क्रान्ति
krāntiस्त्री · fem.In 9 kośas: 4 synonym verses, 8 as a meaning of another word.
आक्रमेऽधिक्रमक्रान्ती व्युत्क्रमस्तूत्क्रमाक्रमौ ।
अनुष्टुप्
genderस्त्रीfem.
वूर्तिः स्त्री वरणं द्वौ तु चल-चालौ नृलिङ्गकौ ।आक्रमोऽभिक्रमः क्रान्तिः स्यादारोहस्त्वभिक्रमः ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
आक्रमोऽधिक्रमः कान्तिराऽऽक्रमणे प्रयुज्यते ।
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable); pāda 4, syllable 3 म (wrong syllable)
genderस्त्रीfem.doubtful
आक्रमोऽभिक्रमः क्रान्तिर्व्युत्क्रमस्तूत्क्रमो मृतम् ।विक्रमः शौर्यकरणमत्याधानमतिक्रमः ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
क्रान्ति as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् विक्रमशब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः । Amarakośa 3.3.268
- धरणिकोश प्रक्रमश्यामो दमनके श्यामे क्षौमं पट्टदुकूलयोः । प्रक्रमोऽवसरे क्रान्तौ विभ्रमो भ्रान्तिहावयोः ॥ Dharaṇikośa 24.1.4
- धरणिकोश विक्रमविक्रमः शक्तिसंपत्तिः क्रान्तिमात्रं च विक्रमः । संक्रमः क्रमणे सम्यग्वारिसंचारवस्तुनि ॥ Dharaṇikośa 24.2.14
- कोषकल्पतरु विक्रमतथोपधायामथ विक्रमः स्यात् क्रान्तौ च शक्तेर्विभवे बले च । स्यात्संक्रमः संक्रमणेऽन्यराशि- गतौ रवेः संतरणे जलस्य ॥ ८१ ॥ Koṣakalpataru 6.25.81
- नानार्थार्णवसंक्षेप क्रमक्रमोऽङ्घ्रौ परिपाट्यां च वेदपाठान्तरे विधौ । क्रान्तौ स्थानकभेदे च द्वे त्वाख्वाह्वयमूषिके ॥ १४३ ॥ Nānārthārṇavasaṃkṣepa 2.5.143
- नानार्थार्णवसंक्षेप विक्रममहावैराजनाम्नश्च साम्नः प्रस्तावभक्तितः । परेषु दशसु स्तोमेष्वथ क्रान्तौ च विक्रमः ॥ १९४ ॥ Nānārthārṇavasaṃkṣepa 3.2.194
- शब्दरत्नावली विक्रमविक्रमः क्रान्तिमात्रे स्याच्छक्तिसम्पदि पुंस्यपि । संक्रमः क्रमणे पुंसि न स्त्री स्याद्दुर्गसञ्चरे ॥ Śabdaratnāvalī 7.25.43
- शब्दरत्नाकर धर्षणसुरतक्रान्तिधार्ष्ट्येषु धर्षणं धर्षणीत्वरी । धिषणा तु मनीषायां धिषणो देवदेशिके ॥ २१०६ ॥ Śabdaratnākara 4.1.2106