कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthodayasāgarakoṣa

नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa

2,302 verses · text only, tagging comes next

Part 10 (10/20)

निर्यातने वैरशुद्धौ दाने न्यासार्पणे वधे ।ऋणादिशुद्धौ निर्यासे वृक्षक्षीर-कषाययोः ॥ १०७६ ॥
1076 · p. 193
अनुष्टुप्
निर्यूहः शेखरे द्वारे निर्यासे नागदंतके ।आपीड-क्वाथरसयो निर्लेपः पापवर्जिते ॥ १०७७ ॥
1077 · p. 193
अनुष्टुप्
आसङ्गरहिते लेपशून्ये चासौ त्रिलिंगकः ।निर्वाणं निर्वृतौ मोक्षे निश्चले गजमज्जने ॥ १०७८ ॥
1078 · p. 193
अनुष्टुप्
विद्योपदेशने शून्ये विश्रान्तौ संगमेऽपि च ।अस्तंगतौ नाभिजप्यमूलमंत्रे नपुंसकम् ॥ १०७९ ॥
1079 · p. 193
अनुष्टुप्
त्रिष्वसौ वाणरहिते निमग्ने नष्ट-मुक्तयोः ।निर्वादो निश्चिते वादेऽवज्ञा-कोलापवादयोः ॥ १०८० ॥
1080 · p. 193
अनुष्टुप्
वादाभावे परीवादे दाने निर्वापणं वधे ।नगरादेर्बहिष्कारे वधे निर्वासनं मतम् ॥ १०८१ ॥
1081 · p. 193
अनुष्टुप्
कृताग्निहोत्रे निर्विष्टः स्थिते प्राप्ते विवाहिते ।निर्वृत्तिः सुस्थितौ मृत्यौ मोक्षेऽस्तंगमने सुखे ॥ १०८२ ॥
1082 · p. 193
अनुष्टुप्
निर्वृत्तिर्जीविकाहीने निष्पत्तावपि कीर्तिता ।निर्वेदः परवैराग्ये वैराग्ये स्वावमानने ॥ १०८३ ॥
1083 · p. 194
अनुष्टुप्
निर्वेशो वेतने भोगे परिणीतौ च मूर्च्छने ।निर्वेष्टनं नाडिचीरे त्रिष्वसौ वेष्टनोज्झिते ॥ १०८४ ॥
1084 · p. 194
अनुष्टुप्
निर्हारो मलमूत्रादित्यागे चाभ्यवकर्षणे ।यथेष्टविनियोगेऽपि दाहे सूरिभिरीरितः ॥ १०८५ ॥
1085 · p. 194
अनुष्टुप्
वस्त्रे गृहे निवसनं निवहो मारुते चये ।निवात आश्रयेऽवाते निवासेऽभेद्यवर्मणि ॥ १०८६ ॥
1086 · p. 194
अनुष्टुप्
निवापः पितृदाने स्याद् दानमात्रेऽपि चेष्यते ।निवीतमुपवीते स्यादाच्छादनपटे त्रिषु ॥ १०८७ ॥
1087 · p. 194
अनुष्टुप्
निवृत्तिः स्यादुपरम-प्रवृत्ति-प्रागभावयोः ।समर्पणाऽऽवेदनयोर्निवेदनमितीरितम् ॥ १०८८ ॥
1088 · p. 194
अनुष्टुप्
निवेशः शिविरोद्वाह-विन्यासेषु निवेशने ।निवेशनं प्रवेशे स्यान्नगरे च निकेतने ॥ १०८९ ॥
1089 · p. 195
अनुष्टुप्
निशा दारुहरिद्रायां वासतेयी-हरिद्रयोः ।मेषे वृषे च मिथुने कर्कि-ध्वनि-मृगेष्वपि ॥ १०९० ॥
1090 · p. 195
अनुष्टुप्
निशाचरश्चक्रवाके राक्षसे सर्प-भूतयोः ।चोरके जम्बुके घूके रजनीचरमात्रके ॥ १०९१ ॥
1091 · p. 195
अनुष्टुप्
निशाचरी तु राक्षस्यां कुलटायामपीष्यते ।निशान्तं भवने कल्के क्लीवं शान्ते त्वसौ त्रिषु ॥ १०९२ ॥
1092 · p. 195
अनुष्टुप्
आलोचन-श्रवणयोर्दर्शनेऽपि निशामनम् ।निशारणं रात्रियुद्धे रात्रिशब्दे च मारणे ॥ १०९३ ॥
1093 · p. 195
अनुष्टुप्
निशीथः स्यादर्धरात्रे रात्रिमात्रेऽपि कीर्त्यते ।निश्चलाङ्गो बके स्पन्दरहिते पर्वतादिके ॥ १०९४ ॥
1094 · p. 195
अनुष्टुप्
निश्चुक्कणं दन्तशाणे निषङ्गः संग-तूणयोः ।निषङ्गथिस्तृणे स्कन्धे संश्लेषे सारथौ रथे ॥ १०९५ ॥
1095 · p. 196
अनुष्टुप्
आपणे क्षुद्रखट्वायां निषधा सद्भिरीरिता ।निषधः कठिने शैले देशे राज्ञि स्वरान्तरे ॥ १०९६ ॥
1096 · p. 196
अनुष्टुप्
निष्कः स्वर्णपले हेम्नि सौवर्णिकचतुष्टये ।कंठभूषा-स्वर्णकर्ष-वक्षोलंकरणेषु च ॥ १०९७ ॥
1097 · p. 196
अनुष्टुप्
दीनारे षोडश द्रव्ये स्वर्णसाष्टशते पले ।आधारे नष्टवीर्ये च ब्रह्मणि त्रिषु निष्कलम् ॥ १०९८ ॥
1098 · p. 196
अनुष्टुप्
निष्कला निष्कलीवत् स्याद् वृद्धा-विगतपुष्पयोः ।निष्कासितो निर्गमितेऽधिकृताहितयोस्त्रिषु ॥ १०९९ ॥
1099 · p. 196
अनुष्टुप्
कवाट-क्षेत्र-पत्न्याट-गृहारामेषु निष्कुटः ।निष्क्रामो बुद्धिसामर्थ्ये निर्गमे दुष्कुले तथा ॥ ११०० ॥
1100 · p. 196
अनुष्टुप्
स्यान्निष्क्रमणसंस्कारे निस्तारेऽपि च निष्कृतिः ।निष्क्रियो निर्गतौ बुद्धियोग-प्रत्युपकारयोः ॥ ११०१ ॥
1101 · p. 197
अनुष्टुप्
भृतौ विनिमये शक्तौ निष्क्रियं ब्रह्मणि स्मृतम् ।निष्ठा निर्वहणे नाशे निष्पत्तावन्त-याञ्चयोः ॥ ११०२ ॥
1102 · p. 197
अनुष्टुप्
व्याकृतिप्रत्यये प्राप्ते श्रद्धायामपि कीर्तिता ।निष्पक्वं पक्वताशून्ये क्वथितेऽपि त्रिलिंगकम् ॥ ११०३ ॥
1103 · p. 197
अनुष्टुप्
सिद्धौ समाप्तौ निष्पत्तिर्विद्वद्भिः परिकीर्तिता ।निष्पावो राजशिम्ब्यां स्यात् सूर्पवायौ समीरणे ॥ ११०४ ॥
1104 · p. 197
अनुष्टुप्
धान्यादिनिस्तुषीकार्य-बहुलीकरणादिषु ।राजमाषे शिम्बिकायां निर्विकल्पे कडङ्गरे ॥ ११०५ ॥
1105 · p. 197
अनुष्टुप्
निसर्गस्तु स्वभावे स्यात्सर्गे रूपेऽति कीर्तितः ।निसृष्टे न्यस्तमध्यस्थे निसृष्टार्थो नरोत्तमे ॥ ११०६ ॥
1106 · p. 197
अनुष्टुप्
धनायव्ययरक्षादिनियुक्ते दूत्यकृद्भिदि ।त्रिषु निस्तुषितं त्यक्ते त्वग्विहीने लघूकृते ॥ ११०७ ॥
1107 · p. 198
अनुष्टुप्
निस्त्रिंशो निर्दये खड्गे त्रिंशत्शून्येऽपि कीर्तितः ।निह्नवोऽपह्नुतौ गुप्तेऽविश्वासे निकृतावपि ॥ ११०८ ॥
1108 · p. 198
अनुष्टुप्
निक्षेपः क्षेपणे त्यागे स्यात् समर्पितवस्तुनि ।नीकाश उपमायां स्यात् तुल्य-निश्चययोरपि ॥ ११०९ ॥
1109 · p. 198
अनुष्टुप्
नीचः स्यात् पामरे नम्रे वामने चोरके स्मृतः ।नीचगः पामरे नीरे क्लीवं सरिति नीचगा ॥ १११० ॥
1110 · p. 198
अनुष्टुप्
नीडः कुलाये स्थानेऽस्त्री नीतिः स्त्रीप्रापणे नये ।नीध्रं चन्द्रे वने नेमौ रेवती भ-वलीकयोः ॥ ११११ ॥
1111 · p. 198
अनुष्टुप्
नीपः कदम्बे बन्धूकेऽशोक-धाराकदम्बयोः ।नीरं जले रसेऽपि स्यात् नीरजन्तु सरोरुहे ॥ १११२ ॥
1112 · p. 198
अनुष्टुप्
कुष्ठौषधौ च मुक्तायां जलजाते त्वसौ त्रिषु ।नीरजो जलमार्जारे लघुकाशेऽपि कीर्तितः ॥ १११३ ॥
1113 · p. 199
अनुष्टुप्
नीरदो मुस्तके मेघे रदहीने त्वसौ त्रिषु ।नीरन्ध्रं छिद्ररहिते सान्द्रेप्युक्तं त्रिलिंगकम् ॥ १११४ ॥
1114 · p. 199
अनुष्टुप्
नीरसो दाडिमे पुंसि त्रिलिंगो रसवर्जिते ।कुष्ठौषधौ नीरुजं स्यात् उल्लाघे नीरुजस्त्रिषु ॥ १११५ ॥
1115 · p. 199
अनुष्टुप्
नीलं स्यात् काचलवणे सौवीराञ्जन-तुत्थयोः ।नृत्याङ्गकरणे नील्यां विष-तालीशपत्रयोः ॥ १११६ ॥
1116 · p. 199
अनुष्टुप्
नीलो नीलौषधौ शैलविशेषे वानरान्तरे ।इन्द्रनीलमणौ श्यामे मञ्जुघोषे च लाञ्छने ॥ १११७ ॥
1117 · p. 199
अनुष्टुप्
न्यग्रोधे निधिभेदेऽपि नीलवर्णवति त्रिषु ।नीलकं काचलवणे वर्तलोहेऽसने पुमान् ॥ १११८ ॥
1118 · p. 199
अनुष्टुप्
नीलकण्ठः शिवे पीतसारे खञ्जन-बर्हिणोः ।दात्यूहे ग्रामचटके मूलके तु नपुंसकम् ॥ १११९ ॥
1119 · p. 200
अनुष्टुप्
नीलपत्रो गुण्डतृणे दाडिमेऽश्मन्तकद्रुमे ।नीलासने नीलपद्मे त्रिषु नीलपलान्विते ॥ ११२० ॥
1120 · p. 200
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 गु (wrong syllable)
नीलंगुर्भम्भराल्यां स्त्री कृमौ च शुषिरे पुमान् ।नीलाञ्जसाऽप्सरोभेदे सौदामिन्यां नदीभिदि ॥ ११२१ ॥
1121 · p. 200
अनुष्टुप्
नीलाम्बरे नीलवर्णवस्त्र-तालीशपत्रयोः ।नीलाम्बरः प्रलम्बघ्ने राक्षसे च शनिग्रहे ॥ ११२२ ॥
1122 · p. 200
अनुष्टुप्
नीलिका नेत्ररोगे स्यात् क्षुद्ररोगे जलज्वरे ।शेफाली-नीलिनी-नीलसिन्दुवारेषु कीर्तिता ॥ ११२३ ॥
1123 · p. 200
अनुष्टुप्
नीवी स्त्रियां मूलधने राजपुत्रादिबन्धके ।नारीकटीवस्त्रबन्धे पुंस्कटीवस्त्रबन्धने ॥ ११२४ ॥
1124 · p. 200
अनुष्टुप्
प्रच्छादने स्यान्नीशारो हिमानलनिवारणे ।काण्डपट्टेऽथ पूजायां स्तुतौ च नुतिरिष्यते ॥ ११२५ ॥
1125 · p. 201
अनुष्टुप्
नेता त्रिषु प्रभौ निम्बवृक्षे प्रापयितर्यपि ।नेत्रं मन्थगुणे नाडी-वृक्षमूलजटाऽक्षिषु ॥ ११२६ ॥
1126 · p. 201
अनुष्टुप्
रथे वस्तिशलाकायामंशुके त्रिषु नेतरि ।नेत्री प्रापणकर्त्र्यां स्याल्लक्ष्मी-नाडी-नदीषु च ॥ ११२७ ॥
1127 · p. 201
अनुष्टुप्
नेदिष्ठमन्तिकतमे विज्ञेऽङ्कोटतरौ पुमान् ।नेपथ्यं स्यादलंकारे रंगभूमौ प्रसाधने ॥ ११२८ ॥
1128 · p. 201
अनुष्टुप्
नेमो गर्तेऽवधौ काले सायंकालेऽर्द्धमूलयोः ।प्राकारे कपटे खण्डे नाट्यादावूर्ध्व-भिन्नयोः ॥ ११२९ ॥
1129 · p. 201
अनुष्टुप्
नेमिः स्त्री चक्रपरिधौ कूपान्तिकसमस्थले ।कूपोपरिस्थपट्टान्ते त्रिकायामपि कीर्तितः ॥ ११३० ॥
1130 · p. 201
अनुष्टुप्
नेमिः पुमान् रथद्रौ स्याद् मतः तीर्थङ्करान्तरे ।नैगमस्तूपनिषदि वाणिजे नागरे नये ॥ ११३१ ॥
1131 · p. 202
अनुष्टुप्
न्यग्रोधः स्याद्वटे व्योमपरिमाणे शमीतरौ ।विषपर्णीलतायां च मोहनाख्यौषधावपि ॥ ११३२ ॥
1132 · p. 202
अनुष्टुप्
न्यङ् नीचे वामने निम्ने न्यंकुस्तु हरिणे मणौ ।न्यक्षं कार्त्स्न्ये तृणे क्लीवं निकृष्टेऽसौ त्रिलिंगकः ॥ ११३३ ॥
1133 · p. 202
अनुष्टुप्
जामदग्न्ये लुलापे च पुमान् सद्भिरुदाहृतः ।न्यायो विष्णौ तर्कशास्त्रे वाक्यभेदे समंजसे ॥ ११३४ ॥
1134 · p. 202
अनुष्टुप्
युक्तिमूलकदृष्टान्तविशेषेऽपि प्रकीर्तितः ।न्यासो ग्रन्थान्तरे त्यागे सन्न्यासे स्थाप्यवस्तुनि ॥ ११३५ ॥
1135 · p. 202
अनुष्टुप्
विन्यासेऽन्तर्बहिर्देहवर्णादिन्यास ईरितः ।न्युब्जस्त्रिषु रुजाभुग्ने कुब्जा-धोमुखयोरपि ॥ ११३६ ॥
1136 · p. 202
अनुष्टुप्
पुमांस्त्वसौ दर्भमयस्रुचि स्रुचि कुशेऽपि च ।न्यूनमूने तथा गर्ह्ये त्रिलिंगः परिकीर्तितः ॥ ११३७ ॥
1137 · p. 203
अनुष्टुप्
पक्वं दृढे परिणत-प्रत्यासन्नविनाशयोः ।पङ्कोऽस्त्री कर्दमे पापे पङ्कजं कमले मतम् ॥ ११३८ ॥
1138 · p. 203
अनुष्टुप्
पङ्कारः सेतु-शैवाल-सोपानेष्वम्बुकुब्जके ।पंक्तिर्दशाक्षरच्छन्दोविशेषे गौरवेऽवनौ ॥ ११३९ ॥
1139 · p. 203
अनुष्टुप्
पाके पञ्चाक्षरच्छन्दो-दशसंख्याऽऽवलीषु च ।पंगुः शनैश्चरे पुंसि जंघाहीने त्वसौ त्रिषु ॥ ११४० ॥
1140 · p. 203
अनुष्टुप्
पाके स्यात्पचनं वह्नौ पचनः पाककर्तरि ।पचेलिमोऽर्के ज्वलने स्वयं पक्वे त्वसौ त्रिषु ॥ ११४१ ॥
1141 · p. 203
अनुष्टुप्
पञ्चगुप्तस्तु चार्वाकदर्शने कच्छपे स्मृतः ।अथ पंचजनो दैत्यविशेषे पुरुषे मतः ॥ ११४२ ॥
1142 · p. 204
अनुष्टुप्
भण्डे पञ्चजनीयः स्यात् त्रिषु पञ्चजनीप्रभौ ।पञ्चतत्वं स्मृतं पञ्चभूत-पञ्चमकारयोः ॥ ११४३ ॥
1143 · p. 204
अनुष्टुप्
मरणे पञ्चभावे च पञ्चत्वं पञ्चता स्त्रियाम् ।अथ पंचनखः कूर्मे शार्दूले कुञ्जरे पुमान् ॥ ११४४ ॥
1144 · p. 204
अनुष्टुप्
पंचमो रुचिरे दक्षे पंचानां पूरणे त्रिषु ।स्वरान्तरे रागभेदे तन्त्रीकण्ठोत्थितस्वरे ॥ ११४५ ॥
1145 · p. 204
अनुष्टुप्
पञ्चमी शारिफलके द्रौपदी-तिथिभेदयोः ।पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः ॥ ११४६ ॥
1146 · p. 204
अनुष्टुप्
कण्डनी चोदकुम्भश्च वध्यते याश्च वाहयन् ।पञ्चाङ्गं पंजिकायां स्यात् पुरश्चरणकर्मणि ॥ ११४७ ॥
1147 · p. 204
अनुष्टुप्
पंचाङ्गः पंचभद्राश्वे प्रणामान्तर-कूर्मयोः ।पंचाननो महादेवे सिंहेऽत्युग्रे बुधैः स्मृतः ॥ ११४८ ॥
1148 · p. 205
अनुष्टुप्
पंचामृतं सितादुग्धदध्याऽऽज्यमधुसंयुते ।पंचाली शारिफलके पुत्तली-गीतभेदयोः ॥ ११४९ ॥
1149 · p. 205
अनुष्टुप्
श्रोत्रत्वक्-नेत्ररसनघ्राणे पंचेन्द्रियं विदुः ।पञ्जरः पुंसि कङ्काले गवां नीराजनाविधौ ॥ ११५० ॥
1150 · p. 205
अनुष्टुप्
कलौ शरीरे क्लीवन्तु पक्ष्यादिबन्धनालये ।पंजिका त्वग्रसन्धानी-तूलनालिकयोरपि ॥ ११५१ ॥
1151 · p. 205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
टीकाविशेषे पंचागे व्ययायलिपिपुस्तके ।कायस्थे पंजिकाकारे पंजिकारक ईरितः ॥ ११५२ ॥
1152 · p. 205
अनुष्टुप्
पंजी स्त्री पंजिकायां स्यात् नालिका-ग्रन्थभेदयोः ।पटोऽस्त्री कर्पटे चित्रपटे शोभनवाससि ॥ ११५३ ॥
1153 · p. 205
अनुष्टुप्
पुमान् प्रियालवृक्षेऽसौ त्रिलिंगः स्यात् पुरस्कृते ।स्त्रियां पटकुटी वस्त्रगृहे प्राज्ञैः प्रयुज्यते ॥ ११५४ ॥
1154 · p. 205
अनुष्टुप्
पटच्चरं जीर्णवस्त्रे तस्करे तु पुमानसौ ।शाटिकायां वस्त्रगेहे प्राज्ञाः पटमयं विदुः ॥ ११५५ ॥
1155 · p. 206
अनुष्टुप्
पटलं तिलके चाले नेत्ररोगे परिच्छदे ।समूहे पिटके ग्रन्थे दृष्टेरावरके तरौ ॥ ११५६ ॥
1156 · p. 206
अनुष्टुप्
आडम्बरे समारम्भे हिंसने पटहः पुमान् ।अस्त्रियां मानके वाद्ये पटिस्तु कुम्भिकाद्रुमे ॥ ११५७ ॥
1157 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
वागुलौ पटभेदेऽथ काण्डपट्यां पटे पटी ।पटीरं चन्दने तुङ्गे केदारे खदिरेऽम्बुदे ॥ ११५८ ॥
1158 · p. 206
अनुष्टुप्
तितऔ वेणुसारे च मूलके वातिके स्मरे ।उदरे हरणीयेऽथ छत्रा-लवणयोः पटुः ॥ ११५९ ॥
1159 · p. 206
अनुष्टुप्
पटुः पुमान् पटोले स्यात् कारवेल्ले च चोरके ।पटोलपत्रे काण्डीरलतायां च प्रयुज्यते ॥ ११६० ॥
1160 · p. 206
अनुष्टुप्
पटुस्तीक्ष्णे स्फुटे धूर्ते दक्ष-नीरोगयोस्त्रिषु ।निष्ठुरेऽथ पटोलं स्याद् वस्त्रभेदे लताफले ॥ ११६१ ॥
1161 · p. 207
अनुष्टुप्
पट्टः पेषणपाषाणे फलके ब्रणबन्धने ।चतुष्पथे च कौशेये राजादेः शासनान्तरे ॥ ११६२ ॥
1162 · p. 207
अनुष्टुप्
संव्यानोष्णीषयोः रक्तकौशेयोष्णीष-पीढयोः ।पट्टी ललाटभूषायां कमुके तलसारके ॥ ११६३ ॥
1163 · p. 207
अनुष्टुप्
पणः कार्षापणे द्यूते गृहे कार्षिकताम्रिके ।निर्वेशे शौण्डिके मूल्ये धने विंशतिगण्डके ॥ ११६४ ॥
1164 · p. 207
अनुष्टुप्
क्रय्यशाकाट्टिकायां च व्यवहारे भृतो ग्लहे ।पणितं त्रिषु विक्रीते स्तुते व्यवहृतेऽपि च ॥ ११६५ ॥
1165 · p. 207
अनुष्टुप्
पण्यविक्रयशालायां हट्टे स्यात् पण्यवीथिका ।पतङ्गो भास्करे शालिप्रभेदे शलभे खगे ॥ ११६६ ॥
1166 · p. 207
अनुष्टुप्
पतनं कल्मषे पाते तथा नीचगतावपि ।पताका नाटकांगेऽङ्के केतु-सौभाग्ययोर्ध्वजे ॥ ११६७ ॥
1167 · p. 208
अनुष्टुप्
पतिर्धवे गतौ मूलेऽधिपतौ तु मतस्त्रिषु ।पातित्ययुक्ते चलिते गलिते पतनाश्रये ॥ ११६८ ॥
1168 · p. 208
अनुष्टुप्
स्वधर्मविच्युतेऽपि स्यात् पतितः सर्वलिंगभाक् ।पत्तनं स्यान्महापुर्यां मृदङ्गे पुटभेदने ॥ ११६९ ॥
1169 · p. 208
अनुष्टुप्
पत्तिः पदातिके नीरे गतौ सेनान्तरे स्त्रियाम् ।पत्रं स्याद्वाहने पर्णे पत्रिका-शरपक्षयोः ॥ ११७० ॥
1170 · p. 208
अनुष्टुप्
हैमपत्राकृतिद्रव्ये पक्षिपक्षेऽक्षराश्रये ।पत्राङ्गं पद्मके भूर्जे रक्तचन्दनदारुणि ॥ ११७१ ॥
1171 · p. 208
अनुष्टुप्
पत्री पुमान् गिरौ वाणे श्येने वृक्षे विहंगमे ।रथिके श्वेतकिणिही-पाच्योः पत्रयुते त्रिषु ॥ ११७२ ॥
1172 · p. 208
अनुष्टुप्
पथ्यं त्रिषु हिते क्लीवं सैन्धवेऽथ पुमानसौ ।हरीतकीद्रुमे पथ्या वन्ध्याकर्कोटकीद्रुमे ॥ ११७३ ॥
1173 · p. 209
अनुष्टुप्
चिर्भिटायां मृगेर्वारौ हरीतक्यामपि स्मृता ।पदं शब्दे श्लोकपादे वस्तुनि त्राण-चिह्नयोः ॥ ११७४ ॥
1174 · p. 209
अनुष्टुप्
व्यवसाये पादचिह्ने प्रदेशे स्थान-वाक्ययोः ।चरणेऽपि मतं क्लीवं किरणे तु पुमानसौ ॥ ११७५ ॥
1175 · p. 209
अनुष्टुप्
पद्धतिर्वर्त्मनि श्रेण्यां ग्रन्थे ग्रन्थार्थबोधके ।पद्मं स्यात् कमले व्यूहे पद्मकाष्ठौषधौ निधौ ॥ ११७६ ॥
1176 · p. 209
अनुष्टुप्
पद्मके सीसके संख्याभेद-पुष्करमूलयोः ।पद्मो दाशरथौ नागविशेष-बलदेवयोः ॥ ११७७ ॥
1177 · p. 209
अनुष्टुप्
पद्मोत्तरात्मजे स्त्रीणां रतिबन्धान्तरे पुमान् ।पद्मकं पद्मकाष्ठे स्याद् बिन्दुजालक-कुष्ठ्ययोः ॥ ११७८ ॥
1178 · p. 209
अनुष्टुप्
पद्मनाभो हृषीकेशे भावितीर्थङ्करान्तरे ।पद्मप्रभः पद्मतुल्यप्रभायुक्ते जिनान्तरे ॥ ११७९ ॥
1179 · p. 210
अनुष्टुप्
ब्रह्म-सूर्य-कुवेरेषु नृपतौ पद्मलाञ्छनः ।इन्दिरायां सरस्वत्यां तारायां पद्मलाञ्छना ॥ ११८० ॥
1180 · p. 210
अनुष्टुप्
पद्मा लक्ष्म्यां लवंगे च व्यतीतजिनमातरि ।बृहद्रथसुता-पद्मचारिणी-पञ्जिकासु च ॥ ११८१ ॥
1181 · p. 210
अनुष्टुप्
कुसुम्भपुष्पे मनसादेव्यामपि सतां मता ।पद्यं कविकृतौ शाठ्ये पद्या मार्गे स्तुतावपि ॥ ११८२ ॥
1182 · p. 210
अनुष्टुप्
पद्मिनी हस्तिनी-पद्म-मृणालेषु सरोवरे ।स्त्रीविशेषे पद्मयुक्तदेश-पद्मसमूहयोः ॥ ११८३ ॥
1183 · p. 210
अनुष्टुप्
पन्नगो भुजगे पद्मकाष्ठ-भेषजभेदयोः ।पपीः स्याच्चन्दिरे सूर्ये पयः सलिल-दुग्धयोः ॥ ११८४ ॥
1184 · p. 210
अनुष्टुप्
पयस्विनी नदी-क्षीरविदारी-धेनु-रात्रिषु ।जीवन्ती-क्षीरकाकोली-दुग्धफेनीषु कीर्तिता ॥ ११८५ ॥
1185 · p. 211
अनुष्टुप्
पयोधरः स्तने मेघे नारिकेले कशेरुणि ।परं स्यात्केवले मोक्षे परो ब्रह्मायु-वैरिणोः ॥ ११८६ ॥
1186 · p. 211
अनुष्टुप्
परस्त्रिषूत्तरे श्रेष्ठे शत्रावितरदूतयोः ।परञ्जस्तैलयन्त्रे स्यात् क्षुरिकाफल-फेनयोः ॥ ११८७ ॥
1187 · p. 211
अनुष्टुप्
परभागो गुणोत्कर्षे शेषांशे च सुसम्पदि ।आद्ये प्रधान उत्कृष्टेऽग्रसरे परमस्त्रिषु ॥ ११८८ ॥
1188 · p. 211
अनुष्टुप्
नारायणे शिवे तीर्थंकरे च परमेश्वरः ।परमेष्ठी जिने ब्रह्म-शालग्रामविशेषयोः ॥ ११८९ ॥
1189 · p. 211
अनुष्टुप्
परम्परः प्रपौत्रादौ प्रपोत्रतनये मृगे ।परम्परा स्त्री सन्ताने परिपाट्यां वधेऽपि च ॥ ११९० ॥
1190 · p. 211
अनुष्टुप्
परक्षेत्रं त्वन्यदेहे परभूमौ परस्त्रियाम् ।पराकः क्षुद्र-निस्त्रिंश-रोग-जन्तु-व्रतेषु च ॥ ११९१ ॥
1191 · p. 212
अनुष्टुप्
पराक्रमः समुद्योगे निष्क्रान्तौ विक्रमे बले ।परागश्चन्दने रेणौ पुष्परेणू-परागयोः ॥ ११९२ ॥
1192 · p. 212
अनुष्टुप्
स्वच्छन्दगमने ख्याति-स्नानीयद्रव्ययोर्गिरौ ।आश्रये तत्परेऽभीष्ट आसंगे च परायणा ॥ ११९३ ॥
1193 · p. 212
अनुष्टुप्
परिवारे समारम्भे विवेक-सहकारिणोः ।प्रगाढ गात्रिकाबन्धे मञ्चे परिकरश्चये ॥ ११९४ ॥
1194 · p. 212
अनुष्टुप्
परिकर्माऽङ्गसंस्कारे क्लीवं स्यात् सेवके पुमान् ।विस्मृते वेष्टिते ज्ञाते प्राप्ते परिगतस्त्रिषु ॥ ११९५ ॥
1195 · p. 212
अनुष्टुप्