कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गरुत्मत्

garutmatपुं · masc.

In 18 kośas: 21 synonym verses, 7 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.231 · p. 14
गरुडः शाल्मल्यरुणावरजो विष्णुवाहनः ॥ २३० ॥सौपर्णेयो वैनतेयः सुपर्णसर्पारातिर्वज्रजिद्वज्रतुण्डः ।पक्षिस्वामी काश्यपिः स्वर्णकायस्तार्क्ष्यः कामायुर्गरुत्मान्सुधाहृत् ॥ २३१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.29
गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः ।नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.48
खगे विहङ्गविहगविहङ्गमविहायसः ।शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।नगौकोवाजिविकिरविविष्किरपतत्रयः ॥ ३३ ॥नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसङ्गमाः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.30 · p. 4
विहङ्गराजो गरुडो गरुत्मान्,तार्क्ष्यः सुपर्णीतनयः सुपर्णः ।स्याद्वैनतेयः पवनाशनाशः,सुरेन्द्रजित्कश्यपनन्दनश्च ॥ ३० ॥
उपजातिः
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.237 · p. 29
पतन्पतङ्गः पतगः पतत्री,पत्त्री शकुन्तिः शकुनिः शकुन्तः ।वयो विहायो विहगो विहङ्गो,विहङ्गमः पत्त्ररथो गरुत्मान् ॥ २३७ ॥
उपजातिः
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.8 · p. 66
झषकेतुः सारधन्वा गुणदिन्दीवरः स्मरः ।गरुत्मान् गरुडस्तार्क्ष्य वज्रपक्षो महेन्द्रजित् ।विनतानन्दनः शौरिः पारिजातापहारकः ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.28 · p. 10
मुनीन्द्रो निर्गुरुः शास्ता बुद्धो विद्यातनूद्भवः ।गरुडः काश्यपसुतो गरुत्मानुरगाशनः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.86 · p. 327
शाल्मलीस्थो वज्रतुण्डो गरुत्मान् खगराट् पुनः ।सुमुखः शोभनास्यः स्यान्मणितुण्डस्तरक्षकः ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.48 · p. 456
सौपर्णेयः स्वर्णकायः कामायुर्वज्रजित् पुनः ।शाल्मली तृक्षपुत्रार्थो गरुत्मान् गरुडः पुनः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.25 · p. 10
सौपर्णेय-सुपर्ण-सर्पभुगहिद्विट्-तार्क्ष्य-वज्रानन-स्वर्गङ्गामृतहारि-काश्यपि-गरुत्मत्-सूरसूतानुजाः ॥ २५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.63 · p. 195
खगो विहंगो विहगो विहंगमःपतन्पतंगः पतगः पतंगमः ।पत्री पतत्री पतसो वि-पत्रिणौपित्सन्गरुत्मान्नभसंगमो द्विजः ॥ ६३ ॥
upajati 12
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 129 · p. 65
सुपर्णो गरुडस्तार्क्ष्यो गरुत्मान् शकुनीश्वरः ।इन्द्रजिन्मन्त्रपूतात्मा वैनतेयो विषक्षयः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.22 · p. 8
वज्रतुण्डः सर्पशत्रुररुणावरजो विराट् ।वज्रजिद्वैनतेयौ च गरुत्मांश्च सुधाहरः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.65 · p. 33
शकुन्ते तु नगौकाः स्याद्गरुत्मान्विकिरोऽपि विः ।वाजी विविष्करः पत्रः पत्री पत्ररथः पतत् (न्?) ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.367 · p. 26
खञ्जरीटः खञ्जनकः चक्रवाको रथाङ्गकः ।तार्क्ष्यो गरुत्मान् गरुडो वैनतेयोऽण्डजेश्वरः ॥ ३६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ख (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.97 · p. 11
तार्क्ष्यः सुपर्णो गरुडो वैनतेयोऽरुणानुजः ।गरुत्मान्पक्षिराजश्च सर्पारिः कश्यपात्मजः ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.325 · p. 43
गरुडश्च गरुत्मान् वै कामायुः काश्यपिस्तथा ।सौपर्णेयः सुपर्णश्च वज्रिजिद्विष्णुवाहनम् ॥ ३२५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2379 · p. 384
शकुनः शकुनिश्चैव गरुत्मान् चञ्चुमान् खगः ।शकुन्तश्च शकुन्तिश्च नगौकाः नभसङ्गमः ॥ २३७९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.36 · p. 5
सर्परिपुवैनतेयौ सौपर्णेयोऽरुणानुजस्तार्क्ष्यः ।विष्णुरथपन्नगभुजौ गरुडगरुत्मत्सुपर्णपक्षीन्द्राः ॥ ३६ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.786 · p. 100
विहगविहंगमद्विजविविष्किरपक्षिपतद्-विकिरपतत्रिपत्रिपतगाण्डजपत्ररथाः ।शकुनगरुत्मदंशुनभसंगमनीडभवाःशकुनिशकुन्तिवोजितरुधामशकुन्तखगाः ॥ ७८६ ॥
metre not recognised
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.37 · p. 6
गरुडः काश्यपसुतो गरुत्मानुरगाशनः ।सुपर्णीतनयस्तार्क्ष्यो वैनतेयो महेन्द्रजित् ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.114
पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास तपादः Dharaṇikośa 15.1.27 · p. 65
गरुत्मान्विहगे तार्क्षे विवस्वांस्त्रिदशेश्वरे ।भगवांस्त्वागते पूज्ये संख्यावान्पण्डिते मिते ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ चतुरक्षरतान्ताः । Koṣakalpataru 6.17.70 · p. 227
तार्क्ष्ये खगे गरुत्मान्संख्यावान्पण्डिते वनिने ( ? ) ।स्यादंशुमान्दिनकरे शालीपर्ण्यां त्वंशुमत्युक्ता ॥ ७० ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.662 · p. 104
एवं रभसनिर्दिष्टं स्याद्गरुत्मांस्तु पुंस्ययम् ।गरुडे विहगे तु द्वे गन्धवत् तु त्रिषु स्मृतम् ॥ ६६२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.161 · p. 224
भवेद्गन्धवती व्यासमातृपृथ्वीसुरासु च ।गरुत्मान् पक्षिमात्रे स्याद् गिरिभेदे सुधाहरे ।भवेद्गृहपतिर्नातुधर्मे मन्त्रिगृहस्थयोः ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2088 · p. 253
गरुत्मान् विहगे तार्क्ष्ये घटिका नाडिका घटः ।चञ्चलो वाच्यलिङ्गे स्यात्तरले तडिति स्त्रियाम् ॥ २०८८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.24 · p. 241
अन्तराभवसत्त्वे स्याद्गन्धर्वो गायने हये ।गरुत्मान्विहगे तार्क्ष्ये वृषार्केन्द्रेषु गोपतिः ॥ २४ ॥
अनुष्टुप्