All kośas › Nānārthodayasāgarakoṣa
नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa
2,302 verses · text only, tagging comes next
Part 7 (7/20)
हस्तादिबन्धने सूत्रे डोरं डोरकमित्यपि ।ढक्को देशविशेषे स्याद् ढक्का विजयमर्दले ॥ ७१७ ॥
717 · p. 132
अनुष्टुप्
ढालं तु फलके ढाली त्रिलिंगो ढालसंयुते ।ढुण्ढिर्गणेशे ढोलस्तु स्वनामख्यातवाद्यके ॥ ७१८ ॥
718 · p. 132
अनुष्टुप्
तगरः पुष्पतरुभिन्मदनद्रुमयोः स्मृतः ।तटं नपुंसकं क्षेत्रे तीरे तु स्यात् त्रिलिंगकः ॥ ७१९ ॥
719 · p. 132
अनुष्टुप्
पद्माकरे तडागोऽस्त्री यन्त्रकूटक इष्यते ।उच्चैःकरिकराक्षेपे तडाघातं विदुर्बुधाः ॥ ७२० ॥
720 · p. 132
अनुष्टुप्
तडिद्विद्युल्लतायां स्यात् तडित्वान् मुस्तकेऽम्बुदे ।तण्डकस्तु तरुस्कन्धे समासप्रायवाचि च ॥ ७२१ ॥
721 · p. 132
अनुष्टुप्
मायायां बहुले फेने खञ्जने गृहदारुणि ।अस्त्रियां तु परिष्कारे तण्डुः शिवगणान्तरे ॥ ७२२ ॥
722 · p. 132
अनुष्टुप्
तण्डुलो धान्यसारांशे तण्डुलीय-विडङ्गयोः ।तण्डुलौघो वेष्टवंशे धान्यसारांशसंचये ॥ ७२३ ॥
723 · p. 133
अनुष्टुप्
ततं वीणादिके वाद्ये व्याप्त-विस्तृतयोस्त्रिषु ।मारुते पुंसि तत्वं तु याथार्थ्ये परमात्मनि ॥ ७२४ ॥
724 · p. 133
अनुष्टुप्
स्वरूपे वाद्यभेदेऽपि नृत्ये वस्तुनि चेतसि ।तनुस्त्वचि शरीरे च वनितायामपि स्त्रियाम् ॥ ७२५ ॥
725 · p. 133
अनुष्टुप्
त्रिलिङ्गस्तु अल्प-विरल-कृशेषु कथितो बुधैः ।तनूरुहोऽस्त्री गरुति रोम्णि पुत्रे तु पुंस्यसौ ॥ ७२६ ॥
726 · p. 133
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तन्तुः सूत्रे पुमान् ग्राहे संततावपि कीर्तितः ।तन्तुभिः सर्षपे वत्से तन्तुवायः कुविन्दके ॥ ७२७ ॥
727 · p. 133
अनुष्टुप्
तन्त्रेऽपि तन्तुवायस्तु तन्त्रवायोर्णनाभयोः ।तन्तुशाला गर्तिकायां स्यूते तु तन्तुसन्ततम् ॥ ७२८ ॥
728 · p. 133
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
तन्त्रं परिच्छदे हेतौ तन्तुवायेऽर्थसाधके ।सैन्ये स्वराष्ट्रचिन्तायां परच्छन्दे धने गृहे ॥ ७२९ ॥
729 · p. 134
अनुष्टुप्
कुटुम्बकृत्ये सिद्धान्ते कुले वपनसाधने ।प्रधाने भेषजे तन्तु-श्रुतिशाखाविशेषयोः ॥ ७३० ॥
730 · p. 134
अनुष्टुप्
शपथे करणे राष्ट्र उभयार्थप्रयोजके ।इतिकर्तव्यतायां च तन्त्रशास्त्र-प्रबन्धयोः ॥ ७३१ ॥
731 · p. 134
अनुष्टुप्
तन्त्रवापस्तन्त्रवायः कुविन्दे तन्त्रभूतयोः ।तन्त्री वीणागुणे रज्जौ गुडूच्यां सरिदन्तरे ॥ ७३२ ॥
732 · p. 134
अनुष्टुप्
शिरायां युवतीभेदे तन्द्रा निद्रा-प्रमीलयोः ।तन्वी कृश-शरीरायां शालपर्णीमहीरुहे ॥ ७३३ ॥
733 · p. 134
अनुष्टुप्
तपो लोकान्तरे धर्मे कृच्छ्रचान्द्रायणादिके ।पुमानदन्तो ग्रीष्मेऽथ तपनः सूर्य-तापयोः ॥ ७३४ ॥
734 · p. 134
अनुष्टुप्
सूर्यकान्तमणौ ग्रीष्मे नरकेऽर्कमहीरुहे ।क्षुद्राग्निमन्थवृक्षे च भल्लातकतरावपि ॥ ७३५ ॥
735 · p. 135
अनुष्टुप्
तपस्या व्रतचर्यायां तपस्यः फाल्गुनेऽर्जुने ।तपस्वी नारदे मत्स्यविशेषे घृतपर्णके ॥ ७३६ ॥
736 · p. 135
अनुष्टुप्
अनुकम्प्ये जैनसाधौ तापसेऽथ तपस्विनी ।जैनसाध्वी-जटामांसी-कटुका-लोचनीषु च ॥ ७३७ ॥
737 · p. 135
अनुष्टुप्
तपाः शिशिरकाले च माघमास-निदाघयोः ।तमो विधुन्तुदे पापे ध्वान्ते शोके तमोगुणे ॥ ७३८ ॥
738 · p. 135
अनुष्टुप्
तमालस्तिलके खड्गे तापिच्छे वरुणद्रुमे ।वंशत्वक्-कृष्णखदिर-वृक्षभेदेषु कीर्तितः ॥ ७३९ ॥
739 · p. 135
अनुष्टुप्
तमालः कृष्णखदिरे तिलके वरुणद्रुमे ।कालस्कन्धे च निस्त्रिंशे वंशत्वचि तु न स्त्रियाम् ॥ ७४० ॥
740 · p. 135
अनुष्टुप्
तमिस्रं तिमिरे क्रोधे तमिस्रा तु तमस्ततौ ।दशरात्रौ तमोयुक्तरात्रिमात्रोऽपि कीर्तिता ॥ ७४१ ॥
741 · p. 136
अनुष्टुप्
तमी रात्रौ हरिद्रायां तमोघ्नः सूर्य-चन्द्रयोः ।नारायणे महादेवे बुद्धदेवे धनञ्जये ॥ ७४२ ॥
742 · p. 136
अनुष्टुप्
तमोनुद्भास्करे चन्द्रे दीपे वैश्वानरे पुमान् ।तरोऽदन्तः पुमान् वृक्षे तरुणे जातवेदसि ॥ ७४३ ॥
743 · p. 136
अनुष्टुप्
तरः सान्तं बले कूले वेग-प्लवगयोरपि ।तरङ्गो वसनेऽश्वादि-समुत्फाले जलोर्मिषु ॥ ७४४ ॥
744 · p. 136
अनुष्टुप्
तरणी पद्मचारिण्यां कुमारी-नौकयोः स्त्रियाम् ।तरण्डोऽस्त्री प्लवे कुम्भतुम्बीरम्भादिसंचरे ॥ ७४६ ॥
746 · p. 136
अनुष्टुप्
नौकायां वडिशीसूत्रबद्धकाष्ठादिके स्मृतः ।आतरेतरपण्यं स्यात् फलभेदे तरम्बुजम् ॥ ७४७ ॥
747 · p. 137
अनुष्टुप्
तरलो हारतलयोर्हारमध्यमणौ पुमान् ।त्रिषु स्याद्भास्वरे मध्यशून्यद्रव्ये चले द्रुते ॥ ७४८ ॥
748 · p. 137
अनुष्टुप्
षिंगेऽथ तरला मद्य-यवागू-सरघासु च ।तरस्वी गरुडे वायौ त्रिषु स्याद्वेगि-शूरयोः ॥ ७४९ ॥
749 · p. 137
अनुष्टुप्
तरिर्दशायां लौकायां वस्त्रभूषादिपेटके ।तरी गदा-दशा-द्रोणी-नौका-वस्त्रादिपेटके ॥ ७५० ॥
750 · p. 137
अनुष्टुप्
तरीषः शोभनाकारे समर्थव्यवसाययोः ।स्वर्गे सिन्धौ भेलकेऽथ शक्रपुत्र्यामापि स्त्रियाम् ॥ ७५१ ॥
751 · p. 137
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 मा (wrong syllable)
तरुणो नूतने यूनिचित्रके स्थूलजीरके ।तरुणी गृहकन्यायां युवत्यां सेवतीसुमे ॥ ७५२ ॥
752 · p. 138
अनुष्टुप्
गन्धद्रव्यान्तरे दन्तीपादपेऽपि प्रकीर्तिता ।तर्को वितर्के ऊहादावाकांक्षा-हेतुशास्त्रयोः ॥ ७५३ ॥
753 · p. 138
अनुष्टुप्
न्यायशास्त्रे कर्मभेदे तर्दूः स्याद्दारुहस्तके ।तर्पणं प्रीणने तृप्तौ यज्ञकाष्ठे जलार्पणे ॥ ७५४ ॥
754 · p. 138
अनुष्टुप्
तर्षोऽभिलाषे तृष्णायां सूर्ये प्लव-समुद्रयोः ।तलं स्वरूपेऽनूर्ध्वेऽस्त्री क्लीवं ज्याघातवारणे ॥ ७५५ ॥
755 · p. 138
अनुष्टुप्
कार्यबीजे वने गर्ते मध्ये पादतलस्य च ।तलः स्वभाव आधारे तन्त्रीघात-चपेटयोः ॥ ७५६ ॥
756 · p. 138
अनुष्टुप्
तालवृक्षे त्सरौ पुंसि तडागे तलकं स्मृतम् ।तलिनो दुर्बले स्तोके विरल-स्वच्छयोस्त्रिषु ॥ ७५७ ॥
757 · p. 138
अनुष्टुप्
नपुंसकं तु शय्यायां तलुनो यूनि मारुते ।तलिमं कुट्टिमे चन्द्रहासे तल्पे वितानके ॥ ७५८ ॥
758 · p. 138
अनुष्टुप्
तल्पमट्टालिका-शय्या-दारेष्वस्त्री प्रकीर्तितम् ।तस्करः श्रवणे चौरे स्पृक्कायां मदनद्रुमे ॥ ७५९ ॥
759 · p. 139
अनुष्टुप्
ताडोऽद्रौ ताडने शब्दे मुष्टिमेयतृणादिकौ ।ताडङ्कः कर्णभूषायमाघते ताडनं स्मृतम् ॥ ७६० ॥
760 · p. 139
अनुष्टुप्
ताण्डवं तृणभेदेऽस्त्री नर्तनोद्धतनृत्ययोः ।तातोऽनुकम्प्ये जनके पुमान् पूज्ये त्वसौ त्रिषु ॥ ७६१ ॥
761 · p. 139
अनुष्टुप्
तान्त्रिकस्तन्त्रशास्त्रज्ञे शास्त्रतत्वज्ञ इष्यते ।तापनस्तापजनके सूर्यकान्तमणौ रवौ ॥ ७६२ ॥
762 · p. 139
अनुष्टुप्
कामवाणे तामरन्तु घृते सलिल इष्यते ।अथ तामरसं स्वर्णे सारसे पद्मताम्रयोः ॥ ७६३ ॥
763 · p. 139
अनुष्टुप्
स्यात्तामसी जटामांसी-दुर्गा-कृष्णनिशासु च ।ताम्रकूटं तमाखौ स्यात् ताम्रकारस्तु ताम्रिके ॥ ७६४ ॥
764 · p. 139
अनुष्टुप्
ताम्रपट्टं ताम्रपत्रस्ताम्रनिर्मितपत्रके ।ताम्रिकः कांस्यकारे स्यात् त्रिलिंगस्ताम्रनिर्मिते ॥ ७६५ ॥
765 · p. 140
अनुष्टुप्
ताम्बूलपात्रे ताम्बूलकरङ्कः सद्भिरीरितः ।तारं रूप्ये च मुक्तायां तारः स्यात् शुद्धमौक्तिके ॥ ७६६ ॥
766 · p. 140
अनुष्टुप्
मुक्ता विशुद्धौ प्रणवे तरणे वानरान्तरे ।कूर्चबीजे त्रिलिंगस्तु निर्मलाऽत्युच्चशब्दयोः ॥ ७६७ ॥
767 · p. 140
अनुष्टुप्
तारको भेलके कर्णधारे दैत्यान्तरे पुमान् ।कनीनिकायां नक्षत्रे नना क्लीवं तु लोचने ॥ ७६८ ॥
768 · p. 140
अनुष्टुप्
ताराऽक्षिमध्ये नक्षत्रे मुक्तायां बालियोषिति ।बृहस्पतिस्त्रियां बुद्धदेवताभेद-चीडयोः ॥ ७६९ ॥
769 · p. 140
अनुष्टुप्
उग्रताराभिधानायां शक्तौ तारापतिः शिवे ।चन्दिरे बालि-सुग्रीव-बृहस्पतिषु कीर्तितः ॥ ७७० ॥
770 · p. 140
अनुष्टुप्
तार्क्ष्यस्तुरङ्गमे सर्पे गरुडे गरुडाग्रजे ।अश्वकर्णतरौ शालवृक्षे रथ-सुवर्णयोः ॥ ७७१ ॥
771 · p. 141
अनुष्टुप्
तालं तालफले तालीशपत्र-हरितालयोः ।दुर्गासिंहासने क्लीवं पुमांस्तु तालपादपे ॥ ७७२ ॥
772 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
गीतकालक्रियामानेऽङ्गुष्ठमध्यमसम्मिते ।करास्फाले कांस्यवाद्यभाण्डे करतले त्सरौ ॥ ७७३ ॥
773 · p. 141
अनुष्टुप्
तालकं द्वारयन्त्रे स्यात् तुवरी-हरितालयोः ।तालाङ्कः शंकरे शाकविशेष-करपत्रयोः ॥ ७७४ ॥
774 · p. 141
अनुष्टुप्
महालक्षणसम्पूर्णपुरुषे पुस्तके बले ।तालिका ताम्रवल्ल्यां स्यात् तालमूली-चपेटयोः ॥ ७७५ ॥
775 · p. 141
अनुष्टुप्
प्रसारितांगुलिकर-काचनक्योस्त्वसौ पुमान् ।ताली तुवरिका-तालमूलीपत्रद्रुमेषु च ॥ ७७६ ॥
776 · p. 141
अनुष्टुप्
प्रतिताली-सुराभेद-कुञ्चिकाऽऽमलकीष्वपि ।ताम्रवल्ल्यामथो तिक्तः सुगन्धे करुणद्रुमे ॥ ७७७ ॥
777 · p. 142
अनुष्टुप्
कुटजे रसभेदेऽपि त्रिषु तिक्तरसान्विते ।तिक्तकः कृष्णखदिरे चिरतिक्त-पटोलयोः ॥ ७७८ ॥
778 · p. 142
अनुष्टुप्
इंगुदीपादपे तिक्ता षड्भुजा-पाठयोरपि ।यवतिक्तालता-घ्राणदुःखदा-कटुकीषु च ॥ ७७९ ॥
779 · p. 142
अनुष्टुप्
तिथः कालेऽनले कामे प्रावृट् काले तिथिर्द्वयोः ।कर्मवाट्यामथो मीने समुद्रेऽपि तिमिः स्मृतः ॥ ७८० ॥
780 · p. 142
अनुष्टुप्
तिरोऽन्तर्द्धौ तिरस्कारे तिर्यगर्थेऽव्ययं मतम् ।तिर्यङ् त्रिषु विहङ्गादौ पशौ कुटिलगामिनि ॥ ७८१ ॥
781 · p. 142
अनुष्टुप्
तिलः शस्यविशेषेऽपि तिलकालक उच्यते ।तिलकोऽश्वान्तरे रोगप्रभेदे तिलकालके ॥ ७८२ ॥
782 · p. 142
अनुष्टुप्
वृक्षभेदे मरुवके प्रधाने ध्रुवकान्तरे ।अस्त्रियां पुण्ड्रके क्लीवं क्लोम्नि सौवर्चलेऽसिते ॥ ७८३ ॥
783 · p. 143
अनुष्टुप्
तिष्यः कलियुगे पुष्यनक्षत्रे पौषमासि च ।तीरं वाणे नदीकूले गङ्गातीरे च सीसके ॥ ७८४ ॥
784 · p. 143
अनुष्टुप्
तीर्णोऽभिभूत उत्तीर्ण-प्लुतयोस्त्रिषु कीर्तितः ।तीर्थ पात्रेऽध्वरे क्षेत्रे पुण्यस्थान-निदानयोः ॥ ७८५ ॥
785 · p. 143
अनुष्टुप्
उपाये दर्शने घट्टे नारीरजसि मन्त्रिणि ।ऋषिजुष्टजले शास्त्रे उपाध्यायावतारयोः ॥ ७८६ ॥
786 · p. 143
अनुष्टुप्
आगमे ब्राह्मणे योनौ साध्वादिसमुदायके ।तीर्थङ्करस्तीर्थकरस्तीर्थकृद्भगवज्जिने ॥ ७८७ ॥
787 · p. 143
अनुष्टुप्
तीव्रं त्रपुण्यतिशये तीरे तीक्ष्णाऽश्मसारयोः ।त्रिलिङ्गस्तु मतोऽत्युष्णे हरे कटु-नितान्तयोः ॥ ७८८ ॥
788 · p. 144
अनुष्टुप्
तीव्रा स्यात् कटुरोहिण्यां तुलस्यां तरदीतरौ ।महाज्योतिष्मतीवल्ल्यां राजिका-गण्डदूर्वयोः ॥ ७८९ ॥
789 · p. 144
अनुष्टुप्
तीक्ष्णं विषे खरे शस्त्रे मरणे युद्धलौहयोः ।सामुद्रलवणे शीघ्रे घण्टापाटलि-चव्ययोः ॥ ७९० ॥
790 · p. 144
अनुष्टुप्
मरकेऽपि यवक्षारे श्वेतवर्हिषि कुन्दरौ ।तीक्ष्णस्त्रिषु निरालस्ये सुबुद्धौ तिग्म-योगिनोः ॥ ७९१ ॥
791 · p. 144
अनुष्टुप्
आत्मत्यागिन्यथो तिक्ष्णकर्माऽऽयःशूलिके त्रिषु ।तीक्ष्णगन्धा तु सूक्ष्मैला-जीवन्ती-राजिकासु च ॥ ७९२ ॥
792 · p. 144
अनुष्टुप्
कन्थारी-श्वेतवचयोर्वचायामपि कीर्तिता ।तीक्ष्णा वचाऽत्यम्लपर्णीमहाज्योतिष्मतीषु च ॥ ७९३ ॥
793 · p. 144
अनुष्टुप्
सर्पकङ्कालिकावृक्षे कपिकच्छावपि स्मृता ।तुङ्गो बुधग्रहे शैले नारिकेले च गण्डके ॥ ७९४ ॥
794 · p. 145
अनुष्टुप्
योगप्रभेदे पुन्नागवृक्षेऽसौ त्रिषु तून्नते ।उग्रे प्रधाने क्लीवं तु किंजल्के विबुधैः स्मृतः ॥ ७९५ ॥
795 · p. 145
अनुष्टुप्
तुच्छं पुलाकजे क्लीबं हीने शून्याल्पयोस्त्रिषु ।तुत्थं नीलाञ्जने वह्नौ पाषाणे च रसाञ्जने ॥ ७९६ ॥
796 · p. 145
अनुष्टुप्
नीलीवृक्ष-महानीली-क्षुद्रैलासु स्त्रियां मता ।अस्त्रियां तुम्बुरुः स्वर्गगायकेऽर्हदुपासके ॥ ७९७ ॥
797 · p. 145
अनुष्टुप्
गन्धर्वे फलवृक्षेऽथ तुरगश्चित्त-वाजिनोः ।तुरुष्कः सिह्लके म्लेच्छजाति-देशविशेषयोः ॥ ७९८ ॥
798 · p. 145
अनुष्टुप्
श्रीवासकद्रुमे तुर्य्यश्चतुर्थे वेगिते तुरः ।तुला भाण्डे पलशते राशौ सादृश्य-मानयोः ॥ ७९९ ॥
799 · p. 146
अनुष्टुप्
तुलाकोटिर्मानभेदे मञ्जीरार्बुदयोः स्त्रियाम् ।तुलाधरस्तुलाराशौ वाणिजे च तुलागुणे ॥ ८०० ॥
800 · p. 146
अनुष्टुप्
तुषारः सीकरे देशविशेषे शीतले हिमे ।भेदे कर्पूर-हिमयोरथ तूर्णिः पुमान् मले ॥ ८०१ ॥
801 · p. 146
अनुष्टुप्
त्वरायां मनसि श्लोके तूलूः कार्पासतूलके ।तूलं तूदतरौ व्योम्नि पिञ्जले तूलकार्मुकम् ॥ ८०२ ॥
802 · p. 146
अनुष्टुप्
शय्योपकरणे वर्त्त्यामीषिकायां च तूलिका ।तूवरस्तु पुमान् कालेऽजातशृङ्गे गवादिके ॥ ८०३ ॥
803 · p. 146
अनुष्टुप्
पुरुषव्यञ्जनत्यक्ते निःश्मश्रुपुरुषेऽपि च ।स्यात् कषायरसे प्रौढाशृङारेऽथ तृणद्रुमः ॥ ८०४ ॥
804 · p. 146
अनुष्टुप्
खर्जूरे केतकी-ताल्योर्नारिकेल-गुवाकयोः ।खर्जूरीवृक्ष-हिन्ताल-तालवृक्षेषु कीर्तितः ॥ ८०५ ॥
805 · p. 147
अनुष्टुप्
तृषा लांगलिकीवृक्षे कामकन्येच्छयोस्तृषि ।तेजो वैश्वानरे दीप्तौ नवनीते पराक्रमे ॥ ८०६ ॥
806 · p. 147
अनुष्टुप्
रेतस्यसहने पित्ते प्रभावे मज्जिन-काञ्चने ।महाभूरान्तरेऽपि स्यात् अथ तेजनकः शरे ॥ ८०७ ॥
807 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तिलादिस्निग्धवस्तूनां स्नेहे तैलं च सिह्लके ।तोयदो मुस्तके मेघे जलदातरि सर्पिषि ॥ ८०८ ॥
808 · p. 147
अनुष्टुप्
त्यागी वर्जनशीले स्याच्छूरे दातरि च त्रिषु ।त्रपा स्त्रीपुंसयोर्लज्जा-कुलटा-कुलकीर्तिषु ॥ ८०९ ॥
809 · p. 147
अनुष्टुप्
त्रयी वेदत्रये दुर्गा-पुरन्ध्री-सुमतिष्वपि ।सोमराजीतरौ त्रस्तो भीते त्रिषु द्रुतेऽद्वयोः ॥ ८१० ॥
810 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्रि (wrong syllable)
त्राणन्तु त्रायमाणायां रक्षणे त्रिषु रक्षिते ।त्रिकं त्रिपथसंस्थाने पृष्ठवंशाधरे त्रये ॥ ८११ ॥
811 · p. 148
अनुष्टुप्
त्रिफलायां त्रिकटुनि त्रिमदे कण्टकत्रये ।त्रिपुटो गोक्षुरे तीरे हस्तभेदे सतीनके ॥ ८१२ ॥
812 · p. 148
अनुष्टुप्
तालके त्रिपुटा तु स्यात् त्रिवृन्मल्लिकयोः स्त्रियाम् ।कर्णस्फोटा रक्तत्रिवृद्देवीभेदेष्वपि स्मृता ॥ ८१३ ॥
813 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क्त (wrong syllable)
त्रिमाया यमुना-नीली-हरिद्रा-रजनीषु च ।त्रिशुंकुः सूर्यवंशीयनृपभेदे च चातके ॥ ८१४ ॥
814 · p. 148
अनुष्टुप्
मार्जारे शलभे पुंसि खद्योतेऽपि प्रकीर्तितः ।त्रुटिरल्पे कालभेदे सूक्ष्मैलायां च संशये ॥ ८१५ ॥
815 · p. 148
अनुष्टुप्
त्वगिन्द्रिये त्वचे चर्म-वल्कयोस्त्वक् गुडत्वचि ।त्वक्सारो रन्ध्रवंशे स्याच्छोणवृक्षे गुडत्वचि ॥ ८१६ ॥
816 · p. 149
अनुष्टुप्
त्विट् जिगीषा-प्रभा-शोभा-व्यवसायेषु वाचि च ।खड्गमुष्टौ त्सरुर्दीप्तौ त्विषा सूर्ये त्विषाम्पतिः ॥ ८१७ ॥
817 · p. 149
अनुष्टुप्
दंशः सर्पक्षते दोषे दन्ते मर्मणि खण्डने ।अरण्यमक्षिका-वर्म-दंशनेषु मतः पुमान् ॥ ८१८ ॥
818 · p. 149
अनुष्टुप्
दंशितो वर्मिते दष्टे दंष्ट्री शूकर-सर्पयोः ।त्रिषु दंष्ट्राविशिष्टेऽसौ सलिले दकमीरितम् ॥ ८१९ ॥
819 · p. 149
अनुष्टुप्
दण्डोऽस्त्री शरणापन्नरक्षणादौ दमे यमे ।मन्थाने ग्रहभेदेऽश्वे चण्डांशोः पारिपार्श्वके ॥ ८२० ॥
820 · p. 149
अनुष्टुप्
प्रकाण्डे लगुडे सैन्ये व्यूहभेदाऽभिमानयोः ।ऊर्ध्वस्थितौ मानभेदे कोण-कालविशेषयोः ॥ ८२१ ॥
821 · p. 149
अनुष्टुप्
इक्ष्वाकुराज्यपुत्रेऽथ दण्डकः श्लोकवृत्तयोः ।अथदण्डधरो राज्ञि यमे लगुडधारके ॥ ८२२ ॥
822 · p. 150
अनुष्टुप्
दण्डनीतिस्तु दुर्गायामर्थशास्त्रे स्त्रियां मता ।दण्डपालः पुमानर्द्धशफर-द्वारपालयोः ॥ ८२३ ॥
823 · p. 150
अनुष्टुप्
दण्डयात्रा दिग्विजये संयान-वरयात्रयोः ।दण्डयामो दिनेऽगस्त्ये यमेऽथ शरयन्त्रके ॥ ८२४ ॥
824 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दि (wrong syllable)
कुलालचक्रे दण्डारो वाहने मत्तकुञ्जरे ।दण्डी जिनान्तरे द्वास्थे यमे दमनकद्रुमे ॥ ८२५ ॥
825 · p. 150
अनुष्टुप्
त्रिलिंगो दण्डयुक्तेऽसौ चतुर्थाश्रमिमानवे ।दद्रूः कूर्मे दद्रुरोगे दद्रुणो दद्रुरोगिणि ॥ ८२६ ॥
826 · p. 150
अनुष्टुप्
दधिक्षीरोत्तरावस्थाभाव-श्रीवासयोः पटे ।दन्तोऽद्रिकटके शैलशृङ्गे दशन-कुञ्जयोः ॥ ८२७ ॥
827 · p. 150
अनुष्टुप्
स्मृतो दन्तशठो नागरंगके कर्मरंगके ।अम्ले कपित्थे जम्बीरे चोङ्गरी-चिञ्चयोः स्त्रियाम् ॥ ८२८ ॥
828 · p. 151
अनुष्टुप्
दन्ती वृक्षान्तरे पुंसि कुञ्जरे तु द्वयोरसौ ।तपःक्लेशसहिष्णुत्वे बहिरिन्द्रियनिग्रहे ॥ ८२९ ॥
829 · p. 151
अनुष्टुप्
दण्ड-कर्दमयोः पुंसि दम इत्यभिधीयते ।वीरोपशान्तयोः कुन्दे दमनः पुष्पचामरे ॥ ८३० ॥
830 · p. 151
अनुष्टुप्
दम्भस्तु कपटे कल्के साटोपाहंकृतावपि ।अभीष्टे दयितं पत्यौ दयितो दयिता स्त्रियाम् ॥ ८३१ ॥
831 · p. 151
अनुष्टुप्
दरोऽस्त्रियां भये गर्ते शंखेऽसौ कन्दरद्वयोः ।दरत् स्त्रियां म्लेच्छजातौ प्रपाते भयतीरयोः ॥ ८३२ ॥
832 · p. 151
अनुष्टुप्
हृदि शैलेऽथ दरदो म्लेच्छे देशान्तरे भये ।दर्दुरो राक्षसे भेक-वाद्यभाण्डविशेषयोः ॥ ८३३ ॥
833 · p. 151
अनुष्टुप्
शैलभेदे दर्दुरा तु चण्डिकायां प्रयुज्यते ।दर्प उच्छृङ्खलत्वे स्यात् कस्तूर्यां गर्व उष्मणि ॥ ८३४ ॥
834 · p. 152
अनुष्टुप्
दर्पणो मुकुरे शैलविशेष-नदभेदयोः ।क्लीबं सन्दीपने नेत्रे दर्वो राक्षस-हिंस्रयोः ॥ ८३५ ॥
835 · p. 152
अनुष्टुप्
दर्विका स्यात् खजाकायां कज्जलेऽपि बुधैः स्मृता ।दर्भः काशे कुशे दर्शोऽमवास्यायां विलोकने ॥ ८३६ ॥
836 · p. 152
अनुष्टुप्