कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

सामान्यविभागः (4/4)

* अनुग्रहनाम *

स्वीकारेऽनुग्रहश्चैवाऽभ्युपपत्तिस्तथोच्यते ॥ २७४६ ॥
7.2746 · p. 447
अनुष्टुप्

* निग्रहनाम *

अस्वीकारे निरोधश्च निग्रहोऽपि निगद्यते ।
7.362 · p. 447
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्च (wrong syllable)

* अन्तरायनाम *

अन्तरायश्च प्रत्यूहो व्यवायो विघ्न इत्यपि ॥ २७४७ ॥
7.2747 · p. 447
अनुष्टुप्metre not read in every line

* समयनामानि *

समयोऽवसरो वारो वेला च प्रक्रमः क्षणः ।प्रस्तावोऽन्तरमित्यष्टौ क्षणनामानि सन्ति वै ॥ २७४८ ॥
7.2748 · p. 447
अनुष्टुप्

* आरम्भनामानि *

अभ्यादानं तथाऽऽरम्भः उपक्रमश्च प्रक्रमः ।उपोद्घातस्तथोद्घातो नामधेयानि सन्ति वै ॥ २७४९ ॥
7.2749 · p. 447
अनुष्टुप्metre not read in every line

* प्रत्युत्क्रमनामानि *

प्रत्युत्क्रान्तिः प्रयोगश्च प्रत्युत्क्रमो युधे गमः ।
7.366 · p. 447
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त्क्र (wrong syllable); pāda 3, syllable 7 क्र (wrong syllable)

* आरोहणनामानि *

आरोहणमभिक्रमः पर्वतादौ पदस्थितिः ॥ २७५० ॥
7.2750 · p. 447
metre not recognised

* आक्रमणनामानि *

आक्रमोऽधिक्रमः कान्तिराऽऽक्रमणे प्रयुज्यते ।
7.368 · p. 448
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable); pāda 4, syllable 3 म (wrong syllable)

* उत्क्रमनामानि *

क्रमं विना कृते कार्ये व्युत्क्रम उत्क्रमोऽक्रमः ॥ २७५१ ॥
7.2751 · p. 448
metre not recognised

* विरहनामानि *

वियोगो विप्रयोगश्च विप्रलम्भस्तथैव च ।विरहश्चेति चत्वारि नामान्यत्र भवन्ति वै ॥ २७५२ ॥
7.2752 · p. 448
अनुष्टुप्

* शोभानामानि *

आभाऽभिख्या विभूषा च शोभा कान्तिश्च विभ्रमः ।राढा छाया छविर्लक्ष्मीर्द्युतिः श्रीरपि कथ्यते ॥ २७५३ ॥
7.2753 · p. 448
अनुष्टुप्
एवं नामानि मन्यन्ते शोभायाः साक्षरैः सदा ।सुषमा परमा शोभा नाम विज्ञायतां पुनः ॥ २७५४ ॥
7.2754 · p. 448
अनुष्टुप्

* परिचयनाम *

परिचयः संस्तवश्च नामद्वयं निगद्यते ।
7.373 · p. 448
अनुष्टुप्metre not read in every line

* आकारनामानि *

इङ्ग इङ्गितमाऽऽकारो मनोभावप्रकाशने ॥ २७५५ ॥
7.2755 · p. 448
अनुष्टुप्metre not read in every line

* निमित्तनामानि *

निमित्तं कारणं योनिर्निदानञ्च निबन्धनम् ।बीजं हेतुश्च नामानि सप्तैव प्रथयन्ति वै ॥ २७५६ ॥
7.2756 · p. 449
अनुष्टुप्

* कार्यनामानि *

कार्यमर्थस्तथा कृत्यं प्रोक्तं प्रयोजनं पुनः ।
7.376 · p. 449
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)

* निष्ठानाम *

निष्ठा निर्वहणं नाम समाप्त्यर्थे हि मन्यते ॥ २७५७ ॥
7.2757 · p. 449
अनुष्टुप्metre not read in every line

* प्रवहनाम *

प्रवहो नाम विज्ञेयं जलादेर्गमने बहिः ।
7.378 · p. 449
अनुष्टुप्

* सामान्यनामानि *

जातिर्जातञ्च सामान्यं त्रीणि नामानि सन्ति वै ॥ २७५८ ॥
7.2758 · p. 449
अनुष्टुप्

* विशेषनामानि *

विशेषो नाम व्यक्तिश्च तथा स्यात् पृथगात्मिका ।
7.380 · p. 449
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable); pāda 4, syllable 3 त्र (wrong syllable)

* तिर्यक् नाम *

तिर्यक्साचिस्तथा साचि नामत्रयं निगद्यते ॥ २७५९ ॥
7.2759 · p. 449
metre not recognised

* स्पर्द्धानाम *

सङ्घर्षश्चैव संहर्षः स्पर्धा नामाऽपि कथ्यते ।
7.382 · p. 450
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्रि (wrong syllable)

* अपक्रियानाम *

द्रोहोऽपकारनाम स्यादपक्रियाऽपि मन्यते ॥ २७६० ॥
7.2760 · p. 450
अनुष्टुप्metre not read in every line

* व्यर्थनामानि *

बन्ध्यं वन्ध्यं मुधा मोघं व्यर्थे स्यादऽफलं पुनः ।
7.384 · p. 450
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 डु (wrong syllable)

* निरर्थकनामानि *

ख्यातं निरर्थकं नाम तदेवान्तर्गडु इति ॥ २७६१ ॥
7.2761 · p. 450
अनुष्टुप्metre not read in every line

* संस्थाननाम *

प्रसिद्धं नाम संस्थानं सन्निवेशोऽपि मन्यते ।
7.386 · p. 450
अनुष्टुप्

* व्ययनाम *

अर्थस्यापगमो लोके व्ययः प्राज्ञेन कथ्यते ॥ २७६२ ॥
7.2762 · p. 450
अनुष्टुप्

* अभिव्याप्तिनाम *

सम्मूर्च्छनमभिव्याप्तिः सर्वथा व्यापने भवेत् ।
7.388 · p. 450
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)

* भ्रंशनाम *

भ्रेषो भ्रंशो द्वयं नाम निपतने हि मन्यते ॥ २७६३ ॥
7.2763 · p. 450
अनुष्टुप्metre not read in every line

* नाशनाम *

नाशोऽभावो द्वयं नाम नाशस्य कथ्यते बुधैः ।
7.390 · p. 451
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)

* संक्रमनाम *

संक्रामः संक्रमश्चैव दुर्गसञ्चर उच्यते ॥ २७६४ ॥
7.2764 · p. 451
अनुष्टुप्metre not read in every line

* नीवाकनाम *

प्रयामश्च निवाकोऽपि नाम द्वयं प्रकीर्तितम् ।
7.392 · p. 451
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्व (wrong syllable)

* अवधाननाम *

अवधानेऽवधानं स्यादवेक्षा प्रतिजागरः ॥ २७६५ ॥
7.2765 · p. 451
अनुष्टुप्metre not read in every line

* विश्वासनामानि *

विश्रम्भश्च विश्वासो विस्त्रम्भोऽपि कथ्यते ।
7.394 · p. 451
अनुष्टुप्metre not read in every line

* विकारनामानि *

परिणामो विकारश्च विकृतिर्विक्रिया पुनः ॥ २७६६ ॥
7.2766 · p. 451
अनुष्टुप्metre not read in every line

* चक्रावर्तनामानि *

चक्रावर्तो भ्रमो भ्रान्तिर्भ्रमिर्घृणिश्च घूर्णनम् ।एतन्नामानि मन्यन्ते शब्दप्रयोगकारिणः ॥ २७६७ ॥
7.2767 · p. 451
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्घृ (wrong syllable); pāda 4, syllable 3 प्र (wrong syllable)

* विप्रलम्भनाम *

विप्रलम्भो विसंवादो मिथ्यावाक्कृतवस्तुनि ।
7.397 · p. 452
अनुष्टुप्

* समर्पणनाम *

समर्पणं विलम्बः स्यादतिदानेऽतिसर्जनम् ॥ २७६८ ॥
7.2768 · p. 452
अनुष्टुप्

* अनुभवनाम *

अनुभवोपलम्भौ च साक्षात्कारार्थदायिनौ ।
7.399 · p. 452
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 भ (wrong syllable)

* प्रतिलम्भनाम *

लम्भनं प्रतिलम्भश्च प्राप्त्यर्थे मन्यते द्वयम् ॥ २७६९ ॥
7.2769 · p. 452
अनुष्टुप्metre not read in every line

* नियोगनामानि *

विधिर्नियोगसम्प्रैषौ त्रीणि नामानि सन्ति वै ।
7.401 · p. 452
अनुष्टुप्

* विनियोगनाम *

विनियोगश्च नामेदं प्रोक्तं तत्फलदायिनि ॥ २७७० ॥
7.2770 · p. 452
अनुष्टुप्

* लवननामानि *

लवनमऽभिलावश्च लवोऽपि लवनार्थके ।
7.403 · p. 452
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)

* निष्पावनामानि *

निष्पावः पवनं चैव पवो नाम तृतीयकम् ॥ २७७१ ॥
7.2771 · p. 452
अनुष्टुप्metre not read in every line

* थूत्कृतनामानि *

थूत्कृतं ष्ठेवनं ष्ठ्यूतं निष्ठेवः ष्ठीवनं पुनः ।निष्ठेवनञ्च निष्ठ्यूतिर्निष्ठीवनं प्रयुज्यते ॥ २७७२ ॥
7.2772 · p. 453
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)

* निवृत्तिनामानि *

निवृत्तिराऽऽरतिश्चैवाऽवरतिर्विरतिस्तथा ।उपरम उपरतिः षष्ठं नाम प्रयुज्यते ॥ २७७३ ॥
7.2773 · p. 453
अनुष्टुप्metre not read in every line

* विधूनननामानि *

विधुननं विधूननं स्याद्विधुवनमित्यपि ।
7.407 · p. 453
अनुष्टुप्metre not read in every line

* स्खलननाम *

रिङ्खणं स्खलनं चैव स्खलनार्थे भवेद्द्वयम् ॥ २७७४ ॥
7.2774 · p. 453
अनुष्टुप्metre not read in every line

* रक्षानामानि *

त्राणं रक्षा च रक्षणश्च त्रीणि नामानि सन्ति वै ।ग्रहणार्थे ग्रहो ग्राहः स्याद्वेधस्तु व्यधोऽपि च ॥ २७७५ ॥
7.2775 · p. 453
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्षयः क्षिया क्षयार्थे हि कथ्यते कोविदैः किल ।
7.410 · p. 453
अनुष्टुप्

* स्फुरणनामानि *

स्फरणं स्फारणं चैव स्फुरणं स्फुलनं पुनः ॥ २७७६ ॥
7.2776 · p. 453
अनुष्टुप्
स्फुरणा स्फोरणं नाम षष्ठं विज्ञैः प्रयुज्यते ।
7.412 · p. 453
अनुष्टुप्

* जीर्णिनाम *

ज्यानिर्जीर्णिर्द्वयं नाम जीर्णतार्थे प्रयुज्यते ॥ २७७७ ॥
7.2777 · p. 454
अनुष्टुप्

* वरनाम *

वरो वृतिश्चतुर्दिग्भ्यो रोधने वरदानके ।
7.414 · p. 454
अनुष्टुप्

* समुच्चयनामानि *

समुच्चयः समाहारः समूहार्थे प्रयुज्यते ॥ २७७८ ॥
7.2778 · p. 454
अनुष्टुप्

* अपहारनामानि *

अपचयोऽपहारश्च हानिर्ह्रासे प्रयुज्यते ।
7.416 · p. 454
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 च (wrong syllable)

* प्रत्याहारनाम *

प्रत्याहार उपादानं द्वयं नामास्य बुध्यताम् ॥ २७७९ ॥
7.2779 · p. 454
अनुष्टुप्metre not read in every line

* बुद्धिशक्तिनाम *

निष्क्रमो बुद्धिशक्तिश्च द्वयं नामास्य मन्यते ।उपर्युक्ताः क्रियाशब्दा लक्ष्या धात्वर्थसंबलात् ॥ २७८० ॥
7.2780 · p. 454
अनुष्टुप्