All kośas › Śāradīyākhyanāmamālā
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā
462 verses · 4,677 words tagged · 226 marked doubtful (dashed)
तृतीयः काण्डः · विड्वर्गः
इति राजवर्गः । ॥
वैदेहिकश्चापणिको नैगमो वाणिजो वणिक् ।पण्याजीवः सार्थवाहः क्रयविक्रयिकः क्रयी ॥ ४४ ॥
3.3.44 · p. 38
अनुष्टुप्
आपणो विपणिर्हट्टस्तन्मार्गे स्याच्चतुष्पथः ।धान्यं शस्यं च तद्भेदा मुद्गगोधूमतन्दुलाः ॥ ४५ ॥
3.3.45 · p. 38
अनुष्टुप्
अमत्रं भाजनं पात्रं पण्यं भाण्डं क्रयाणकम् ।वर्तनं जीवनं वृत्तिराजीवो जीविकापि च ॥ ४६ ॥
3.3.46 · p. 38
अनुष्टुप्
मूलद्रव्यं परिपणो नीवी लाभोऽधिकं फलम् ।सत्यापनं सत्यंकारो मूल्यवस्त्वर्थवक्रयाः ॥ ४७ ॥
3.3.47 · p. 39
अनुष्टुप्
संपत्तिः श्रीर्विभूतिश्च लक्ष्मीसंपत्समृद्धयः ।श्रीमान्समृद्धो लक्ष्मीवानिभ्य आढ्यो धनेश्वरः ॥ ४८ ॥
3.3.48 · p. 39
अनुष्टुप्
आपद्विप[द्विप]त्तिश्च दारिद्रं निःस्वनिर्धनौ ।कदर्यः कृपणो लोभी बद्धमुष्टिर्मितंपचः ॥ ४९ ॥
3.3.49 · p. 39
अनुष्टुप्