कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

द्वितीयं काण्डम् · सिंहादिवर्गः

इति वनौषधिवर्गः

अथ सिंहादिवर्गः ॥

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः ।कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः ॥पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः ।
2.5.1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 रि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः ॥ १ ॥
2.5.1
अनुष्टुप्metre not read in every line
वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः ।दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २ ॥
2.5.2
अनुष्टुप्
कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः ।मर्कटो वानरः कीशो वनौका अथ भल्लुके ॥ ३ ॥ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ ।
2.5.4
अनुष्टुप्
लुलायो महिषो वाहद्विषत्कासरसैरिभाः ॥ ४ ॥
2.5.4
अनुष्टुप्
स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः ।शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ॥ ५ ॥
2.5.5
अनुष्टुप्
ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक् ।
2.5.7
अनुष्टुप्
त्रयो गौधारगौधेरगौधेया गोधिकात्मजे ॥ ६ ॥
2.5.6
अनुष्टुप्
श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम् ।
2.5.9
अनुष्टुप्
वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः ॥ ७ ॥
2.5.7
अनुष्टुप्
मृगे कुरङ्गवातायुहरिणाजिनयोनयः ।ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु ॥ ८ ॥
2.5.8
अनुष्टुप्
कदली कन्दली चीनश्चमूरुप्रियकावपि ।समूरुश्चेति हरिणा अमी अजिनयोनयः ॥ ९ ॥
2.5.9
अनुष्टुप्
कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः ।गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ १० ॥गन्धर्वः शरभो रामः सृमरो गवयः शशः ।इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥
2.5.11
अनुष्टुप्
अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः ।उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका ।
2.5.14
अनुष्टुप्
सरटः कृकलासः स्यान्मुसली गृहगोधिका ॥ १२ ॥
2.5.12
अनुष्टुप्
लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः ।
2.5.16
अनुष्टुप्
नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे ॥ १३ ॥
2.5.13
अनुष्टुप्
वृश्चिकः शूककीटः स्यादलिद्रुणौ तु वृश्चिके ।
2.5.18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्रु (wrong syllable)
पारावतः कलरवः कपोतोऽथ शशादनः ॥ १४ ॥पत्री श्येन उलूकस्तु वायसारातिपेचकौ ।दिवान्धः कौशिको घूको दिवाभीतो निशाटनः ।
2.5.19
अनुष्टुप्metre not read in every line
व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः ॥ १५ ॥
2.5.15
अनुष्टुप्
लोहपृष्ठस्तु कङ्कः स्यादथ चाषः किकीदिविः ।
2.5.21
अनुष्टुप्
कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः ॥ १६ ॥दार्वाघाटोऽथ सारङ्गस्तोककश्चातकः समाः ।
2.5.22
अनुष्टुप्
कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ॥ १७ ॥
2.5.17
अनुष्टुप्
चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः ।पुमपत्ये चाटकैरः स्त्र्यपत्ये चटकैव सा ॥ १८ ॥
2.5.18
अनुष्टुप्
कर्करेटुः करेटुः स्यात्कृकणक्रकरौ समौ ।
2.5.25
अनुष्टुप्
वनप्रियः परभृतः कोकिलः पिक इत्यपि ॥ १९ ॥
2.5.19
अनुष्टुप्
काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः ।ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि ॥ २० ॥स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः ।
2.5.27
अनुष्टुप्
द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः ।
2.5.28
अनुष्टुप्
आतायिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ ॥ २१ ॥
2.5.21
अनुष्टुप्
क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः ।
2.5.30
अनुष्टुप्
कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः ॥ २२ ॥
2.5.22
अनुष्टुप्
कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ ।
2.5.32
अनुष्टुप्
हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः ॥ २३ ॥
2.5.23
अनुष्टुप्
राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः ।
2.5.34
अनुष्टुप्
मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः ॥ २४ ॥
2.5.24
अनुष्टुप्
शरारिराटिराडिश्च बलाका बिसकण्ठिका ।
2.5.36
अनुष्टुप्
हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा ॥ २५ ॥
2.5.25
अनुष्टुप्
जतुकाजिनपत्रा स्यात्परोष्णी तैलपायिका ।
2.5.38
अनुष्टुप्
वर्वणा मक्षिका नीला सरघा मधुमक्षिका ॥ २६ ॥
2.5.26
अनुष्टुप्
पतङ्गिका पुत्तिका स्याद्दंशस्तु वनमक्षिका ।
2.5.40
अनुष्टुप्
दंशी तज्जातिरल्पा स्याद्गन्धोली वरटा द्वयोः ॥ २७ ॥
2.5.27
अनुष्टुप्
भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः ।
2.5.42
अनुष्टुप्
समौ पतङ्गशलभौ खद्योतो ज्योतिरिङ्गणः ॥ २८ ॥
2.5.28
अनुष्टुप्
मधुव्रतो मधुकरो मधुलिण्मधुपालिनः ।द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः ॥ २९ ॥
2.5.29
अनुष्टुप्
मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक् ।शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३० ॥
2.5.30
अनुष्टुप्
केका वाणी मयूरस्य समौ चन्द्रकमेचकौ ।
2.5.46
अनुष्टुप्
शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके ॥ ३१ ॥
2.5.31
अनुष्टुप्
खगे विहङ्गविहगविहङ्गमविहायसः ।शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।नगौकोवाजिविकिरविविष्किरपतत्रयः ॥ ३३ ॥नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसङ्गमाः ।
2.5.48
अनुष्टुप्
तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः ॥ ३४ ॥तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्चकोरकः ।कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः ॥ ३५ ॥
2.5.35
अनुष्टुप्
गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम् ।
2.5.50
अनुष्टुप्
स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरुभे स्त्रियौ ॥ ३६ ॥
2.5.36
अनुष्टुप्
प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः ।
2.5.52
अनुष्टुप्
पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम् ॥ ३७ ॥
2.5.37
अनुष्टुप्
पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः ।
2.5.54
अनुष्टुप्
स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम् ॥ ३८ ॥
2.5.38
अनुष्टुप्
समूहे निवहव्यूहसंदोहविसरव्रजाः ।स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः ॥ ३९ ॥समुदायः समुदयः समवायश्चयो गणः ।स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ ४० ॥
2.5.40
अनुष्टुप्
वृन्दभेदाः समैर्वर्गः सङ्घसार्थौ तु जन्तुभिः ।
2.5.57
अनुष्टुप्
सजातीयैः कुलं यूथं तिरश्चां पुन्नपुंसकम् ॥ ४१ ॥
2.5.41
अनुष्टुप्
पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम् ।स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् ॥ ४२ ॥
2.5.42
अनुष्टुप्
कापोतशौकमायूरतैत्तिरादीनि तद्गणे ।गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ॥ ४३ ॥
2.5.43
अनुष्टुप्