कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वाध्रीणस

vādhrīṇasaपुं · masc.

In 8 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1288 · p. 49
खड्गी वाध्रीणसः खड्गो गण्डकोऽथ किरः किरिः ।भूदारः सूकरः कोलो वराहः क्रोडपोत्रिणौ ॥ १२८७ ॥घोणी घृष्टिः स्तब्धरोमा दंष्ट्री किट्यास्यलाङ्गलौ ।आखनिकः शिरोमर्मा स्थूलनासो बहुप्रजः ॥ १२८८ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 नि (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.227 · p. 28
महिषः सैरिभ उक्तो रक्ताक्षः कासरो लुलायश्च ।वाध्रीणसश्च खड्गी गण्डक इति कथ्यते सद्भिः ॥ २२७ ॥
आर्या
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.22 · p. 320
खड्गो वाध्रीणसः क्रोडी मालशृङ्गो वलीत्यपि ।खड्गी शूरोऽप्यथोष्ट्रोग्रे प्रोक्तो गौर्महिषोऽपि च ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.157 · p. 335
नीलग्रीवो रक्तशिराः शुक्लपक्षो वनेचरः ।कुरुबाहुः कुरुकुरुः स च वाध्रीणसोऽथ च ॥ १५७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.13 · p. 190
खड्गी वाध्रीणसोऽपि स्याद्गण्डको महिषः पुनः ।कृष्णशृङ्गो दंशभीरुः शृङ्गी च यमवाहनः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.55 · p. 286
वाध्रीणस * * * * पशुभेदाः प्रकीर्तिताः ।अजथ्या*[स्या]द्भेद्यलिङ्गा हिताजाया अजस्य वा ॥ ५५ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.192 · p. 75
स्मृतो वनगवश्चाश्ववारणोऽप्यथ गण्डकः ।वाध्रीणसः खड्गिखड्गौ भूदारः कोलसूकरौ ॥ १९२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.138 · p. 376
खड्गो वाध्रीणसः खड्गी कथ्यते गण्डकोऽपि वै ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.320 · p. 244
चित्रकश्चित्रकायोऽपि, शरभेऽष्टापदोष्टपात् ।गण्डके खड्गी खड्गीरः खड्गो वाध्रीणसोऽपि च ॥ ३२० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ड्गी (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.679 · p. 87
ऋक्षोऽच्छभल्लो भल्लूको भल्लुकोऽप्यथ गण्डकः ।खड्गी वाध्रीणसः खड्गस्तच्छृङ्गे खड्गमस्त्रियाम् ॥ ६७९ ॥
अनुष्टुप्
genderपुंmasc.