राका
rākāस्त्री · fem.In 16 kośas: 22 synonym verses, 6 as a nānārtha head word.
genderस्त्रीfem.
राका तु सरजाः कन्या स्त्रीधर्मः पुष्पमार्तवम् ।रजस्तत्कालस्तु ऋतुः सुरतं मोहनं रतम् ॥ ५३६ ॥संवेशनं संप्रयोगः संभोगश्च रहो रतिः ।ग्राम्यधर्मो निधुवनं कामकेलिः पशुक्रिया ॥ ५३७ ॥व्यवायो मैथुनं स्त्रीपुंसोर्द्वंद्वं मिथुनं च तत् ।
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
शशिनि सिनीवाली स्याद्दृष्टे नष्टे कुहूरमावास्या ।अनुमतिरूने राका सम्पूर्णे पूर्णमासी च ॥ ११२ ॥
आर्या
genderस्त्रीfem.
अवीरुदक्या च रजस्वला स्यात्,आत्रेयिका पुष्पवती च नारी ।राका भवेज्जातरजास्तु कन्या,नश्यत्प्रसूतिः कथिता च भिन्दुः ॥ ४८८ ॥
उपजातिः
genderस्त्रीfem.
पंचमी दशमी पूर्णा पूर्णमासी तथैव च ।प्रोक्ता च पूर्णिमा राका प्रतिपत्संयुता यदा ॥ ९६ ॥
अनुष्टुप्
genderस्त्रीfem.
कुमारी पुंप्रसङ्गोत्थरजा गुप्तरजस्वला ।राका नवफलार्था साप्यचिरोढा वधूर्नवा ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
मोदनी गन्धमूली स्याद्राका विशदमूलिका ।सौली वनहरिद्रायां वनारिष्टाथ पेडका ॥ १२७ ॥
अनुष्टुप्
genderस्त्रीfem.
विज्ञेयानुमतिस्तत्र पूर्णे राका निशाकरे ।सरस्वती शारदी तु द्यूतपर्यायपूर्णिमा ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.
कुहुरिन्दुरिपुश्चोक्ता सिनीवाली तु सेन्दुका ।अश्वत्था पूर्णिमा पूर्णमासा राका तु सा विधौ ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
राकाथ तरुणी तल्ली तरुणी युवतीश्वरी ।दिक्करी काहली चाथ वधूटी वर्वटी जनी ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
राका सा पौर्णमासी तु पूर्णचन्द्रमसि स्मृता ।पौर्णमास्यथ दर्शश्च संगमः सूर्यचन्द्रयोः ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
रजस्वलाधिरात्रेयी मलिनी पुष्पवत्यवी ।निष्कला पुष्पहीना स्याद्राका कन्या रजोवती ॥ १९९ ॥
अनुष्टुप्
genderस्त्रीfem.
कलाहीने सानुमतिः पूर्णे राका निशाकरे ।सा दृष्टेन्दुः शिनीवाली सा नष्टेन्दुकला कुहूः ॥ १३६ ॥
अनुष्टुप्
genderस्त्रीfem.
पूर्णिमा पौर्णमासी स्यात् राका पूर्णे क्षपाकरे ।कलाहीने त्वनुमतिर्मार्गशीर्ष्याऽऽग्रहायणी ॥ १४२ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
कलापूर्णे विधौ राका हीने चानुमतिर्मता ।उपरागग्रहौ चन्द्रसूर्यग्रहणनामकौ ॥
अनुष्टुप्
genderस्त्रीfem.
कलोनेऽनुमतिः पूर्णे राका सा रजनीकरे ।अमावास्या त्वमावस्या स्यादमावास्यमावसी ॥ २४२ ॥
अनुष्टुप्
genderस्त्रीfem.
वर्या पतिंवरा कन्या कुमारी नागतार्तवा ।सा तु दृष्टरजा राका चिरण्टी स्यात् सुवासिनी ॥ १०३८ ॥
अनुष्टुप्
genderस्त्रीfem.
भीमसेने गुणः प्रोक्तो राका नवरजस्वला ।शुण्डा वारवधूः प्रोक्ता नृपे स्याल्लोकबान्धवः ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
चन्द्रे कलोनेऽनुमतिः सैव राका तु पूरिते ।पर्वणी पञ्चदश्यौ द्वे पक्षान्तौ नन्दिवर्धनौ ॥ ७३ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रीव्यञ्जनकृता श्यामा चीरिणी तु सुवासिनी ।प्राप्तर्तुर्दिक्करी राका युवतिस्तलुनी चरी ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
बकः कह्वे च यक्षेशे पुष्परक्षोविशेषयोः ।राकागतरजाः कन्या पूर्णेन्दुपूर्णिमापि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्दु (wrong syllable)
लङ्का तु रक्षःपुरपत्तनस्त्रीशाखासु शङ्का तु भये वितर्के ।राका तु कच्छ्वां प्रथमार्तवायांनद्यन्तरे पूर्णविधौ तिथौ च ॥ १८ ॥
इन्द्रवज्रा
राका पुनः स्त्रियां पूर्णचन्द्रे स्यात् पूर्णिमान्तरे ।जातार्तवायां कन्यायां रातं तु त्रिषु दाशिते ॥ ११०० ॥
अनुष्टुप्
राका दृष्टरजःकन्यापूर्णमासीभिदोरपि ॥ ३४२ ॥
राका पूर्णेन्दुपौर्णम्यां नवजातरजःस्त्रियाम् ।रोकः क्रयान्तरे दीप्तौ रोकं विवरनौकयोः ॥
अनुष्टुप्
याज्ञिको याजके दर्भे बिले रोकं रुचौ पुमान् ।राका दृष्टरजःकन्या कच्छपूर्णेन्दुपूर्णिमाः ॥ ३९ ॥
अनुष्टुप्