चल
calaवि · adj.In 18 kośas: 29 synonym verses, 7 as a nānārtha head word, 13 as a meaning of another word.
genderपुंmasc.
स्थावरं तु जङ्गमान्यज्जङ्गमं तु त्रसं चरम् ।चराचरं जगदिङ्गं चरिष्णुश्चाथ चञ्चलम् ॥ १४५४ ॥तरलं कम्पनं कम्प्रं परिप्लवचलाचले ।चटुलं चपलं लोलं चलं पारिप्लवास्थिरे ॥ १४५५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable); pāda 3, syllable 6 ग (wrong syllable)
genderविadj.
वायौ सुरालयः प्राणः संभृतो जलभूषणः ।शुचिर्वहालो नघटः पश्चिमोत्तरदिक्पतिः ॥ १६९ ॥अङ्कतिः क्षिपणुर्मर्को ध्वजप्रहरणश्चलः ।शीतलो जलकान्तारो मेघारिः सृमरोऽपि च ॥ १७० ॥
अनुष्टुप्
genderपुंmasc.
चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम् ॥ ७४ ॥चञ्चलं तरलं चैव पारिप्लवपरिप्लवे ।
अनुष्टुप्
genderविadj.
तत्पाली कुहली ज्ञेया फलं तस्य तु पर्कटम् ।तच्छुष्कं खरमित्युक्तं चिक्कणं चलमीरितम् ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
चलं स्यात्तरलं चाथ पारिप्लवपरिप्लवे ।अतिरिक्तः समधिको दृढसंधिस्तु संहतः ॥ १३४ ॥
अनुष्टुप्
genderविadj.
चलः पुमान्प्रवालोऽस्त्री कोशीशुङ्गे उभे स्त्रियौ ।स्त्रियां माटिस्तु पर्णानामन्तरा व्यापिका शिरा ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
अनच्छं त्वप्रसन्नं स्यात्कच्चरं मलिनं पुनः ।किट्टमं पुष्पितं सेव्यं शालूकं किट्टिमं चलम् ॥ २७ ॥
अनुष्टुप्
genderविadj.
श्वसनः श्वसिनो वातिश्चलश्चापि जगत् जगत् ।महतः पृषताश्वोपि शरयुर्मेघकारकः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कपालशैलकवलप्रवालानां चलस्य च ।शवलोत्पलयोः शीलोपलयोर्मुसलस्य च ॥ १८४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मेषः कर्कटकस्तुला च मकरश्चत्वार एते चलाःगौः सिंहो [25b]लिघटौ स्थिराश्च मिथुनं कन्या धनुर्मीनकाः ।एते स्युर्विनिसर्गका अथ पुमानोको हि राशिस्थलंसंक्रान्तिर्भवति स्त्रियां रविगता चेदस्त्रियां संक्रमः ॥ १०९ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderविadj.
रसो रसेन्द्रः सूतश्च पारदः पारतोऽस्त्रियाम् ।हरबीजं च चपलः स्वामी स्नेहनिधिश्चलः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
वूर्तिः स्त्री वरणं द्वौ तु चल-चालौ नृलिङ्गकौ ।आक्रमोऽभिक्रमः क्रान्तिः स्यादारोहस्त्वभिक्रमः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
चम्पके काञ्चनो हेमपुष्पकः षट्पदातिथिः ।कुसुमेन्द्रो वरलब्धः कुमारीवल्लभश्चलः ॥ ९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
चपलं चञ्चलं लोलं कम्पनं तरलं चलम् ।पारप्लवं कम्प्रमुक्तं चटुलं चास्थिरे समम् ॥ ३४३ ॥
अनुष्टुप्
genderविadj.
स्थिरे स्थिरतरः स्थास्नुः स्थेयान्स्थेमः(मा?) स्थितिप्रियः ।लोले तु लोलुपं लोभं चलनं चञ्चलं चलम् ॥ ६९८ ॥
अनुष्टुप्
genderविadj.
तारकैककदारौ तु प्लवः कोलश्चलोऽपि च ।उडुपं च सरामातिदारुसङ्घं तुरे सरत् ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
विप्रकृष्टं परं दूरं ध्रुवं नित्यं च शाश्वतम् ।चञ्चलं चपलं लोलं तरलं चटुलं चलम् ॥ १०३ ॥
अनुष्टुप्
genderविadj.
genderपुंmasc.
जगत्प्राणश्चलः प्राणः पृषदश्वः समीरणः ।समीरः समिरश्चैव मातरिश्वा महाबलः ॥ १९३९ ॥
अनुष्टुप्
genderपुंmasc.
चञ्चलं चपलं ज्ञेयं चलनं चटुलं चलम् ।लोलं चलाचलं कम्प्रं कम्पनं तरलं तथा ॥ २६४५ ॥
अनुष्टुप्
genderविadj.
चलं पारिप्लवं लोलं चञ्चलञ्च परिप्लवम् ।चलाचलञ्च तरलं भवेत् चलनमात्रके ॥
अनुष्टुप्
genderविadj.
पारतः पारदः सूते चलश्च चपलोऽभ्रके ।अभ्रं गिरिजामलं स्याद् गिरिजं चामलं तथा ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
genderपुंmasc.
चलं चपलं चटुलं कमनं कम्प्रमप्यथ ।अधोमुखेऽवनतं स्यादानतं, कुटिले पुनः ॥ ५३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable); pāda 3, syllable 6 न (wrong syllable)
genderविadj.
तरललोलचलाचलचञ्चलप्रचलकम्पनकम्प्रचलानि च ।विकटपीनविशंकटपीवराः पृथुविशालबृहत्पृथुलोरवः ॥ १५९६ ॥
द्रुतविलम्बितम्
genderविadj.
आशुगः पवनः स्पर्शः पवमानः प्रभञ्जनः ।मरुद्धूलिध्वजो मर्कः समीरोऽग्निसखश्चलः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
नियुद्धं बाहुयुद्धं स्यादवमर्दस्तु पीडनम् ।अभ्यवस्कन्दनं त्वभ्यासादनं स्खलितं चलम् ॥ २०७ ॥
अनुष्टुप्
genderक्लीneut.
वृकधूपश्च तूणस्तु पिण्डकश्चपलश्चलः ।कप्याख्यः कपिलः सिह्लः कृत्रिमः क्षेत्रिको वरः ॥ ११० ॥
अनुष्टुप्
genderपुंmasc.
करंबः कंबरो मिश्रः संपृक्तः खचितः समाः ।चलाचलं तु प्रचलं चपलं चंचलं चलम् ॥ ७८ ॥
अनुष्टुप्
genderविadj.
शीलं स्वभावं सद्वृत्तं चालः स्यात्कम्पनं छदिः ।चलः कम्पश्चला लक्ष्मीश्चेलं गर्हितव[89]स्त्रयोः ॥
अनुष्टुप्
meaningsकम्प
निर्यासभेदे वायौ च पुंश्चल्यां तु चला स्त्रियाम् ।विद्युत्यथ चरिर्वायौ चरतौ ना पशौ द्वयोः ॥ ४०६ ॥
अनुष्टुप्
गोला गोदावरीगौर्य्योः सखीषु कुनटीषु च ।चला लक्ष्म्यां शिरःकम्पे कम्पयुक्ते भवेत्त्रिषु ॥
अनुष्टुप्
meaningsकम्पयुक्त
चल as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् लोलमूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः । Amarakośa 3.3.387
- धरणिकोश निस्तलकोमलं मृदुले तोये निस्तलं वर्तुले चले । उज्ज्वलौ दीप्तशृङ्गारौ तमालौ खड्गपादपौ ॥ Dharaṇikośa 27.1.7
- धरणिकोश चञ्चलचञ्चला विद्युदाख्याता चञ्चलौ चलकामुकौ । इल्वला तारका काचिदिल्वलो दानवान्तरम् ॥ Dharaṇikośa 27.2.33
- कोषकल्पतरु चरअरिस्तु शत्रौ चरमे तु चक्रे करस्तु वर्षोपलपाणिवाची । मयूखशुण्डानृपदेयभागे चरः स्पशे जङ्गमके चले च ॥ ९७ ॥ Koṣakalpataru 6.27.97
- कोषकल्पतरु चिकुरखगद्रुभेदे च गिरौ चले तु विशेष्यगः स्यादथ चाङ्कुरोऽपि । रथे तरौ योषिति नाङ्कुरः स्या- दङ्कूरवद्रोम्णि जले च रक्ते ॥ ९ ॥ Koṣakalpataru 6.27.9
- कोषकल्पतरु लोललोला प्रदिष्टा रसनाश्रियोः स्त्री चले सतृष्णे च विशेष्यलिङ्गा । शृङ्गारभावप्रभवक्रियाया लीला विलासेऽपि च खेलकेल्योः ॥ ८५ ॥ Koṣakalpataru 6.28.85
- कोषकल्पतरु चपलस्त्रियां सुविद्युत्कमलाकणासु श्रियामसत्यां चरमे तु शीघ्रे । विशेष्यवत्स्यात्तरले चलेऽथा- स्त्री प्रस्तरे स्यादुपलश्च रत्ने ॥ ९४ ॥ Koṣakalpataru 6.28.94
- नानार्थार्णवसंक्षेप गणऋषिभेदे सैन्यभेदे गुल्माख्यात् त्रिगुणे ध्वनौ । अजयस्य त्विदं ग्रन्थे दृश्यते प्रमथे चले ॥ ४२ ॥ Nānārthārṇavasaṃkṣepa 2.2.42
- नानार्थार्णवसंक्षेप लोलहिंसितुः स्त्र्यर्थविषये रुशन्ती रुशतीति च । न्याय्यलब्धव्ययोर्लभ्यं लोलश्चलसतृष्णयोः ॥ २२ ॥ Nānārthārṇavasaṃkṣepa 2.4.22
- नानार्थार्णवसंक्षेप चञ्चलतेनैव करिपिप्पल्यां चपलाथ त्रि चञ्चलः । चले विद्युति तु स्त्री स्याल्लक्ष्म्यां च पवने तु ना ॥ ७०८ ॥ Nānārthārṇavasaṃkṣepa 4.708
- शब्दरत्नावली लोललीला स्त्री रसनालक्ष्म्योर्लोलञ्चलसतृष्णयोः । व्यालो दुष्टे गजे सर्पे खलश्वापदयोरपि ॥ Śabdaratnāvalī 7.28.34
- वैजयन्ती लोललोलं चले लोलुपे च व्यग्रो व्यापृत आकुले । वल्गु मंजौ च वामस्तु सौम्ये सव्यप्रतीपयोः ॥ १६ ॥ Vaijayantī 6.4.16
- वैजयन्ती चपलचपलः पारदे शीघ्रे दुर्विनीते चले कपौ । चले केशे च चिकुरो जराय्वस्त्र्यंबुजेऽपि च ॥ ३९ ॥ Vaijayantī 7.5.39