विक्रम
vikramaपुं · masc.In 15 kośas: 18 synonym verses, 7 as a nānārtha head word, 8 as a meaning of another word.
पौरुषं विक्रमः शौर्यं शौटीर्यं च पराक्रमः ॥ ७३९ ॥
अनुष्टुप्
genderपुंmasc.
द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च ।शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता ॥ १०२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
प्राणः स्थाम बलं द्युम्नमोजः शुष्म तरः सहः ।प्रतापः पौरुषं तेजो विक्रमः स्यात्पराक्रमः ॥ ७२३ ॥
अनुष्टुप्
genderपुंmasc.
विक्रमं त्रिश्च दुश्चिक्यं चतुर्थं हि बुकं जलम् ।जननी मातृपातालं बन्धुतूर्यं सुखं सुहृत् ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
पुमान्पादोङ्घ्रिरङ्घ्रिः पत्क्रमणो विक्रमः क्रमः ।तन्मूलं गाहिरं क्लीबे पादाग्रं प्रपदं च षण् ॥ २१८ ॥
अनुष्टुप्
genderपुंmasc.
धीशक्तिर्विक्रमो दुर्गसंचरः संक्रमोऽस्त्रियाम् ।प्रत्युत्क्रमः प्रयोगार्थः स्यात्प्रक्रम उपक्रमः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
दण्डपारुष्यमित्येतद्धेयं व्यसनसप्तकम् ।पौरुषं विक्रमः[110b]शौर्यं शौण्डीर्यं च पराक्रमः ॥ ६८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
क्रमणकेसरि-केसरि-विक्रमा-निलरथैकशफा गृहभोजनः ।कुटच-चामरि-पालक-किण्विनःपरुल-वाडव-हंस-मुहुर्भुजः ।वडवाश्वा प्रसूर्वामी वाजिनी चार्वती हयी ।अश्वस्यन्ती कामुकी सा टारो लघुतुरंग[113b]मः ॥ ९ ॥
द्रुतविलम्बितम्two metres in one verse
genderपुंmasc.
न स्त्री बलसहे स्थाम-स्थामनी शुष्म-शुष्मणी ।ओजः शौर्यं च शक्तिः स्त्री विक्रमस्त्वतिशक्तिता ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
चित्राश्चर्याद्भुतं चोद्यं विस्मयः कौतुकोऽप्यहो ।अभियोगोद्यमोद्योगा उत्साहो विक्रमो मतः ॥ १७४ ॥
अनुष्टुप्
genderपुंmasc.
वचःपारुष्यपाने च पारुष्यं चार्थदण्डयोः ।पराक्रमोऽपि शौण्डीर्यं शौर्यविक्रमपौरुषम् ॥ ३५९ ॥
अनुष्टुप्
genderपुंmasc.
पराक्रमः पौरुषं च बलं शौर्यं च विक्रमम् ।ओजः प्राणस्तरः स्थाम शक्तिर्वीर्यं तथोर्जवत् ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
व्यवसायोद्यमोद्योगाभियोगोत्साहविक्रमाः ।खुरली तु श्रमोऽभ्यासः संवाहनं तु मर्दनम् ॥ ७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
genderपुंmasc.
शौण्डीर्यं पौरुषं शौर्यं विक्रमश्च पराक्रमः ।
अनुष्टुप्
genderपुंmasc.
विक्रमस्त्वतिशौर्ये स्याद् वृत्ते भाविनि वा रणे ।यत् पानं वीरपाणन्तु वीरपानं तदुच्यते ॥
अनुष्टुप्
genderपुंmasc.
द्वन्द्वं तु बाहुयुद्धं स्यान्नियुद्धमथ पौरुषम् ।तेजः पराक्रमः प्राणो विक्रमः शक्तिरित्यपि ॥ १३७९ ॥
अनुष्टुप्
genderपुंmasc.
आक्रमोऽभिक्रमः क्रान्तिर्व्युत्क्रमस्तूत्क्रमो मृतम् ।विक्रमः शौर्यकरणमत्याधानमतिक्रमः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
भूमानं विक्रमः पद्भ्यां निर्हारोऽभ्यवकर्षणम् ।अनुहारोऽनुकारः स्यात् परिहारो निवर्तना ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
विक्रमः शक्तिसंपत्तिः क्रान्तिमात्रं च विक्रमः ।संक्रमः क्रमणे सम्यग्वारिसंचारवस्तुनि ॥
अनुष्टुप्
महावैराजनाम्नश्च साम्नः प्रस्तावभक्तितः ।परेषु दशसु स्तोमेष्वथ क्रान्तौ च विक्रमः ॥ १९४ ॥
अनुष्टुप्
meaningsक्रान्ति
तथैव शक्तिसम्पत्तौ क्षान्तौ च रभसोऽपठीत् ।विष्टरस्त्वासने वृक्षे दर्भमुष्टौ च भाषितः ॥ १९५ ॥
अनुष्टुप्
doubtful
विक्रमः क्रान्तिमात्रे स्याच्छक्तिसम्पदि पुंस्यपि ।संक्रमः क्रमणे पुंसि न स्त्री स्याद्दुर्गसञ्चरे ॥
अनुष्टुप्
विक्रम as a meaning in nānārtha verses
- धरणिकोश द्रविणकुर्वाणः कारके भृत्ये धर्मणोऽहिद्रुभेदयोः । संकीर्णौ निचिताशुद्धौ द्रविणे वित्तविक्रमौ ॥ Dharaṇikośa 14.1.7
- धरणिकोश पराक्रमअनुपमापि दिङ्नागहस्तिनी मातुला च या । पराक्रमश्च सामर्थ्ये विक्रमोद्यमयोरपि ॥ Dharaṇikośa 24.2.20
- कोषकल्पतरु उपक्रमदिङ्नागे सकलक्षितेरधिपतौ स्यात्सार्वभौमस्तथा सर्वक्षोणिनिमित्तयोरपि मतः संयोगकोत्पातयोः । आरम्भेऽथ उपक्रमो गदचिकित्सोत्कोचयोर्विक्रमे- ऽथावर्ते जलगुल्म एव उदितः कूर्मे पयश्चत्वरे ॥ ९४ ॥ Koṣakalpataru 6.25.94
- नानार्थार्णवसंक्षेप प्रभवप्रभवः स्यादपां मूले विक्रमे जन्मकारणे । आद्योपलब्धिस्थानेऽथ प्रतापे स्यात् प्रभाववाक् ॥ १२४ ॥ Nānārthārṇavasaṃkṣepa 3.2.124
- परमानन्दीयनाममाला उपक्रमविक्रमे च चिकित्सायामुपधारम्भयोरपि । उपलब्धिर्मनीषायां प्राप्तौ ज्ञानेऽपि कथ्यते ॥ ७३ ॥ Paramānandīyanāmamālā 5.3.73
- शब्दरत्नावली उपक्रमज्ञात्वारम्भे विक्रमे स्याच्चिकित्सायामुपक्रमः । स्वीकारेऽप्यभ्यागमने भवेदुपगमः पुमान् ॥ Śabdaratnāvalī 7.25.46
- शब्दरत्नावली पराआलिङ्गने निरसने पूजा सन्तोषभाषणे । परा प्राधान्यमोक्षाभिमुख्यविक्रमहर्षणे ॥ प्रातिलोम्ये भृशार्थे च तथा गतिवधार्थयोः । पुरा पुराणे निकटे प्रबन्धातीतभाविषु ॥ स्वराकाशे शोभने च स्वर्गेऽपि च भावान्तरे ॥ Śabdaratnāvalī 8.1.53
- वैजयन्ती प्रभवप्रभवः स्यादपां मूले विक्रमे जन्मकारणे । आद्योपलब्धिस्थाने च पुद्गलो देह आत्मनि ॥ ५० ॥ Vaijayantī 7.1.50