कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

काण्डीर

kāṇḍīraपुं · masc.

In 11 kośas: 13 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.771 · p. 32
तूणी धनुर्भृद्धानुष्कः स्यात्काण्डीरस्तु काण्डवान् ॥ ७७१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.69
स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः ॥ ६९ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.238 · p. 115
धनुर्निषङ्गपर्यायमत्वर्थप्रत्ययी पुनः ।धनुर्धरोथ काण्डीरः काण्डवाञ्छक्तिहेतिकः ॥ २३८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.437 · p. 298
ताली तमाली ताम्रा च सूक्ष्मवल्ली पटुस्तु सः ।नासासंवेदनः काण्डकटुः काण्डीर इत्यपि ॥ ४३७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.61 · p. 180
तन्दुलीयोऽपि चण्डालः श्वगलो मेघनादकः ।काण्डीरस्तण्डुलीबीजो विषघ्नोऽपि घनस्वनः ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.92 · p. 262
लक्ष्यवेद्धा दूरपाती काण्डीरः काण्डवान्समौ ।प्रासिकः कौन्तिकस्तुल्यौ शाक्ती[119a]कः शक्तिहेतिकः ॥ ९२ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.380 · p. 149
धनुर्धरस्तु धानुष्कतूणिनावथ काण्डवान् ।काण्डीरः कृतहस्तस्तु सुप्रयुक्तशरो हि यः ॥ ३८० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.331 · p. 67
सुप्रयोगशरः साटी कृतहस्तो विलक्षणः ।बाणयुक्ते तु काण्डीरः काण्डवान्काण्डिकोऽपि च ॥ ३३१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1261 · p. 198
काण्डीरः काण्डवान् चापि काण्डधारी हि कथ्यते ॥ १२६१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.299 · p. 130
धनुष्मान् धन्विधानुष्कनिषङ्ग्यस्त्रिधनुर्धराः ।काण्डीरः काण्डवान् काण्डी काण्डमात्रायुधे जने ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1366 · p. 166
काण्डीरः काण्डधरो नैस्त्रिंशिक आसिकः खड्गी ।कृतहस्तः कृतपुङ्खः शिक्षितहस्तश्च सुप्रयोगशरः ॥ १३६६ ॥
उद्गीतिःmetre not read in every line
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.144 · p. 116
चर्मी शाक्तीकयाष्टीकपारश्वधिककौन्तिकाः ।काण्डीरखाड्गिकाद्याश्च चर्मशक्त्यादिधारिणः ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.78 · p. 129
कपिवल्ल्यां कोलवल्ली गण्डीरी हस्तिपिप्पली ।काण्डी वसीरकाण्डीरौ गृहकाण्डः शिरः पुमान् ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.451 · p. 85
काश्यपस्य तु पुत्रे द्वे काश्यपीति स्त्रियां भुवि ।क्ली तु मासेऽथ काण्डीरस्त्रिषु काण्डवति स्मृतः ॥ ४५१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.452 · p. 85
पुमांस्तु हस्तिपिप्पल्ल्यां क्षारकस्तु नृशण्डयोः ।पक्षिमत्स्यादिपिटके तथा स्यात् पुष्पजालके ॥ ४५२ ॥
अनुष्टुप्
doubtful