कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

तृतीयं सामान्यकाण्डम् · नानार्थवर्गः (3/5)

समानाः सत्समैके स्युः पिशुनौ खलसूचकौ ॥ १२७ ॥
3.3.127
अनुष्टुप्
हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ ।
3.3.242
अनुष्टुप्
अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि ॥ १२८ ॥
3.3.128
अनुष्टुप्
कलापो भूषणे बर्हे तूणीरे संहतावपि ।
3.3.244
अनुष्टुप्
परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ ॥ १२९ ॥
3.3.129
अनुष्टुप्
गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी ।
3.3.246
अनुष्टुप्
बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम् ॥ १३० ॥
3.3.130
अनुष्टुप्
तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम् ।
3.3.248
अनुष्टुप्
प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥ १३१ ॥
3.3.131
अनुष्टुप्
भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी ।
3.3.250
अनुष्टुप्
कुतपो मृगरोमोत्थपटे चाह्नोऽष्टमेंऽशके ।
3.3.251
अनुष्टुप्
रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः ॥ १३२ ॥
3.3.132
अनुष्टुप्
अन्तराभवसत्त्वेऽश्वे गन्धर्वो दिव्यगायने ।
3.3.253
अनुष्टुप्
कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ ॥ १३३ ॥
3.3.133
अनुष्टुप्
पूर्वोऽन्यलिङ्गः प्रागाह पुम्बहुत्वेऽपि पूर्वजान् ।
3.3.255
अनुष्टुप्
कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ ॥ १३४ ॥
3.3.134
अनुष्टुप्
स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ ।
3.3.257
अनुष्टुप्
कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च ॥ १३५ ॥
3.3.135
अनुष्टुप्
स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् ।
3.3.259
अनुष्टुप्
स्यान्महारजने क्लीबं कुसुम्भं करके पुमान् ॥ १३६ ॥
3.3.136
अनुष्टुप्
क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् ।
3.3.261
अनुष्टुप्
सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः ॥ १३७ ॥
3.3.137
अनुष्टुप्
किरणप्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ ।
3.3.263
अनुष्टुप्
इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ ॥ १३८ ॥
3.3.138
अनुष्टुप्
धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः ।
3.3.265
अनुष्टुप्
उपायपूर्व आरम्भ उपधा चाप्युपक्रमः ॥ १३९ ॥
3.3.139
अनुष्टुप्
वणिक्पथः पुरं वेदो निगमो नागरो वणिक् ।नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु ॥ १४० ॥
3.3.140
अनुष्टुप्
शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः ।
3.3.268
अनुष्टुप्
स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मस्तु कुटिलेऽलसे ॥ १४१ ॥
3.3.141
अनुष्टुप्
उष्मोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः ।
3.3.270
अनुष्टुप्
गुल्मारुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः ॥ १४२ ॥
3.3.142
अनुष्टुप्
क्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु ।
3.3.272
अनुष्टुप्
त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा ॥ १४३ ॥
3.3.143
अनुष्टुप्
ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ।
3.3.274
अनुष्टुप्
सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु ॥ १४४ ॥
3.3.144
अनुष्टुप्
वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ ।
3.3.276
अनुष्टुप्
जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् ॥ १४५ ॥
3.3.145
अनुष्टुप्
तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ ।
3.3.278
अनुष्टुप्
श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ ॥ १४६ ॥
3.3.146
अनुष्टुप्
पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः ।
3.3.280
अनुष्टुप्
तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे ॥ १४७ ॥
3.3.147
अनुष्टुप्
प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ।रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ॥ १४८ ॥
3.3.148
अनुष्टुप्
स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते ।
3.3.283
अनुष्टुप्
समयाः शपथाचारकालसिद्धान्तसंविदः ॥ १४९ ॥
3.3.149
अनुष्टुप्
व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः ।
3.3.285
अनुष्टुप्
अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि ॥ १५० ॥
3.3.150
अनुष्टुप्
युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च ।
3.3.287
अनुष्टुप्
पश्चादवस्थायि बलं समवायश्च सन्नयौ ॥ १५१ ॥
3.3.151
अनुष्टुप्
सङ्घाते सन्निवेशे च संस्त्यायः प्रणयास्त्वमी ।विस्रम्भयाच्ञाप्रेमाणो विरोधेऽपि समुच्छ्रयः ॥ १५२ ॥
3.3.152
अनुष्टुप्
विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ।
3.3.290
अनुष्टुप्
निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः ॥ १५३ ॥
3.3.153
अनुष्टुप्
प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि ।
3.3.292
अनुष्टुप्
रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः ॥ १५४ ॥
3.3.154
अनुष्टुप्
वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये ।
3.3.294
अनुष्टुप्
धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्म शुभाशुभम् ॥ १५५ ॥
3.3.155
अनुष्टुप्
कशेरुहेम्नोर्गाङ्गेयं विशल्या दन्तिकापि च ।
3.3.296
अनुष्टुप्
वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः ॥ १५६ ॥
3.3.156
अनुष्टुप्
आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् ।उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः ॥ १५७ ॥
3.3.157
अनुष्टुप्
छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः ।
3.3.299
अनुष्टुप्
कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने ॥ १५८ ॥
3.3.158
अनुष्टुप्
कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः ।
3.3.301
अनुष्टुप्
जन्यः स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च ॥ १५९ ॥
3.3.159
अनुष्टुप्
गर्ह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ ।
3.3.303
अनुष्टुप्
आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि ॥ १६० ॥
3.3.160
अनुष्टुप्
रूप्यं प्रशस्ते रूपेऽपि वदान्यो वल्गुवागपि ।
3.3.305
अनुष्टुप्
न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते ॥ १६१ ॥
3.3.161
अनुष्टुप्
निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ ।
3.3.307
अनुष्टुप्
गुरू गीर्पतिपित्राद्यौ द्वापरौ युगसंशयौ ॥ १६२ ॥
3.3.162
अनुष्टुप्
प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती ।
3.3.309
अनुष्टुप्
किंशारू सस्यशूकेषु मरू धन्वधराधरौ ॥ १६३ ॥
3.3.163
अनुष्टुप्
अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ ।
3.3.311
अनुष्टुप्
ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः ॥ १६४ ॥
3.3.164
अनुष्टुप्
प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि ।
3.3.313
अनुष्टुप्
अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूवरौ ॥ १६५ ॥
3.3.165
अनुष्टुप्
स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः ।
3.3.315
अनुष्टुप्
मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु ॥ १६६ ॥कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः ।
3.3.316
अनुष्टुप्
वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि ॥ १६७ ॥
3.3.167
अनुष्टुप्
मखेषुयूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः ।
3.3.318
अनुष्टुप्
आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते ॥ १६८ ॥
3.3.168
अनुष्टुप्
अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च ।
3.3.320
अनुष्टुप्
स्याज्जङ्गमे परीवारः खड्गकोषे परिच्छदे ॥ १६९ ॥
3.3.169
अनुष्टुप्
विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् ।
3.3.322
अनुष्टुप्
द्वारि द्वाःस्थे प्रतीहारः प्रतीहार्यप्यनन्तरे ॥ १७० ॥
3.3.170
अनुष्टुप्
विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु ।
3.3.324
अनुष्टुप्
सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु ॥ १७१ ॥
3.3.171
अनुष्टुप्
दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् ।
3.3.326
अनुष्टुप्
महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम् ॥ १७२ ॥
3.3.172
अनुष्टुप्
मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु ।
3.3.328
अनुष्टुप्
देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये ॥ १७३ ॥
3.3.173
अनुष्टुप्
वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना ।
3.3.330
अनुष्टुप्
ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् ॥ १७४ ॥
3.3.174
अनुष्टुप्
यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ।शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ १७५ ॥
3.3.175
अनुष्टुप्
शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ ।
3.3.333
अनुष्टुप्
इरा भूवाक्सुराप्सुस्यात्तन्द्रा निद्राप्रमीलयोः ॥ १७६ ॥
3.3.176
अनुष्टुप्
धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि ।
3.3.335
अनुष्टुप्
क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ॥ १७७ ॥त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे ।अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे ॥ १७८ ॥
3.3.178
अनुष्टुप्
आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः ।
3.3.337
अनुष्टुप्
योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः ॥ १७९ ॥
3.3.179
अनुष्टुप्
निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः ।
3.3.339
अनुष्टुप्
स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः ॥ १८० ॥
3.3.180
अनुष्टुप्
मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च ।
3.3.341
अनुष्टुप्
सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च ॥ १८१ ॥
3.3.181
अनुष्टुप्
अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि ।
3.3.343
अनुष्टुप्
चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च ॥ १८२ ॥
3.3.182
अनुष्टुप्
स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम् ।
3.3.345
अनुष्टुप्
गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे ॥ १८३ ॥
3.3.183
अनुष्टुप्
पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् ।मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे ॥ १८४ ॥
3.3.184
अनुष्टुप्
दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ ।
3.3.348
अनुष्टुप्
तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे ॥ १८५ ॥
3.3.185
अनुष्टुप्
औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने ।
3.3.350
अनुष्टुप्
पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले ॥ १८६ ॥व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः ।
3.3.351
अनुष्टुप्metre not read in every line
अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये ॥ १८७ ॥छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ।
3.3.352
अनुष्टुप्metre not read in every line
मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम् ॥ १८८ ॥
3.3.188
अनुष्टुप्metre not read in every line
शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् ।
3.3.354
अनुष्टुप्
गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः ॥ १८९ ॥
3.3.189
अनुष्टुप्
जठरः कठिनेऽपि स्यादधस्तादपि चाधरः ।
3.3.356
अनुष्टुप्
अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले ॥ १९० ॥
3.3.190
अनुष्टुप्
उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः ।एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः ॥ १९१ ॥
3.3.191
अनुष्टुप्
स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ ।
3.3.359
अनुष्टुप्
उदारो दातृमहतोरितरस्त्वन्यनीचयोः ॥ १९२ ॥
3.3.192
अनुष्टुप्