कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

घोणिन्

ghoṇinपुं · masc.

In 10 kośas: 9 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1288 · p. 49
खड्गी वाध्रीणसः खड्गो गण्डकोऽथ किरः किरिः ।भूदारः सूकरः कोलो वराहः क्रोडपोत्रिणौ ॥ १२८७ ॥घोणी घृष्टिः स्तब्धरोमा दंष्ट्री किट्यास्यलाङ्गलौ ।आखनिकः शिरोमर्मा स्थूलनासो बहुप्रजः ॥ १२८८ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 नि (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.2
वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः ।दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.27 · p. 320
घोणान्तभेदनो घोणी कुमुखो वज्रवल्कलः ।लाङ्गलास्यो दीर्घरतो मुस्तान्नः स्थूलनासिकः ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.72 · p. 17
घोणी जलप्रियो वज्रदंष्ट्रो वाराहको हरिः ।कामरूपी स्तब्धरोमा पीनस्कन्धस्तलेक्षणः ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.193 · p. 76
क्रोडः किरः किरिः पोत्री घृष्टिर्दंष्ट्री बहुप्रजः ।स्तब्धरोमा तथा घोणी स्थूलनासो वराहकः ॥ १९३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2327 · p. 377
वराहो वक्रदंष्ट्रश्च भूदारः सलिलप्रियः ।गृष्टिर्घृष्टिस्तथा घोणी दंष्ट्रीस्तथाऽऽस्यलाङ्गलः ॥ २३२७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.5 · p. 82
अथ शूकरभूदारवराहाः स्थूलनासिकः ।दन्तायुधः स्तब्धरोमा घोणी कोलः किरिः किटिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.677 · p. 87
वराहः सूकरः क्रोडः कोलभूदारघोणिनः ।घृष्टिः किटिः किरिर्द्रंष्ट्री स्तब्धरोमा च पोत्रिणि ॥ ६७७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.5 · p. 65
वराहः सूकरो घोणी वक्रदंष्ट्रो जलप्रियः ।पीनस्कन्धः स्तब्धरोमा कामरूपी तलेक्षणः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.

घोणिन् as a meaning in nānārtha verses

  • कोषकल्पतरु क्रोडहिण्डिः स्त्रियां बालकरात्रिरक्षा- चारे भवान्यामपि भाष्यतेऽसौ । क्रोडः शनौ घोणिनि पुंस्त्वहीनो भुजान्तरे प्रावरणान्तरे तु । देशेऽपि चोडः श्रवणामये तु क्ष्वेडो ध्वनौ[276b]ना गरलेऽन्यवत्तु ॥ ६१ ॥ Koṣakalpataru 6.12.61