कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthodayasāgarakoṣa

नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa

2,302 verses · text only, tagging comes next

Part 20 (20/20)

क्षत्रियायां द्विजात् जाते मीनेऽपि कथितो बुधैः ।क्षमं युक्ते क्षमः शक्तौ हितेऽपि त्रिषु कीर्तितः ॥ २२७३ ॥
2273 · p. 389
अनुष्टुप्
क्षमा रात्रौ क्षितौ क्षान्तौ दुर्गायां गोपिकान्तरे ।क्षयो लये गृहे कासरोगेऽपचय-वर्गयोः ॥ २२७४ ॥
2274 · p. 389
अनुष्टुप्
क्षरं जले क्षरो मेघे क्षरो नश्वरवस्तुनि ।क्षवः क्षुधाभिजनने क्षुते कासेऽप्यसौ पुमान् ॥ २२७५ ॥
2275 · p. 389
अनुष्टुप्
कण्ठकण्डूयने कासे क्षुतेऽपि क्षवथुः पुमान् ।क्षारः स्यात् टङ्कणे धूर्ते गुडे काचे च भस्मनि ॥ २२७६ ॥
2276 · p. 390
अनुष्टुप्
लवणे सर्जिकाक्षारे रसभेदेऽप्यसौ पुमान् ।क्लीवं विड्लवणे तद्वद् यवक्षारेऽपि कीर्तितम् ॥ २२७७ ॥
2277 · p. 390
अनुष्टुप्
क्षारके जालके पक्षिमत्स्यादिपिटकेऽपि च ।क्षितिर्वासे क्षये भूमौ रोचनायां लये स्त्रियाम् ॥ २२७८ ॥
2278 · p. 390
अनुष्टुप्
क्षिप्तः स्याद्वाच्यवत् त्यक्ते वायुग्रस्तेऽप्यसौ मतः ।क्षीरं स्यात् सलिले दुग्ध-सरलद्रव्ययोरपि ॥ २२७९ ॥
2279 · p. 390
अनुष्टुप्
क्षुण्णं स्यात् वाच्यवत् चूर्णीकृत-प्रहतयोरपि ।क्षुद्रस्त्रिषु लघौ क्रूरे दरिद्रे कृपणेऽधमे ॥ २२८० ॥
2280 · p. 390
अनुष्टुप्
क्षुद्रा स्यात् स्त्री नटी हिंस्रा-व्यङ्गा-वादरतासु च ।गवेधौ मक्षिकामात्र-कण्टकारिकयोरपि ॥ २२८१ ॥
2281 · p. 390
अनुष्टुप्
चाङ्गेरिकायां वेश्यायां सरघायामपीष्यते ।क्षुपः शैलान्तरे कृष्णपुत्रे क्षुद्रद्रुमे पुमान् ॥ २२८२ ॥
2282 · p. 391
अनुष्टुप्
क्षुभितश्चलिते भीते वाच्यलिंगः प्रकीर्तितः ।क्षुमाऽतसी-लताभेद-नीलिकासु शणे स्त्रियाम् ॥ २२८३ ॥
2283 · p. 391
अनुष्टुप्
क्षुरः शफे कोकिलाक्षे गोक्षुरे क्षुरकः पुमान् ।क्षुल्लकस्त्रिषु निस्स्वेऽल्पे कनिष्ठे पामरे खले ॥ २२८४ ॥
2284 · p. 391
अनुष्टुप्
दुःखिते नीचके क्षुद्रे कोशज्ञैः परिकीर्तितः ।क्षेत्रं शरीरे नगरे सिद्धस्थाने च वेश्मनि ॥ २२८५ ॥
2285 · p. 391
अनुष्टुप्
तथा कलत्रे केदारे प्राज्ञैः प्रोक्तं नपुंसकम् ।क्षेत्रज्ञः पुंसि कृषके छेके वटुकभैरवे ॥ २२८६ ॥
2286 · p. 391
अनुष्टुप्
देहाधिदैवते शेषद्वयार्थे त्वभिधेयवत् ।क्षेपः स्यात् पुंसि निन्दायां च विलम्बने ॥ २२८७ ॥
2287 · p. 391
अनुष्टुप्metre not read in every line
लंघने प्रेरणे गुच्छे लेपने गर्व-हेलयोः ।क्षेपणं यापने यन्त्रविशेषे प्रेरणेऽपि च ॥ २२८८ ॥
2288 · p. 391
अनुष्टुप्
क्षेमोऽस्त्री कुशले मोक्षे लब्धस्य परिरक्षणे ।क्षेमं मठान्तर-प्लक्षद्वीपवर्षविशेषयोः ॥ २२८९ ॥
2289 · p. 392
अनुष्टुप्
क्षोदः स्यात् पेषणे चूर्णे रजस्यपि पुमानतः ।क्षोभः संचलने चित्तचाञ्चल्ये क्षोभणे पुमान् ॥ २२९० ॥
2290 · p. 392
अनुष्टुप्
क्षोद्रं मधुनि पानीये क्षौद्रश्चम्पकपादपे ।वर्णसंकरभेदे च क्षुद्रतायामपीष्यते ॥ २२९१ ॥
2291 · p. 392
अनुष्टुप्
क्षौद्रेयं सिक्यके क्लीवं क्षौद्रसम्बन्धिनि त्रिषु ।क्षौमोऽस्त्री स्याद्दुकूलेऽट्टेऽतसीजे शणजे पटे ॥ २२९२ ॥
2292 · p. 392
अनुष्टुप्
क्ष्वेडः कर्णामये पीतघोषावृक्षे विषे ध्वनौ ।वाच्यलिंगस्त्वसौ ज्ञेयः कुटिले च दुरासदे ॥ २२९३ ॥
2293 · p. 392
अनुष्टुप्
क्ष्वेडा कोषातकी-सिंहनादयोर्भणिता स्त्रियाम् ।समाप्तः खलु ग्रन्थोऽयं नानार्थोदयसागरः ॥ २२९४ ॥
2294 · p. 392
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लु (wrong syllable)