All kośas › Nānārthodayasāgarakoṣa
नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa
2,302 verses · text only, tagging comes next
Part 19 (19/20)
सरकोऽस्त्री शीधुपान-शीधुभाजनयोरपि ।अच्छिन्नाध्वगपंक्तौ च स्यान्मद्य-परिवेषणे ॥ २१५५ ॥
2155 · p. 370
अनुष्टुप्
त्रिष्वसौ गतिशीले च क्लीवमभ्रे सरोवरे ।सरणिः स्त्री प्रसारिण्यां पंक्तौ मार्गेऽपि चेष्यते ॥ २१५६ ॥
2156 · p. 371
अनुष्टुप्
सरण्डः सरटे धूर्ते कामुके भूषणे खगे ।सरण्युर्ना जले वायौ मेघे वह्नि-वसन्तयोः ॥ २१५७ ॥
2157 · p. 371
अनुष्टुप्
सरलः पूतिकाष्ठे स्यात् बुद्धे वैश्वानरे पुमान् ।वाच्यलिङ्गस्त्वसौ प्रौक्त उदारेऽकुटिलेऽपि च ॥ २१५८ ॥
2158 · p. 371
अनुष्टुप्
सरस्वती स्याद्भारत्यां दुर्गायां सरिदन्तरे ।मनुपत्न्यां सरिद्भेदे बुद्धशक्त्यन्तरे गवि ॥ २१५९ ॥
2159 · p. 371
अनुष्टुप्
ज्योतिष्मती-सोमलता-नदीमात्रेषु वाचि च ।सरस्वान्ना नदे सिन्धौ रसिके त्वभिधेयवत् ॥ २१६० ॥
2160 · p. 371
अनुष्टुप्
सरोजिनी पद्मखण्डे कमले कमलाकरे ।सर्गः स्यात् निश्चयेऽध्याये स्वभावे सृष्टि-मोहयोः ॥ २१६१ ॥
2161 · p. 371
अनुष्टुप्
उत्साहेऽनुमतौ त्यागे मोचनेऽपि प्रकीर्तितः ।सर्जः शालद्रुमे पीतशाले सर्जरसे पुमान् ॥ २१६२ ॥
2162 · p. 372
अनुष्टुप्
सृष्टौ विसर्गने सैन्यपश्चाद्भागेऽपि सर्जनम् ।अथ सर्वरसो वीणाविशेषे धूनके बुधे ॥ २१६३ ॥
2163 · p. 372
अनुष्टुप्
सवश्चन्द्रे सहस्रांशौ यज्ञ-सन्तानयोरपि ।सवेशो वाच्यवल्लिंगो वेशान्वित-समीपयोः ॥ २१६४ ॥
2164 · p. 372
अनुष्टुप्
सव्यस्तु त्रिषु वामे स्यात् दक्षिण-प्रतिकूलयोः ।सस्यं धान्ये गुणे शस्त्रे वृक्षादीनां फलेऽपि च ॥ २१६५ ॥
2165 · p. 372
अनुष्टुप्
साधनं मृतसंस्कारे कारके गमने वधे ।उपाये दापने शिश्ने प्रमाणे सिद्धि-सैन्ययोः ॥ २१६६ ॥
2166 · p. 372
अनुष्टुप्
निषेधेऽनुगमे वित्ते योनौ निष्पादने जवे ।साधिष्ठो वाच्यवन्न्याय्येऽत्यार्ये दृढतमेऽप्यसौ ॥ २१६७ ॥
2167 · p. 372
अनुष्टुप्
साधुर्मुनौ जिने सभ्ये पुंस्युत्तमकुलोद्भवे ।साधुवाहो विनीताश्वे तथा सुन्दरवाहने ॥ २१६८ ॥
2168 · p. 373
अनुष्टुप्
साध्यः पुंसि सुरे योगविशेष-साधनीययोः ॥ २१६९ ॥
2169 · p. 373
विधेयेऽनुमितेः पक्षे साधनार्हतया मते ।सान्दन्दः स्यात्पुमान् गुच्छकरञ्जे ध्रुवकान्तरे ॥ २१७० ॥
2170 · p. 373
अनुष्टुप्
वाच्यलिंगस्त्वसौ प्रोक्तः सद्भिराह्लादसंयुते ।सानुः स्त्रीपुंसयोः प्रस्थे वात्यायां पल्लवे वने ॥ २१७१ ॥
2171 · p. 373
अनुष्टुप्
अर्केऽगे कोविदे मार्गे दर्शितः शब्देवेदिभिः ।सान्द्रं वने त्रिलिंगस्तु स्निग्धे रम्ये घने मृदौ ॥ २१७२ ॥
2172 · p. 373
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ब्दे (wrong syllable)
सामग्री कारणव्राते द्रव्ये च कथिता स्त्रियाम् ।सायो दिनान्ते वाणे ना सायाह्ने सायमव्ययम् ॥ २१७३ ॥
2173 · p. 373
अनुष्टुप्
सारं न्याय्ये जले लौहे नवनीते वनेs धने ।सारो दध्युत्तरे वायौ पाशकेऽतिदृढे बले ॥ २१७४ ॥
2174 · p. 374
अनुष्टुप्metre not read in every lineLatin letters: s
वज्रक्षारे स्थिरांशे च रुजायां मज्जिना स्मृतः ।सारङ्गश्चातके भृंगे राजहंसे मतङ्गजे ॥ २१७५ ॥
2175 · p. 374
अनुष्टुप्
मयूरे हरिणे सिंहे सुवर्णे चन्दने कचे ।चापे चित्रमृगे वाद्यविशेषे च विभूषणे ॥ २१७६ ॥
2176 · p. 374
अनुष्टुप्
कोकिले कमले पुष्पे छत्रे शंखे घनेंऽशुके ।सारस्वतः कल्प-देशभेदे व्याकरणान्तरे ॥ २१७७ ॥
2177 · p. 374
अनुष्टुप्
सारी स्त्री सारिकायां स्यात् सप्तलायां च पाशके ।सार्थः समूहमात्रे स्यात् जन्तुसंघे वणिग्व्रजे ॥ २१७८ ॥
2178 · p. 374
अनुष्टुप्
सार्वो बुद्धे जिने पुंसि सर्वसम्बन्धिनि त्रिषु ।सालो राले तरौ सर्जे मत्स्य-प्राकारयोः पुमान् ॥ २१७९ ॥
2179 · p. 374
अनुष्टुप्
पाञ्चालिकायां वेश्यायां कथिता शालभञ्जिका ।तरक्षौ कुक्कुरे फेरौ कपौ सालावृकः स्मृतः ॥ २१८० ॥
2180 · p. 375
अनुष्टुप्
सावनो यज्ञकर्मान्ते भेदे दिवस-मासयोः ।वरुणे यजमाने च वर्षभेदेऽप्यसौ मतः ॥ २१८१ ॥
2181 · p. 375
अनुष्टुप्
लोध्रेऽपराधे पापे सावरः परिकीर्तितः ।साहसं स्यात् बलात्कारकृतकार्यादिके दमे ॥ २१८२ ॥
2182 · p. 375
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रा (syllables merged)
अविमृश्यकृतौ द्वेषे धार्ष्ट्ये दुष्करकर्मणि ।असत्यभाषणे स्तेये परदाराभिमर्षणे ॥ २१८३ ॥
2183 · p. 375
अनुष्टुप्
पारुष्ये नरहिंसायां क्लीवं वह्न्यन्तरे पुमान् ।सिंहलं स्यात्त्वचे रंगे रीतौ देशान्तरे द्वयोः ॥ २१८४ ॥
2184 · p. 375
अनुष्टुप्
सिंघाणं नासिकालौहमले स्यात् काचभाजने ।सिंहास्यो वासके पुंसि सिंहतुल्यमुखे त्रिषु ॥ २१८५ ॥
2185 · p. 375
अनुष्टुप्
सिंही राहुजनन्यां स्यात् मुद्गपर्ण्यां च वासके ।वार्ताकी-बृहती-सिंहपत्नीषु परिकीर्तिता ॥ २१८६ ॥
2186 · p. 376
अनुष्टुप्
सिकता बालुकायुक्तभूमि-बालुकयोः स्त्रियाम् ।सिक्तं नील्यां मधूच्छिष्टे त्रिलिंगः कृतसेचने ॥ २१८७ ॥
2187 · p. 376
अनुष्टुप्
ना ग्रासेऽथ पटे जीर्णपटे च सिचयः स्मृतः ।चन्दने मूलके रौप्ये सितं क्लीवं प्रकीर्तितम् ॥ २१८८ ॥
2188 · p. 376
अनुष्टुप्
शुक्राचार्ये शुक्लवर्णे विशिखे च पुमान् मतः ।त्रिषु ज्ञाते निबद्धे च समाप्ते सैत्यवत्यपि ॥ २१८९ ॥
2189 · p. 376
अनुष्टुप्
शुक्लपक्षे बके हंसे सितपक्षः उदाहृतः ।तगरे सितपुष्पः स्यात् स्वेतरोहित-काशयोः ॥ २१९० ॥
2190 · p. 376
अनुष्टुप्
सुग्रीवः शंकरे शक्रे तीर्थकृज्जनकेऽसुरे ।राजहंसेऽस्त्रभेदेऽपि विशेषे नाग-शैलयोः ॥ २१९१ ॥
2191 · p. 376
अनुष्टुप्
वानराधिपतौ विष्णुरथाश्वे च पुमान् मतः ।वाच्यलिंगस्त्वसौ चारुग्रीवाशालिनि सम्मतः ॥ २१९२ ॥
2192 · p. 377
अनुष्टुप्
सुतीक्ष्णः श्वेतशिग्रौ ना मुनौ शोभाञ्जने खरे ।सुदर्शनो विष्णुचक्रे सुमेरौ जम्बुपादपे ॥ २१९३ ॥
2193 · p. 377
अनुष्टुप्
जिनानां बलदेवे च वृत्तार्हज्जनके पुमान् ।असौ तु वाच्यवल्लिंगः सुदृश्ये सम्मतः समाम् ॥ २१९४ ॥
2194 · p. 377
अनुष्टुप्
सुदर्शना सोमवल्ल्यामाज्ञायामौषधान्तरे ।सुदामा स्यात्पुमान् मेघे गोपभेद-समुद्रयोः ॥ २१९५ ॥
2195 · p. 377
अनुष्टुप्
ऐरावते च श्रीकृष्णशरणप्राप्तब्राह्मणे ।सुधा गंगा-स्नुही-मूर्वा-धात्रीषु सलिलेऽमृते ॥ २१९६ ॥
2196 · p. 377
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 प्त (wrong syllable)
सुन्दरो ना स्मरे वृक्षभेदे त्रिषु तु मञ्जुले ।सुन्दरी स्याद्धरिद्रायां स्त्रीविशेषे द्रुमान्तरे ॥ २१९७ ॥
2197 · p. 377
अनुष्टुप्
सुपर्णो गरुडे स्वर्णचूडे तु कृतमालिके ।सुपर्वा ना सुरे धूमे वंशे विशिख-पर्वणोः ॥ २१९८ ॥
2198 · p. 378
अनुष्टुप्
सुपात्रं तु स्मृतं योग्यव्यक्तौ शोभनभाजने ।सुपुष्पं क्लीवं बाहुल्य-लवङ्ग-स्त्रीरजःसु च ॥ २१९९ ॥
2199 · p. 378
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वं (wrong syllable)
प्रपौण्डरीके तुलेऽसौ पुंसि स्याद्रक्तपुष्पके ।हरिद्रु-राजतरुणी-शिरीषेष्वपि विशेषयोः ॥ २२०० ॥
2200 · p. 378
metre not recognisednearly अनुष्टुप्
सिद्धो व्यासादिके योग-देवयोनिविशेषयोः ।व्यवहारे गुडे कृष्णधुस्तूरे च पुमानयम् ॥ २२०१ ॥
2201 · p. 378
अनुष्टुप्
वाच्यलिंगस्त्वसौ नित्ये प्रसिद्ध-परिपक्वयोः ।मन्त्रसिद्धिविशिष्टे च मुक्त-निष्पन्नयोरपि ॥ २२०२ ॥
2202 · p. 378
अनुष्टुप्
सिद्धियुक्ते सैन्धवे तु लवणे सिद्धमीरितम् ॥
2209 · p. 378
सिद्धिः स्त्री मोक्ष-सम्पत्ति-दुर्गा-निष्पत्ति-बुद्धिषु ॥ २२०३ ॥
2203 · p. 378
ऋद्धिनामौषधे योगभेदेऽन्तर्द्धावपि स्मृता ।सिन्दूरो धातकी-रक्तचेलिका-रोचनीषु च ॥ २२०४ ॥
2204 · p. 378
अनुष्टुप्
सिन्धुः पुंसि समुद्रे स्यात् सिन्दुवारे नदान्तरे ।रागे देशविशेषे च वमथौ श्वेतटङ्कणे ॥ २२०५ ॥
2205 · p. 379
अनुष्टुप्
मतङ्गजमदे नद्यां त्वसौ स्त्रीलिंगतां गतः ।सिप्रो निदाघसलिले घर्म-चन्द्रमसोरपि ॥ २२०६ ॥
2206 · p. 379
अनुष्टुप्
सीता स्यात् जानकी-गंगाभेदयोर्हलपद्धतौ ।सीरः पुंसि हले सूर्ये तद्वदर्कमहीरुहे ॥ २२०७ ॥
2207 · p. 379
अनुष्टुप्
सुकुमारस्तु पुण्ड्रेक्षौ श्यामाके वनचम्पके ।क्षवे दैत्यविशेषे ना कोमले त्वभिधेयवत् ॥ २२०८ ॥
2208 · p. 379
अनुष्टुप्
कदली-मालती-जाती-पृक्कासु भणिता स्त्रियाम् ।सुकृतं स्यात् शुभे पुण्ये क्लीवं सुविहिते त्रिषु ॥ २२०९ ॥
2209 · p. 379
अनुष्टुप्
सुखाशो राजतिनिशे वरुणे सुखभोजने ।सुगन्धं चन्दने क्षुद्रजीरक-ग्रन्थिपर्णयोः ॥ २२१० ॥
2210 · p. 379
अनुष्टुप्
नीलोत्पले गन्धतृणे क्लीवं पुंसि तु गन्धके ।सुप्तिः स्त्री स्पर्शता-स्वाप-विश्रम्भ-शयनेषु च ॥ २२११ ॥
2211 · p. 379
अनुष्टुप्
सुफलः पुंसि वदरे कर्णिकार-कपित्थयोः ।मुद्ग-दाडिमयोः सुष्ठुफलयुक्ते त्वसौ त्रिषु ॥ २२१२ ॥
2212 · p. 380
अनुष्टुप्
सुफला कपिलद्राक्षा-कूष्माण्डी-कदलीषु च ।काश्मर्यामिन्द्रवारुण्यां सद्भिः स्त्री समुदाहृता ॥ २२१३ ॥
2213 · p. 380
अनुष्टुप्
सुभगष्टङ्कणेऽशोके रक्ताम्लाने च चम्पके ।वाच्यलिंगः सुदृश्ये च शोभनैश्वर्यशालिनि ॥ २२१४ ॥
2214 · p. 380
अनुष्टुप्
सुभगा स्याद्धरिद्रायां प्रियङ्गौ तुलसीतरौ ।वनमल्ली-शालपर्णी-सुवर्णकदलीष्वपि ॥ २२१५ ॥
2215 · p. 380
अनुष्टुप्
पतिप्रियायां कस्तूर्यां कैवर्ती-नीलदूर्वयोः ।सुरः स्यादमरे सूर्ये मदिरायां सुरा मता ॥ २२१६ ॥
2216 · p. 380
अनुष्टुप्
सुरभिर्ना वसन्तर्तौ चैत्रे जातीफले गवि ।सुगन्धौ चम्पके राले जातीफलमहीरुहे ॥ २२१७ ॥
2217 · p. 380
अनुष्टुप्
सुरसं तुलसी-बोल-त्वच-गन्धतृणेषु च ।सुरसः स्यात् पुमान् सिन्धुवारे मोचरसे स्मृतः ॥ २२१८ ॥
2218 · p. 381
अनुष्टुप्
सुरसा तुलसी-रास्ना-मिश्रेय-नागमातृषु ।महाशतावरी-ब्राह्मी-दुर्गासु सरिदन्तरे ॥ २२१९ ॥
2219 · p. 381
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
वाच्यलिंगस्त्वसौ स्वादौ स्यात् सुष्ठुरसवत्यपि ।सुरूपः पण्डिते चारौ मेरौ स्वर्गे प्रकीर्तितः ॥ २२२० ॥
2220 · p. 381
अनुष्टुप्
सुरालयः सुमेरौ स्यात् त्रिदिवे मदिरागृहे ।सुवर्चला सूर्यमुखीपुष्पे सूर्यस्य योषिति ॥ २२२१ ॥
2221 · p. 381
अनुष्टुप्
ब्राह्म्यामादित्यभक्तायां क्षुमायां पुंसि नीवृति ।सुवर्णः पुंसि धुस्तूरे सुष्ठुवर्णे तु वाच्यवत् ॥ २२२२ ॥
2222 · p. 381
अनुष्टुप्
हेम्नोऽक्षे त्वस्त्रियां प्रोक्तः काञ्चने तु नपुंसकम् ।सूकः स्यात् पुंसि विशिखे मारुतोत्पलपुष्पयोः ॥ २२२३ ॥
2223 · p. 381
अनुष्टुप्
सूचकः सीवनद्रव्ये विडाले वायसे शुनि ।सूत्रधारे पिशाचे च कथके सिद्ध-बुद्धयोः ॥ २२२४ ॥
2224 · p. 381
अनुष्टुप्
सूचना व्यधने दृष्टौ गन्धनेऽभिनये स्त्रियाम् ।सूचिर्नृत्यप्रभेदे च व्यधनी-शिखयोः स्त्रियाम् ॥ २२२५ ॥
2225 · p. 382
अनुष्टुप्
सूतः स्यात् पारदे त्वष्ट-वन्दिनोः सारथौ पुमान् ।असौ तु वाच्यवल्लिंगः प्रसूते प्रेरिते त्रिषु ॥ २२२६ ॥
2226 · p. 382
अनुष्टुप्
सूत्रं तन्तौ व्यवस्थायां ग्रन्थे शस्त्रादिसूचके ।सूत्रकण्ठः कपोते स्यात् खञ्जरीटेऽग्रजन्मनि ॥ २२२७ ॥
2227 · p. 382
अनुष्टुप्
सूनः सूर्येऽनुजे पुत्रे तद्वदर्कमहीरुहे ।सुनृतं मंगले सत्यप्रियवाक्ये च कीर्तितम् ॥ २२२८ ॥
2228 · p. 382
अनुष्टुप्
सूपस्तु सिद्धदालौ स्यात् सूदे भाण्डे च शायके ।सूमं क्षीरे जले व्योम्नि सूरः सूर्येऽर्कपादपे ॥ २२२९ ॥
2229 · p. 382
अनुष्टुप्
सूक्ष्मं स्यात् कैतवेऽध्यात्मं सूक्ष्मोऽणौ कतकद्रुमे ।सृष्टं स्याद्वाच्यवत्यक्ते निर्मिते निश्चिते युते ॥ २२३० ॥
2230 · p. 382
अनुष्टुप्
सेचनं क्षरणे सेके नौकायाः सेकभाजने ।सैरिभो महिषे स्वर्गे सोमं स्वर्गे च काञ्जिके ॥ २२३१ ॥
2231 · p. 382
अनुष्टुप्
सोमश्चन्द्रे कुबेरे च कर्पूरे मारुते यमे ।वसुभेदे शिवे नीरे कीशे सोमलतौषधौ ॥ २२३२ ॥
2232 · p. 383
अनुष्टुप्
सौगन्धिकं स्यात् कह्लारे पद्मरागे च कत्तृणे ।नीलोत्पले पुमांस्तु स्यात् सुगन्ध-व्यवहारिणि ॥ २२३३ ॥
2233 · p. 383
अनुष्टुप्
सौधोऽस्त्री राजसदने सुधासम्बन्धिनि त्रिषु ।सौभाग्यं टंकणे योगभेद-सिन्दूरयोरपि ॥ २२३४ ॥
2234 · p. 383
अनुष्टुप्
सौम्यो बुधग्रहे विप्रे सौम्यं कृच्छ्रव्रतेऽपि च ।सौरभ्यं स्यान्मनोज्ञत्वे सौगन्ध्ये गुणगौरवे ॥ २२३५ ॥
2235 · p. 383
अनुष्टुप्
सौरभं कुंकुमे बोले सद्गन्धेऽपि निगद्यते ।स्कन्धः काये समूहेंऽशे प्रकाण्डे नृपतौ रणे ॥ २२३६ ॥
2236 · p. 383
अनुष्टुप्
स्तननं कुन्थिते मेघगर्जित-ध्वनिमात्रयोः ।स्तनयित्नुः पुमान् मेघे मुस्तके मृत्युरोगयोः ॥ २२३७ ॥
2237 · p. 383
अनुष्टुप्
स्तनितं मेघनिर्घोषे करतालिध्वनावपि ।स्तम्बः प्रकाण्ड रहितद्रुमे गुच्छे तृणादिनाम् ॥ २२३८ ॥
2238 · p. 384
अनुष्टुप्
स्तबको गुच्छके ग्रन्थपरिच्छेदे चये स्तुतौ ।स्तोमः स्तबे समूहे च सप्ततन्तावपीष्यते ॥ २२३९ ॥
2239 · p. 384
अनुष्टुप्
स्यानं स्निग्धे प्रतिध्वाने घनताऽलस्ययोरपि ।स्थानं स्यान्निकटे ग्रन्थसन्धौ स्थित्यवकाशयोः ॥ २२४० ॥
2240 · p. 384
अनुष्टुप्
सन्निवेशे च सादृश्ये वसतौ भाजने स्थितौ ।स्थानेऽव्ययं कारणार्थे सत्ये सादृश्ययोग्ययोः ॥ २२४१ ॥
2241 · p. 384
अनुष्टुप्
स्थितिः स्त्री धारणायां स्याद् अवस्थाने च सीमनि ।स्थिरः पुंसि सुरे शैले कार्तिकेये द्रुमे शनौ ॥ २२४२ ॥
2242 · p. 384
अनुष्टुप्
स्थिरदंष्ट्रो ध्वनौ सर्पे वराहाकृतिमाधवे ।स्थेयो विवादपक्षस्य निर्णेतरि पुरोधसि ॥ २२४३ ॥
2243 · p. 384
अनुष्टुप्
स्पर्शनो मारुते पुंसि क्लीवं तु स्पर्श-दानयोः ।हंसः सूर्ये शिवे विष्णौ निर्लोभनृपतौ गुरौ ॥ २२४४ ॥
2244 · p. 385
अनुष्टुप्
पक्षिभेदे मन्त्रभेदे मत्सरे परमात्मनि ।हंसकः पादकटके राजहंसे च तालके ॥ २२४५ ॥
2245 · p. 385
अनुष्टुप्
हनुः कपोलावयवे स्त्रियां पुंसि च कीर्तितः ।स्त्री स्याद्धट्टविलासिन्यां रोगेऽस्त्रे मरणेऽपि च ॥ २२४६ ॥
2246 · p. 385
अनुष्टुप्
हरः शिवेऽनले पुंसि हरकः शिव-चौरयोः ।हरिर्विष्णौ शिवे सूर्ये विरिञ्चौ चन्दिरेऽनले ॥ २२४७ ॥
2247 · p. 385
अनुष्टुप्
इन्द्रे यमेऽनिले सिंहे किरणे तुरगेऽपि च ।शुके भुजङ्गमे हंसे मयूरे मर्कटे प्लवे ॥ २२४८ ॥
2248 · p. 385
अनुष्टुप्
हालिके बलदेवे च प्राज्ञैर्हलधरः स्मृतः ।हला सख्यां जले मद्ये पृथिव्यामपि कीर्तिता ॥ २२४९ ॥
2249 · p. 385
अनुष्टुप्
हलाहलो ब्रह्मसर्पेऽञ्जना-बुद्धविशेषयोः ।आज्ञायामध्वरे होमे आह्वानेऽपि हवः पुमान् ॥ २२५० ॥
2250 · p. 386
अनुष्टुप्
हस्तिमल्लः शंखनाग ऐरावत-गणेशयोः ।हायनोऽग्निशिखा-व्रीहिभेदयोर्वत्सरे पुमान् ॥ २२५१ ॥
2251 · p. 386
अनुष्टुप्
हारो मुक्तावलौ युद्धे हरि सम्बन्धिनि त्रिषु ।हारकः कितवे गद्यभेद-विज्ञानभेदयोः ॥ २२५२ ॥
2252 · p. 386
अनुष्टुप्
तस्करे भाजकाङ्के च शाखोटेऽपि निगद्यते ।हारीतः कैतवे पक्षिविशेष-मुनिभेदयोः ॥ २२५३ ॥
2253 · p. 386
अनुष्टुप्
हालो हले प्रलम्बघ्ने शालिवाहनभूपतौ ।हिंस्रा काकादनी-नाडी-जटामांसी-गवेधुषु ॥ २२५४ ॥
2254 · p. 386
अनुष्टुप्
हितं त्रिषु गते मित्रे मंगले घृत-पथ्ययोः ।हिमं स्यात्तुहिने रंगे पद्मकाष्ठे च मौक्तिके ॥ २२५५ ॥
2255 · p. 386
अनुष्टुप्
चन्दने नवनीते च क्लीवं शीते तु वाच्यवत् ।हिमश्चन्द्रे च कर्पूरे हेमन्ते चन्दनद्रुमे ॥ २२५६ ॥
2256 · p. 387
अनुष्टुप्
हिमजा क्षीरणी-गौरी-शटीषु कथिता स्त्रियाम् ।हिमा नागरमुस्तायां सूक्ष्मैला-भद्रमुस्तयोः ॥ २२५७ ॥
2257 · p. 387
अनुष्टुप्
पृक्कायां चणिकायां चरेणुकायामपि स्त्रियाम् ।हिरण्यं काञ्चने वित्ते धुस्तूरे च वराटके ॥ २२५८ ॥
2258 · p. 387
अनुष्टुप्
अक्षये मानभेदे च रजताऽकुप्ययोरपि ।हिरण्यगर्भः श्रीविष्णौ प्राणात्मनि चतुर्मुखे ॥ २२५९ ॥
2259 · p. 387
अनुष्टुप्
हिरण्यरेताः सूर्येऽग्नौ शंकरे चित्रकद्रुमे ।हीनस्त्रिष्वधमे गर्ह्ये रहिते प्रतिवादिनि ॥ २२६० ॥
2260 · p. 387
अनुष्टुप्
हुडुक्को मदमत्ते स्याद् दात्यूह-वाद्यभेदयोः ।हुण्डः स्याद्राक्षसे व्याघ्रे वालिशे ग्राम्यशूकरे ॥ २२६१ ॥
2261 · p. 387
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
हृदयं मानसे वुक्के वक्षस्यपि प्रकीर्तितम् ।हृद्यो मनोरमे हृञ्जे हृत्प्रिये हृद्धिते त्रिषु ॥ २२६२ ॥
2262 · p. 387
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
औत्सुक्ये स्यात्तु हृल्लेखा हृल्लेखो ज्ञान-तर्कयोः ।हृषितं वाच्यवल्लिंगं प्रणते हृष्टरोमणि ॥ २२६३ ॥
2263 · p. 388
अनुष्टुप्
वर्मिते विस्मृते प्रीते प्रहतेऽपि बुधैः स्मृतम् ।हृष्टस्त्रिषु प्रतिहते जातहर्षे च विस्मिते ॥ २२६४ ॥
2264 · p. 388
अनुष्टुप्
रोमाञ्चिऽतेऽपहसित-प्रीतयोरप्युदाहृतः ॥
2272 · p. 388
विहेठे बाधायां हृष्टिः स्त्री मानहर्षयोः ॥ २२६५ ॥
2265 · p. 388
हेतिः स्त्री सूर्यकिरणे तेजोमात्रे च साधने ।अस्त्रे बह्निशिखायां च कौशिकैः परिदर्शिता ॥ २२६६ ॥
2266 · p. 388
अनुष्टुप्
हेम धुस्तूर-किञ्जल्क-काञ्चनेषु हिमेऽपि च ।हेमः स्यात् कृष्णवर्णाश्वे बुध-माषकमानयोः ॥ २२६७ ॥
2267 · p. 388
अनुष्टुप्
हेरम्बो महिषे शौर्यगर्विते गणनायके ।अथ हैमवती गौरी-गंगा-श्वेतवचासु च ॥ २२६८ ॥
2268 · p. 388
अनुष्टुप्
रेणुका-कपिलद्राक्षा-स्वर्णक्षीरी-क्षुमास्वपि ।हरीतक्यामथो होत्रं होमे हविषि कीर्तितम् ॥ २२६९ ॥
2269 · p. 388
अनुष्टुप्
होरा लग्ने शास्त्रभेदे तथा राश्यर्द्धरेखयोः ।ह्रस्वः खर्वे द्वयोरेकमात्रवर्णे त्वसौ पुमान् ॥ २२७० ॥
2270 · p. 389
अनुष्टुप्
ह्रादिनी शल्लकी-विद्युत्-सरित्सु कुलिशे स्त्रियाम् ।पर्वण्यवसरे मध्ये परतन्त्रत्व उत्सवे ॥ २२७१ ॥
2271 · p. 389
अनुष्टुप्
निर्व्यापारस्थितौ कालविशेषेऽपि क्षणः पुमान् ।क्षत्ता दासीसुते द्वाःस्थे नियुक्ते सारथौ विधौ ॥ २२७२ ॥
2272 · p. 389
अनुष्टुप्