कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अमावस्या

amāvasyāस्त्री · fem.

In 11 kośas: 11 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.65 · p. 10
अमामावस्यमावस्या दर्शसूर्येन्दुसंगमः ॥ १५० ॥अमावास्यामावासी च सा नष्टेन्दुः कुहुः कुहूः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.8
अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.48 · p. 410
अमावास्यामाऽमावस्याऽमामासी चाप्यमावसी ।सूर्येन्दुसंगमो दर्शस्तत्र नष्टेन्दुमण्डला ॥ ४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 माऽ (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.66 · p. 47
अमावा(मा)स्यप्यमावास्याऽमावस्या दर्श आदिमे ।सूर्येन्दुसंगमोऽप्यस्मिन्सा नष्टेन्दुकला कुहूः ॥ ६६ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.138 · p. 22
अमावस्यामावसी च अमावास्याप्यमा मता ।दृष्टेन्दुः सा सिनीवाली नष्टेन्दुश्च कुहुः कुहूः ॥ १३८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.143 · p. 21
अमावास्या त्वमावासी सूर्येन्दुसङ्गमस्तथा ।अमावस्या च दर्शोऽमाऽमावासी कथिता बुधैः ॥ १४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्दु (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.258 · p. 18
अत्रैव पुंसि पक्षान्तः पक्षावसर इत्यपि ।अमावास्याऽप्यमावस्या तथैवामावसीति च ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.41 · p. 180
पूर्णिमायां पौर्णमासी, दर्शेऽमावास्यमावसी ।अमावस्याऽमाऽमावास्या, नष्टेन्दौ तु कुहुः कुहूः ॥ ४१ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 माऽ (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.242 · p. 33
कलोनेऽनुमतिः पूर्णे राका सा रजनीकरे ।अमावास्या त्वमावस्या स्यादमावास्यमावसी ॥ २४२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 38 · p. 533
अप्यमावस्यमावासी चामामास्यपि अमामसी ॥ ३८ ॥
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.71 · p. 22
अमावस्याऽप्यमावास्याऽप्यमामंस्याऽप्यमामसी ।सा दृष्टेन्दुः सिनीवाली नष्टचन्द्रकला कुहूः ॥ ७१ ॥
अनुष्टुप्
genderस्त्रीfem.

अमावस्या as a meaning in nānārtha verses

  • शब्दरत्नावली पञ्चदशीजीवितेशः प्राणनाथे यमे विधुविवस्वतोः । नागपाशः स्त्रीकरणे दुर्बुद्धौ वरुणायुधि ॥ पञ्चदशी पौर्णमास्यां अमावस्यातिथावपि । प्रतिष्कशः पुरोगे स्याद्वार्ताहरसहाययोः ॥ परिवेशः सूर्यपार्श्वमण्डले परिवेष्टने । पादपाशी खुतुक्कायां शृङ्खलायामपि स्त्रियाम् ॥ पुरोडाशो हविर्भेदे पिष्टके हुतशेषके । भूमिस्पृक्मानुषे वैश्ये चौरभेदेऽन्धखञ्जयोः ॥ Śabdaratnāvalī 7.30.30
  • वैजयन्ती शंखशंखोऽस्त्री वलये कंबौ संख्यायां च निधौ तु ना । अमावस्यां च नागे च शितौ बाणतनूकृतौ ॥ ८३ ॥ Vaijayantī 6.5.83