गिरिभेद
giribhedaIn 5 kośas: 0 synonym verses, 12 as a meaning of another word.
गिरिभेद as a meaning in nānārtha verses
- कोषकल्पतरु परागआशुग इषौ च बाणे [वायावर्के] प्रसूनरेणौ च । स्नानीये च परागो गिरिभेदे चन्दने ग्रहणे ॥ १३ ॥ Koṣakalpataru 6.3.13
- कोषकल्पतरु गन्धमादनगिरिभेदवानरभिदोश्च गन्धके भ्रमरे स्त्रियां न खलु गन्धमादनम् । मदिरासु योषिति तथानुवासनं गदितं सुधूपनघृतादिवस्तिषु ॥ ५८ ॥ Koṣakalpataru 6.21.58
- कोषकल्पतरु मलयवलयः करकङ्कणे गणे गदितोऽस्त्री नरि कण्ठरुग्भिदि । मलयस्तु वने च कृत्रिमे गिरिभेदेऽपि धरांशदेशयोः ॥ ५८ ॥ Koṣakalpataru 6.26.58
- नानार्थार्णवसंक्षेप क्रौञ्चगिरिभेदे च शण्डस्तु सामभेदेषु केषुचित् । सम्बन्धिमात्रे तु क्रुञ्चो लिङ्गमस्य विशेष्यवत् ॥ २९७ ॥ Nānārthārṇavasaṃkṣepa 2.5.297
- नानार्थार्णवसंक्षेप कोशकइन्द्रकोशाख्यावयवे कोशिका तु स्त्रियामियम् । दीपाधारे मल्लिकाख्ये गिरिभेदे तु कोशकः ॥ ५९९ ॥ Nānārthārṇavasaṃkṣepa 4.599
- नानार्थार्णवसंक्षेप चकोरआचारे भक्षिते तु त्रिश्वकोरस्तु द्वयोरयम् । पक्षिभेदे पुमांस्तु स्याद् गिरिभेदे च चत्वरम् ॥ ७२४ ॥ Nānārthārṇavasaṃkṣepa 4.724
- नानार्थार्णवसंक्षेप कारस्करऋञ्जसानः श्मशाने च त्रिष्वर्थेषु मनीषिभिः । कारस्करो राजवृक्षे गिरिभेदे च दर्शितः ॥ ४९ ॥ Nānārthārṇavasaṃkṣepa 6.49
- परमानन्दीयनाममाला अस्तप्रतिमापूर्जयोरर्चाग्रं श्रेष्ठे प्रथमेऽधिके । अस्तः क्षिप्ते गिरेर्भेदेऽऽशू रथाङ्गे च सत्वरे ॥ ९ ॥ Paramānandīyanāmamālā 5.1.9
- शब्दरत्नावली परागपरागः पुष्परेणौ तु धूलिसानीयचूर्णयोः । चन्दने गिरिभेदे च स्वच्छन्दगमनेऽपि च ॥ Śabdaratnāvalī 7.3.40
- शब्दरत्नावली गरुत्मत्भवेद्गन्धवती व्यासमातृपृथ्वीसुरासु च । गरुत्मान् पक्षिमात्रे स्याद् गिरिभेदे सुधाहरे । भवेद्गृहपतिर्नातुधर्मे मन्त्रिगृहस्थयोः ॥ Śabdaratnāvalī 7.16.161
- शब्दरत्नावली चक्रवालगन्धफली तु गुन्द्रायां स्त्रियां चम्पककोरके । चक्रवालो मण्डले स्याद्गिरिभेदे भवेत्पुमान् ॥ जलाञ्चलं शैवले स्यात्स्वतोवारिविनिर्गमे । जयपालो विधौ विष्णौ भूपाले वृक्षभिद्यपि ॥ जम्बूमालाऽप्सरोभेदे कपिभूधरयोः पुमान् । दलामलो मरुवके दमने मदनद्रुमे ॥ Śabdaratnāvalī 7.28.107
- वैजयन्ती मलयउद्याने मलयं ना तु गिर्यंशगिरिभेदयोः । मत्सरोऽन्योदयद्वेषे तद्वत्कृपणयोस्त्रिषु ॥ ६३ ॥ Vaijayantī 7.5.63