कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthodayasāgarakoṣa

नानार्थोदयसागरकोष Nānārthodayasāgarakoṣa

2,302 verses · text only, tagging comes next

Part 4 (4/20)

कुमुदं श्वेतोत्पले रक्तपद्मे रूप्ये नपुंसकम् ।पुमान्नैरृतकोणस्य दिग्गजे वानरान्तरे ॥ ३६२ ॥
362 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सितोत्पले दैत्यभेदे कर्पूरे ध्रुवकान्तरे ।स्त्रियां कट्फल-गम्भारी-धातकी-कुम्भिकास्वपि ॥ ३६३ ॥
363 · p. 67
अनुष्टुप्
कुम्भो गजशिरःपिण्डे कुम्भकर्णसुते घटे ।वेश्यापतौ राशिभेदे प्राणायामाङ्गकुम्भके ॥ ३६४ ॥
364 · p. 67
अनुष्टुप्
राक्षसे द्रोणयुगलपरिमाणेऽप्यसौ पुमान् ।गुग्गुलौ त्रिवृति क्लीवं कुम्भकारस्तु कुक्कुभे ॥ ३६५ ॥
365 · p. 68
अनुष्टुप्
कुलालेऽप्यथ कुम्भी स्त्री कट्फले पाटलोखयोः ।दन्तीतरौ वृक्षभेदे हस्ति-कुम्भीरयोः पुमान् ॥ ३६६ ॥
366 · p. 68
अनुष्टुप्
कुरुर्वर्षान्तरे भक्ते कण्टकार्यां नृपान्तरे ।कुरुविन्दः पुमान् माषे मुस्तकेऽथ नपुंसकम् ॥ ३६७ ॥
367 · p. 68
अनुष्टुप्
कुल्माषे काचलवणे पद्मरागमणावपि ।कुलं वंशे स्वजातीयगणे गृह-शरीरयोः ॥
367 · p. 68
अनुष्टुप्
अग्रे जनपदे क्लीवं पुमान् कुलक-नागयोः ॥ ३६८ ॥
368 · p. 68
कुलकस्तु कुलश्रेष्ठे वल्मीके काकतिन्दुके ।पिण्डीतके मरुबके हरिद्वर्णभुजङ्गमे ॥ ३६९ ॥
369 · p. 68
अनुष्टुप्
कुल्माषे यावके रोगभेदे वोरवधान्ययोः ।कृशराऽर्द्धस्विन्नधान्य-राजमाषेषु काञ्जिके ॥ ३७० ॥
370 · p. 69
अनुष्टुप्
कुल्यमामिषसूर्पाऽष्टद्रोणमानेषु कीकसे ।कुल्यस्त्रिषु कुलीने स्यान् मान्ये कुलहितेऽपि च ॥ ३७१ ॥
371 · p. 69
अनुष्टुप्
कुल्या स्त्री कृत्रिमस्वल्पनद्यां जीवन्तिकौषधे ।कुलस्त्रियां नदीमात्रे प्रणाल्यां स्थूलवङ्गणे ॥ ३७२ ॥
372 · p. 69
अनुष्टुप्
कुबेरो धनदे नन्दीवृक्षेऽर्हत्सेवकान्तरे ।कुशो रामसुते द्वीपभेदे योक्त्रे पुमान् मतः ॥ ३७३ ॥
373 · p. 69
अनुष्टुप्
दर्भेऽस्त्रियां स्यात् पापिष्ठ-मत्तयोस्तु त्रिलिङ्गकः ।कुशलं मंगलं पुण्ये पर्याप्ते शिक्षिते त्रिषु ॥ ३७४ ॥
374 · p. 69
अनुष्टुप्
मधुकर्कटिका-रज्जु-बलासु च कुशा स्त्रियाम् ।कुशिको मुनिभेदे स्यात् जरणद्रुमफालयोः ॥ ३७५ ॥
375 · p. 70
अनुष्टुप्
बिभीतके तैलशेषे सर्जेऽपि त्रिषु केकरे ।कुशूलो व्रीह्यगारे स्यात् तुषवह्नावपि स्मृतः ॥ ३७६ ॥
376 · p. 70
अनुष्टुप्
कुष्ठं विषान्तरे रोगभेदे भेषजभेदयोः ।कुष्माण्डोऽस्त्री भ्रूणभेदे कर्कारु-गणभेदयोः ॥ ३७७ ॥
377 · p. 70
अनुष्टुप्
कुष्माण्ड्युमा घृणावास-यज्ञकर्मान्तरौषधे ।कुसुमं स्त्रीरजः-पुष्प-फल-नेत्राऽऽमयान्तरे ॥ ३७८ ॥
378 · p. 70
अनुष्टुप्
कुहरं विवरे कर्णे कण्ठशब्दे गलेऽन्तिके ।कूटोऽस्त्री निश्चले दम्भे कैतवे लौहमुद्गरे ॥ ३७९ ॥
379 · p. 70
अनुष्टुप्
यन्त्रेऽनृते भग्नशृङ्गे षण्डे पुञ्जेऽपि कीर्त्यते ।कूपः पुंस्युदपाने स्याद् गर्तमृण्मानयोरपि ॥ ३८० ॥
380 · p. 71
अनुष्टुप्
कूपको गुणवृक्षे स्यात् तैलपात्रे ककुन्दरे ।चितायामुदपानेऽथ कूपी पात्रान्तरे स्मृता ॥ ३८१ ॥
381 · p. 71
अनुष्टुप्
कूर्चोऽस्त्री कठिने दम्भे कुशमुष्टौ विकत्थने ।मयूरपुच्छमुष्टौ च श्मश्रुणि भ्रूयुगान्तरे ॥ ३८२ ॥
382 · p. 71
अनुष्टुप्
हुंबीजे कैतवे क्षिप्रोपरिभागे च शीर्षके ।कूर्चिका क्षीरविकृति-सूचिका-तूलिकास्वपि ॥ ३८३ ॥
383 · p. 71
अनुष्टुप्
कुञ्चिकायां कुड्मलेऽथ कूर्पासः कञ्चुके पुमान् ।कूर्मो मुद्रान्तरे बाह्यवायुभेदेऽपि कच्छपे ॥ ३८४ ॥
384 · p. 71
अनुष्टुप्
अवतारान्तरे विष्णोः कूलं स्तूप-तडागयोः ।प्रतीरे सैन्यपृष्ठेऽथ कृकरः कृकणे शिवे ॥ ३८५ ॥
385 · p. 72
अनुष्टुप्
चव्यके करवीरेऽथ कूवरोऽस्त्री युगन्धरे ।कृकवाकुस्तु सरटे मयूरे कुक्कुटे पुमान् ॥ ३८६ ॥
386 · p. 72
अनुष्टुप्
कृतं फलेऽलमर्थेऽपि पर्याप्त-युगभेदयोः ।कृतान्तो यम-सिद्धान्त-दैवेष्वशुभकर्मणि ॥ ३८७ ॥
387 · p. 72
अनुष्टुप्
कृती साधौ पुण्यवति पण्डिते निपुणे त्रिषु ।कृतिश्चर्मणि भुर्जत्वक्-कृत्तिका-तारकास्वपि ॥ ३८८ ॥
388 · p. 72
अनुष्टुप्
कृत्यो धनादिभिर्भेद्ये विद्विष्टे प्रत्ययान्तरे ।कार्ये त्रिष्वथ कृत्या स्यात् क्रियायां देवतान्तरे ॥ ३८९ ॥
389 · p. 72
अनुष्टुप्
कृपणस्तु कदर्ये स्यात् दीन-कुत्सितयोः कृमौ ।कृपीटं विपिने नीरे कुक्षौ काष्ठे नपुंसकम् ॥ ३९० ॥
390 · p. 73
अनुष्टुप्
कृपीटपालः पवने केनिपात-समुद्रयोः ।कृमिः कीटे खरे कुक्षिजातकीटाऽऽमये पुमान् ॥ ३९१ ॥
391 · p. 73
अनुष्टुप्
लाक्षायां कृमिलेऽथ स्यात् कृषका वृष-फालयोः ।कृष्णं नीलाञ्जने लौहे कालागुरु-मरीचयोः ॥ ३९२ ॥
392 · p. 73
अनुष्टुप्
कृष्णः काकेऽर्जुने व्यासे केशवे करमर्दके ।श्यामलेऽथ स्त्रियां द्राक्षा-पिप्पली-द्रौपदीषु च ॥ ३९३ ॥
393 · p. 73
अनुष्टुप्
गम्भारी-कटुका-नीलीवृक्षेषु राजसर्षपे ।कृष्णजीरक-काकोली-पर्पटी-सारिकान्तरे ॥ ३९४ ॥
394 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
चिह्ने निमन्त्रणे स्थाने ध्वजे वेश्मनि केतनम् ।केदार आलवाले स्यात् क्षेत्रे शैलान्तरे शिवे ॥ ३९५ ॥
395 · p. 74
अनुष्टुप्
केवली केवलज्ञानी तीर्थङ्कर उदाहृतः ।केशः कचे दैत्यभेदे ह्रीवेरे वरुणे हरौ ॥ ३९६ ॥
396 · p. 74
अनुष्टुप्
केशरी बकुले सिंहजटायां हिंगुपादपे ।नागकेशरवृक्षेऽपि पुमान् पुन्नागपादपे ॥ ३९७ ॥
397 · p. 74
अनुष्टुप्
केशरी घोटके सिंहे पुंन्नागे बीजपूरके ।नागकेशरवृक्षेऽपि हनुमज्जनके पुमान् ॥ ३९८ ॥
398 · p. 74
अनुष्टुप्
केतु द्युतौ पताकायामुत्पाते चिह्नरोगयोः ।विपक्षे ग्रहभेदेऽथ केतुशब्दः पकीर्तितः ॥ ३९९ ॥
399 · p. 74
अनुष्टुप्
केवलं निश्चिते कृत्स्नेऽसहाये ज्ञानशुद्धयोः ।केसरं हिंगु-कासीस-स्वर्णेषु नागकेसरे ॥ ४०० ॥
400 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
केसरो वकुले सिंह-तुरंगस्कन्ध-कुन्तले (रोमणि) ।पुन्नागवृक्षे किञ्जल्के नागकेशरपादपे ॥ ४०१ ॥
401 · p. 75
अनुष्टुप्
केसरी घोटके सिंहे पुन्नागे नागकेशरे ।हनुमज्जनके रक्त-शिग्रौ च बीजपूरके ॥ ४०२ ॥
402 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
कैतवं द्यूत-वैदूर्यमणि-च्छद्मसु नद्वयोः ।कोको विष्णौ बृके भेके खर्जूरी-चक्रवाकयोः ॥ ४०३ ॥
403 · p. 75
अनुष्टुप्
कोणो वाद्यप्रभेदे स्यात् लगुडे मंगलग्रहे ।गृहादेरेकदेशेऽपि शनौ वीणादिवादने ॥ ४०४ ॥
404 · p. 75
अनुष्टुप्
दिशोर्मध्येऽथ मृदुले मञ्जुले कोमलस्त्रिषु ।कोरकोऽस्त्री मृणाले स्यात् कक्कोले मुकुलेऽपि च ॥ ४०५ ॥
405 · p. 75
अनुष्टुप्
कोलं घोण्टाफले चव्ये मरिचे तोलके स्मृतम् ।कोलः शनौ प्लवे चित्रे क्रोड-देशविशेषयोः ॥ ४०६ ॥
406 · p. 76
अनुष्टुप्
अङ्कपाली-वराहाऽस्त्रभेद-जात्यन्तरेष्वपि ।कोषोऽस्त्री चषके दिव्ये योनौ शब्दादिसंग्रहे ॥ ४०७ ॥
407 · p. 76
अनुष्टुप्
अण्डे खड्गपिधानेऽर्थसमूहे पात्रशिम्बयोः ।जातीफले कुड्मले च भाण्डागारेऽपि कीर्तितः ॥ ४०८ ॥
408 · p. 76
अनुष्टुप्
पनसादिफलस्यान्ते हिरण्ये धनसंहतौ ।कौतुकं भोगसमये नर्म-गीतादिभोगयोः ॥ ४०९ ॥
409 · p. 76
अनुष्टुप्
हर्षे परम्परायातमंगलेपि कुतूहले ।वैवाहिके हस्तसूत्रेऽभिलाषोत्सवयोरपि ॥ ४१० ॥
410 · p. 76
अनुष्टुप्
कौपीनं कल्मषे चीरेऽकार्य-गुह्यप्रदेशयोः ।कौमुदी चन्द्रिकायां स्यादुत्सवे कार्तिकोत्सवे ॥ ४११ ॥
411 · p. 76
अनुष्टुप्
कार्तिकाऽऽश्विनमासीयपौर्णमास्यामपीष्यते ।कौलीनं लोकवादे स्याद् जन्ये गुह्ये कुकर्मणि ॥ ४१२ ॥
412 · p. 77
अनुष्टुप्
कौलेयके कुलीनत्वे युद्धे पश्वहिपक्षिणाम् ।कौशिको नकुले घूके व्यालग्राहिणि गुग्गुलौ ॥ ४१३ ॥
413 · p. 77
अनुष्टुप्
विश्वामित्रमुनौ शक्रे मज्जा-शृङ्गारयोरपि ।अश्वकर्णतरौ कोशकार-कोशज्ञयोर्द्वयोः ॥ ४१४ ॥
414 · p. 77
अनुष्टुप्
कौस्तुभो विष्णुवक्षस्थमणि-मुद्राविशेषयोः ।क्रकचः करपत्रे स्यात् अस्त्री ग्रन्थिलपादपे ॥ ४१५ ॥
415 · p. 77
अनुष्टुप्
क्रतुर्मुन्यन्तरे यज्ञ-विश्वदेवविशेषयोः ।क्रन्दनं रुदिते योधसंरावाऽऽह्वानयोरपि ॥ ४१६ ॥
416 · p. 77
अनुष्टुप्
क्रन्दितं रोदनाऽऽह्वान-योधचित्करणादिषु ।क्रम आक्रमणे शक्तौ चरणेऽनुक्रमे विधौ ॥ ४१७ ॥
417 · p. 78
अनुष्टुप्
क्रमुकः पट्टिका लोध्रे पूगे कार्पासिका फले ।ब्रह्मदारुतरौ भद्र-मुस्तके स्मर्यते पुमान् ॥ ४१८ ॥
418 · p. 78
अनुष्टुप्
क्रव्यादो राक्षसे सिंहे श्येने मांसाशिनि त्रिषु ।क्रियाकर्मणि चेष्टायां पूजने सम्प्रधारणे ॥ ४१९ ॥
419 · p. 78
अनुष्टुप्
उपायारम्भशिक्षासु चिकित्सायां च निष्कृतौ ।व्यवहारान्तरे श्राद्धे धात्वर्थे हेतु-शौचयोः ॥ ४२० ॥
420 · p. 78
अनुष्टुप्
क्रूरो नृशंसे कठिने घोर उष्णे त्रिलिंगकः ।क्रोडं भुजान्तरोत्संगभागेषु स्त्रीनपुंसकम् ॥ ४२१ ॥
421 · p. 78
अनुष्टुप्
क्रोडः शनैश्चरे कोले वाराहीकन्द ईरितः ।क्रोशो मुहूर्ते गव्यूते दण्डे युगसहस्रके ॥ ४२२ ॥
422 · p. 78
अनुष्टुप्
क्रोष्ट्री शृगालिका कृष्ण-विदारी लाङ्गुलीषु च ।क्रौञ्चो जिनध्वजे द्वीपे खगे राक्षसशैलयोः ॥ ४२३ ॥
423 · p. 79
अनुष्टुप्
क्रौञ्चादनन्तु घेञ्चुल्यां चिञ्चोटक-मृणालयोः ।क्लेशोऽविद्यादिदुःखे स्यादमर्ष-व्यवसाययोः ॥ ४२४ ॥
424 · p. 79
अनुष्टुप्
व्यसने द्रव्यनिष्पाके दुःखेऽपि क्वाथ ईरितः ।खगो वायौ ग्रहे बाणे शलभपक्षिणोः ॥ ४२५ ॥
425 · p. 79
अनुष्टुप्metre not read in every line
खचरो राक्षसे मेघे वायौ सूर्येऽपि रूपके ।खजा स्त्रियां प्रहस्ते स्याद् दर्व्यां मारणमन्थयोः ॥ ४२६ ॥
426 · p. 79
अनुष्टुप्
खटोऽन्धकूपतृणयोः प्रहारान्तरटङ्कयोः ।कफलाङ्गलयोः प्रोक्तः कर्त्तणेऽपि पुमानसौ ॥ ४२७ ॥
427 · p. 79
अनुष्टुप्
खट्वा प्रेङ्खा कोलशिंबी पर्यङ्केषूदिता स्त्रियाम् ।खड्गोऽसौ गण्डके बुद्धभेद-गण्डकशृङ्गयोः ॥ ४२८ ॥
428 · p. 80
अनुष्टुप्
खण्डनं भञ्जने छेदे निराकरण-भेदयोः ।खण्डपर्शुश्चूर्णलेप्यां भग्नदन्तगजे शिवे ॥ ४२९ ॥
429 · p. 80
अनुष्टुप्
राहौ परशुरामे च खण्डामलकभेषजे ।खदिरो जिह्मशल्ये स्यात् चन्दिरे च पुरन्दरे ॥ ४३० ॥
430 · p. 80
अनुष्टुप्
खद्योतो भास्करे व्योमप्रकाशे ज्योतिरिङ्गणे ।खनको भूमिवित्तज्ञे मूषिके सन्धितस्करे ॥ ४३१ ॥
431 · p. 80
अनुष्टुप्
खरस्तु निष्ठुरे कंके काके गर्दभघर्मयोः ।दैत्ये कण्टकिवृक्षेऽपि कुररे राक्षसान्तरे ॥ ४३२ ॥
432 · p. 80
अनुष्टुप्
खरुः शिवे सिते दर्पे कामे दन्ते तुरङ्गमे ।त्रिषु श्वेते निषिद्धैकरुचौ निर्बोध-तीक्ष्णयोः ॥ ४३३ ॥
433 · p. 81
अनुष्टुप्
खर्जूरं रौप्य-खलयोः हरिताले फलान्तरे ।खर्जूरीपादपेऽक्लीवं वृश्चिकेऽपि प्रकीर्त्यते ॥ ४३४ ॥
434 · p. 81
अनुष्टुप्
खर्परस्तस्करे छत्रे भिक्षापात्र-कपालयोः ।धूर्तेऽथ कुब्जके खर्वो दशवृन्देऽपि शेवधौ ॥ ४३५ ॥
435 · p. 81
अनुष्टुप्
खलं कल्के खलाधाने भूमौ स्थाने नपुंसकम् ।पुमान् तमालवृक्षे स्यात् सूर्य-धुस्तूरवृक्षयोः ॥ ४३६ ॥
436 · p. 81
अनुष्टुप्
त्रिलिंगो दुर्जने नीचे खल्वाटे खलतिः पुमान् ।खल्लो वस्त्रप्रभेदे स्यात् जायुमर्दनभाजने ॥ ४३७ ॥
437 · p. 81
अनुष्टुप्
अवटे चर्मपुटके च चर्म-चातकपक्षिणोः ।खुरः शफे कोलदले क्षुरे खट्वादिपादुके ॥ ४३८ ॥
438 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गन्धद्रव्ये नखीनाम्नि पुमान् छेदनवस्तुनि ।खुल्लको निष्ठुरे निःस्वे खले नीच-कनिष्ठयोः ॥ ४३९ ॥
439 · p. 82
अनुष्टुप्
खुल्लतात पुमान् पितृकनिष्ठभ्रातरि स्मृतः ।खेचरः पारदे विद्याधरे शम्भौ नभश्चरे ॥ ४४० ॥
440 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 पि (wrong syllable)
खेटः ग्रहे पुमान्नीचे हये त्रिषु सुनन्दके ।अस्त्रियां मृगया-ग्रामभेद-चर्म-कफेषु च ॥ ४४१ ॥
441 · p. 82
अनुष्टुप्
खेटको ग्रामभेदे स्यात् फलके वसुनन्दके ।खोलकः शीर्षके पूगकोषे वल्मीक-पाकयोः ॥ ४४२ ॥
442 · p. 82
अनुष्टुप्
गज औषधपाकार्थ-गर्तभेदे मतङ्गजे ।हस्तद्वयात्मके माने वास्तु स्थानान्तरे पुमान् ॥ ४४३ ॥
443 · p. 82
अनुष्टुप्
गञ्जो गोष्ठगृहे भाण्डागार-ऽवज्ञाऽऽकरेष्वपि ।गञ्जा खनौ मद्यभाण्डे मदिरानीचवेश्मनि ॥ ४४४ ॥
444 · p. 82
अनुष्टुप्
गडो देशान्तरे मत्स्यविशेष-व्यवधानयोः ।परिखायामन्तराये गडुः शल्यास्त्र-कुब्जयोः ॥
445 · p. 83
अनुष्टुप्
गण्डूपदे पृष्ठगुडेऽसमग्रन्थौ पुमान् स्मृतः ॥ ४४५ ॥
445 · p. 83
गणो गणेशे प्रमथे सेनासंख्यान्तरे चये ।गन्धद्रव्ये चोरनाम्नि संख्या-धातृसमूहयोः ॥ ४४६ ॥
446 · p. 83
अनुष्टुप्
गणिका यूथिका-वेश्या-कणिका-हस्तिनीषु च ।गणितं गणने क्लीवमङ्कशास्त्रेऽपि युज्यते ॥
448 · p. 83
अनुष्टुप्
अङ्कशास्त्रे च संख्याते गणने गणितं विदुः ॥ ४४७ ॥
447 · p. 83
गणेशो विघ्नराजे च शिवेऽपि क्वचिदीरितः ।गण्डः कपोले पिटके स्फोटके हयभूषणे ।वीथ्यङ्गे बुद्बुदे ग्रन्थो कटे विक्रान्त-लक्ष्मणोः ॥ ४४८ ॥
448 · p. 83
अनुष्टुप्
गण्डकस्त्वन्तराये स्यात् खड्गि-विद्याविशेषयोः ।संख्याप्रभेदेऽवच्छेदे गण्डकी सरिदन्तरे ॥ ४४९ ॥
449 · p. 84
अनुष्टुप्
गतिर्नाडीव्रणे ज्ञाने मार्गे यात्राऽभ्युपाययोः ।दशायां गमने प्राप्तौ गत्वरः शीघ्रगे त्रिषु ॥ ४५० ॥
450 · p. 84
अनुष्टुप्
गदं विषे गदो रोगे कृष्णभ्रातरि भाषणे ।गन्धः शोभाञ्जने गर्वे सौरभे घृष्टचन्दने ॥ ४५१ ॥
451 · p. 84
अनुष्टुप्
आमोदे गन्धके लेशे सम्बन्धे गन्धमोदने ॥
454 · p. 84
गन्धनं सूचनोत्साह-हिंसासु च प्रकाशने ॥ ४५२ ॥
452 · p. 84
गन्धपत्रो मरुवके बर्बरे श्रीफलद्रुमे ।नारंगे श्वेतवृन्दायां शटीभेदे त्वसौ स्त्रियाम् ॥ ४५३ ॥
453 · p. 84
अनुष्टुप्
गन्धपुष्पोऽङ्कोठतरौ वेतसे बहुवारके ।स्त्रियान्तु केतकी-नीली-गणिकारीष्वसौ नतः ॥ ४५४ ॥
454 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ङ्को (wrong syllable)
गन्धर्वो मृगभेदे स्यात् पुंस्कोकिल-तुरङ्गयोः ।अन्तराभवसत्वे च गायके दिव्यगायने ॥ ४५५ ॥
455 · p. 85
अनुष्टुप्
गान्धिको गन्धवणिजि गन्धविक्रेतरि स्मृतः ।अथ गन्धवती पृथ्वी-वनमल्ली-सुरासु च ॥ ४५६ ॥
456 · p. 85
अनुष्टुप्
मुरायां वायुपुर्याञ्च व्यासमातरि कीर्तिता ॥ ४५७ ॥
457 · p. 85
गमो जिगीषुगमने प्रस्थानाक्षविवर्तयोः ।अपर्यालोचिते मार्गे सदृक्पाठेऽपि कीर्तितः ॥ ४५८ ॥
458 · p. 85
अनुष्टुप्
गमकः स्वश्रुतिस्थानाच्छायां श्रुत्यन्तराश्रयाम् ।स्वरो यो मूर्च्छनामेति गमकः स इहोच्यते ॥ ४५९ ॥
459 · p. 85
अनुष्टुप्
गयो राजर्षिभेदेऽपि भेदे वानर-दैत्ययोः ।गया तु गयराजर्षिपुरी प्रोक्ता मनीषिभिः ॥ ४६० ॥
460 · p. 85
अनुष्टुप्
गरलं परिमाणेऽपि विषे च तृणपूलके ।गर्तः ककुन्दरे श्वभ्रे रोगभेद-त्रिगर्तयोः ॥ ४६१ ॥
461 · p. 86
अनुष्टुप्
गर्दभो रासभे गन्धे विडङ्गे कुमुदे द्वयोः ।गर्दभाण्डः प्लक्षवृक्षे कन्दरालतरावपि ॥ ४६२ ॥
462 · p. 86
अनुष्टुप्
गर्भोऽपवरके भ्रूणे सन्धौ पनसकण्टके ।कुक्षौ मध्येऽर्भके वह्नौ सरित्सन्निहितस्थले ॥ ४६३ ॥
463 · p. 86
अनुष्टुप्
गलः सर्जरसे कण्ठे वाद्यभेदे झषान्तरे ।गलग्रहो मत्स्यघण्टे तिथिभेदेऽपि कीर्तितः ॥ ४६४ ॥
464 · p. 86
अनुष्टुप्
गल्वको मद्यपात्रे स्यादिन्द्रनीलमणावपि ।गवेधुका नागवला-तृणधान्यविशेषयोः ॥ ४६५ ॥
465 · p. 86
अनुष्टुप्
गोहिते त्रिषु गव्यं स्यात् गोसम्बन्धिघृतादिषु ।गव्या गोरोचना-गोत्रा-गव्यूति-ज्यासु कीर्तिता ॥ ४६६ ॥
466 · p. 86
अनुष्टुप्
गव्यूतिः स्त्री क्रोशयुगे गव्यूतं गोरुतं तथा ।गहनं कानने दुःखे कलिले (सघने) गह्वरेऽसुगे ॥ ४६७ ॥
467 · p. 87
अनुष्टुप्
गह्वरं रोदने दम्भे गुहायां वन-कुञ्जयोः ।गांगेयो भद्रमुस्तायां स्कन्दे भीष्मे झषान्तरे ॥ ४६८ ॥
468 · p. 87
अनुष्टुप्
क्लीवं काञ्चन-धूस्तूर-मुस्तकेषु कशेरुणि ।गातुर्गायन-गन्धर्व-रोषणाऽलि-पिकेष्वपि ॥ ४६९ ॥
469 · p. 87
अनुष्टुप्
गाथा श्लोके संस्कृतान्यभाषायां गेयवृत्तयोः ।गान्धारी धृतराष्ट्रस्त्री-जिनशासनदेवता ॥ ४७० ॥
470 · p. 87
अनुष्टुप्
गञ्जा दुरालभा प्रोक्ता गान्धारः स्वरदेशयोः ।गालोडितस्त्रिषून्मत्ते मूर्ख-रोगार्तयोः स्मृतः ॥ ४७१ ॥
471 · p. 88
अनुष्टुप्
गिरिः पारददोषे स्यात् पर्वते गेण्डुके पुमान् ।सन्न्यासिपद्धतौ चक्षुरोगभेदे स्त्रियान्त्वसौ ॥ ४७२ ॥
472 · p. 88
अनुष्टुप्
गिरिजं गैरिके लोहे शिलाजतुनि शैलजे ।अभ्रके गौरशाकेऽथ गिरिजा पार्वती स्मृता ॥ ४७३ ॥
473 · p. 88
अनुष्टुप्
गिरीशः शङ्करे जीवे हिमालयगिरावपि ।गिरिसारः पुमान् रगे लोहे मलयपर्वते ॥ ४७४ ॥
474 · p. 88
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र (wrong syllable)
गीष्पतिः पण्डिते जीवे गुच्छः स्तम्बकलापयोः ।द्वात्रिंशद्यष्टिके हारे मुक्ताहारे सुमोच्चये ॥ ४७५ ॥
475 · p. 88
अनुष्टुप्
स्त्रियां गुच्छफला द्राक्षा-निष्पवी-कदलीषु च ।वल्लिकण्टारिका-काकमाच्योरथ पुमान् असौ ॥ ४७६ ॥
476 · p. 89
अनुष्टुप्
रीठाकरञ्जे कतके राजादन्यामपि स्मृतः ।गुञ्जा कलध्वनौ चर्चा-गोधूमद्वयमानयोः ॥ ४७७ ॥
477 · p. 89
अनुष्टुप्