All kośas › Nānārthodayasāgarakoṣa
नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa
2,302 verses · text only, tagging comes next
Part 16 (16/20)
वेष्टः श्रीवेष्ट-निर्यास-वेष्टनेषु निगद्यते ।वेष्टनं कर्णशष्कुल्यां गुग्गुलौ मुकुटे वृतौ ॥ १७९५ ॥
1795 · p. 312
अनुष्टुप्
उष्णीषेऽप्यथ रुद्धे स्याद् वेष्टितं करणान्तरे ।वैकुण्ठस्तु हृषीकेशे विडौजसि सितार्जके ॥ १७९६ ॥
1796 · p. 312
अनुष्टुप्
वैजयन्तो गुहे शक्रप्रासाद-ध्वजयोरपि ।पताकायामग्निमन्थे नादेय्यां वैजयन्तिका ॥ १७९७ ॥
1797 · p. 313
अनुष्टुप्
वैजयन्ती पताकायामग्निमन्थे जपाद्रुमे ।मालाभेदे वैजिकन्तु शिग्रुतैलाऽऽत्महेतुषु ॥ १७९८ ॥
1798 · p. 313
अनुष्टुप्
पुमान् सद्योऽङ्कुरे बीजसम्बन्धिनि तु वाच्यवत् ।वैतालिकः खेट्टिताले पुंसि बोधकरे त्रिषु ॥ १७९९ ॥
1799 · p. 313
अनुष्टुप्
वैदेहकः सार्थवाहे शूद्राद्वेश्यासुतेऽपि च ।वैदेही पिप्पली-सीता-रोचनासु वणिक्स्त्रियाम् ॥ १८०० ॥
1800 · p. 313
अनुष्टुप्
वैद्यो बुधेऽगदंकारे सम्बन्धीये श्रुतेस्त्रिषु ।वैनतेयोऽरुणे तार्क्ष्ये विद्वद्भिः परिकीर्तितः ॥ १८०१ ॥
1801 · p. 313
अनुष्टुप्
वैनाशिकः पराधीने लूतायां क्षणिके स्मृतः ।वैरोचनिर्बलौ बुद्धे सिद्धे सूर्याऽनलात्मजे ॥ १८०२ ॥
1802 · p. 313
अनुष्टुप्
वैल्वं बिल्वफले क्लीवं विल्वसम्बन्धिनि त्रिषु ।वैवस्वतो यमे रुद्रे शनौ च सप्तमे मनौ ॥ १८०३ ॥
1803 · p. 314
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
दक्षिणाशा-यमुनयोः स्मृता वैवस्वती स्त्रियाम् ।वैशाखः पुंसि मन्थानदण्ड-माधवमासयोः ॥ १८०४ ॥
1804 · p. 314
अनुष्टुप्
कुबेरपुर्यां न्यग्रोधे स्मृतो वैश्रवणालयः ।वैश्वानरो वीतिहोत्रे चित्रकाख्यौषधावपि ॥ १८०५ ॥
1805 · p. 314
अनुष्टुप्
वैष्णवो विष्णुभक्ते ना विष्णुसम्बन्धिनि त्रिषु ।वैष्णवी स्याद्विष्णुशक्ति-दुर्गा-भागीरथीषु च ॥ १८०६ ॥
1806 · p. 314
अनुष्टुप्
अपराजिता-तुलस्योः शतवर्यामपि स्त्रियाम् ।बीडी स्त्री पणतुर्यांशे बोड्रो गोनासमत्स्ययोः ॥ १८०७ ॥
1807 · p. 314
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 जि (wrong syllable)
वोढा पुमान् बलीवर्दे सारथौ परिणेतरि ।ऋषभे भारिके मूढे व्यक्तः प्राज्ञे स्फुटे त्रिषु ॥ १८०८ ॥
1808 · p. 314
अनुष्टुप्
व्यक्तिः स्त्री पृथगात्मत्वे स्पष्टतायां जनेऽपि च ।न्यग्रो नारायणे पुंसि व्यासक्ते व्याकुले त्रिषु ॥ १८०९ ॥
1809 · p. 314
अनुष्टुप्
व्यङ्गो मण्डूक-हीनाङ्ग-मुखरोगभिदासु च ।व्यञ्जनं सूप-शाखादौ दिने चिह्नेऽर्धमात्रिके ॥ १८१० ॥
1810 · p. 315
अनुष्टुप्
स्त्रीपुंसयोर्गुह्यदेशे श्मश्रुण्यऽवयवे स्मृतम् ।व्यतिषङ्गे व्यतिकरः सम्बन्धे व्यसने चये ॥ १८११ ॥
1811 · p. 315
अनुष्टुप्
व्यतीपातो महोत्पाते योगभेदापयानयोः ।व्यपदेशो नामधेये छल-वाक्यविशेषयोः ॥ १८१२ ॥
1812 · p. 315
अनुष्टुप्
व्यभिचारः कदाचार-शास्त्रान्तर्गतदोषयोः ।व्यलीकमप्रियेऽकार्य-कामजन्यापराधयोः ॥ १८१३ ॥
1813 · p. 315
अनुष्टुप्
वैलक्ष्ये पीडने व्यंग्ये तथा गतिविपर्यये ।व्यवच्छेदः पृथक्त्वे स्याद् व्यावृत्तौ बाणमोक्षणे ॥ १८१४ ॥
1814 · p. 315
अनुष्टुप्
व्यवसायो जीविकायामनुष्ठाने च निश्चये ।व्यवहारः पणे न्याये विवादे पादपे स्थितौ ॥ १८१५ ॥
1815 · p. 315
अनुष्टुप्
शोधन्यां लोकयात्रायामिंगुदे व्यवहारिका ।व्यवायो मैथुनेऽन्तर्द्धौ शुद्धौ क्लीवन्तु तेजसि ॥ १८१६ ॥
1816 · p. 316
अनुष्टुप्
व्यसनं किल्विषे भ्रंशे विपत्तौ निष्फलोद्यमे ।दैवानिष्टफलेऽभद्रे दोषे कामज-कोपजे ॥ १८१७ ॥
1817 · p. 316
अनुष्टुप्
विपरीते त्रिषु व्यस्तः प्रत्येकं व्याकुले तते ।व्याघातः प्रहृतौ विघ्ने योगे साहित्यभूषणे ॥ १८१८ ॥
1818 · p. 316
अनुष्टुप्
व्याघ्रः करञ्जे शार्दूले चञ्चौ श्रेष्ठपुरःस्थिते ।व्याजोऽपदेशे कपटे व्याडोऽहौ वञ्चके हरौ ॥ १८१९ ॥
1819 · p. 316
अनुष्टुप्
व्याधो मृगवधाजीवे दुष्टेऽथ व्याधिरामये ।कुष्ठे कामव्यथतापजन्यकार्श्येऽप्यसौ पुमान् ॥ १८२० ॥
1820 · p. 316
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थ (wrong syllable)
व्यापी व्यापक-गोविन्दाऽऽच्छादकेषु त्रिलिंगकः ।व्यापृतः कर्मसचिवे त्रिषु व्यापारसंयुते ॥ १८२१ ॥
1821 · p. 317
अनुष्टुप्
व्याप्तं पूर्णे समाक्रान्ते स्थापितेऽपि त्रिलिंगभाक् ।व्याप्तिः साध्यवदन्यस्मिन्न सम्बन्धे च लम्भने ॥ १८२२ ॥
1822 · p. 317
अनुष्टुप्
व्यापने भूतिभेदेऽपि स्त्रियां सद्भिरुदाहृता ।व्यायतं तु दृढे दैर्घ्ये व्यापृतेऽतिशये त्रिषु ॥ १८२३ ॥
1823 · p. 317
अनुष्टुप्
व्यायामो दुर्गसंचार-मल्लक्रीडा-श्रमेषु च ।विषमे पौरुषे व्यामे श्रमेऽपि कथितः पुमान् ॥ १८२४ ॥
1824 · p. 317
अनुष्टुप्
व्यालो दुष्टगजे व्याघ्रे श्वापदेऽहौ च चित्रके ।नृपेऽपि त्रिष्वसौ तुच्छठे धूर्तेऽपि कीर्तितः ॥ १८२५ ॥
1825 · p. 317
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
व्यावृत्तिः स्त्री व्यवच्छेदेऽवृत्ति-खण्डनयोरपि ।व्यासो द्वैपायने मानविशेषे पाठकद्विजे ॥ १८२६ ॥
1826 · p. 317
अनुष्टुप्
गोलस्य मध्यरेखायां विस्तारेऽपि प्रयुज्यते ।व्यासक्तस्त्रिषु संसक्ते विशेषासंगवत्यपि ॥ १८२७ ॥
1827 · p. 317
अनुष्टुप्
विरोधाचरणे नृत्यप्रभेदे प्रतिरोधने ।समाधिपारणे स्वैरवृत्तौ व्युत्थानमीरितम् ॥ १८२८ ॥
1828 · p. 318
अनुष्टुप्
शक्तिज्ञाने च संस्कारे व्युत्पत्तिः स्त्री प्रकीर्तिता ।व्युदासो ना व्यवच्छेदे परित्याग-निवासयोः ॥ १८२९ ॥
1829 · p. 318
अनुष्टुप्
व्युष्टं प्रभाते दिवसे फले क्लीवं त्रिषु त्वसौ ।मतः पर्युषिते दग्धे व्युष्टिः स्त्री स्यात्फले स्तुतौ ॥ १८३० ॥
1830 · p. 318
अनुष्टुप्
ऋद्धौ व्यूढस्तु विन्यासे पृथुले संहते त्रिषु ।व्यूहो ना सैन्यविन्यासे तर्के देहे कृतौ चये ॥ १८३१ ॥
1831 · p. 318
अनुष्टुप्
व्योमनीरेऽभ्रकेऽभ्रे च भास्करस्यार्चनाश्रये ।व्योमचारी खगे देवे द्विजाते चिरजीविनि ॥ १८३२ ॥
1832 · p. 318
अनुष्टुप्
व्योमचारी पुमान् देवे विहंगे चिरजीविनि ।वज्रे ना निवहे मार्गे गोष्ठ-देशप्रभेदयोः ॥ १८३३ ॥
1833 · p. 318
अनुष्टुप्
व्रज्या स्त्री गमने रङ्ग-विजिगीषुप्रयाणयोः ।वर्गे पर्यटने ज्ञेया व्रणोऽस्त्री स्यात् क्षतेऽरुषि ॥ १८३४ ॥
1834 · p. 318
अनुष्टुप्
वल्ली-विस्तारयोर्बोध्ये व्रततिर्व्रतती स्त्रियौ ।व्रश्चनः पत्रपरशु-द्रुमनिर्यासयोः पुमान् ॥ १८३५ ॥
1835 · p. 319
अनुष्टुप्
आशुधान्ये धान्यमात्रे पुमान् व्रीहिरुदाहृतः ।प्रियुंगु-धान्ये चीनाके कथितो व्रीहिराजिकः ॥ १८३६ ॥
1836 · p. 319
अनुष्टुप्
शम्बो ना मुशलाग्रस्थलोहमण्डल-वज्रयोः ।लोहमय्यां शृङ्खलायां त्रिलिंगस्तु शुभान्विते ॥ १८३७ ॥
1837 · p. 319
अनुष्टुप्
शम्बरं सलिले क्लीबं दैत्यभेदे त्वसौ पुमान् ।शंसा वाक्ये प्रशंसायां वाच्छायामप्यसौ स्त्रियाम् ॥ १८३८ ॥
1838 · p. 319
अनुष्टुप्
शंसितस्त्रिषु निर्णीते स्तवने हिंसितेऽप्यसौ ।शको देशान्तरे म्लेच्छजातौ च शालिवाहने ॥ १८३९ ॥
1839 · p. 319
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शकटोऽस्त्री विष्णुवध्यासुरेऽनः शाकटीनयोः ।शकलं वल्कले शल्के खण्ड-त्वग्-रागवस्तुषु ॥ १८४० ॥
1840 · p. 319
अनुष्टुप्
अस्त्रियामेकदेशेऽसौ भित्तेऽपि शकली झषे ।शुभशंसि निमित्ते स्यात् शकुनं फललक्षणे ॥ १८४१ ॥
1841 · p. 320
अनुष्टुप्
शकुनः पुंसि विहगे महगीते द्विजान्तरे ।शकुनिः पुंसि विहगे चिल्लपक्षिणि सौवले ॥ १८४२ ॥
1842 · p. 320
अनुष्टुप्
विकुक्षिपत्रे करणप्रभेदे दुस्सहात्मजे ।शकुन्तः कीटभेदे ना विहगे भासपक्षिणि ॥ १८४३ ॥
1843 · p. 320
अनुष्टुप्
कट्फले जलपिप्पल्यां मांसी-कश्चटशाकयोः ।चक्राङ्गी-गजपिप्पल्योः स्यात् स्त्रियां शकुलादनी ॥ १८४४ ॥
1844 · p. 320
अनुष्टुप्
शक्वरी स्त्री सरिद्भेदे मेखला-वृत्तभेदयोः ।शक्तिः स्त्री प्रकृति-गौर्यां लक्ष्म्यामस्त्रान्तरे बले ॥ १८४५ ॥
1845 · p. 320
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
शक्रः पुरन्दरे ज्येष्ठानक्षत्रे कुटजद्रुमे ।शक्रिर्ना कुलिशे मेघे मतङ्गज-महीघ्रयोः ॥ १८४६ ॥
1846 · p. 320
अनुष्टुप्
शंकरो ना महादेवे त्रिषु मंगलकारके ।कर्पूरभेदे कैलाशे शङ्करावास ईरितः ॥ १८४७ ॥
1847 · p. 321
अनुष्टुप्
शंकरी स्त्री शक्तुफला-मञ्जिष्ठा-पार्वतीषु च ।शङ्कितस्तर्किते भीते त्रिषु पुंसि तु चोरके ॥ १८४८ ॥
1848 · p. 321
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
शंका त्रासे वितर्के च संशये समुदाहृता ।शंकुर्ना स्थाणु-शल्यास्त्र-संख्याभेदेषु कीलके ॥ १८४९ ॥
1849 · p. 321
अनुष्टुप्
कीले पत्रशिराजाल-द्वादशांगुलमानयोः ।गन्धद्रव्ये नखीसंज्ञे मेढ्र-मत्स्यान्तरेऽस्रपे ॥ १८५० ॥
1850 · p. 321
अनुष्टुप्
महादेवे च कलुषे यादस्यप्यथ शंकुला ।कथिता पूगकर्तन्यां पत्र्यां कुवलयस्य च ॥ १८५१ ॥
1851 · p. 321
अनुष्टुप्
शंखोऽस्त्रियां ललाटास्थ्नि कम्बौ संख्यान्तरे निधौ ।दन्तिदन्तान्तराले च रणवाद्यान्तरे मुनौ ॥ १८५२ ॥
1852 · p. 321
अनुष्टुप्
शंखकं वलयेऽस्त्री तु कम्बौ पुंसि शिरोरुचि ।क्षुद्रशंखे बृहन्नख्यां स्मृतः शंखनखः पुमान् ॥ १८५३ ॥
1853 · p. 322
अनुष्टुप्
शंखनी श्वेतपुन्नागे स्त्रीभेद-यवतिक्तयोः ।चोरपुष्पी-श्वेतवृन्दा-श्वेतचुक्रासु कीर्तिता ॥ १८५४ ॥
1854 · p. 322
अनुष्टुप्
उपदेवताविशेषे बुद्ध-शक्त्यन्तरेऽप्यसौ ।शंखी ना केशवे सिन्धौ शांखिके त्रिषु शंखिनि ॥ १८५५ ॥
1855 · p. 322
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
शची स्त्री शक्रभार्यायां वर्यां स्त्रीकरणान्तरे ।शठं तु तगरे लोहे कुंकुमेऽपि नपुंसकम् ॥ १८५६ ॥
1856 · p. 322
अनुष्टुप्
शठी ना धूर्त-धुस्तूर-मध्यस्थपुरुषेषु च ।शण्द-शण्ढौ समौ वन्ध्यपुरुषेऽन्तर्महल्लिके ॥ १८५७ ॥
1857 · p. 322
अनुष्टुप्
उन्मत्ते गोपतौ क्लीवे शतकुम्भोऽचलान्तरे ।कुलिशो वृन्दसंख्यायां शतकोटिः पुमान् स्मृतः ॥ १८५८ ॥
1858 · p. 322
अनुष्टुप्
शतघ्नी स्त्री कण्ठरोगे शस्त्रभेदे करञ्जके ।वृश्चिकाल्यामथो काष्ठकुट्टे पद्मे शतच्छदः ॥ १८५९ ॥
1859 · p. 323
अनुष्टुप्
अथ ब्रह्मणि सूत्राम्णि स्वर्गे शतधृतिः पुमान् ।शतपत्रं पद्मे स्यात् शतपत्रः शिखावले ॥ १८६० ॥
1860 · p. 323
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्रं (syllables merged)
पुष्कराह्वे राजकीरे दावीघाटविहंगमे ।कर्णकीटी-शतावर्योः प्रोक्ता शतपदी स्त्रियाम् ॥ १८६१ ॥
1861 · p. 323
अनुष्टुप्
शतपर्वा पुमान् इक्षुविशेष-त्वचिसारयोः ।स्त्रियां त्वसौ वचा-दूर्वा-शारदी-कटुकासु च ॥ १८६२ ॥
1862 · p. 323
अनुष्टुप्
यवे वचायां दूर्वायां स्यात् स्त्रियां शतपर्विका ।काकोल्यां कर्णकीट्यां च स्यात् स्त्रियां शतपादिका ॥ १८६३ ॥
1863 · p. 323
अनुष्टुप्
शतपुष्पा सितच्छत्रा-सूक्ष्मपत्रिकयोः स्त्रियाम् ।कुलिशे दक्षकन्यायां विद्युति स्त्री शतह्रदा ॥ १८६४ ॥
1864 · p. 323
अनुष्टुप्
शतानन्दः सुरज्येष्ठे देवकीनन्दने मुनौ ।गौतमे केशवरथे शताङ्गस्तिनिशे रथे ॥ १८६५ ॥
1865 · p. 324
अनुष्टुप्
शतानीको राजभेदे प्रवयो-मुनिभेदयोः ।सुदासराजपुत्रेऽथ शक्रपत्न्यां शतावरी ॥ १८६६ ॥
1866 · p. 324
अनुष्टुप्
इन्दीवरी-गन्धशट्योः शतेरः शत्रु-हिंसयोः ।शताह्वा शतपुष्पायां शतावर्यामपि स्त्रियाम् ॥ १८६७ ॥
1867 · p. 324
अनुष्टुप्
शताक्षी शतपुष्पायां पार्वत्यां रजनावपि ।शपो निर्भत्सने गालिप्रदाने शपथे पुमान् ॥ १८६८ ॥
1868 · p. 324
अनुष्टुप्
सत्यावधारणे दिव्ये कारे च शपथः पुमान् ।शपनं शपथे गालौ वृक्षमूले खुरे शफम् ॥ १८६९ ॥
1869 · p. 324
अनुष्टुप्
शब्दभेदी शब्दवेधी समौ दाशरथेऽर्जुने ।शमः शान्तौ करे मुक्तावन्तरिन्द्रियनिग्रहे ॥ १८७० ॥
1870 · p. 324
अनुष्टुप्
विक्षेपकर्मोपरमे क्रियायां चित्तसंयमे ।शमनं चर्वणे शान्तौ यज्ञार्थपशुघातने ॥ १८७१ ॥
1871 · p. 325
अनुष्टुप्
हिंसायां चाथ शमनः कृतान्ते हरिणान्तरे ।शमथः सचिवे शान्तौ समलं गूथ-पापयोः ॥ १८७२ ॥
1872 · p. 325
अनुष्टुप्
शमी स्त्रियां वल्गुलिका-शिम्बा-शक्तुफलासु च ।शम्पाको ना यावके स्यात् आरग्वध-विपाकयोः ॥ १८७३ ॥
1873 · p. 325
अनुष्टुप्
शम्बो ना मुशलाग्रस्थलोहमण्डलेऽधने ।वज्रेऽनुलोमकृष्टौ च लौहकाञ्च्यामपीष्यते ॥ १८७४ ॥
1874 · p. 325
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शुभान्विते भाग्यवति त्रिलिंगोऽयमुदाहृतः ।शम्बरं सलिले चित्रे वित्ते बौद्धव्रते व्रते ॥ १८७५ ॥
1875 · p. 325
अनुष्टुप्
शम्बरो ना जिने शैले दैत्ये मत्स्येऽर्जुनद्रुमे ।चित्रकद्रौ मृगे लोध्रे युद्धे श्रेष्ठे त्वसौ त्रिषु ॥ १८७६ ॥
1876 · p. 325
अनुष्टुप्
पाथेयेऽन्यशुभद्वेषे कूले च शम्बलोऽस्त्रियाम् ।शम्बूको ना दैत्यभेदे शूद्रतापस-शंखयोः ॥ १८७७ ॥
1877 · p. 326
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
गजकुम्भान्तरेऽथ स्त्रीपुंसयोर्जलशुक्तिषु ।शम्भुर्ना शंकरे विष्णौ विरिञ्चौ बुद्ध-सिद्धयोः ॥ १८७८ ॥
1878 · p. 326
अनुष्टुप्
शम्भुप्रिया तु पार्वत्यामामलक्यामपि स्मृतः ।कार्तिकेये गणेशे च कीर्तितः शम्भुनन्दनः ॥ १८७९ ॥
1879 · p. 326
अनुष्टुप्
शयो भुजंगे शय्यायां निद्रायां पणहस्तयोः ।शयथस्त्रिषु निद्रालौ पुमान् अजगरे मृतौ ॥ १८८० ॥
1880 · p. 326
अनुष्टुप्
शयनं मैथुन स्वापे शय्यायामपि कीर्तितम् ।शयनीयं तु शय्यायां शयनार्हे त्वसौ त्रिषु ॥ १८८१ ॥
1881 · p. 326
अनुष्टुप्
शयानकस्त्वजगरे कृकलासे च कीर्तितः ।शयालुस्त्रिषु निद्रालौ कुकरेऽजगरे पुमान् ॥ १८८२ ॥
1882 · p. 326
अनुष्टुप्
शयितस्त्रिषु निद्राणे वसन्तकुसुमे पुमान् ।शयने तु स्मृतं क्लीवमथ क्लीवं शरं जले ॥ १८८३ ॥
1883 · p. 326
अनुष्टुप्
शरो ना गुन्द्रके बाणे हिंसा-दध्यग्रभागयोः ।सन्तानिकायां नलदे महापिण्डीतरावपि ॥ १८८४ ॥
1884 · p. 327
अनुष्टुप्
हैयङ्गवीने शरजं नवनीतेऽपि कीर्तितम् ।कुसुम्भशाके शरटः कृकलासेऽप्यसौ स्मृतः ॥ १८८५ ॥
1885 · p. 327
अनुष्टुप्
शरणे रक्षके गेहे रक्षणे घातके वधे ।शरणा तु प्रसारिण्यां शरणिः स्त्री क्षितौ पथि ॥ १८८६ ॥
1886 · p. 327
अनुष्टुप्
शरणी स्त्री प्रसारिण्यां जयन्ती-मार्गयोरपि ।शरण्डः कामुके धूर्ते शरटे भूषणे खगे ॥ १८८७ ॥
1887 · p. 327
अनुष्टुप्
शरणुः पुंसि जीमूते भरण्यौ मातरिश्वनि ।शरत् स्त्री वत्सरे कालप्रभाते स्त्रीरजस्यपि ॥ १८८८ ॥
1888 · p. 327
अनुष्टुप्
शरभो वा महासिंहे करभे वानरान्तरे ।क्रमेलके च शलभे शरमल्लस्तु पक्षिणि ॥ १८८९ ॥
1889 · p. 327
अनुष्टुप्
शरवाणिः पुमान् पद्मे बाणाग्रे चिरजीविनि ।शालाजिरे शेटके च शरावोऽस्त्री प्रकीर्तितः ॥ १८९० ॥
1890 · p. 328
अनुष्टुप्
शरीरजः स्मरे पुत्रे रोगे त्रिषु तु देहजे ।शरीरावरणं चर्म-कायवेष्टनयोरपि ॥ १८९१ ॥
1891 · p. 328
अनुष्टुप्
शरुर्ना कुलिशे क्रोधे विशिखाऽऽयुधयोरपि ।शर्करा स्त्री कर्परांशे शकल-व्याधिभेदयोः ॥ १८९२ ॥
1892 · p. 328
अनुष्टुप्
सितोपलायां पाषाण-शर्करान्वितदेशयोः ।शर्वः शिवे हृषीकेशे शर्वरं तमसि स्मरणे ॥ १८९३ ॥
1893 · p. 328
अनुष्टुप्
शर्वरी स्त्री हरिद्रायां नारी-सन्ध्या-निशासु च ।शर्शरीकः खले हिंस्रे वीतिहोत्रे तुरंगमे ॥ १८९४ ॥
1894 · p. 328
अनुष्टुप्
शलो ब्रह्मणि कुन्तास्त्रे क्षेत्रभेदे क्रमेलके ।भृङ्गरीटेऽथ शलली शल्लकीलोम्नि शल्यके ॥ १८९५ ॥
1895 · p. 328
अनुष्टुप्
शलाका शारिकाऽऽलेख्यकूर्चिका-शल्लकीषु च ।छत्रादिकोष्ठी-मदनद्रु-शल्येषु शरेऽस्थ्नि च ॥ १८९६ ॥
1896 · p. 329
अनुष्टुप्
शलाटुर्ना मूलभेदे बिल्वेऽपक्वफले त्रिषु ।शल्कं स्याद्वल्कले मत्स्यत्वचि खण्डेऽपि नद्वयोः ॥ १८९७ ॥
1897 · p. 329
अनुष्टुप्
शल्यं कीकस-दुर्वाक्य-बाणेषु किल्विषे विषे ।तोमरे दुःसहे वंशकम्बिकायां नपुंसकम् ॥ १८९८ ॥
1898 · p. 329
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
शल्यो ना शल्लकी-सीमा-शलाका-मदनद्रुषु ।मत्स्यप्रभेदे मालूरद्रुमे पाण्डवमातुले ॥ १८९९ ॥
1899 · p. 329
अनुष्टुप्
कुन्तास्त्रे त्वस्त्रियां श्वाविन्मदनद्रवोश्यस्तु शल्यकः ।शल्लकीगजभक्ष्यायां शल्यकेऽपि स्त्रियामसौ ॥ १९०० ॥
1900 · p. 329
अनुष्टुप्metre not read in every line
शबं स्यात् सलिले क्लीवं कुणपे पुंनपुंसकम् ।शबरः सलिले म्लेच्छजातौ शास्त्रान्तरे करे ॥ १९०१ ॥
1901 · p. 329
अनुष्टुप्
शशो मृगान्तरे लोध्रे बोले चन्दिरलाञ्चने ।पुंविशेषेऽथ कर्पूरे चन्द्रे शशधरः स्मृतः ॥ १९०२ ॥
1902 · p. 330
अनुष्टुप्
शशविन्दुः पुमांश्चित्ररथपुत्रे त्रिविक्रमे ।चन्दिरे घनसारे च शशाङ्कः समुदाहृतः ॥ १९०३ ॥
1903 · p. 330
अनुष्टुप्
शशिकान्तं तु कुमुदे चन्द्रकान्तमणौ तु ना ।मौक्तिके कुमुदे चन्द्रप्रभायुक्ते शशिप्रभम् ॥ १९०४ ॥
1904 · p. 330
अनुष्टुप्
शशिलेखा वृत्तभेद-गुडूचीन्दुकलासु च ।महादेवे बुद्धभेदे शशिशेखर ईरितः ॥ १९०५ ॥
1905 · p. 330
अनुष्टुप्
शष्कुली स्त्री कर्णरन्ध्रे यवागू-मत्स्यभेदयोः ।शष्पः स्यात् प्रतिभाहानौ शष्पं बालतृणे स्मृतम् ॥ १९०६ ॥
1906 · p. 330
अनुष्टुप्
शस्तं देहे शुभे शस्तस्त्रिषु शंयु-प्रशस्तयोः ।शस्त्रं प्रहरणे लोहे निस्त्रिंशे तु पुमानसौ ॥ १९०७ ॥
1907 · p. 330
अनुष्टुप्
शस्त्री स्त्री छुरिकायां स्यात् नान्तस्त्रिष्वस्त्रधारिणि ।शस्यं क्षेत्रस्य धान्यादौ वृक्षादीनां फले तथा ॥ १९०८ ॥
1908 · p. 331
अनुष्टुप्
शाको द्वीपान्तरे शक्तौ शरपत्र-शिरीषयोः ।नृपान्तरे शकाब्देऽसौ पत्रपुष्पादिकेऽस्त्रियाम् ॥ १९०९ ॥
1909 · p. 331
अनुष्टुप्
शाखश्छित्तौ कार्तिकेये शाखा पक्षान्तरेऽन्तिके ।वेदभागे ग्रन्थभेदे पादपाङ्गे विधुन्तुदे ॥ १९१० ॥
1910 · p. 331
अनुष्टुप्
शाखी वेदे राजभेदे तुरुष्काख्यजने तरौ ।निकषे करपत्रे च शाणो माषचतुष्टये ॥ १९११ ॥
1911 · p. 331
अनुष्टुप्
शाण्डिल्यो मुनिभेदे स्यात् बिल्ववृक्षेऽनलान्तरे ।शाणी स्त्री छिद्रवस्त्रे स्यादिङ्गे प्रावरणान्तरे ॥ १९१२ ॥
1912 · p. 331
अनुष्टुप्
शातः स्यात् पुंसि धुस्तूरे सुखे तु स्यान्नपुंसकम् ।दुर्बले निशिते शर्मशालिनि त्रिषु कीर्तितः ॥ १९१३ ॥
1913 · p. 331
अनुष्टुप्
शात्रवं शत्रुसंघाते शत्रुभावे पुमान् रिपौ ।शातनं नाशने कार्श्ये शादः कर्दम-शष्पयोः ॥ १९१४ ॥
1914 · p. 332
अनुष्टुप्