कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · मान्ताः

भान्ताः ।

मो ब्रह्मणि शिवे चन्द्रे मा लक्ष्मीमानमातृषु ।मूर्बन्धने स्त्रियामेव मा निषेधे बदव्ययम् ॥
7.25.1 · p. 252
अनुष्टुप्
आमोऽपक्वेऽन्यलिङ्गः स्याद्रोगरोगभिदोः पुमान् ।उमा गौर्य्यतसी कीर्तिहरिद्राकान्तिशान्तिषु ॥
7.25.2 · p. 253
अनुष्टुप्
ऊर्भिर्द्वयोस्तरङ्गे स्याद्भङ्गे वेगप्रकाशयोः ।वस्त्रसङ्को च रेखायां पीडावेदनयोरपि ॥
7.25.3 · p. 253
अनुष्टुप्
क्रमोऽनुक्रमशक्त्योर्ना कल्पाक्रमणयोरपि ।क्षमा क्षान्तौ क्षितौ स्त्री तु क्षमं युक्ते नपुंसकम् ॥वाच्यलिङ्गं हिते शक्ते क्षये क्षीणेऽबले त्रिषु ।कामः स्मरेच्छयोः कामं काम्ये वीर्यनिकामयोः ॥
7.25.4 · p. 253
अनुष्टुप्
कामिः पुंसि कामुके स्यादथ रत्यामपि स्त्रियाम् ।किंक्षेपे च वितर्के च वाच्यवत्प्रश्ननिन्दयोः ॥कृमिः क्रिमिः पुंसि कीटे लाक्षायां कृमिले खरे ।किर्मी स्त्री हेमपुत्याञ्च शालापलालयोरपि ॥
7.25.5 · p. 253
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 सि (wrong syllable)nearly अनुष्टुप्: pāda 4, syllable 3 प (wrong syllable)
क्षुमा स्त्रियामतस्याञ्च नालिकायां लताभिदि ।क्षेमं लब्धरक्षणे स्याच्चण्डानामौषधे पुमान् ॥
7.25.6 · p. 253
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ब्ध (wrong syllable)
अस्त्रियान्तु शुभे वल्ये क्षेमा गौर्य्यामपि स्त्रियाम् ।क्षौमं स्याद्दुकूले चाट्टे पुनपुंसकयोरिह ॥क्षौमन्तु शणजेऽपि स्यादतसीजे नपुंसकम् ।खर्मश्च पौरुषेऽपि स्यात्कोषजांशुक इत्यपि ॥गमो नाक्षविवर्ते स्यादपर्यालोचिते पथि ॥
7.25.7 · p. 253
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कू (wrong syllable)
ग्रामः पुमान् संवसथे समूहस्वरभेदयोः ।गुल्मः सेना सैन्यरक्षाधहभिद्व्याधिभित्सु च ॥
7.25.8 · p. 253
अनुष्टुप्
वस्त्रवेश्मामलक्येलावनीस्तम्बेषु च स्त्रियाम् ।घर्मो ग्रीष्मातपोष्णेषु स्वेदाम्भसि भवेत्पुमान् ॥
7.25.9 · p. 253
अनुष्टुप्
चमूः सेनामात्रकेतु सेनाभेदेऽपि च स्त्रियाम् ।जाल्मः क्रूरे पामरेऽसमीक्ष्यकारिण्यपि त्रिषु ॥जिह्मः स्यात्कुटिले मन्दे क्लीबं तगरभूरुहे ।तोक्मं कर्णमले ना तु हरिते च हरिद्यवे ॥
7.25.10 · p. 253
अनुष्टुप्
दमो दन्ते च दमथे दमने कर्दमे पुमान् ।दस्मो ना यजमाने स्यात्खले चौरहुताशयोः ॥
7.25.11 · p. 253
अनुष्टुप्
द्रुमः किम्पुरुषे कामे पारिजाते महीरुहे ।धर्मोऽस्त्री सुकृता चारस्वभावोपनिषत्सु च ॥
7.25.12 · p. 253
अनुष्टुप्
हिंसोपमाक्रतुन्याये ना धनुर्यमसोमपे ।ध्यानं श्यामे त्रिषु क्लीबं दमने गन्धखटके ।नेमिः कूपत्रिकाचक्रान्तयोः स्त्री तिनिशे पुमान् ॥
7.25.13 · p. 253
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ख (wrong syllable)
नेमः खण्डेऽवधौ गर्ते नाहादौ कैतवान्ययोः ।पद्मोऽस्त्रीपद्मके पद्मे निधिसंख्याभिदोर्न्नजौ(?) ।नागे ना स्त्री चारटी-श्री-फञ्जिका-पन्नगीषु च ॥
7.25.14 · p. 254
अनुष्टुप्metre not read in every line
ब्रह्मी मत्स्यप्रभेदे स्यात्फञ्जिकाशाकयोः स्त्रियाम् ।ब्राह्मी स्त्रियां सोमवल्लीभारतीब्रह्मशक्तिषु ॥भ्रमः कुन्दभमणयोः भ्रान्तौ च जलनिर्गमे ।भामः स्याद्भास्करे क्रोधे दीप्तौ च भगिनीपतौ ॥
7.25.15 · p. 254
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द (wrong syllable)
भीष्मो घोरतरेऽपि स्याद् गाङ्गेयेऽपि च पुंस्ययम् ।भीमो घोरे शिवे मध्यपाण्डवे चाम्लवेतसे ॥अथ भूमिः स्थानमात्रे पृथिव्यामपि च स्त्रियाम् ।भौमस्त्रिषु भूमिभवे पुंसि स्यान्नरके कुजे ॥यमः शत्रौ च शमने काके ना यमजेऽन्यवत् ।ना देहसाधनापेक्षनित्यकर्मणि संयमे ॥यामस्तु प्रहरे पुंसि संयमावसयोरपि (?) ॥
7.25.16 · p. 254
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 षु (wrong syllable)
यामिः स्त्री स्याद्भग्नित्याञ्च यामिन्याञ्च कुलस्त्रियाम् ॥
7.25.17 · p. 254
रमा लक्ष्म्यां रमः कान्ते कामे च रक्तवञ्जुले ।रामो हलिनि शारङ्गे राघवे वरुणे हये ॥
7.25.18 · p. 254
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
रेणुकातनये पुंसि त्रिषु चारुसितासिते ।वास्तूककुष्ठयोः क्लीबं नारी हिङ्गुलयोः स्त्रियाम् ॥
7.25.19 · p. 254
अनुष्टुप्
रुमा स्त्रियां लवणभित्सुग्रीवकान्तयोः स्त्रियाम् ।अथ लक्ष्मीस्तु सम्पत्त्यां शोभायां वरयोषिति ॥वृद्धिनामौषधे फल्यां कमलायामपि स्त्रियाम् ।वमिर्वान्तौ स्त्रियामेव पुंसि धूर्ते हुताशने ॥
7.25.20 · p. 254
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
वामः स्तने हरे कामे पुंसि क्लीबं धनेऽपि च ।चारुप्रतीपसव्येषु नार्यामपि वामा स्त्रियाम् ॥
7.25.21 · p. 254
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 वा (wrong syllable)
वामी शृगाली करभी रामभी वडवासु च ।श्यामः कृष्णे पिके मेघे हरिते वृद्धदारके ॥
7.25.22 · p. 254
अनुष्टुप्
प्रयागस्य वटे पुंसि स्यादयं तद्वति त्रिषु ।सैन्धवे मरिचे क्लीबं स्त्रियान्तु सारिवोषधौ ॥
7.25.23 · p. 254
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)
नीलिकायां त्रियामायां यमुनायाञ्चवागुजौ ।प्रियङ्गौ त्रिवृतौषध्यामप्रसूताङ्गनासु च ॥
7.25.24 · p. 254
अनुष्टुप्
श्रामो मासे च काले च पुंसि मण्डपकाणयोः ॥
7.25.25 · p. 254
शुष्मं वीर्ये रवौ पुंसि समा स्याद्वत्सरे स्त्रियाम् ।साधुसर्वसमानेषु समं स्याद्वाच्यलिङ्गकम् ॥
7.25.26 · p. 254
अनुष्टुप्
सीमाऽवधिस्थितिक्षेत्रेष्वण्डकोषेऽपि च स्त्रियाम् ।सूक्ष्मो नाकतकेद्यात्मे क्लीबं स्यात्त्रिषु चाल्पके ॥
7.25.27 · p. 255
अनुष्टुप्
सूमं नपुंसकं क्षीरे सलिले च वियत्यपि ।सोमश्चन्द्रे समीरे च पितृदेवे धनाधिपे ॥
7.25.28 · p. 255
अनुष्टुप्
कर्पूरवसुभिन्नीर कपि सोमलतासु च ।हिमं शीते मलयजे क्लीबं स्याच्छीतलेऽन्यवत् ॥
7.25.29 · p. 255
अनुष्टुप्
होमिः पुमान् वीतिहोत्रे घृते च सलिलेऽपि च ।
7.25.30 · p. 255
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 र्ह्य (wrong syllable)
अधमो गर्ह्यन्यूने स्यादागमः शास्त्र आगतौः ॥
7.25.31 · p. 255
metre not recognised
आश्रमो ब्रह्मचर्यादौ वानप्रस्थे वने मठे ।उद्दामो वरुणे बन्धरहिते च स्वतन्त्रके ॥
7.25.32 · p. 255
अनुष्टुप्
कलमः पुंसि लेखन्यां शालौ पाटच्चरेऽपि च ।कुसुमन्तु फले पुष्पे स्त्रीरजोनेत्ररोगयोः ॥
7.25.33 · p. 255
अनुष्टुप्
गोलोमी श्वेतदूर्वायां वचायां भूतकेशरे ।गोधूमोऽपि च नारङ्गे व्रीहिभिदौषधीभिदोः ॥
7.25.34 · p. 255
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भि (wrong syllable)
गौतमः पुंसि बुद्धे च मुनिभेदे च कीर्त्यते ।गौतमी स्त्री तु दुर्गायां रोचनी शप्तसीभिदोः ॥
7.25.35 · p. 255
अनुष्टुप्
तलिमं कुट्टिमे तल्पे वितानचन्द्रहासयोः ।निष्क्रमो वृद्धिसंप्राप्तौ दुष्कुले निर्गमेऽपि च ॥
7.25.36 · p. 255
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
निगमो वाणिजे वेदे कटे पूर्यां वणिक्पथे ।नियमश्च प्रतिज्ञायां मन्त्रणानिश्चयव्रते ॥
7.25.37 · p. 255
अनुष्टुप्
नैगमो नागरे पुंसि वणिज्युपनिषद्यपि ।प्रथमस्तु भवेदाद्ये प्रधानेऽप्यभिधेयवत् ॥प्रतिमाऽनुकृतौ कुम्भिदन्तवन्धेऽपि च स्त्रियाम् ।पञ्चमो रागभेदे स्यात्स्वरभेदे भवेत्पुमान् ॥
7.25.38 · p. 255
अनुष्टुप्
पञ्चमी स्त्री तु पाञ्चाल्यां पञ्चानां पूरणे त्रिषु ।मध्यमः स्वरभिन्मध्यदेशयोर्मध्यजेऽन्यवत् ॥अवलग्नेऽस्त्रियां स्त्री तु नार्यां दृष्टरजस्यपि ।ल्यक्षरच्छन्दसि तथा कर्णिकाङ्गुलिभेदयोः ॥
7.25.39 · p. 255
अनुष्टुप्
ललामं भूषणे शृङ्गे प्रधाने लाञ्छने ध्वजे ।हयवालधिपुण्ड्रेषु प्रभावेऽपि च न द्वयोः ॥
7.25.40 · p. 255
अनुष्टुप्
विभ्रमो भ्रमणे भ्रान्तौ स्त्रीणां शृङ्गारभावजे ।विद्रुमः स्यात्प्रवालेऽपि रत्नवृक्षे पुमानयम् ॥
7.25.41 · p. 255
अनुष्टुप्
विलोमो भुजगे वह्नौ प्रतीपे वरुणे शुनि ।आमलक्यां विलोमी च क्लीबं स्यादरघट्टके ॥
7.25.42 · p. 255
अनुष्टुप्
विक्रमः क्रान्तिमात्रे स्याच्छक्तिसम्पदि पुंस्यपि ।संक्रमः क्रमणे पुंसि न स्त्री स्याद्दुर्गसञ्चरे ॥
7.25.43 · p. 256
अनुष्टुप्
सम्भ्रमः पुंसि संवेगादरयोः साध्वसेऽपि च ।सरमा राक्षसीभेदे कुक्कुर्यामपि च स्त्रियाम् ॥सुषमाऽत्यन्तशोभायां स्त्री मनोज्ञे समे त्रिषु ।सुषीमो नागभेदे ना मनोज्ञशीतयोस्त्रिषु ॥
7.25.44 · p. 256
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज्ञ (wrong syllable)
स्त्री सुप्रतीकहस्तिन्यां श्रेष्ठत्वनुपमस्त्रिषु ।वैराघातनिकटाभ्युत्थानेऽप्यभ्यागमः पुमान् ॥
7.25.45 · p. 256
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
ज्ञात्वारम्भे विक्रमे स्याच्चिकित्सायामुपक्रमः ।स्वीकारेऽप्यभ्यागमने भवेदुपगमः पुमान् ॥
7.25.46 · p. 256
अनुष्टुप्
कूर्मनीराङ्गनावर्ते जलगुल्मो निगद्यते ।दिनेऽगस्त्ये पितृपतौ दण्डयामः पुमानयम् ॥
7.25.47 · p. 256
अनुष्टुप्
शाखामृगे पक्षिभेदे मण्डूके च प्लवङ्गमः ।सामर्थ्योद्योगनिष्क्रान्तिष्वपि पुंसि पराक्रमः ॥
7.25.48 · p. 256
अनुष्टुप्
संख्याभेदे निधौ नागे महापद्मो भवेत्पुमान् ।परिभुक्तोज्झिते जीर्णे यातयामोऽपि वाच्यवत् ॥
7.25.49 · p. 256
अनुष्टुप्
दिङ्नागे सर्वपृथ्वीशे सार्वभौमः पुमान् भवेत् ।
7.25.50 · p. 256
अनुष्टुप्
अथाभ्युपगमः पुंसि स्वीकारे निकटागमे ॥
7.25.51 · p. 256
अनुष्टुप्
नक्षवनेमी रेवत्यां स्त्रियां ना ध्रुवचन्द्रयोः ॥
7.25.52 · p. 256