कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

द्व्यक्षरकाण्डः · नानालिङ्गाध्यायः (2/14)

अंशौ तु पुंसि तेनोक्त एतस्तु नरि कर्बुरे ।गुणमात्रे तद्वति तु त्रिषु स्यादागतेऽप्यथ ॥ १२१ ॥
2.5.121 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
आगतौ क्लीबमैन्द्री तु महेन्द्रस्य दिशि स्त्रियाम् ।विशालासंज्ञवल्ल्यां च त्रि तु स्यादिन्द्रयोगिनि ॥ १२२ ॥
2.5.122 · p. 53
अनुष्टुप्
पुमांस्तु यज्ञक्रतुषु सर्वेष्वैन्द्रो द्वयोः पुनः ।ऐन्द्रिरिन्द्रसुते कृष्णकाकेऽप्यैभस्तु पुंस्ययम् ॥ १२३ ॥
2.5.123 · p. 53
अनुष्टुप्
हस्तिकर्कोटकाभिख्यवल्ल्यां क्लीबं तु तत्फले ।इभसम्बन्धिनि त्रि स्यादोषो दाहे नरि त्रि तु ॥ १२४ ॥
2.5.124 · p. 53
अनुष्टुप्
क्षिप्रे रक्तफलासंज्ञवल्ल्यां (चो?त्वो)ष्ठी स्त्रियामथ ।ओष्ठो दन्तच्छदे पुंसि मार्जारे त्वोतुवाग्द्वयोः ॥ १२५ ॥
2.5.125 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्ली तु सामविशेषे स्यादौर्वो ना बडवानले ।ऊर्वसम्बन्धिनि त्रि स्यात् कल्यस्तु त्रिषु नीरुजि ॥ १२६ ॥
2.5.126 · p. 53
अनुष्टुप्
कल्याणवाचि दक्षे च सज्जे क्ली तु गते दिने ।सांवत्सरास्तु लग्नाख्यराशौ चैनमधीयते ॥ १२७ ॥
2.5.127 · p. 54
अनुष्टुप्
प्रभातेऽथ सुरायां स्त्री ना कक्षः कच्छवीरुधोः ।तृणे स्पर्धापदे बाहुमूलेऽरण्ये च दुर्गमे ॥ १२८ ॥
2.5.128 · p. 54
अनुष्टुप्
स्त्रियां तु परिधानस्य पश्चादञ्चलपल्लवे ।केचित् तु बाहुमूलेऽपि कक्षां स्त्रियमधीयते ॥ १२९ ॥
2.5.129 · p. 54
अनुष्टुप्
कणोऽतिसूक्ष्मे बाणे च तण्डुलावयवे च ना ।सक्तुष्वप्याह पुंभूम्नि तदेकावयवेऽन्यथा ॥ १३० ॥
2.5.130 · p. 54
अनुष्टुप्
कणा स्त्री जीरके सूक्ष्मजीरकेऽप्यपरे विदुः ।पिप्पल्यां च द्वयोस्तु स्यान्मर्त्यजात्यन्तरे क्वचित् ॥ १३१ ॥
2.5.131 · p. 54
अनुष्टुप्
निषादाद्द्रमिडीजाते कर्णस्तु श्रवणे पुमान् ।नावः पृष्ठस्थितारित्रे राधातनयभूभुजि ॥ १३२ ॥
2.5.132 · p. 54
अनुष्टुप्
क्षेत्रभेदेऽप्यथ त्रि स्थाच्छ्रोत्रहीनपशावपि ।क्षोदिष्ठेऽप्यथ कर्णी स्त्री पशूनां बन्धनार्थके ॥ १३३ ॥
2.5.133 · p. 54
अनुष्टुप्
रज्जुभेदे कला तु स्त्री षोडशांशे हिमद्युतेः ।अंशेऽवयवमात्रे च कलनायां च वैशिके ॥ १३४ ॥
2.5.134 · p. 54
अनुष्टुप्
त्रिंशत्काष्ठीप्रमाणे च काले वृद्धावृणस्य च ।शिल्पे मनः शिलायां च देहधात्वन्तरे तनौ ॥ १३५ ॥
2.5.135 · p. 54
अनुष्टुप्
गीतौ कुड्यच्छदिःसन्धावित्युक्तार्थास्त्रयोदश ।यत्तु वाररुचे वाक्ये कलार्थत्वेन दृश्यते ॥ १३६ ॥
2.5.136 · p. 54
अनुष्टुप्
धनं तदृणवृद्धिस्थं केवलं वेति संशयः ।पुंसि त्वङ्गुष्ठसंस्पर्शे वीणातन्त्रीषु शाखिनः ॥ १३७ ॥
2.5.137 · p. 54
अनुष्टुप्
तिलकाख्यस्य पुष्पस्य गन्धे तद्वति तु त्रिषु ।अव्यक्तमधुरे शब्दे मूकेऽप्यथ करो नरे ॥ १३८ ॥
2.5.138 · p. 55
अनुष्टुप्
रश्मौ पाणौ महीपस्य भागधेये घनोपले ।अजयस्त्वाह मुद्रायां हिंसाविक्षेपयोरपि ॥ १३९ ॥
2.5.139 · p. 55
अनुष्टुप्
श्वेतशालौ गजघ्राणे क्ली तु वारिदकार्मुके ।कल्कस्तुरुष्कसंज्ञाकनिर्यासे ना न तु स्त्रियाम् ॥ १४० ॥
2.5.140 · p. 55
अनुष्टुप्
दम्भे पापाशये पापे स्याद्विष्ठौषधपिष्टयोः ।किट्टेऽप्यथ पलोन्मानचतुर्भागे नृशण्डयोः ॥ १४१ ॥
2.5.141 · p. 55
अनुष्टुप्
कर्षं कृषिक्रियायां ना कण्वस्त्वृष्यन्तरे पुमान् ।पापे क्ली बधिरे तु त्रिर्मेधाविनि च ना पुनः ॥ १४२ ॥
2.5.142 · p. 55
अनुष्टुप्
क्रमोऽङ्घ्रौ परिपाट्यां च वेदपाठान्तरे विधौ ।क्रान्तौ स्थानकभेदे च द्वे त्वाख्वाह्वयमूषिके ॥ १४३ ॥
2.5.143 · p. 55
अनुष्टुप्
क्षमा क्षान्तिपृथिव्योः स्त्री त्रिषु योग्यसमर्थयोः ।न्याये हिते क्षपा तु स्त्री निशीथिन्यां पुमांस्तु सः ॥ १४४ ॥
2.5.144 · p. 55
अनुष्टुप्
गोजाविमहिषाणां स्यादत्यार्द्रच्छगणे तथा ।धान्यस्तम्बे समाम्नाये त्वम्बुनामसु दृश्यते ॥ १४५ ॥
2.5.145 · p. 55
अनुष्टुप्
क्षप इत्येवमेतस्य लिङ्गं रूपं च चिन्त्यताम् ।कचो बृहस्पतेः पुत्रे केशे चापि नृलिङ्गकः ॥ १४६ ॥
2.5.146 · p. 55
अनुष्टुप्
नृजातिभेदे शनकीक्षत्त्रियप्रभवे द्वयोः ।कशा स्त्री वाजिताडन्यां द्वे तु रोमशपुच्छके ॥ १४७ ॥
2.5.147 · p. 55
अनुष्टुप्
नकुलस्य प्रभेदे स्यान्मर्त्यजात्यन्तरे तथा ।डिण्डिकीवैश्यजे क्ली तु कञ्जं पद्मे कचे तु ना ॥ १४८ ॥
2.5.148 · p. 55
अनुष्टुप्
कच्छो जलाशयप्रान्ते पार्श्वे गुह्याम्बरे तथा ।जात्यन्तरे स्थावराणां नान्दीवृक्षाख्यपादपे ॥ १४९ ॥
2.5.149 · p. 55
अनुष्टुप्
कूर्मपादे च पुंसि स्यादथ स्यात् पुंसि भूमनि ।नीवृद्भेदेऽथ सिंहोऽमुमनूपे पुंस्यमन्यत ॥ १५० ॥
2.5.150 · p. 56
अनुष्टुप्
कच्छं क्लीबेऽनूपदेश इति त्वमरदत्तवाक् ।क्षरो धाराधरे पुंसि सलिले तु नपुंसकम् ॥ १५१ ॥
2.5.151 · p. 56
अनुष्टुप्
ऋतौ प्रावृट्समाख्ये स्त्री क्षरी क्षरितरि त्रिषु ।क्षतं व्रणे क्ली क्षणने लग्नात् षष्ठे च राशिके ॥ १५२ ॥
2.5.152 · p. 56
अनुष्टुप्
इति सांवत्सराः प्राहुस्त्रि तु स्यात् खण्डिते हते ।क्षत्रं तु स्याद्धने तोये क्षत्त्रिये च नपुंसकम् ॥ १५३ ॥
2.5.153 · p. 56
अनुष्टुप्
पुंसि त्वमरदत्तोऽमुं क्षत्त्रिये प्राब्रवीदथ ।कंसो ना पूर्वभूपालभेदे कृष्णस्य मातुले ॥ १५४ ॥
2.5.154 · p. 56
अनुष्टुप्
पानपात्रान्तरे त्वस्त्री लोहे घोषाख्य आढके ।अजयस्त्वाह हंसेऽपि तत्र लिङ्गं द्वयोरिति ॥ १५५ ॥
2.5.155 · p. 56
अनुष्टुप्
कन्दोऽस्त्री सूरणे मूलसस्यमात्रेऽप्यथो कटः ।पर्यन्तदेशे ग्रामादेः किलिञ्जगजगण्डयोः ॥ १५६ ॥
2.5.156 · p. 56
अनुष्टुप्
शवे शवरथे श्रोणिफलके कालकूटके ।सज्जनस्त्वाह वलयेऽप्येष्वर्थेषु पुमानयम् ॥ १५७ ॥
2.5.157 · p. 56
अनुष्टुप्
लवणे त्वब्धिजे क्लीबे वाक्पतिस्तु नृशण्डयोः ।अविशेषेण पठति श्रोण्यां तु स्यात् कटी स्त्रियाम् ॥ १५८ ॥
2.5.158 · p. 56
अनुष्टुप्
चापाग्रेषु त्रिषु पुनर्भृशे कष्टं तु भेद्यवत् ।कृच्छ्रे च गहने चैतत् स्यादसत्त्वे नपुंसकम् ॥ १५९ ॥
2.5.159 · p. 56
अनुष्टुप्
कम्रा कशायां स्त्री त्रिस्तु कमितर्यथ (वाक् स्विका? कर्कवाक् ) ।श्वेताश्वे द्वे पुमांस्त्वग्नौ हर्षनन्दी त्वभाषत ॥ १६० ॥
2.5.160 · p. 56
अनुष्टुप्metre not read in every line
सिते वर्णे तुरङ्गस्य कश्यं त्वश्वस्य मध्यमे ।म(ध्ये?द्ये) च क्ली कशार्हे तु त्रिः कतस्तु पुमानृषौ ॥ १६१ ॥
2.5.161 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्ली जलेऽथ कपिः पुंसि सहस्रकिरणेऽपि च ।ऋषिभेदे तथैव स्याद् द्वे तु वानरहस्तिनोः ॥ १६२ ॥
2.5.162 · p. 57
अनुष्टुप्
कविस्तु पुंसि वाल्मीकौ कृतकोटिमुनावपि ।त्रिषु तु स्यात् काव्यकारे पण्डिते च स्त्रियां त्वसौ ॥ १६३ ॥
2.5.163 · p. 57
अनुष्टुप्
अङ्गुलित्रे खलीने च करिस्तु पुरुषे गजे ।द्वयोः कर्तरि तु त्रि स्यात् कटुस्तु नरि गुग्गुलौ ॥ १६४ ॥
2.5.164 · p. 57
अनुष्टुप्
लशुने टङ्कने गन्धभेदे सौरभ्यसंज्ञके ।ऊषणाख्यरसे चाथ प्राक् शुण्ठेर्भेद्यलिङ्गकम् ॥ १६५ ॥
2.5.165 · p. 57
अनुष्टुप्
पूर्वोक्तगन्धरसयोरेकयुक्ते समत्सरे ।अप्रियाकार्यतीक्ष्णेषु क्ली शुण्ठौ मरिचेऽपि च ॥ १६६ ॥
2.5.166 · p. 57
अनुष्टुप्
स्त्रियां तु कटुरोहिण्यां कम्बुस्तु द्वे मतङ्गजे ।त्रये तु तण्डुलकणे शङ्खे सङ्ख्यान्तरे तथा ॥ १६७ ॥
2.5.167 · p. 57
अनुष्टुप्
शम्बूके चाथ कन्तुर्ना स्यात् कन्दर्पकुसूलयोः ।कंशब्दार्थवति त्वेष वाच्यलिङ्गः प्रकीर्तितः ॥ १६८ ॥
2.5.168 · p. 57
अनुष्टुप्
तुप्रत्ययेऽथ कन्दुर्ना स्त्रियामप्यपरे विदुः ।सूत्रिते स्यात् क्रीडनके स्वेदन्यामपरे पुनः ॥ १६९ ॥
2.5.169 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्री (wrong syllable)
पाकस्थानेऽथ कद्रुर्ना वर्णे पिङ्गलसंज्ञके ।त्रि तु तद्वति भूमौ तु नागमातरि च स्त्रियाम् ॥ १७० ॥
2.5.170 · p. 57
अनुष्टुप्
कषुस्तु ना करीषाग्नौ स्त्री कुल्यातुषकोष्ठयोः ।क्षत्ता ना सारथौ द्वाःस्थे दूते मुसलरुद्रयोः ॥ १७१ ॥
2.5.171 · p. 57
अनुष्टुप्
द्वयोस्तु क्षत्त्रियायां यः पारधैनुकसंज्ञकः ।शूद्राज्जातस्तत्र केचिदन्ये त्वायोगवाह्वये ॥ १७२ ॥
2.5.172 · p. 57
अनुष्टुप्
वैश्यायां जनिते शूद्रादन्ये पारशवाह्वये ।ब्राह्मणादूढशूद्रायां जाते प्रेष्यासुते परे ॥ १७३ ॥
2.5.173 · p. 58
अनुष्टुप्
वैजयन्त्यां तु पठितं योऽयं स्यात् पारधैनुकः ।तस्मिन् दौत्यद्वारपाल्यवृत्तावित्यथ भेद्यवत् ॥ १७४ ॥
2.5.174 · p. 58
अनुष्टुप्
क्वचिन्निवृत्ते च मृतेऽप्यविनीतेऽप्यथो पुमान् ।स्वतन्त्रकारके कर्ता भव्यसंज्ञे च पादपे ॥ १७५ ॥
2.5.175 · p. 58
अनुष्टुप्
क्ली तु तस्य फले त्रिस्तु कारकेऽथ ककुत् स्त्रियाम् ।पुंसि चोक्ष्णः स्कन्धदेशे प्रोन्नते राजलक्ष्मणि ॥ १७६ ॥
2.5.176 · p. 58
अनुष्टुप्
श्रेष्ठेऽप्यथ पुमान् क्रव्यात् प्रेतदाहानले द्वयोः ।राक्षसे त्रि तु मांसादे कर्मशब्दस्तु पुन्नपोः ॥ १७७ ॥
2.5.177 · p. 58
अनुष्टुप्
पुण्ये पापे क्रियाशिल्पयातनासु द्रुमान्तरे ।भव्यसंज्ञे कारके च कर्त्रीप्सिततमादिके ॥ १७८ ॥
2.5.178 · p. 58
अनुष्टुप्
अर्थप्रयोगे यज्ञे च भव्यवृक्षफले तु नप् ।काली मृडान्यामेकस्यां शक्तौ नवसु शक्तिषु ॥ १७९ ॥
2.5.179 · p. 58
अनुष्टुप्
शम्भोः कृष्णनवाम्भोदे वह्निज्वालासु सप्तसु ।एकस्यां प्रसहासंज्ञबृहत्यां भ्रूकुटावपि ॥ १८० ॥
2.5.180 · p. 58
अनुष्टुप्
क्षारकीटेऽपि सप्तानां मातॄणामेकमातरि ।अर्हत्तीर्थकराणां तु याः स्युः शासनदेवताः ॥ १८१ ॥
2.5.181 · p. 58
अनुष्टुप्
तासामन्यतमायां च कथयामास सज्जनः ।पिप्पलीवृश्चिकाल्योश्च नीव्यां कृष्णे तु जीरके ॥ १८२ ॥
2.5.182 · p. 58
अनुष्टुप्
काला मनः शिलायां च कृष्णत्रिवृति च स्त्रियाम् ।क्ली तु कालायसे कालं पुमांस्तु समये यमे ॥ १८३ ॥
2.5.183 · p. 58
अनुष्टुप्
मृत्यौ चापि महादेवे कार्ष्ण्ये त्रिषु तु तद्वति ।काष्ठा स्त्री कालभेदे स्यादष्टादशनिमेषके ॥ १८४ ॥
2.5.184 · p. 58
अनुष्टुप्
स्थित्याख्यमर्यादायां च दिशि चाप्युपदिश्यपि ।दक्षिणोत्तरयोरन्यतरस्मिन्नयने रवेः ॥ १८५ ॥
2.5.185 · p. 59
अनुष्टुप्
आदित्ये परमावस्थोत्कर्षयोराजिसंज्ञिनः ।समभूमिप्रदेशस्याप्यन्ते भूम्नि तु वारिणि ॥ १८६ ॥
2.5.186 · p. 59
अनुष्टुप्
क्ली तु दारुणि कान्ता तु प्रियङ्गुतरुयोषितोः ।स्त्री पुमांस्तु धवे नान्दीवृक्षे चम्पकपादपे ॥ १८७ ॥
2.5.187 · p. 59
अनुष्टुप्
चम्पकप्रसवे तु क्ली तथा दमनके त्रि तु ।प्रिये मनोज्ञे कामस्तु कन्दर्पे काम्यवाञ्छयोः ॥ १८८ ॥
2.5.188 · p. 59
अनुष्टुप्
गुग्गुलौ च निकामे तु क्ली स्यादनुमतेऽव्ययम् ।काम्यं कामयितव्ये च कामसाधौ च भेद्यवत् ॥ १८९ ॥
2.5.189 · p. 59
अनुष्टुप्
क्ली तु ताम्रेऽथ काण्डोऽस्त्री दण्डे नाले जले शरे ।शक्तिसंज्ञबले वर्गे स्तम्बेऽध्याये च कुत्सिते ॥ १९० ॥
2.5.190 · p. 59
अनुष्टुप्
इक्ष्वादेर्ग्रन्थिभेदे द्रुप्रकाण्डेऽवसरेऽपि च ।काण्डी तु हस्तिपिप्पल्यां स्त्री कारस्तु महीपतेः ॥ १९१ ॥
2.5.191 · p. 59
अनुष्टुप्
भागधेये क्रियायां ना स्त्री तु बन्धनवेश्मनि ।कारा प्रसेविकायां च त्रि तु स्यात् करयोगिनि ॥ १९२ ॥
2.5.192 · p. 59
अनुष्टुप्
बन्धने नृस्त्रियोः काशस्त्विक्षुगन्धाख्यवीरुधि ।अस्त्री स्त्रीपुंसयोः काशा दीप्तौ काशी तु सा स्त्रियाम् ॥ १९३ ॥
2.5.193 · p. 59
अनुष्टुप्
वाराणस्यामथो कायः शरव्ये निवहे तनौ ।ना त्रिः कदेवते क्षारः पुनः क्षरणभस्मनोः ॥ १९४ ॥
2.5.194 · p. 59
अनुष्टुप्
गुडे काचाख्यमृद्भेदे स्वर्जिकाक्षारसंज्ञके ।लवणेऽपि यवक्षारे तिक्तस्य लवणस्य च ॥ १९५ ॥
2.5.195 · p. 59
अनुष्टुप्
रसयोर्मिश्रणाज्जाते रसे तद्वति तु त्रिषु ।काव्यं क्ली कालिदासादिग्रन्थे पुंसि तु भार्गवे ॥ १९६ ॥
2.5.196 · p. 59
अनुष्टुप्
काणस्त्रिपु स्यादेकाक्षे मूषायां तु स्त्रियामियम् ।काणा पुंसि तु शब्दे च गमने च निमीलने ॥ १९७ ॥
2.5.197 · p. 60
अनुष्टुप्
क्षामस्तृणाग्नौ ना क्षीणे त्रिषु क्षामा स्त्रियां भुवि ।क्ली त्विध्मप्रोक्षणे कार्ष्णं कृष्णसम्बन्धिनि त्रिषु ॥ १९८ ॥
2.5.198 · p. 60
अनुष्टुप्
कार्यं प्रयोजने क्लीबं कर्तव्ये त्रिरथास्त्रियाम् ।कांस्यं स्यादाढके पानपात्रे घोषाख्यतैजसे ॥ १९९ ॥
2.5.199 · p. 60
अनुष्टुप्
काको द्वे वायसे तस्य समूहे क्ली पुमान् पुनः ।लौल्ये काकी तु मृद्भेदे तुवरीसंज्ञके स्त्रियाम् ॥ २०० ॥
2.5.200 · p. 60
अनुष्टुप्
कारिः क्रियायां स्त्री त्रिस्तु शिल्पिनि स्त्री तु कर्तरि ।कारुरिन्द्रे तु ना विश्वकर्मण्यप्य्थ स द्वयोः ॥ २०१ ॥
2.5.201 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
व्रात्यादपूर्वपुंयोगवैश्याजे मानवान्तरे ।कासूः स्त्री व्याधिबुद्ध्योः स्याच्छक्तिसंज्ञायुधान्तरे ॥ २०२ ॥
2.5.202 · p. 60
अनुष्टुप्
त्रि तु वाग्विकले द्वे तु कामी सारसपक्षिणि ।त्रि तु कामवति स्त्री तु कामिनी ललनान्तरे ॥ २०३ ॥
2.5.203 · p. 60
अनुष्टुप्
क्रिया स्त्री निष्कृतौ शिक्षाचिकित्सोपायकर्मसु ।करणारम्भपूजासु चेष्टायां सम्प्रधारणे ॥ २०४ ॥
2.5.204 · p. 60
अनुष्टुप्
दृष्टं तूत्पलमालायां प्रतिष्ठायामितीदृशम् ।मेषराशौ तु पुल्लिँङ्गं क्रियं ज्यौतिषिका विदुः ॥ २०५ ॥
2.5.205 · p. 60
अनुष्टुप्
क्षिप्रं तु पादाङ्गुष्ठस्य तर्जन्याश्चान्तरे नपुम् ।असत्त्वेऽपि च शीघ्रार्थे त्रि तु स्यात् सत्त्वगामि चेत् ॥ २०६ ॥
2.5.206 · p. 60
अनुष्टुप्
किञ्जाः पुंभूम्न्युदीच्ये स्यान्नीवृद्भेदे स तु त्रिषु ।कुत्सिताद्युद्भवेऽथो ना क्षुद्रजन्त्वन्तरे क्रिमिः ॥ २०७ ॥
2.5.207 · p. 60
अनुष्टुप्
तस्यापि लक्षणं केचिदाहुर्भूमिचरिष्णुताम् ।अन्ये त्वन्तर्गतामाहुर्लाक्षायामथ स द्वयोः ॥ २०८ ॥
2.5.208 · p. 60
अनुष्टुप्
ऊर्णनाभे करण्यां च जाते वैदेहकात् तथा ।मनुष्यजातिभेदेऽथ किरिर्द्वे सूकरेऽथ ना ॥ २०९ ॥
2.5.209 · p. 61
अनुष्टुप्
धातुप्रभेदे किरतौ काले कश्चिदवोचत ।किष्कुः प्रमाणभेदे स्याद् द्वादशाङ्गुलसम्मिते ॥ २१० ॥
2.5.210 · p. 61
अनुष्टुप्
वितस्त्याख्ये चतुर्विंशत्यङ्गुले हस्तसंज्ञके ।शाकटायनहर्षौ तु मानद्रव्यमवोचताम् ॥ २११ ॥
2.5.211 · p. 61
अनुष्टुप्
छायायां च कुठारादिशस्त्रमुष्टौ च नृस्त्रियोः ।क्षित्वा ना केशवे वायौ क्षित्वरी तु स्त्रियां निशि ॥ २१२ ॥
2.5.212 · p. 61
अनुष्टुप्
कश्चिन्नद्यामिति प्राह कीलस्तु नरयोषितोः ।ज्वालाशङ्कुकफोणीषु बाहौ पुंसि तु शङ्करे ॥ २१३ ॥
2.5.213 · p. 61
अनुष्टुप्
कीरः शुके द्वयोर्देशे कश्मीरेषु नृभूमनि ।क्षीरं क्ली सलिले दुग्धेऽन्येऽर्धर्चादिष्वधीयते ॥ २१४ ॥
2.5.214 · p. 61
अनुष्टुप्
क्लीबं नपुंसकार्थे क्ली पुमांसं त्वपरे विदुः ।त्रिषु विक्रमहीने स्याद् बलहीन इतीतरे ॥ २१५ ॥
2.5.215 · p. 61
अनुष्टुप्
कीर्णः पुंसि चुरीसंज्ञे जलस्थानान्तरे त्रि तु ।विक्षिप्ते स्त्री त्वभिख्यायां कीर्तिः कीर्तयतौ तु ना ॥ २१६ ॥
2.5.216 · p. 61
अनुष्टुप्
कुम्भः पुंसि घटे मूर्धपिण्डे सामोद्भवस्य च ।वेश्यापतौ सोमदत्ते सौरिराशौ महत्तरे ॥ २१७ ॥
2.5.217 · p. 61
अनुष्टुप्
कामिलाख्यव्याधिभेदे द्रोणाख्यपरिमाणके ।तस्य द्वये विंशतौ च खारीणां पञ्चविंशतौ ॥ २१८ ॥
2.5.218 · p. 61
अनुष्टुप्
स्त्रियां तु कुम्भी खार्यां स्यात् स्थालीभेदे च सज्जनः ।दधिमन्थनगर्गर्यां ब्रूते स्माथ द्रुमान्तरे ॥ २१९ ॥
2.5.219 · p. 61
अनुष्टुप्
कट्फलाख्ये वारिपर्णीसंज्ञतोयतृणान्तरे ।त्रिवृत्संज्ञलताजातौ पुनः कुम्भेति दृश्यते ॥ २२० ॥
2.5.220 · p. 61
अनुष्टुप्
कट्फलादेस्तु मूले च प्रसवे च नपुंसकम् ।यथाप्रयोगं बोद्धव्यं कुटस्तु कलशे पुमान् ॥ २२१ ॥
2.5.221 · p. 62
अनुष्टुप्
गृहे स्त्रीपुंसयोरेके कुटी कुट इति द्वयम् ।अन्ये त्वाहुः क्षुद्रगृहे पल्लीसंज्ञे कुटी स्त्रियाम् ॥ २२२ ॥
2.5.222 · p. 62
अनुष्टुप्
द्वयोस्तु क्षत्त्रियाज्जाते कुक्कुटीसंज्ञयोषिति ।मनुष्यजातिभेदे स्यादश्मकुट्टनवृत्तिके ॥ २२३ ॥
2.5.223 · p. 62
अनुष्टुप्
कुडस्तु ना वैश्रवणे क्ली घटे लाङ्गलेऽपि च ।मनुष्यजातिभेदे तु पलिनीसंज्ञयोषिति ॥ २२४ ॥
2.5.224 · p. 62
अनुष्टुप्
शूद्राज्जाते शिशौ च स्यात् कुडी कुड इति द्वयोः ।कुली तु बदरीकण्टकार्योर्ज्येष्ठस्वसर्यपि ॥ २२५ ॥
2.5.225 · p. 62
अनुष्टुप्
भार्यायां स्त्री नपि त्वे(न?त)दृषीणां जलतर्पणे ।कुलं वंशे सजातीयगणे च स्यान्निकेतने ॥ २२६ ॥
2.5.226 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तथा जनपदे द्वे तु मार्जारेऽथ कुथा त्रयी ।मतङ्गजपरिस्तोमे ना तु दर्भे कुशः पुनः ॥ २२७ ॥
2.5.227 · p. 62
अनुष्टुप्
अस्त्री दर्भे रामसुते ना क्ली ह्रीबेरवारिणोः ।कुशा विष्टुतिकाष्ठे स्त्री वल्गारज्जौ च वाजिनः ॥ २२८ ॥
2.5.228 · p. 62
अनुष्टुप्
अयोविकारे च कुशी केचित् त्वन्ये प्रचक्षते ।लाङ्गलस्य मुखे फालसंज्ञे क्ली तूत्पले कुवम् ॥ २२९ ॥
2.5.229 · p. 62
अनुष्टुप्
द्वयोः पशौ कुजस्तु स्यात् पुमानङ्गारके तरौ ।भूमिजे तु त्रि कुञ्जस्तु न स्त्री गह्वरदन्तयोः ॥ २३० ॥
2.5.230 · p. 62
अनुष्टुप्
हनौ लतादिपिहितोदरेऽथो पुंस्यृषौ क्वचित् ।कुब्जस्तु गडुले त्रि स्यान्निखर्वे चापि सज्जनः ॥ २३१ ॥
2.5.231 · p. 62
अनुष्टुप्
गडौ त्वेव नरि प्राहामरदत्तोऽपि सज्जनः ।कुम्बा सुगहनायां स्त्री वृतौ क्ली विदलेऽथ नप् ॥ २३२ ॥
2.5.232 · p. 62
अनुष्टुप्
कुब्रं गृहे कर्मणि च फल्गुसङ्कटयोस्त्रिषु ।द्वे गजेऽथास्त्रियां कुष्ठं गन्धद्रव्यौषधान्तरे ॥ २३३ ॥
2.5.233 · p. 62
अनुष्टुप्
पारिभाव्याह्वये व्याधिभेदे त्रि तु भुवि स्थिते ।क्रुष्टः सामस्वराणां स्यात् सप्तानामादिमे पुमान् ॥ २३४ ॥
2.5.234 · p. 63
अनुष्टुप्
रुदिते क्ली त्रि तु क्रुष्टिक्रियायाः कर्मतां गते ।कुण्डं नपुंसकं स्थाल्यां काञ्जिके वह्निगर्तके ॥ २३५ ॥
2.5.235 · p. 63
अनुष्टुप्
जलाशयविशेषे च देवतादेरथो पुनः ।सज्जनः प्राह कुम्भेऽपि कुण्डी तु स्त्री कमण्डलौ ॥ २३६ ॥
2.5.236 · p. 63
अनुष्टुप्
कुण्डा तु जाते जारात् तु पतिवत्नीसुते द्वयोः ।अविवाह्यासु जाते च कुल्या तु सरिति स्त्रियाम् ॥ २३७ ॥
2.5.237 · p. 63
अनुष्टुप्
नीरप्रणालिकायां च कृत्रिमाल्पसरित्यपि ।कुलस्त्रियां कण्टकार्यामस्थ्नि तु क्ली पुमांस्तु सः ॥ २३८ ॥
2.5.238 · p. 63
अनुष्टुप्
रसभेदे कटोश्चापि कषायस्य च मिश्रणात् ।जाते तद्वति तु त्रि स्यात् कुलीनेऽपि नृभूम्नि तु ॥ २३९ ॥
2.5.239 · p. 63
अनुष्टुप्
नीवृद्भेदे दाक्षिणात्ये मध्यदेशस्थितेऽपि च ।उदग्देशस्थिते चाथ कुत्सा स्त्री निन्दनेऽथ ना ॥ २४० ॥
2.5.240 · p. 63
अनुष्टुप्