कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthodayasāgarakoṣa

नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa

2,302 verses · text only, tagging comes next

Part 17 (17/20)

रसान्तरेऽभियुक्ते ना शान्तस्त्रिषु शमान्विते ।शान्तिः स्त्री प्रशमे भद्रे दुर्गायां गोपिकान्तरे ॥ १९१५ ॥
1915 · p. 332
अनुष्टुप्
शापो ना दिव्य आक्रोशे शामनं मारणे शमे ।घनसारे शम्भुपुत्रे गुग्गुलौ शम्भुपूजके ॥ १९१६ ॥
1916 · p. 332
अनुष्टुप्
विषभेदे शाम्भवो ना शम्भुसम्बन्धिनि त्रिषु ।शाम्भवी नीलदूर्वायां दुर्गायामपि कीर्तिता ॥ १९१७ ॥
1917 · p. 332
अनुष्टुप्
शिवमल्ल्यां शम्भुभक्ते शाम्भवं देवदारुणि ।शारो नाऽक्षोपकरणे हिंसने शबलेऽनिले ॥ १९१८ ॥
1918 · p. 332
अनुष्टुप्
शारङ्गो ना मृगे भृङ्गे मयूरे चातके गजे ।शारङ्गी स्त्री वाद्यनन्त्रे शारङ्गस्त्रिषु चित्रिते ॥ १९१९ ॥
1919 · p. 332
अनुष्टुप्
शारदो ना हरिन्मुद्गे कासेऽब्दे बकुलेऽगदे ।पीतमुद्गे सप्तपर्णे क्लीवं शस्ये सिताम्बुजे ॥ १९२० ॥
1920 · p. 333
अनुष्टुप्
त्रिष्वसौ नूत्न-शालीनाऽप्रतिभेषु शरद्भवे ।शारदा स्यात् सरस्वत्यां दुर्गा-वीणाविशेषयोः ॥ १९२१ ॥
1921 · p. 333
अनुष्टुप्
सारिवा शाक-वैधात्रीशाकयोरपि कीर्तिता ।शारदी तोयपिप्पल्यां कौमुदीचार ईरिता ॥ १९२२ ॥
1922 · p. 333
अनुष्टुप्
शारिः स्यात् सारिकायां व्यवहारान्तरे छले ।युद्धार्थगजपर्याणे शारिपट्टे त्वसौ पुमान् ॥ १९२३ ॥
1923 · p. 333
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शारिका पीतपादायां तथा वीणादिवादने ।शार्ककः शर्करापिण्डे दुग्धफेने त्वसौ पुमान् ॥ १९२४ ॥
1924 · p. 333
अनुष्टुप्
शार्करो ना क्षीरफेन-शर्करान्वितदेशयोः ।शार्दूलो राक्षसे व्याघ्रे सरभे विहगान्तरे ॥ १९२५ ॥
1925 · p. 333
अनुष्टुप्
चित्रके पुरतः स्थोऽसौ मतः श्रेष्ठेऽन्यलिंगभाक् ।शालो मत्स्ये वृक्षमात्रे प्राकारे शस्यसम्बरे ॥ १९२६ ॥
1926 · p. 334
अनुष्टुप्
शालिवाहनराजे च नदभेदेऽप्यसौ मतः ।पाञ्चालिकायां वेश्यायां कीर्तिता शालभञ्जिका ॥ १९२७ ॥
1927 · p. 334
अनुष्टुप्
शालागृहे स्कन्धशाखा-गेहैकदेशयोः ।शालाकी नापिते शैलधारकेऽस्त्रचिकित्सके ॥ १९२८ ॥
1928 · p. 334
अनुष्टुप्metre not read in every line
आरोहणे हस्तनखे शालारं पक्षिपञ्जरे ।शालावृको मृगे कीशे मार्जारे जम्बुके शुनि ॥ १९२९ ॥
1929 · p. 334
अनुष्टुप्
शालि र्ना गन्धमार्जारे षष्टिका-कलमादिके ।शालीनः कथितोऽधृष्टे शालासम्बन्धिनि त्रिषु ॥ १९३० ॥
1930 · p. 334
अनुष्टुप्
जातीफलेऽब्जादिकन्दे शालूकं दर्दुरे पुमान् ।शावः शिशौ पुमान् बोध्यः शवसम्बन्धिनि त्रिषु ॥ १९३१ ॥
1931 · p. 335
अनुष्टुप्
शावरः शवरस्वामिकृतभाष्ये च किल्विषे ।तन्त्रान्तरे लोध्रवृक्षेऽपराधेपि पुमानसौ ॥ १९३२ ॥
1932 · p. 335
अनुष्टुप्
राजदत्तक्षितौ शास्त्रे लेखा-शास्त्योश्च शासनम् ।शास्ता बुद्ध उपाध्याये पितरि क्षितिलालके ॥ १९३३ ॥
1933 · p. 335
अनुष्टुप्
शास्त्रं ग्रन्थे निदेशेऽथ शिखण्डो बर्ह-चूडयोः ।शिखण्डकः काकपक्षे बर्हिपिच्छे तु नद्वयोः ॥ १९३४ ॥
1934 · p. 335
अनुष्टुप्
शिखण्डकस्ताम्रचूडे शिखायां तु शिखण्डका ।शिखण्डिनी यूथिकायां मयूरी-गुञ्जयोरपि ॥ १९३५ ॥
1935 · p. 335
अनुष्टुप्
शिखण्डी पुंसि गोविन्दे विशिखे चरणायुधे ।गांगेयारौ स्वर्णयूथी-गुञ्जयोः प्रचलाकिनि ॥ १९३६ ॥
1936 · p. 335
अनुष्टुप्
छन्दोभेदे शिखरिणी रोमवल्यां वरस्त्रियाम् ।मृद्वीका-मल्लिका-मूर्वा-रसाला-सप्तलासु च ॥ १९३७ ॥
1937 · p. 336
अनुष्टुप्
शिखरी ना तरौ शैले वन्दाके जलकुक्कुभे ।कोट्टेऽपामार्गे-कौलीरा-यावनालेषु कुन्दुरौ ॥ १९३८ ॥
1938 · p. 336
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्गे (wrong syllable)
शिखा मयूरचूडायां केशपाश्यां स्मरज्वरे ।प्रधाने प्रपदे रश्मौ शाखायां लाङ्गलीतरौ ॥ १९३९ ॥
1939 · p. 336
अनुष्टुप्
अग्रमात्रे शिफायां व कीर्तिता दहनार्चिषि ।शिखावान् चित्रके केतुग्रहेऽग्नौ शिखिनि त्रिषु ॥ १९४० ॥
1940 · p. 336
अनुष्टुप्
शिखी ना ब्राह्मणे वह्नौ घोटके कुक्कुटे शवे ।केतुग्रहे बलीवर्दे मयूरे चित्रकद्रुमे ॥ १९४१ ॥
1941 · p. 336
अनुष्टुप्
पर्वते पादपे दीपे मेथिकायां सितावरे ।अजलोमद्रुमे चासौ शिखायुक्ते तु वाच्यवत् ॥ १९४२ ॥
1942 · p. 336
अनुष्टुप्
शिग्रुः शोभाञ्जने शाके पुमान् प्राज्ञैः प्रयुज्यते ।काचपात्रे तु शिंघाणं नासिका-लोहयोर्मले ॥ १९४३ ॥
1943 · p. 337
अनुष्टुप्
शिञ्जा शरासनज्यायां तथाऽलंकरणध्वनौ ।शिञ्जिनी नूपुरे चापगुणेऽपि भणिता बुधैः ॥ १९४४ ॥
1944 · p. 337
अनुष्टुप्
शितं वाच्यवदाख्यातं दुर्बले निशिते कृशे ।शितिर्भूर्जद्रुमे पुंसि सारे कृष्णे सिते त्रिषु ॥ १९४५ ॥
1945 · p. 337
अनुष्टुप्
संयोगभेदे मान्थर्ये शिथिलं मन्दबन्धने ।श्लथे वाच्यवदाख्यातं शिपिस्तु किरणेऽपि ना ॥ १९४६ ॥
1946 · p. 337
अनुष्टुप्
शिपिविष्टः शिवे विष्णौ खलतौ दुष्टचर्मणि ।शिफा वृक्षजटाकारमूले सरिति मातरि ॥ १९४७ ॥
1947 · p. 337
अनुष्टुप्
पद्मकन्दे हरिद्रायां मांसिका-शतपुष्पयोः ।शिरो ना पिप्पलीमूले शय्यायां मस्तके शयौ ॥ १९४८ ॥
1948 · p. 337
अनुष्टुप्
सेनाग्रे शिखरे मूर्ध्नि प्रधाने च नपुंसकम् ।शिरस्कं तु शिरस्त्राणे शिरःसम्बन्धिनि त्रिषु ॥ १९४९ ॥
1949 · p. 337
अनुष्टुप्
शिरि र्ना विशिखे हिंस्रे निस्त्रिंशे शलभे मतः ।शिलं स्याज्जीवनोपायभेदे उच्छे तु न स्त्रियाम् ॥ १९५० ॥
1950 · p. 338
अनुष्टुप्
शिला मनःशिला-ग्राव-द्वाराधःस्थितदारुषु ।कर्पूरे स्तम्भशीर्षेऽथ शिलाजं गिरिजेऽयसि ॥ १९५१ ॥
1951 · p. 338
अनुष्टुप्
शिलासनं तु शैलेये पाषाणरचितासने ।शिलीन्ध्रं करका-रम्भा-कुसुम-त्रिपिटासु च ॥ १९५२ ॥
1952 · p. 338
अनुष्टुप्
शिलीन्ध्री मृत्तिका-गण्डूपद्योः शकुनिकान्तरे ।शिलीमुखो जडिभूते विशिखे भ्रमरे मृधे ॥ १९५३ ॥
1953 · p. 338
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 डि (wrong syllable)
शिवं शुभे सुखे नीरे सैन्धवे श्वेतटङ्कणे ।शिवो महेश्वरे वेदे पारदे कीलकग्रहे ॥ १९५४ ॥
1954 · p. 338
अनुष्टुप्
वालुके कृष्णधुस्तूरे पुण्डरीकद्रुमे सुरे ।मोक्षे योगान्तरे लिंगे गुग्गुलौ च प्रकीर्तितः ॥ १९५५ ॥
1955 · p. 338
अनुष्टुप्
विष्णौ शैवे भृङ्गरीटे शिवकीर्तन ईरितः ।शिवा गौर्यां हरीतक्यां मुक्तौ दूर्वा-हरिद्रयोः ॥ १९५६ ॥
1956 · p. 339
अनुष्टुप्
गोरोचना-तामलकी-शृगालेषु शमीतरौ ।आमलक्यां बुद्धशक्तिविशेषे च प्रकीर्तिता ॥ १९५७ ॥
1957 · p. 339
अनुष्टुप्
शिविर्नृपान्तरे भूर्जतरौ हिंस्रपशौ च ना ।शिबिरो ना विशेषे स्यात् क्लीवन्तु रणसद्मनि ॥ १९५८ ॥
1958 · p. 339
अनुष्टुप्
शिशिरो ना हिमे प्रोक्तः शीतर्तौ त्वस्त्रियामसौ ।शिशुकः शिशुमारे स्याद् वृक्षभेदे च बालके ॥ १९५९ ॥
1959 · p. 339
अनुष्टुप्
शिशुमारोऽम्बुसम्भूतजन्तौ तारात्मकाच्युते ।सभ्ये शान्ते सुबुद्धौ च धीरे शिष्टस्त्रिषु स्मृतः ॥ १९६० ॥
1960 · p. 339
अनुष्टुप्
शिक्षा वेदाङ्गभेदे स्यात् शिक्षणे शोणकद्रुमे ।शिक्षितास्त्रिषु निष्णाते शिक्षायुक्तेऽप्यसौ मतः ॥ १९६१ ॥
1961 · p. 339
अनुष्टुप्
शीकरो मारुते वायुप्रेरिताम्बुकणासु च ।शीघ्रं लामज्जके तूर्णे शिघ्रगो नाऽनिले हये ॥ १९६२ ॥
1962 · p. 340
अनुष्टुप्
असौ वाच्यवदाख्यातस्त्वविलम्बितगामिनि ।शीतं हिमगुणे नीरे त्वचेऽपि क्लीवमीरितम् ॥ १९६३ ॥
1963 · p. 340
अनुष्टुप्
शीतो ना पर्पटे निम्बे कर्पूरे बहुवारके ।वेतसेऽशनपर्ण्यां च हेमन्तेऽपि प्रकीर्तितः ॥ १९६४ ॥
1964 · p. 340
अनुष्टुप्
वाच्यवदुदितः सद्भिः शीतले क्वथितेऽलसे ।शीतकः सुस्थिते शीतसमये दीर्घसूत्रिणि ॥ १९६५ ॥
1965 · p. 340
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
प्रदीपे दर्पणे सद्भिः प्रोक्ता ना शीतचम्पकः ।महासमंगा-काकोल्याः प्रोक्ता स्त्री शीतपाकिनी ॥ १९६६ ॥
1966 · p. 340
अनुष्टुप्
शीतलं पुष्पकासीसे शैत्य-चीरणमूलयोः ।मौक्तिके पद्मके शीतशिवे श्रीखण्ड-चन्दने ॥ १९६७ ॥
1967 · p. 340
अनुष्टुप्
शीतलः पुंसि कर्पूरप्रभेदे बहुवारके ।चम्पकेऽशनपर्ण्यां च चन्द्रे तीर्थंकरान्तरे ॥ १९६८ ॥
1968 · p. 341
अनुष्टुप्
राले व्रतान्तरे चासौ त्रिषु शीतगुणान्विते ।शीता मन्दाकिनी-दूर्वा-ऽतिबला-जानकीषु च ॥ १९६९ ॥
1969 · p. 341
अनुष्टुप्
कुटुम्बिनी शिल्पिकाऽख्यतृणयोर्हलपद्धतौ ।शीनं त्रिषु घनाऽऽज्यादौ वैधेयेऽजगरे पुमान् ॥ १९७० ॥
1970 · p. 341
अनुष्टुप्
शीर्णं स्थौणेयके क्लीवं वाच्यवत् कृश-शुष्कयोः ।शीर्णपत्रः कर्णिकारे पट्टिकालोध्र-निम्बयोः ॥ १९७१ ॥
1971 · p. 341
अनुष्टुप्
शिरोरक्षणसन्नाहे मस्तके च शिरोऽस्थनि ।जय-पराजयपत्रे शीर्षकं ना विधुन्तुदे ॥ १९७२ ॥
1972 · p. 341
अनुष्टुप्metre not read in every line
शीर्षण्यं शीर्षरक्षेऽसौ पुंल्लिगो विशदे कचे ।शीलं भावे ब्रह्मचर्ये रागद्वेषविवर्जने ॥ १९७३ ॥
1973 · p. 341
अनुष्टुप्
ब्रह्मण्यतादौ सद्वृत्ते शीलो नाऽजगरे स्मृतः ।शुकं वस्त्रे शिरस्त्राणे ग्रन्थिपर्णे पटाञ्चले ॥ १९७४ ॥
1974 · p. 342
अनुष्टुप्
शोणकेऽथ शुकः कीरे व्यासपुत्रे द्रुमान्तरे ।शिरीषपादपे लंकापतिमन्त्रिण्यपि स्मृतः ॥ १९७५ ॥
1975 · p. 342
अनुष्टुप्
शुक्तं मांसे द्रवद्रव्यविशेषे काञ्जिकेऽपि च ।त्रिष्वसौ निष्ठुरे श्लिष्टे पूतेऽम्ले निर्जने मतः ॥ १९७६ ॥
1976 · p. 342
अनुष्टुप्
चुक्रिकायां तु शक्ता स्त्रीशुक्तिमौक्तिकमातरि ।मुक्तास्फोटे चुक्रिकायां शुक्तिका कीर्तिता स्त्रियाम् ॥ १९७७ ॥
1977 · p. 342
अनुष्टुप्
शुक्रो दैत्यगुरौ वह्नौ ज्येष्ठे चित्रकपादपे ।शुक्रं तु लोचनव्याधिविशेषे रेतसि स्मृतम् ॥ १९७८ ॥
1978 · p. 342
अनुष्टुप्
शुक्लं स्याद्रजते नेत्ररोगविशेष-नवनीतयोः ।शुक्लो ना धवले शक्रयोग-पाण्डरपक्षयोः ॥ १९७९ ॥
1979 · p. 342
अनुष्टुप्metre not read in every line
असौ वाच्यवदाख्यातः सद्भिः शुक्लगुणान्विते ।शुक्लपक्षे श्वेतवर्णे शुक्लकः परिकीर्तितः ॥ १९८० ॥
1980 · p. 343
अनुष्टुप्
रजते नवनीतेऽक्षिरोगे शुक्लं नपुंसकम् ।शुक्लो ना धवले शक्रयोगाऽतिस्वच्छपक्षयोः ॥ १९८१ ॥
1981 · p. 343
अनुष्टुप्
श्वेतैरण्डे ध्यानभेदे त्रिषु शुक्लगुणान्विते ।शुक्ला विदार्यां काकोली-भारती-शर्करासु च ॥ १९८२ ॥
1982 · p. 343
अनुष्टुप्
स्नुहायां धवलवर्णायां शुङ्गस्तु वट-शूकयोः ।आम्रातकेऽथ शुङ्गा स्यात् प्लक्ष-धान्यादिशूकयोः ॥ १९८३ ॥
1983 · p. 343
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नवपल्लवकोश्यां च शुङ्गी-प्लक्षे वटेऽपि ना ।शुचिर्ग्रीष्मे ज्येष्ठमासे सौराग्नौ चित्रकद्रुमे ॥ १९८४ ॥
1984 · p. 343
अनुष्टुप्
शुद्धमन्त्रिणि शृङ्गाररसे भास्कर-चन्द्रयोः ।आषाढमासे शुक्रे च शुक्लवर्णे द्विजन्मनि ॥ १९८५ ॥
1985 · p. 343
अनुष्टुप्
शुद्धेऽनुपहते शुक्लवर्णयुक्ते शुचिस्त्रिषु ।शुण्डा नलिन्यां कुट्टन्यां मदिरा-वारयोषितोः ॥ १९८६ ॥
1986 · p. 343
अनुष्टुप्
हस्तिहस्तेऽम्बुहस्तिन्यां मद्यपानगृहेऽपि च ।मरिचे सैन्धवे शुद्धे शुद्धस्तु त्रिषु केवले ॥ १९८७ ॥
1987 · p. 344
अनुष्टुप्
मरिचे सैन्धवे शुद्धं शुद्धस्तु त्रिषु केवले ।शुक्ले पवित्रे निर्दोषे रागे रागान्तरायुते ॥ १९८८ ॥
1988 · p. 344
अनुष्टुप्
शुन्यं शूनीसमूहे स्याद् रिक्तेऽसौ वाच्यवत् स्मृतम् ।शुभं श्वःश्रेयसे पद्मकाष्ठे योगान्तरे तु ना ॥ १९८९ ॥
1989 · p. 344
अनुष्टुप्
त्रिष्वसौ व्योमसंचारिपुरे कल्याणशालिनि ।शुभा देवसभा-शोभा-वाञ्छा-गोरोचनासु च ॥ १९९० ॥
1990 · p. 344
अनुष्टुप्
शमीद्रुमे श्वेतदूर्वा-वंशरोचनयोरपि ।प्रियंगौ पार्वतीसख्यां मांगलिक्यामपि स्मृता ॥ १९९१ ॥
1991 · p. 344
अनुष्टुप्
शुभमभ्रक-कासीस-रोप्य-गड्लवणेषु च ।शुभ्रो ना चन्दने शुक्लवर्णेऽसौ वाच्यवत् सिते ॥ १९९२ ॥
1992 · p. 344
अनुष्टुप्
शुक्लोऽस्त्रियां वरादर्थग्रह-घट्टादिदेययोः ।शुल्वं तामे जलासन्ने रज्ज्वावध्वरकर्मणि ॥ १९९३ ॥
1993 · p. 344
अनुष्टुप्
शुश्रूषा श्रोतुमिच्छायामुपास्तौ कथनेऽप्यसौ ।शुषो ना शोषणे गर्ते शुषिः स्त्री बिल-शोषयोः ॥ १९९४ ॥
1994 · p. 345
अनुष्टुप्
वंश्यादिवाद्ये विवरे शुषिरं छिद्रिते त्रिषु ।शुषिरः पुंसि दहने मूषिकेः शुषिरा क्षितौ ॥ १९९५ ॥
1995 · p. 345
अनुष्टुप्
तरंगिण्यां नलीनामगन्धद्रव्येऽप्यसौ मता ।शुष्मः सूर्येऽनले वायावर्चिष्यपि विहंगमे ॥ १९९६ ॥
1996 · p. 345
अनुष्टुप्
शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे जलजन्तावनुग्रहे ।शूनोऽधोजिह्विकायां स्यात् वधस्थाने शरीरिणाम् ॥ १९९७ ॥
1997 · p. 345
अनुष्टुप्
शून्यं नभसि विन्दौ च शून्यो निर्जन-रिक्तयोः ।शून्यमध्यो नले शून्यगर्भवस्तुनि तु त्रिषु ॥ १९९८ ॥
1998 · p. 345
अनुष्टुप्
शून्यवादी सौगते ना नास्तिके च प्रयुज्यते ।शून्या महाकण्टकिन्यां नलिका-बन्ध्ययोरपि ॥ १९९९ ॥
1999 · p. 345
अनुष्टुप्
शूरः सूर्ये भटे सिंहे श्रीकृष्णस्य पितामहे ।शूकरे लकुचे साले मसूरे चित्रकद्रुमे ॥ २००० ॥
2000 · p. 346
अनुष्टुप्
शूर्पेऽस्त्रियां द्रोणयुग्ममाने प्रस्फोटनेऽपि च ।शूर्पी शूर्पणखायां स्यात् लघुशूर्पेऽप्यसौ मता ॥ २००१ ॥
2001 · p. 346
अनुष्टुप्
शूला वारस्त्रियां दुष्टवधार्थे कीलकेऽप्यसौ ।शूलिकः शशके पुंसि शूलयुक्ते त्वसौ त्रिषु ॥ २००२ ॥
2002 · p. 346
अनुष्टुप्
शृङ्गन्तु शिखरे चिह्ने वाद्यभेद-विषाणयोः ।शृंगजो विशिखे पुंसि क्लीवन्त्वगरुणि स्मृतम् ॥ २००३ ॥
2003 · p. 346
अनुष्टुप्
शृंगाटकं खाद्यभेदे जलसूच्यां चतुष्पथे ।शृङ्गारमार्दके चूर्णे कालागुरु-लवंगयोः ॥ २००४ ॥
2004 · p. 346
अनुष्टुप्
सिन्दूरेऽसौ तु पुंल्लिंगः सुरते गजभूषणे ।तथा नाट्यरसेऽप्युक्तः शृङ्गारी गज-पूगयोः ॥ २००५ ॥
2005 · p. 346
अनुष्टुप्
शृंगिणी मल्लिकावृक्षे गवि ज्योतिष्मतीतरौ ।शृंगी गजे गिरौ वृक्षे शृंगयुक्ते त्वसौ त्रिषु ॥ २००६ ॥
2006 · p. 347
अनुष्टुप्
शृंगी स्त्री मद्गुरीमत्स्यां तथा मण्डनहेमनि ।शेखरस्तु शिखामाल्ये तथा गीत-ध्रुवान्तरे ॥ २००७ ॥
2007 · p. 347
अनुष्टुप्
शेखरं तु लवंगे स्यात् शिग्रुमूलेऽपि कीर्तितम् ।शेषः संकर्षणेऽनन्ते वधेऽपि मतंगजे ॥ २००८ ॥
2008 · p. 347
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शैलाटो देवले सिंहे शुक्लकाच-किरातयोः ।शूलोऽस्त्री केतने योग-रोग-शस्त्रान्तरेषु च ॥ २००९ ॥
2009 · p. 347
अनुष्टुप्
मृत्यौ शूली तु ना शम्भौ शशे शूलास्त्रधारके ।शूलरोगयुते चासौ वाच्यवत् कथितो बुधैः ॥ २०१० ॥
2010 · p. 347
अनुष्टुप्
शृगालो जम्बुके भीरौ निष्ठुरे पिशुने मतः ।शृगालजम्बूः स्त्री घोण्टाफले ज्ञेया तरम्बुजे ॥ २०११ ॥
2011 · p. 347
अनुष्टुप्
शृगालिका क्षुद्रफेरौ शृगाल्यां च पलायने ।भूकूष्माण्डे शृगाली विदारी-कोकिलाक्षयोः ॥ २०१२ ॥
2012 · p. 348
metre not recognisednearly अनुष्टुप्
त्रासात्पलायने क्रोष्टुस्त्रियामपि प्रकीर्तिता ।शृङ्खलस्त्रिषु विज्ञेयः पुंस्कुटीवस्त्रबन्धने ॥ २०१३ ॥
2013 · p. 348
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
अंदुके लौहरज्जौ च बन्धनेऽपि प्रकीर्तितः ।शृंगे तु शिखरे सानौ विषाणे चिह्न-तीक्ष्णयोः ॥ २०१४ ॥
2014 · p. 348
अनुष्टुप्
क्रीडार्थजनीरयन्त्रेऽपि प्रभुत्वे सरसीरुहे ।उत्कर्षे वाद्यभेदे च शृङ्गो मुन्यन्तरे द्रुमे ॥ २०१५ ॥
2015 · p. 348
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शैलूषः श्रीफले धूर्ते नटे च तालधारके ।शैलेयं सैन्धवे तालपर्ण्यां च गिरिपुष्पके ॥ २०१६ ॥
2016 · p. 348
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शैलेयो भ्रमरे सिंहे शैलेयी शंकरस्त्रियाम् ।शैवो धुस्तूर आचारविशेषे वसुके पुमान् ॥ २०१७ ॥
2017 · p. 348
अनुष्टुप्
शैवं शिवपुराणे स्यात् शैवालेऽपि बुधैः स्मृतः ।शैवलं पद्मकाष्ठे स्यात् शैवाले तु पुमानसौ ॥ २०१८ ॥
2018 · p. 349
अनुष्टुप्
शोठो मूर्खेऽलसे धूर्ते नीचे पापरते त्रिषु ।शोणं रक्ते च सिन्दूरे शोणो वह्नौ नदान्तरे ॥ २०१९ ॥
2019 · p. 349
अनुष्टुप्
श्योनाके लोहिताश्वे च रक्तोत्पलनिभच्छवौ ।समुद्रभेदे रक्तेक्षौ श्योनाकभिदि कीर्तितः ॥ २०२० ॥
2020 · p. 349
अनुष्टुप्
शोणझिण्टी कुरुबके शोणितं कुंकुमेऽसृजि ।कंकुष्ठे शोधनं क्लीवं त्रिलिंगः शुद्धिकारके ॥ २०२१ ॥
2021 · p. 349
अनुष्टुप्
शोधनं शौचविष्ठायां कासीसे विहिताविहित-मासादिविचारणे धातुनिर्दोषीकरणे व्रणादि-परिष्करणे लिखितपत्रादेः प्रमाणीकरणेविरुद्धलिखितस्य शुद्धीकरणेऽङ्कपूरणे ॥ २०२२ ॥
2022 · p. 349
metre not recognised
शोधनः पुंसि निम्बूके त्रिलिंगः शुद्धिकर्तरि ।शोधनी जैनसाधूनां प्रमार्जन्यां प्रयुज्यते ॥ २०२३ ॥
2023 · p. 350
अनुष्टुप्
सम्मार्जन्यां ताम्रवल्ल्यां नील्यामपि बुधैः स्मृता ।शोभनं पङ्कजे क्लीवं ग्रहे ना सुन्दरे त्रिषु ॥ २०२४ ॥
2024 · p. 350
अनुष्टुप्
स्त्रियां गोरोचनायां च हरिद्रायामपि स्मृता ।शोभा गोरोचनायां स्यात् कांतौ गोपी-हरिद्रयोः ॥ २०२५ ॥
2025 · p. 350
अनुष्टुप्
शोषणे यक्ष्मरोगे च शेषो ना परिकीर्तितः ।शोषणः स्नेहरहितीकरणे च महौषधौ ॥ २०२६ ॥
2026 · p. 350
अनुष्टुप्
पुमांस्तु कामविशिखे तथा श्योनाकपादपे ।शोषापहा क्लीतनके त्रिष्वसौ शोषनाशके ॥ २०२७ ॥
2027 · p. 350
अनुष्टुप्
शौकं शुकगुणे स्त्रीणां करणे च प्रकीर्तितम् ।शौक्तेयं स्यात्तु मुक्तायां शुक्तिसम्बन्धिनि त्रिषु ॥ २०२८ ॥
2028 · p. 350
अनुष्टुप्
वीरे त्यागिनि शौटीरो ना स्याद्गर्वान्विते त्रिषु ।पिप्पली-चव्ययोः शौण्डी शौटीर्यं वीर्य-गर्वयोः ॥ २०२९ ॥
2029 · p. 350
अनुष्टुप्
शौनिको मृगयायां स्यात् मांसविक्रयकर्तरि ।शौभं हरिश्चन्द्रपुरे शौभो देव-गुवाकयोः ॥ २०३० ॥
2030 · p. 351
अनुष्टुप्
शौर्यमारभटी-शक्त्योः शौरिर्विष्णौ शनैश्चरे ।श्यामं तु सिन्धुलवणे मरिचेऽपि नपुंसकम् ॥ २०३१ ॥
2031 · p. 351
अनुष्टुप्
श्यामो वटे प्रयागस्य वारिदे वृत्तदारके ।पिके हरिति कृष्णे च श्यामाके पीलुपादपे ॥ २०३२ ॥
2032 · p. 351
अनुष्टुप्
धुस्तूरे स्याद्दमनकद्रुमेऽपि परिकीर्तितः ।श्यामकण्ठः शिवे पक्षिविशेषे च शिखावले ॥ २०३३ ॥
2033 · p. 351
अनुष्टुप्
श्यामलः पिप्पले कृष्णवर्णे कृष्णगुणान्विते ।श्यामला कटभी-जम्बू-कस्तूरीष्वपि कीर्तिता ॥ २०३४ ॥
2034 · p. 351
अनुष्टुप्