कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उद्ध्य

uddhyaपुं · masc.

In 6 kośas: 6 synonym verses.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.666 · p. 76
स्रोतः स्रोतस्विनी कर्षूः कुल्या द्वीपवती सरित् ।रोधो वप्रस्तु विज्ञेयो भिद्य उद्ध्यो नदः स्मृतः ॥ ६६६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.29 · p. 347
स चाप्यप्रवहार्थः स्याद् भिद्यउद्ध्यो द्रहोऽपि च ।वहः सरस्वान्प्रवहः प्रवाहो रोध इत्यपि ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.55 · p. 105
गिरेर्नदी गिरिणदी तथा गिरिनदी मता ।क्लीबाव्ययं चोपनदं तथोपनदि च स्मृतम् ॥सप्तगोदावरं सप्तगङ्गं द्वियमुनं तथा ।देशे तून्मत्तगङ्गं स्यात्तथा लोहितगङ्गकम् ॥पारेगङ्गं तु गङ्गायाः पारे पूर्ववदीरितम् ।वहो नदो भिद्य उद्ध्यः सरस्वत्सम(प्त?)सिन्धवः ॥हिरण्यबाहुः शोणः स्यात्स्वर्णवाहोऽप्यसौ भवेत् ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1906 · p. 312
उद्ध्यो नदो वहो भिद्यः सरस्वान् बृहती नदी ॥ १९०६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.353 · p. 47
त्रिसामा कौशिकी मालिन्याद्या बह्व्यो महापगाः ।नदभेदौ तु भिद्योद्ध्यौ त्रिषु स्यात्सौरसैन्धवम् ॥ ३५३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.29 · p. 156
ताम्रपर्णी कृष्णवर्णा गोमत्याद्याश्च निम्नगाः ।नदः सरस्वान् भिद्योद्ध्यौ कुल्या कर्षूः कृता नदी ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.