All kośas › Nānārthodayasāgarakoṣa
नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa
2,302 verses · text only, tagging comes next
Part 12 (12/20)
प्रत्यूषो भास्करे कल्ये वसुभेदेऽपि कीर्तितः ।प्रधानं प्रकृतौ बुद्धौ प्रशस्ते परमात्मनि ॥ १३१६ ॥
1316 · p. 232
अनुष्टुप्
प्रबुद्धस्त्रिषु संफुल्ले पण्डिते जागृतेऽपि च ।प्रभवो मुनिभेदे स्याद् जन्महेतौ पराक्रमे ॥ १३१७ ॥
1317 · p. 232
अनुष्टुप्
प्रभुर्नारायणे शब्दे जिन-पारदयोरपि ।प्रमाणं नित्य-मर्यादा-शास्त्र-हेतु-प्रमातृषु ॥ १३१८ ॥
1318 · p. 232
अनुष्टुप्
प्रमुखः प्रथमे मान्ये समवाय-प्रधानयोः ।प्रयागस्तुरगे शक्रे यज्ञ-तीर्थविशेषयोः ॥ १३१९ ॥
1319 · p. 232
अनुष्टुप्
प्रलम्बस्त्रपुषे दैत्ये हारभेदे प्रलम्बने ।प्रवणः प्रगुणे प्रह्वे क्षीणे स्निग्धे प्लुते क्षणे ॥ १३२० ॥
1320 · p. 232
अनुष्टुप्
प्रसादोनुग्रहे स्वास्थ्ये प्रसन्नत्वे गुणान्तरे ।प्रस्तावः स्यात् प्रकरणे प्रसंगेऽवसरे पुमान् ॥ १३२१ ॥
1321 · p. 233
अनुष्टुप्
प्राप्तिः स्त्री प्रापणे भूतौ लाभेऽभ्युदय-संघयोः ।प्रामाणिकस्तु शास्त्रज्ञे मर्यादार्हे च हैतुके ॥ १३२२ ॥
1322 · p. 233
अनुष्टुप्
प्रायोऽनशनमृत्यौ स्यान्मृत्यौ बाहुल्य-तुल्ययोः ।प्रार्थितो याचिते शत्रुसंरुद्धेऽभिहिते हते ॥ १३२३ ॥
1323 · p. 233
अनुष्टुप्
प्रियो मृगान्तरे पत्यौ हृद्ये च जीवकौषधे ।प्रियंवदस्तु गन्धर्वे खेचरे प्रियभाषिणि ॥ १३२४ ॥
1324 · p. 233
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
प्रिया नार्यां मल्लिकायां वार्तायां मदिरैलयोः ।प्रेङ्खा स्त्रियां स्याद्दोलायां नृत्ये संवेशनान्तरे ॥ १३२५ ॥
1325 · p. 233
अनुष्टुप्
प्रेतो मृते नारकीयप्राणि-भूतप्रभेदयोः ।प्रेक्षा नृत्यक्षणे बुद्धौ शाखायामीक्षणेऽपि च ॥ १३२६ ॥
1326 · p. 233
अनुष्टुप्
प्रोथः कट्यामश्वमुखे स्त्रीगर्भे भीषणे स्फिचि ।प्लवः प्रतिगतौ भेके कपौ प्लवन-भेलयोः ॥ १३२७ ॥
1327 · p. 234
अनुष्टुप्
अवौ जलान्तरे शत्रौ श्वपचे जलवायसे ।प्लवगो वानरे भेके शिरीषे सूर्यसारथौ ॥ १३२८ ॥
1328 · p. 234
अनुष्टुप्
प्लक्षो द्वीपान्तरेऽश्वत्थे पक्षके पर्कटिद्रुमे ।फटा फणायां कितवे कपटेऽपि स्त्रियां मता ॥ १३२९ ॥
1329 · p. 234
अनुष्टुप्
फलं जातीफले लाभे शस्ये वाणाग्र आर्तवे ।कक्कोले फलके व्युष्टौ दाने फाले फलत्रिके ॥ १३३० ॥
1330 · p. 234
अनुष्टुप्
फलोदयः फलोत्पत्तौ हर्षे लाभे सुरालये ।फालः शिवे प्रलम्बघ्ने कृषिके त्रिषु वाससि ॥ १३३१ ॥
1331 · p. 234
अनुष्टुप्
फाल्गुनस्तु गुडाकेशे नदीजार्जुनपादपे ।तपस्यसंज्ञमासे तत्पूर्णिमायान्तु फाल्गुनी ॥ १३३२ ॥
1332 · p. 234
अनुष्टुप्
फेरवो राक्षसे फेरौ त्रिलिंगो हिंस्र-धूर्तयोः ।वडवा वाडवाग्नौ स्याद् घोटक्यां तारकान्तरे ॥ १३३३ ॥
1333 · p. 235
अनुष्टुप्
शृगालकोलौ वदरं कार्पासफल-कोलयोः ।वधूर्नार्यां स्नुहायां च शारिवौषधि-पृक्कयोः ॥ १३३४ ॥
1334 · p. 235
अनुष्टुप्
उद्दामनि वधे रज्जौ हिंसायां बन्धनं स्मृतम् ।बन्धुः सगोत्रे बन्धूके मित्रे भ्रातरि कीर्तितः ॥ १३३५ ॥
1335 · p. 235
अनुष्टुप्
बन्धूको बन्धुजीवे स्यात् खधूपे तु नपुंसकम् ।बन्धूर-बन्धुरौ रम्ये नम्रे हंसे तु बन्धुरः ॥ १३३६ ॥
1336 · p. 235
अनुष्टुप्
बभ्रुर्विशाले नकुले केशवे पावके शिवे ।बरो जामातरि श्रेष्ठे देवतादेरभीप्सिते ॥ १३३७ ॥
1337 · p. 235
अनुष्टुप्
बलं गन्धरसे रूपे स्थौल्ये सामर्थ्य-सैन्ययोः ।बलः संकर्षणे काके दैत्ये वरुणपादपे ॥ १३३८ ॥
1338 · p. 235
अनुष्टुप्
बलजं नगरद्वारे केदारे शस्य-युद्धयोः ।बलभद्रः प्रलम्बघ्ने शेषे गवय-लोध्रयोः ॥ १३३९ ॥
1339 · p. 236
अनुष्टुप्
बलाहको गिरौ मेघे दैत्य-नागविशेषयोः ।बलिर्दैत्ये भागधेये पूजोपकरणेऽपि च ॥ १३४० ॥
1340 · p. 236
अनुष्टुप्
बली तालाङ्क-महिष-क्रमेलक-कफेषु च ।बल्यं प्रधानधातौ स्याच्छुक्रे बलकरे त्रिषु ॥ १३४१ ॥
1341 · p. 236
अनुष्टुप्
अनेके विपुले त्र्यादिसंख्यायां च बहु त्रिषु ।बहुकः कर्कटे सूर्ये दात्यूहे जलखातके ॥ १३४२ ॥
1342 · p. 236
अनुष्टुप्
बहुरूपः शिवे विष्णौ कन्दर्पे केश-सर्जयोः ।वाणी व्यूतौ सरस्वत्यां वाक्येऽपि क्वचिदिष्यते ॥ १३४३ ॥
1343 · p. 236
अनुष्टुप्
बान्धवः सुहृदि ज्ञातौ बालो मूर्खेऽर्भके त्रिषु ।बालोऽश्वशावके केशे तुरंगकरिवालधौ ॥ १३४४ ॥
1344 · p. 236
अनुष्टुप्
बालकोऽज्ञे शिशौ केशे वलये चांगुरीयके ।बाला नार्यां हरिद्रायामेलायां भूषणान्तरे ॥ १३४५ ॥
1345 · p. 237
अनुष्टुप्
बालिका बालुका-कन्या-त्रुटिषु श्रुतिभूषणे ।बालुका कर्कटी-यन्त्रप्रभेद-सिकतासु च ॥ १३४६ ॥
1346 · p. 237
अनुष्टुप्
बालेयो गर्दभे दैत्यभेदे चाणक्यमूलके ।बीभत्सो विकृतौ क्रूरे घृणात्मनि रसान्तरे ॥ १३४७ ॥
1347 · p. 237
अनुष्टुप्
बुधो वृन्दारके सौम्ये विपश्चिति नृपान्तरे ।बुध्नः शिवे वृक्षमूले बुबुधानः सुरे बुधे ॥ १३४८ ॥
1348 · p. 237
अनुष्टुप्
विज्ञापने वेदने च बोधनं गन्धदीपने ।ब्रध्नः सूर्ये शिवे वृक्षमूल-रोगविशेषयोः ॥ १३४९ ॥
1349 · p. 237
अनुष्टुप्
ब्रह्म वेदे च तपसि तत्त्वे विप्रे विधौ पुमान् ।ब्रह्मण्यः केशवे ब्रह्मदारुवृक्षे शनैश्चरे ॥ १३५० ॥
1350 · p. 237
अनुष्टुप्
ब्रह्मपुत्रः क्षेत्रभेदे नदभेदे विषान्तरे ।ब्रह्मबन्धुरधिक्षेपे निर्देशे निन्दितद्विजे ॥ १३५१ ॥
1351 · p. 238
अनुष्टुप्
ब्राह्म्यं दृश्ये विस्मये च ब्रह्मसम्बन्धिनि त्रिषु ।भक्तिर्विभागे श्रद्धायां गौणवृत्तौ च सेवने ॥ १३५२ ॥
1352 · p. 238
अनुष्टुप्
भगं यशसि सौभाग्ये वैराग्ये ज्ञान-वीर्ययोः ।श्रियां स्त्रियां सूर्य-चन्द्र-यत्न-माहात्म्य-कान्तिषु ॥ १३५३ ॥
1353 · p. 238
अनुष्टुप्
योनौ धर्मे च कैवल्ये स्पृहा नक्षत्रभेदयोः ।भटो वीरे म्लेच्छभेदे पामरे रजनीचरे ॥ १३५४ ॥
1354 · p. 238
अनुष्टुप्
नाट्योक्त्या नृपतौ देवे पूज्ये भट्टारको मतः ।भद्रः शिवे खञ्जरीटे वृषभे च कदम्बके ॥ १३५५ ॥
1355 · p. 238
अनुष्टुप्
हस्तिजातिविशेषे च भद्रं तु मंगले स्मृतम् ।भद्रा प्रसारिणी रास्ना-नीली-व्योमनदीषु च ॥ १३५६ ॥
1356 · p. 239
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
वचाऽपराजिताऽनन्ता-काकोदुम्बरिकासु च ।तिथिभेदे हरिद्रायां कट्फले सारिवान्तरे ॥ १३५७ ॥
1357 · p. 239
अनुष्टुप्
बुद्धशक्त्यन्तरे दन्त्यां काश्मरी-श्वेतदूर्वयोः ।भयानकस्तु शार्दूले रसभेदे विधुन्तुदे ॥ १३५८ ॥
1358 · p. 239
अनुष्टुप्
भरण्यं वेतने मूल्ये भरणं पोषणे भृतौ ।भरतः शवरे क्षेत्रे दौष्मन्ति-मुनिभेदयोः ॥ १३५९ ॥
1359 · p. 239
अनुष्टुप्
रामानुजे नाट्यशास्त्रे तन्तुवायेऽपि कीर्तितः ।भर्म नाभौ च धुस्तूरे काञ्चने वेतनेऽद्वयोः ॥ १३६० ॥
1360 · p. 239
अनुष्टुप्
भवो जन्मनि संसारे क्षेमे प्राप्तौ महेश्वरे ।भव्यं त्रिषु शुभे योग्ये सत्ये भाविनि चेष्यते ॥ १३६१ ॥
1361 · p. 239
अनुष्टुप्
कर्मरङ्गतरौ पुंसि रसभेदेऽस्त्रियामसौ ।भव्या स्याद्गजपिप्पल्यां दुर्गायां रम्यवस्तुनि ॥ १३६२ ॥
1362 · p. 240
अनुष्टुप्
भसत् स्त्री भास्करे योनौ काले कारण्डवे प्लवे ।भस्मकं कलधौते स्यात् रोगभेद-विडङ्गयोः ॥ १३६३ ॥
1363 · p. 240
अनुष्टुप्
भस्मतूलं ग्रामकूटे तुषारे पांशुवर्षणे ।भागो रूप्यार्धके भाग्ये राशेस्त्रिंशांशकेऽशके ॥ १३६४ ॥
1364 · p. 240
अनुष्टुप्
भाग्ये क्लीवं भागधेयं दायादकरयोः पुमान् ।योग्य आढकमाने च पात्रे भाजनमीरितम् ॥ १३६५ ॥
1365 · p. 240
अनुष्टुप्
भाण्डं पात्रे भाण्डवृत्तौ वणिङ्मूलधने मतम् ।भानुर्दिवाकरे रश्मौ वृत्तार्हज्जनके प्रभौ ॥ १३६६ ॥
1366 · p. 240
अनुष्टुप्
भामः क्रोधे सहस्रांशौ दीप्तौ च भगिनीपतौ ।भारती वाचि वृत्तौ च सरस्वत्यां खगान्तरे ॥ १३६७ ॥
1367 · p. 240
अनुष्टुप्
भारद्वाजः कुजेऽगस्त्ये द्रोणाचार्ये गुरोःसुते ।भार्गवः कुञ्जरे पर्शुराम-देशविशेषयोः ॥ १३६८ ॥
1368 · p. 241
अनुष्टुप्
भार्गवी पार्वती-लक्ष्मी-श्वेतदूर्वासु कीर्तिता ।भालाङ्को रोहिते मीने शाकभित्करपत्रयोः ॥ १३६९ ॥
1369 · p. 241
अनुष्टुप्
महालक्षणसम्पन्न-पुरुषे कच्छपे हरे ।भावः स्वभावेऽभिप्राये पदार्थेऽभिनयान्तरे ॥ १३७० ॥
1370 · p. 241
अनुष्टुप्
बुधे विभूतौ चेष्टायां सत्तायां योनि-लीलयोः ।क्रियायां जनने जन्तौ रत्यादिव्यभिचारिणि ॥ १३७१ ॥
1371 · p. 241
अनुष्टुप्
भावाटो भावके साधौ निवेशे कामुके नटे ।ध्यानेऽधिवासने पर्यालोचने भावना मता ॥ १३७२ ॥
1372 · p. 241
अनुष्टुप्
भावितो वासिते प्राप्ते चिन्तिते मिश्रिते त्रिषु ।भासो दीप्तौ शकुन्ते च कुक्कुटे गृध्र-गोष्ठ्ययोः ॥ १३७३ ॥
1373 · p. 242
अनुष्टुप्
भासन्तः चन्दिरे सूर्ये नक्षत्रे भासपक्षिणि ।भास्करेऽहस्करे वह्नौ भास्कराचार्य-वीरयोः ॥ १३७४ ॥
1374 · p. 242
अनुष्टुप्
भासुरो दिवसे सूर्ये दीप्तियुक्ते त्वसौ त्रिषु ।भास्वान् सूर्येऽर्कवृक्षे च वीरे दीप्तियुते त्रिषु ॥ १३७५ ॥
1375 · p. 242
अनुष्टुप्
भित्तिः कुड्ये प्रदेश-संविभागा-ऽवकाशयोः ।भिदुरं कुलिशे क्लीवं प्लक्षवृक्षे त्वसौ पुमान् ॥ १३७६ ॥
1376 · p. 242
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भिन्नो विदारिते फुल्ले संगते-तरयोस्त्रिषु ।भिक्षा भृतौ च सेवायां याञ्चा-भिक्षितवस्तुनि ॥ १३७७ ॥
1377 · p. 242
अनुष्टुप्
भिक्षुर्जैनमुनौ बुद्धप्रभेद-कोकिलाक्षयोः ।भीमो भयानकरसे शिवे मध्यमपाण्डवे ॥ १३७८ ॥
1378 · p. 242
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
भीरुः स्त्री भयशीलायां स्त्रियां सामान्ययोषिति ।शतावरी-कण्टकारी-छायाऽजासु प्रकीर्तिता ॥ १३७९ ॥
1379 · p. 243
अनुष्टुप्
पुमान् शृगाले शार्दूले भयशीले त्वसौ त्रिषु ।भीरुकः कातरे घूके काननेक्षुविशेषयोः ॥ १३८० ॥
1380 · p. 243
अनुष्टुप्
शिवे कपोते हिन्ताले शल्लक्यां भीषणे रसे ।भीष्मो भयानकरसे गाङ्गेये राक्षसे शिवे ॥ १३८१ ॥
1381 · p. 243
अनुष्टुप्
भुक्तिः स्त्री भोजने भोगे भुजङ्गः षिङ्ग-सर्पयोः ।भुजिष्यो हस्तसूत्रे स्याद् रोगे दास-स्वतन्त्रयोः ॥ १३८२ ॥
1382 · p. 243
अनुष्टुप्
भुवनं सलिले व्योम्नि जन-विष्टपयोरपि ।भुवन्युस्तु सहस्रांशौ वह्नौ चन्द्रमसि प्रभौ ॥ १३८३ ॥
1383 · p. 243
अनुष्टुप्
भूः स्त्रियां पृथिवी-स्थानमात्र-यज्ञाग्निषु स्मृता ।भूकाकः स्वल्पकङ्के स्यात् क्रौञ्च-नीलकपोतयोः ॥ १३८४ ॥
1384 · p. 243
अनुष्टुप्
भूतं क्ष्मादौ पिशाचादौ न्याये सत्ये नपुंसकम् ।त्रिषु प्राणिन्यतीते च सदृशे चोत्तरस्थिते ॥ १३८५ ॥
1385 · p. 244
अनुष्टुप्
भूतघ्नो लशुने भूर्जपादपे च क्रमेलके ।भूतात्मा शंकरे विष्णौ शरीरे परमेष्ठिनि ॥ १३८६ ॥
1386 · p. 244
अनुष्टुप्
भूतिर्भस्मनि सम्पत्तौ वृद्धिनामौषधे स्त्रियाम् ।भूतिकं कत्फले प्रोक्तं यमानी-घनसारयोः ॥ १३८७ ॥
1387 · p. 244
अनुष्टुप्
भूमिः क्षितौ स्थानमात्रे जिह्वायामपि कीर्तिता ।भूमिका रचनायां स्याद् वेशान्तरपरिग्रहे ॥ १३८८ ॥
1388 · p. 244
अनुष्टुप्
भूरिर्विष्णौ शिवे शक्रे ब्रह्मणि प्रचुरे त्रिषु ।भृगुर्मुनिविशेषे स्यात् सानौ शुक्रग्रहे शिवे ॥ १३८९ ॥
1389 · p. 244
अनुष्टुप्
भृङ्गः कलिंगविहगे भृङ्गारे भ्रमरे विटे ।भृतिः स्त्री वेतने मूल्ये भरणेऽपि निगद्यते ॥ १३९० ॥
1390 · p. 244
अनुष्टुप्
भृशं त्वतिशये क्लीवं प्रकर्षे शोभनेऽव्ययम् ।भेदो विदारणे द्वैधे उपजाप-विशेषयोः ॥ १३९१ ॥
1391 · p. 245
अनुष्टुप्
भोगः सुखे भाटके च भुजंगफण-देहयोः ।भोगवान् भुजगे नाट्ये गाने भोगयुते त्रिषु ॥ १३९२ ॥
1392 · p. 245
अनुष्टुप्
भोगी सर्पे ग्रामपात्रे वैयावृत्तिकरे नृपे ।भोग्यं धान्ये धने क्लीवं भागयोग्ये त्वसौ त्रिषु ॥ १३९३ ॥
1393 · p. 245
अनुष्टुप्
भ्रामको जम्बुके धूर्ते सूर्यावर्ते शिलान्तरे ।भ्रूणो गर्भेऽर्भके भ्रेषो गतौ भ्रंशे यथोचितम् ॥ १३९४ ॥
1394 · p. 245
अनुष्टुप्
मकरन्दः पुष्परसे किंजल्के कुन्दपादपे ।कुलालदण्डे वकुले दर्पणे मुकुरः स्मृतः ॥ १३९५ ॥
1395 · p. 245
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
मंगला पार्वती-शुक्लदूर्वा-साध्वीषु कीर्तिता ।मंगले कुशले क्लीवं मंगलोऽङ्गारके पुमान् ॥ १३९६ ॥
1396 · p. 245
अनुष्टुप्
मंगल्यं चन्दने दध्नि स्वर्ण-सिन्दूरयोरपि ।मज्जाऽस्थिसारे वृक्षादेरुत्तमस्थिरभागके ॥ १३९७ ॥
1397 · p. 245
अनुष्टुप्
कर्णवंशे च खट्वायां मञ्चः स्यादुच्चमण्डपे ।मञ्जरी तुलसी-मुक्ता-लता-वल्लरीषु स्मृता ॥ १३९८ ॥
1398 · p. 246
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 री (wrong syllable)
मठश्छात्रादिनिलये देवतायतनेऽपि सः ।मणिः स्त्रीपुंसयोरश्मजातौ मुक्तादिकेऽपि च ॥ १३९९ ॥
1399 · p. 246
अनुष्टुप्
विद्रुमेऽलिञ्जरे नागविशेष-मणिबन्धयोः ।मणिमाला स्त्रियां लक्ष्म्यां दीप्तौ हारे रदक्षते ॥ १४०० ॥
1400 · p. 246
अनुष्टुप्
मण्डो मस्तुनि भूषायामेरण्डे सार-पिच्छयोः ।शाकभेदे भक्तरसे दर्दुरेऽपि पुमान् स्मृतः ॥ १४०१ ॥
1401 · p. 246
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भ (wrong syllable)
देवादिदत्तभवने मण्डपोऽस्त्री जनाश्रये ।मण्डलं परिधौ चक्रवाले द्वादशराजके ॥ १४०२ ॥
1402 · p. 246
अनुष्टुप्
कोठरोगे जनपदे गोले बिम्बे त्वसौ त्रिषु ।अथ मण्डलकं बिम्बे कुष्ठभेदे च दर्पणे ॥ १४०३ ॥
1403 · p. 246
अनुष्टुप्
मण्डली जाहके सर्पे मार्जारे वटपादपे ।मण्डूकः शोणके भेके मुनि-बन्धविशेषयोः ॥ १४०४ ॥
1404 · p. 247
अनुष्टुप्
मण्डूकी भेकभार्यायां ब्राह्मी-धृष्टस्त्रियोरपि ।मतिर्बुद्धौ शाकभेदे स्पृहायां स्मरणे स्त्रियाम् ॥ १४०५ ॥
1405 · p. 247
अनुष्टुप्
मत्तो लुलाये धुस्तूरे क्षरन्मदमतङ्गजे ।कोकिले च पुमान् क्षीब-मत्तयोस्तु त्रिषु स्मृतः ॥ १४०६ ॥
1406 · p. 247
अनुष्टुप्
प्रांगणावरणे पूगचूर्णे स्यान्मत्तवारणम् ।मत्स्यो नारायणे मीने राशौ देश-पुराणयोः ॥ १४०७ ॥
1407 · p. 247
अनुष्टुप्
मदो रेतसि कस्तूर्यां हस्तिगण्डजले नदे ।मद्येऽभिमाने कल्याणवस्तु-मत्ततयोरपि ॥ १४०८ ॥
1408 · p. 247
अनुष्टुप्
मदनः सिक्यके कामे वसन्ते पिचुकद्रुमे ।धुस्तूरे खदिरे माषे श्वसने बकुलद्रुमे ॥ १४०९ ॥
1409 · p. 247
अनुष्टुप्
मदयित्नुः पुमान् कामे शौण्डिके मत्त-मेघयोः ।मदारः कुञ्जरे धूर्ते कामुके शूकरे मृगे ॥ १४१० ॥
1410 · p. 248
अनुष्टुप्
मदिरा मादकद्रव्यविशेषे मत्तखञ्जने ।मधु मद्ये जले क्षीरे क्षौद्रे पुष्परसे स्मृतम् ॥ १४११ ॥
1411 · p. 248
अनुष्टुप्
पुमान् मधुद्रुमे दैत्येऽशोके चैत्र-वसन्तयोः ।मधुको वन्दिभेदे स्याद्यष्टयाह्वे विहगान्तरे ॥ १४१२ ॥
1412 · p. 248
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मधुरो जीरके शालौ गुडे मिष्ठरसे प्रिये ।स्त्रियां मधुरसा द्राक्षा-गम्भारी-दुग्धिकासु च ॥ १४१३ ॥
1413 · p. 248
अनुष्टुप्
मध्यं दशान्त्यसंख्यायां लयभेद-विरामयोः ।अस्त्री शरीरमध्ये स्यात् त्रिषु न्याय्येऽन्तरेऽधमे ॥ १४१४ ॥
1414 · p. 248
अनुष्टुप्
मन्तुः पुमान् मनुष्ये स्यादपराधे प्रजापतौ ।मन्थो दिवाकरे मन्थदण्डके साक्तवे करे ॥ १४१५ ॥
1415 · p. 248
अनुष्टुप्
नेत्रामये नेत्रमले मारणे च विलोडने ।मन्थरः सूचकेऽमर्षे मन्थाने मन्दगामिनि ॥ १४१६ ॥
1416 · p. 249
अनुष्टुप्
मन्दोऽतीव्रे खले स्वल्पे रोगिणि स्वैर-मूर्खयोः ।मन्दरो मन्थशैले स्यात् स्वर्गे मन्दारपादपे ॥ १४१७ ॥
1417 · p. 249
अनुष्टुप्
मन्दारोऽर्कतरौ धूर्ते पारिभद्रतरौ शये ।मन्दुरा वाजिशालायां शयनीयार्थवस्तुनि ॥ १४१८ ॥
1418 · p. 249
अनुष्टुप्
मन्मथः कामचिन्तायां कपित्थद्रुम-कामयोः ।मन्युर्दैत्ये क्रतौ क्रोधे शोका-हंकारयोः पुमान् ॥ १४१९ ॥
1419 · p. 249
अनुष्टुप्
मयूखः किरणे दीप्तौ ज्वालायां कील-शोभयोः ।मरालः कज्जले राजहंसे कारण्डवे हये ॥ १४२० ॥
1420 · p. 249
अनुष्टुप्
मरुर्दशेरके धन्वदेशे मरुवकद्रुमे ।मरुतस्त्रिदशे वायौ घण्टापाटलिपादपे ॥ १४२१ ॥
1421 · p. 249
अनुष्टुप्
मरुद्वायौ मरुवके त्रिदश-ग्रन्थिपर्णयोः ।अथ मर्कटकः शस्यभेदे वानर-लूतयोः ॥ १४२२ ॥
1422 · p. 250
अनुष्टुप्
मर्कटी स्यादपामार्गे कपिकच्छू-करञ्जयोः ।मर्करी स्त्री दरी-भाण्ड-सुरङ्गा-निष्कलासु च ॥ १४२३ ॥
1423 · p. 250
अनुष्टुप्
संवाहने चूर्णने च मर्दनं क्लीवमीरितम् ।मर्म क्लीवं स्वरूपे स्यात् संधिस्थान-सतत्त्वयोः ॥ १४२४ ॥
1424 · p. 250
अनुष्टुप्
मलोऽस्त्री पाप-विट्-किट्ट-वात-पित्त-कफेषु च ।मलयश्चन्दनगिरौ शैलांगे नन्दनवने ॥ १४२५ ॥
1425 · p. 250
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 न (wrong syllable)
मलिनं दूषिते कृष्णे मलसंयुक्तवस्तुनि ।मलिम्लुचोऽनले चौरे मलमासे प्रभञ्जने ॥ १४२६ ॥
1426 · p. 250
अनुष्टुप्
मल्लः कपोले पात्रे च बलिष्ठे बाहुयोधिनि ।मल्लिर्जिनान्तरे पुंसि मल्लिकायां त्वसौ स्त्रियाम् ॥ १४२७ ॥
1427 · p. 250
अनुष्टुप्
मल्लिका भूपदीपुष्पे मीन-मृत्पात्रभेदयोः ।मसिः शेफालिकावृन्त-लेखनद्रव्ययोर्द्वयोः ॥ १४२८ ॥
1428 · p. 251
अनुष्टुप्
महोऽध्वरे च महिषे तेज-उत्सवयोः पुमान् ।महाधनं चारुवस्त्रे बहुमूल्ये च वस्तुनि ॥ १४२९ ॥
1429 · p. 251
अनुष्टुप्
महानादो महाशब्दे वर्षुकाम्बुद-हस्तिनोः ।महानीलो भृङ्गराजे मणिनाग-विशेषयोः ॥ १४३० ॥
1430 · p. 251
अनुष्टुप्
महामुनिर्जिनेऽगस्त्ये व्यासे तुम्बुरुपादपे ।महारसः पारदेक्षु-खर्जूरेषु कशेरुणि ॥ १४३१ ॥
1431 · p. 251
अनुष्टुप्
महालयो विहारे स्यात् तीर्थे च परमात्मनि ।महावीरस्तु गरुडे हनुमति मखानले ॥ १४३२ ॥
1432 · p. 251
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 नु (wrong syllable)
चतुर्विंशजिने सिंहे शूरे वज्रे धनुर्धरे ।महाशङ्खो बृहत्कम्बौ निधिभेदे नरास्थनि ॥ १४३३ ॥
1433 · p. 251
अनुष्टुप्
महानुभावेऽकूपारे त्रिलिंगः स्यान्महाशयः ।महासाहसिकः स्तेने बलपूर्वापहारके ॥ १४३४ ॥
1434 · p. 252
अनुष्टुप्
महासेनः कार्तिकेये महासेनापतौ शिवे ।मातंगः कुञ्जरेऽश्वत्थे श्वपचेऽर्हदुपासके ॥ १४३५ ॥
1435 · p. 252
अनुष्टुप्