कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धानुष्क

dhānuṣkaपुं · masc.

In 12 kośas: 11 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.771 · p. 32
तूणी धनुर्भृद्धानुष्कः स्यात्काण्डीरस्तु काण्डवान् ॥ ७७१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.119
धन्वी धनुष्मान्धानुष्को निषङ्ग्यस्त्री धनुर्धरः ।
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.90 · p. 262
धानुष्का अस्त्रिणो धन्वधराश्चैव निषङ्गिणः ।तूणिनः कृतहस्तस्तु कृतपुङ्खश्च यः शरम् ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.190 · p. 32
सेनाधिपस्तु सेनानी साहस्रास्तु सहस्रिणः ।धन्वी धनुष्मान्धानुष्कः पुरोगमपुरःसरौ ॥ १९० ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 14 · p. 7
पुलिन्दः शवरो दस्युर्निषादो व्याधलुब्धकौ ।धानुष्कोऽथ किरातश्च सोऽरण्यानीचरः स्मृतः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.380 · p. 149
धनुर्धरस्तु धानुष्कतूणिनावथ काण्डवान् ।काण्डीरः कृतहस्तस्तु सुप्रयुक्तशरो हि यः ॥ ३८० ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.236 · p. 17
धनुर्धनो धनुर्जीवो धानुष्कश्चापजीवनः ।निर्याणं गमनं यात्रा प्रस्थानमभिषेणनम् ॥ २३६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1260 · p. 197
धनुर्धरश्च धानुष्को धनुष्मान् पुनरुच्यते ॥ १२६० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.299 · p. 130
धनुष्मान् धन्विधानुष्कनिषङ्ग्यस्त्रिधनुर्धराः ।काण्डीरः काण्डवान् काण्डी काण्डमात्रायुधे जने ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1365 · p. 166
जङ्गालः शीघ्रगामी स्याज्जङ्घाकारिकजाङ्घिकौ ।धानुष्कास्त्रिधनुर्धरधन्विधनुष्मन्निषङ्गिणस्तुल्याः ॥ १३६५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.143 · p. 115
काण्डपृष्ठस्त्वायुधिक आयुधीयोऽस्त्रजीवनः ।धन्वी धनुष्मान् धानुष्को निषंग्यस्त्री धनुर्धरः ॥ १४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्वा (wrong syllable)
genderपुंmasc.

धानुष्क as a meaning in nānārtha verses

  • नानार्थार्णवसंक्षेप धन्विन्धन्वी तु ना धनूराशौ धानुष्के तु भवेत् त्रिषु । धनुर्नृशण्डश्चापे क्ली चतुर्हस्तप्रमाणके ॥ ६३९ ॥ Nānārthārṇavasaṃkṣepa 2.5.639
  • शब्दरत्नावली सुधन्वन्सदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127