु धावनी ।धारकी-कंटकार्योश्च धावितो मार्जिते गते ॥ ९५८ ॥
958 · p. 172
अनुष्टुप्
धिषणो विबुधाचार्ये धिषणा तु मतौ मता ।धिष्ण्यं शक्तौ गृहे स्थाने नक्षत्रे जातवेदसि ॥ ९५९ ॥
959 · p. 173
अनुष्टुप्
धीमान् बृहस्पतौ प्राज्ञे बुद्धिमत्यां तु धीमती ।धीरस्त्रिषु बुधे मन्दे विनीते बलशालिनि ॥ ९६० ॥
960 · p. 173
अनुष्टुप्
स्वैरे धैर्यान्विते पुंसि बलौ क्लीवन्तु कुंकुमे ।धीरा स्त्रीभेद-काकोली-महाज्योतिष्मतीषु च ॥ ९६१ ॥
961 · p. 173
अनुष्टुप्
धीवरी मत्स्यवेधिन्यां कैवर्त्यां धीवरस्त्रियाम् ।धीवरः पुंसि कैवर्ते धुतस्त्यक्त-विधूतयोः ॥ ९६२ ॥
962 · p. 173
अनुष्टुप्
धुन्धुमारः शक्रगोपे बृहदश्वनृपात्मजे ॥
967 · p. 173
पदालिके गेहधूमे धुरीणे तु धुरन्धरः ॥ ९६३ ॥
963 · p. 173
धववृक्षेऽप्यथो धुर्यो धूर्वहे वृषभे पुमान् ।धूः स्त्री रथाद्यग्रभागे भार-चिन्तनयोरपि ॥ ९६४ ॥
964 · p. 174
अनुष्टुप्
कम्पिते भर्त्सिते त्यक्ते तर्किते धूत इष्यते ।शुम्भासुरस्य सेनान्यां कपोते धूम्रलोचनः ॥ ९६५ ॥
965 · p. 174
अनुष्टुप्
धूर्तो द्यूतकरे षिङ्गे वञ्चके च त्रिलिंगकः ।क्लीवं विड्लवणे लौह-किट्टे पुंसि तु चोरके ॥ ९६६ ॥
966 · p. 174
अनुष्टुप्
धुस्तूरे जम्बुके धूलीकदम्बो वरुणद्रुमे ।नीपेऽथ धूसरः किञ्चित्पाण्डुवर्णे क्रमेलके ॥ ९६७ ॥
967 · p. 174
अनुष्टुप्
पारावते तैलकारे गर्दभे कीर्तितः पुमान् ।त्रिष्वीषत्पाण्डुवर्णाढ्ये स्त्री तु स्यात् किन्नरीभिदि ॥ ९६८ ॥
968 · p. 174
अनुष्टुप्
धृतराष्ट्रो नागभेदे पक्षिभेदे सुराजनि ।दुर्योधनस्य जनके स्त्रीष्वसौ हंसयोषिति ॥ ९६९ ॥
969 · p. 174
अनुष्टुप्
धृतिर्योगान्तरे यज्ञे सन्तोषे धारणे सुखे ।धारणा-धैर्ययोश्छन्दोविशेषे मातृकान्तरे ॥ ९७० ॥
970 · p. 175
अनुष्टुप्
धृष्टः प्रगल्भे निर्लज्जे पतिभेदे त्रिलिंगकः ।धेनुका गवि हस्तिन्यां धैनुकं धेनुसंहतौ ॥ ९७१ ॥
971 · p. 175
अनुष्टुप्
ध्वाङ्क्षस्तु तक्षके काके बक-भिक्षुकयोरपि ।ध्यानं ब्रह्मात्मचिन्तायां चिन्तने संप्रकीर्तितम् ॥ ९७२ ॥
972 · p. 175
अनुष्टुप्
ध्रुवः पुमान् शिवे विष्णौ नासाग्रे ध्रुवके वटे ।शरारिपक्षिणि स्थाणौ प्रभेदे वसु-योगयोः ॥ ९७३ ॥
973 · p. 175
अनुष्टुप्
उत्तानपादतनये ताराभेदेऽप्यसौ स्मृतः ।त्रिलिंगो निश्चिते नित्ये निश्चले सन्ततेऽपि च ॥ ९७४ ॥
974 · p. 175
अनुष्टुप्
नपुंसकन्तु गगने वितर्केऽथ ध्रुवा स्त्रियाम् ।स्रुग्विशेषे शालपर्ण्यां मूर्वा-गीतिप्रभेदयोः ॥ ९७५ ॥
975 · p. 175
अनुष्टुप्
साध्वी स्त्रियामथ स्थाणौ गीतांगे ध्रुवको मतः ।ध्वंसनं स्यादधःपाते विनाशे गमने क्वचित् ॥ ९७६ ॥
976 · p. 176
अनुष्टुप्
ध्वजोऽस्त्री पूर्वदिग्गेहे खट्वांगे चिह्न-शेफसोः ।शौण्डिके वैजयन्त्यां च पताकादण्ड-गर्वयोः ॥ ९७७ ॥
977 · p. 176
अनुष्टुप्
ध्वजी स्याद्ब्राह्मणे शैले मयूरे घोटके रथे ।शोण्डिके भुजगे पुंसि ध्वनिः स्यात् काव्य उत्तमे ॥ ९७८ ॥
978 · p. 176
अनुष्टुप्
मृदंगादिस्वने शब्दे ध्वस्तं नष्टे च्युते त्रिषु ।नकुलः शंकरे माद्रीतनये बभ्रु-पुत्रयोः ॥ ९७९ ॥
979 · p. 176
अनुष्टुप्
नकुली कुक्कुटी-मांसी-शङ्खिनी-कुंकुमेषु च ।हकारे बभ्रुभार्यायां कुलहीने त्वसौ त्रिषु ॥ ९८० ॥
980 · p. 176
अनुष्टुप्
नक्तञ्चरो राक्षसे स्यात् गुग्गुलौ चौर-घूकयोः ।अथ सिंहे च शार्दूले कुक्कुटे नखरायुधे ॥ ९८१ ॥
981 · p. 176
अनुष्टुप्
नगौकाः पुंसि पञ्चास्ये शरभे वायसे खगे ।त्रिषु स्यान्नगवास्तव्ये नग्नस्त्रिषु दिगम्बरे ॥ ९८२ ॥
982 · p. 177
अनुष्टुप्
पुमांस्तु स्यात् क्षपणके राजादिस्तुतिपाठके ।नटः कुशीलवेऽशोके रागिण्यां किष्कुपर्वणि ॥ ९८३ ॥
983 · p. 177
अनुष्टुप्
शौचिक्यां शौण्डिकाज्जाते वर्णसंकरमानवे ।नटी नटस्त्रियां वेश्या-गन्धद्रव्यविशेषयोः ॥ ९८४ ॥
984 · p. 177
अनुष्टुप्
नदीकान्तः समुद्रे स्यात् हिज्जले सिन्धुवारके ।नदीनो वरुणे सिन्धौ नदीजोऽर्जुनपादपे ॥ ९८५ ॥
985 · p. 177
अनुष्टुप्
आनन्दे निधिभेदे च वेणुभेदेऽप्यसौ मतः ।नन्दको विष्णुनिस्त्रिंशे हर्षके कुलपालके ॥ ९८७ ॥
987 · p. 177
अनुष्टुप्
पुत्रे भेकेऽथ नन्दन्तः पुत्रे मित्रे महीपतौ ।नन्दा सम्पदि पार्वत्यां तिथिभेदे ननान्दरि ॥ ९८९ ॥
989 · p. 178
अनुष्टुप्
विष्णौ द्यूताङ्ग आनन्दे नन्दिके नन्दिरस्त्रियाम् ।नन्दिकाऽलिञ्जरे शक्रक्रीडास्थाने तिथौ स्त्रियाम् ॥ ९९० ॥
990 · p. 178
अनुष्टुप्
नन्दिनी पार्वती-गङ्गा-रेणुकासु ननान्दरि ।वशिष्ठधेनौ नन्दी तु वटे शिवगणान्तरे ॥ ९९१ ॥
991 · p. 178
अनुष्टुप्
शालङ्कायनपुत्रे च गर्दभाण्डद्रुमेऽपि च ।नन्दिवर्द्धन ईशाने पक्षान्ते मित्र-पुत्रयोः ॥ ९९२ ॥
992 · p. 178
अनुष्टुप्
नन्द्यावर्तो राजसद्मप्रभेदे तगरद्रुमे ।नभश्चरो घने वायौ विद्याधर-विहङ्गयोः ॥ ९९३ ॥
993 · p. 178
अनुष्टुप्
नभो व्योम्नि नभा मेघे श्रावणे च पतद्ग्रहे ।घ्राणे मृणालतन्तौ च प्रावृट्-पलितशीर्षयोः ॥ ९९४ ॥
994 · p. 179
अनुष्टुप्
नमितो नामिते जातनमस्कारे मतस्त्रिषु ।नमुचिर्मदने दैत्ये नयनं प्रापणेऽक्षिणि ॥ ९९५ ॥
995 · p. 179
अनुष्टुप्
नरन्तु रामकर्पूरे नरो नारायणेऽर्जुने ।मनुष्ये पुरुषे शङ्कौ नरको निरयेऽसुरे ॥ ९९६ ॥
996 · p. 179
अनुष्टुप्
नरेन्द्रो विषवैद्ये स्याद् वार्तिके पृथिवीपतौ ।नर्तकः केलके नागे नल-चारणयोर्नटे ॥ ९९७ ॥
997 · p. 179
अनुष्टुप्
नर्तकी करिणी-नृत्यकारिणी-नलिकासु च ।नर्मठस्तु परीहासनिरते चूचुके विटे ॥ ९९८ ॥
998 · p. 179
अनुष्टुप्
नर्मदा नर्मसख्यां च स्पृक्का-मेकलकन्ययोः ।नलः पोटगले दैत्यविशेषे वानरान्तरे ॥ ९९९ ॥
999 · p. 179
अनुष्टुप्
जटामास्यामुशीरे च त्रिलिंगो नलदातरि ।नलिनं कमले नीरे नलिकायां पुमांस्त्वसौ ॥ १००१ ॥
1001 · p. 180
अनुष्टुप्
विहंगमे सारसाख्ये कृष्णपाकफलद्रुमे ।नलिनी व्योमगंगायामब्जिन्यां कमलाकरे ॥ १००२ ॥
1002 · p. 180
अनुष्टुप्
पद्मसन्दोहनलिका-नारिकेल-सुरासु च ।पद्मयुक्तप्रदेशे च सामान्यकमलेऽप्यसौ ॥ १००३ ॥
1003 · p. 180
अनुष्टुप्
नवः पुनर्नवायां स्यात् स्तवेऽसौ त्रिषु नूतने ।नष्टो नाशाश्रये नाशे मूर्च्छायां नष्टचेष्टता ॥ १००४ ॥
1004 · p. 180
अनुष्टुप्
नस्यन्तु नासिकाग्राह्यचूर्णादौ भेषजान्तरे ।नासिकाया हिते रज्जौ नासासम्बन्धिनि त्रिषु ॥ १००५ ॥
1005 · p. 180
अनुष्टुप्
नहुषो नागभेदे स्याच्चन्द्रवंश्यनृपान्तरे ।नक्षत्रं मोक्तिके तारा-दाक्षायण्योश्च कीर्तितम् ॥ १००६ ॥
1006 · p. 181
अनुष्टुप्
नक्षत्रनेमिर्विष्णौ स्याद् रेवत्यां ध्रुव-चन्द्रयोः ।नाकः स्वर्गेऽन्तरिक्षे च नाकुर्वल्मीक-शैलयोः ॥ १००७ ॥
1007 · p. 181
अनुष्टुप्
नाकुली कुक्कुटीकन्दे चविका-यवतिक्तयोः ।क्षुद्रवार्ताकिनी-रास्ना-कन्दभेदेष्वपि स्त्रियाम् ॥ १००८ ॥
1008 · p. 181
अनुष्टुप्
नागः पन्नग-पुन्नाग-क्रूराचारिषु कुञ्जरे ।सीसके मुस्तके वंगे वारिदे नागदन्तके ॥ १००९ ॥
1009 · p. 181
अनुष्टुप्
देहानिलप्रभेदे च ताम्बूल्यां नागकेशरे ।नागजं त्रिषु नागोत्थे क्लीवं सिन्दूर-रंगयोः ॥ १०१० ॥
1010 · p. 181
अनुष्टुप्
नागदन्तो हस्तिदन्ते भित्तिसंलग्नदारुणि ।नागदन्ती तु वारस्त्री-श्रीहस्तिन्योः प्रकीर्तिता ॥ १०११ ॥
1011 · p. 181
अनुष्टुप्
नागपुष्पस्तु पुंनागे चम्पके नागकेशरे ।हस्तितुल्यबले भीमसेने नागबलो मतः ॥ १०१२ ॥
1012 · p. 181
अनुष्टुप्
नागरं मुस्तके शुण्ठ्यां रतिबन्धेऽक्षरान्तरे ।नागरो नागरंगे स्याद् विदग्धे नगरोद्भवे ॥ १०१३ ॥
1013 · p. 182
अनुष्टुप्
देवरे नागराजस्तु स्यादनन्ते च वासुकौ ।नागरी तु विदग्धस्त्री-नागरस्त्री-स्नुहीषु च ॥ १०१४ ॥
1014 · p. 182
अनुष्टुप्
नाटको नर्तके शैले नाटकं रूपकान्तरे ।नाडी व्रणान्तरे नाले शिरा-कुहनचर्ययोः ॥ १०१५ ॥
1015 · p. 182
अनुष्टुप्
षट्क्षणे गण्डदूर्वायां नाडीजङ्घस्तु वायसे ।नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ॥ १०१६ ॥
1016 · p. 182
अनुष्टुप्
नादः शब्देऽर्द्धेन्दुवर्णे ब्रह्मघोषान्तरे स्मृतः ।नादेयः काशवानीरवृक्षयोः संप्रकीर्तितः ॥ १०१७ ॥
1017 · p. 182
अनुष्टुप्
नादेयी स्त्री काकजम्बू-नागरङ्ग-जवासु च ।वैजयन्त्यां भूमिजम्ब्वामग्निमन्थेऽम्बुवेतसे ॥ १०१८ ॥
1018 · p. 183
अनुष्टुप्
नाभिर्मुख्यनृपे गोत्रे प्रियव्रतनृपात्मजे ।क्षत्रिये चक्रमध्ये च प्राण्यंगे तु द्वयोरसौ ॥ १०१९ ॥
1019 · p. 183
अनुष्टुप्
कस्तूरिकायां स्त्रीलिंगो नाभीलं वंक्षणे स्त्रियाः ।गर्भाण्डे नाभिगाम्भीर्ये कष्टेऽपि कवयो विदुः ॥ १०२० ॥
1020 · p. 183
अनुष्टुप्
नाम लिंगे नामधेये नामशेषो मृतेऽत्यये ।नायकोऽग्रेसरे सेनापतौ शृङ्गारसाधके ॥ १०२१ ॥
1021 · p. 183
अनुष्टुप्
हारमध्यमणौ श्रेष्ठे नेतर्यपि बुधैः स्मृतः ।नारं नरसमूहे स्यान्नरसम्बन्धिनि त्रिषु ॥ १०२२ ॥
1022 · p. 183
अनुष्टुप्
नारस्तु तर्णके नीरे नरकस्थेऽपि नारकः ।नारकीटोऽश्मकीटे स्यात्स्वदत्ताशाविहन्तरि ॥ १०२३ ॥
1023 · p. 183
अनुष्टुप्
नारङ्गो यमजे षिंगे सरंगे पिप्पली रसे ।नारायणी शतावर्यां गौर्यां भागीरथीश्रियोः ॥ १०२४ ॥
1024 · p. 184
अनुष्टुप्
श्रीमुद्गलमुनिभार्यायां, विष्णौ नारायणः स्मृतः ।नालं पद्मादिदण्डे स्यान्मृणाले जलनिर्गमे ॥ १०२५ ॥
1025 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हरिताले गले काण्डे नालः पोटगले मतः ।नाली घटी-हस्तिमर्णवेधनी-धमनीषु च ॥ १०२६ ॥
1026 · p. 184
अनुष्टुप्
पद्मे शाककडम्बेऽथ नालिको महिषेऽम्बुजे ।नालीको विशिखे शल्ये नालीकं कमले स्मृतम् ॥ १०२७ ॥
1027 · p. 184
अनुष्टुप्
नाशो मृत्यौ परिध्वंसेऽनुपलम्भे पलायने ।नासा तु नासिकायां स्यात्काष्ठे द्वारोपरि स्थिते ॥ १०२८ ॥
1028 · p. 184
अनुष्टुप्
निःशेषं शेषरहिते समग्रेऽपि त्रिलिंगकम् ।निःश्रेयसं शुभे भक्तौ मुक्तौ विद्याऽनुभावयोः ॥ १०२९ ॥
1029 · p. 184
अनुष्टुप्
निःसंगः संगरहिते फलाऽनभिनिवेशिनि ।अथ निःसरणं मृत्यौ निर्वाणोपाययोरपि ॥ १०३० ॥
1030 · p. 185
अनुष्टुप्
निर्गमे भवनादीनां प्रवेशादिपथेऽपि च ।निःस्रावः स्याद्भक्तरसे मण्डे भक्तसमुद्भवे ॥ १०३१ ॥
1031 · p. 185
अनुष्टुप्
निकरः शेवधौ सारे न्यायदेयधने चये ।निकायो भवने लक्ष्ये संहतौ परमात्मनि ॥ १०३२ ॥
1032 · p. 185
अनुष्टुप्
निकारः स्यात् खलीकारे धान्योऽर्ध्वक्षेपणेऽपि सः ।धिक्कारे विप्रकारेऽथ मारणेऽपि निकारणम् ॥ १०३३ ॥
1033 · p. 185
अनुष्टुप्
निकुञ्चकस्तु वानीरे तुर्यांशे कुडवस्य च ।निकृतो वञ्चिते नीचे प्रत्याख्याते शठे त्रिषु ॥ १०३४ ॥
1034 · p. 185
अनुष्टुप्
निकृतिर्भर्स्तने दैन्ये क्षेपे शाठ्ये शठे स्त्रियाम् ।निकृष्टस्त्रिषु नीचे स्यात् जात्याचारादिनिन्दिते ॥ १०३५ ॥
1035 · p. 186
अनुष्टुप्
निकेतनः पलाण्डौ स्यात् आलये तु निकेतनम् ।निगदस्तु जनैर्वेद्ये जपे च कथनेऽपि च ॥ १०३६ ॥
1036 · p. 186
अनुष्टुप्
निगमो वाणिजे हट्टे पुरी-निश्चययोः कटे ।वेदे मार्गेऽप्यथो होमधूमे निगरणो गले ॥ १०३७ ॥
1037 · p. 186
अनुष्टुप्
निगुर्मूले मले चित्ते चित्रकर्म-मनोज्ञयोः ।निग्रहोऽनुग्रहाभावे भर्त्सने सीम्नि बन्धने ॥ १०३८ ॥
1038 · p. 186
अनुष्टुप्
नारायणे चिकित्सायां निघ्नोऽधीनेऽङ्कपूरणे ।निचितं पूरिते व्याप्ते निचयो निश्चये चये ॥ १०३९ ॥
1039 · p. 186
अनुष्टुप्
निघृष्वो मारुते मार्गे खर-शूकरयोः खुरे ।निचुलः कविभेदे स्यान्निचोले स्थलबेतसे ॥ १०४० ॥
1040 · p. 186
अनुष्टुप्
वानीरे हिज्जले चाथ निजं नित्य-स्वकीययोः ।नितम्बः स्त्रीकटीपश्चाद्भागे कटक-रोधसोः ॥ १०४१ ॥
1041 · p. 186
अनुष्टुप्
स्कन्धे च कटिमात्रेऽथ स्त्रीमात्रेऽपि नितम्बिनी ।नित्यः सदातने सिन्धौ नित्यन्त्वविरते मतम् ॥ १०४२ ॥
1042 · p. 187
अनुष्टुप्
नित्या तु मनसादेव्यां दुर्गा-शक्तिविशेषयोः ।निदर्शनन्तु दृष्टान्ते काव्यालंकरणे स्त्रियाम् ॥ १०४३ ॥
1043 · p. 187
अनुष्टुप्
निदानमवसाने स्याद् वत्सदाम्न्याऽऽदिकारणे ।तपःफलार्थने शुद्धौ कारणे कारणक्षये ॥ १०४४ ॥
1044 · p. 187
अनुष्टुप्
रोगहेतावथैलायां कण्टकार्यां निदिग्धिका ।निदेशः कथनोपान्तभाजनाऽऽज्ञासु कीर्तिता ॥ १०४५ ॥
1045 · p. 187
अनुष्टुप्
निधनो वधतारायां निधनं कुल-नाशयोः ।निधानं निधिः कार्यान्त-प्रवेशस्थानयोरपि ॥ १०४६ ॥
1046 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धिः (wrong syllable)
आधारेऽथ निधिः सिन्धावाधारे जीवकौषधौ ।अज्ञातस्वामिके पृथ्वीनिखातेऽर्थे च शेवधौ ॥ १०४७ ॥
1047 · p. 188
अनुष्टुप्
अथो निधुवनं केलौ कल्पे नर्मणि मैथुने ।निन्दाऽपवादे गर्हायां दुष्कृतौ सद्भिरीरिता ॥ १०४८ ॥
1048 · p. 188
अनुष्टुप्
क्लीवं निपातमाहावे स्याद्गोदोहन-भाजने ।निबन्धो बन्धने ग्रन्थवृत्तावानाह-निम्बयोः ॥ १०५० ॥
1050 · p. 188
अनुष्टुप्
निबन्धनं कारणे स्यादुपनाहे च बन्धने ।निभः पुमान् मतो व्याजे प्रकाशे सदृशे त्रिषु ॥ १०५१ ॥
1051 · p. 188
अनुष्टुप्
निमित्तं शकुने चिह्ने कारणेऽपि नपुंसकम् ।निमिषः कालभेदे स्याद् विष्णौ चक्षुर्निमीलने ॥ १०५२ ॥
1052 · p. 188
अनुष्टुप्
निमीलनन्तु मरणे निमेषेऽथ निमीलिका ।व्याजे निमीलने चाथो निमेषः समयान्तरे ॥ १०५३ ॥
1053 · p. 189
अनुष्टुप्
नियतः संयति नित्ये नियतिर्नियमे विधौ ।नियन्ता शासके सूते चार्गलिते नियन्त्रितः ॥ १०५४ ॥
1054 · p. 189
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable); pāda 4, syllable 3 लि (wrong syllable)
नियमो निश्चये शौचे सन्तोषे तपसि व्रते ।ईश्वरप्रणिधाने च सिद्धान्तश्रवणे जपे ॥ १०५५ ॥
1055 · p. 189
अनुष्टुप्
मन्त्रणायां प्रतिज्ञायां स्वाध्याये हुतदानयोः ।आस्तिक्ये ह्री-धीषणयोः कर्मण्यागन्तुसाधने ॥ १०५६ ॥
1056 · p. 189
अनुष्टुप्
सत्यादिपञ्चकेऽर्चायां यज्ञ इन्द्रियनिग्रहे ।नियामकः पोतवाहे कर्णधारे नियन्तरि ॥ १०५७ ॥
1057 · p. 189
अनुष्टुप्
निरञ्जना पूर्णिमायां स्त्री त्रिष्वञ्जनवर्जिते ।वधे निरसनं प्रत्याख्याने निष्ठीवने स्मृतम् ॥ १०५८ ॥
1058 · p. 190
अनुष्टुप्
निरस्तस्त्यक्तविशिखे निष्ठ्यूते त्वरितोदिते ।प्रत्याख्याते प्रतिहते सन्त्यक्ते प्रेषिते त्रिषु ॥ १०५९ ॥
1059 · p. 190
अनुष्टुप्
निरामयस्त्रिषूल्लाघे इडिक्के शूकरे पुमान् ।निरीहो विष्णु-जिनयोरीहाशून्ये त्वसौ त्रिषु ॥ १०६० ॥
1060 · p. 190
अनुष्टुप्
निरुक्तं वेदशास्त्रांगे कथिते पदभञ्जने ।निरूपणं विचारे स्याद् आलोके च निदर्शने ॥ १०६१ ॥
1061 · p. 190
अनुष्टुप्
निरूपितो नियुक्ते स्यादसौ कृतनिरूपणे ।निरूहो निश्चिते तर्क-वस्तिभेदे च निग्रहे ॥ १०६२ ॥
1062 · p. 190
अनुष्टुप्
ऊहशून्ये निरोधस्तु निग्रहे रोध-नासयोः ।निर्ऋतिः पुंस्यलक्ष्म्यां स्यात् नैर्ऋते निरुपद्रवे ॥ १०६३ ॥
1063 · p. 191
अनुष्टुप्
निर्गुणः परमेशाने विद्यादिगुणवर्जिते ।निर्ग्रन्थो वालिशे निस्स्वे मुनौ क्षपणके जिने ॥ १०६४ ॥
1064 · p. 191
अनुष्टुप्
निर्वृत्तहृदयग्रन्थौ द्यूतकर्तरि नग्नके ।निर्ग्रन्थकः क्षपणके निष्फले चापरिच्छदे ॥ १०६५ ॥
1065 · p. 191
अनुष्टुप्
निर्घण्टने स्थान्निर्घन्टो निघण्टौ गणसंग्रहे ।निर्जरस्त्रिदशे पुंसि सुधायां तु नपुंसकम् ॥ १०६६ ॥
1066 · p. 191
अनुष्टुप्
त्रिलिंगः स्याज्जरात्यक्ते गुडुची-मुरयोः स्त्रियाम् ।निर्जितस्त्रिषु विज्ञेयः पराभूते वशीकृते ॥ १०६७ ॥
1067 · p. 191
अनुष्टुप्
निर्जीवः प्राणरहिते जीवात्मरहिते त्रिषु ।निर्झरः सूर्यतुरगे झरे पुंसि तुषानले ॥ १०६८ ॥
1068 · p. 191
अनुष्टुप्
निर्दटस्तु दयाशून्ये निष्रयोजन-तीव्रयोः ।परापवादनिरते मतेऽपि कविभिः स्मृतः ॥ १०६९ ॥
1069 · p. 191
अनुष्टुप्
निर्दरः कठिने सारे निर्भये विगतत्रपे ।निर्देशः कथनोपान्तशासनेषु पुमान् मतः ॥ १०७० ॥
1070 · p. 192
अनुष्टुप्
निर्धूतं खण्डिते त्यक्ते कम्पिते च प्रकीर्तितम् ।निर्बन्धोऽभिनिवेशे स्यात् शिशूनामाग्रहान्तरे ॥ १०७१ ॥
1071 · p. 192
अनुष्टुप्
निर्मलं स्यात्तु निर्माल्येऽभ्रके त्रिषु मलोज्झिते ।निर्माणं निर्मितौ सारे कर्मभेदे समञ्जसे ॥ १०७२ ॥
1072 · p. 192
अनुष्टुप्
निर्मितं कृतनिर्माणे गठिते रचिते त्रिषु ।निर्मुक्तस्त्यक्तसंयोगे त्यक्तनिर्मोकपन्नगे ॥ १०७३ ॥
1073 · p. 192
अनुष्टुप्
त्रिषु स्यात्त्यक्तसंयोगे निर्मुटं तु कचङ्गने ।निर्मुटः खर्परे सूर्येऽपुष्पवृक्षेऽपि कीर्तितः ॥ १०७४ ॥
1074 · p. 192
अनुष्टुप्
निर्मोको व्योम्नि सन्नाहे मोचने सर्पकञ्चुके ।निर्याणं कुञ्जराऽपाङ्गभागे मोक्षेऽध्वनिर्गमे ॥ १०७५ ॥
1075 · p. 192
अनुष्टुप्