कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्तब्धरोमन्

stabdharomanपुं · masc.

In 13 kośas: 12 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1288 · p. 49
खड्गी वाध्रीणसः खड्गो गण्डकोऽथ किरः किरिः ।भूदारः सूकरः कोलो वराहः क्रोडपोत्रिणौ ॥ १२८७ ॥घोणी घृष्टिः स्तब्धरोमा दंष्ट्री किट्यास्यलाङ्गलौ ।आखनिकः शिरोमर्मा स्थूलनासो बहुप्रजः ॥ १२८८ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 नि (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.2
वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः ।दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.308 · p. 94
सूकरो वज्रदंष्ट्रश्च वराहश्च जलप्रियः ।आमरूपी स्तब्धरोमा पीनस्कन्धोऽलसेक्षणः ॥ ३०८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.26 · p. 320
वली दन्तायुधः क्रोडः स्तब्धरोमा जलप्रियः ।वराहः सूरिको घृष्टिः सूचीरोमा बहुप्रजः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.7 · p. 189
कोलः किटिः स्तब्धरोमा दंष्ट्री पोत्री च रोमशः ।वराहश्च मदारः [64b] स्याच्छिरोमर्मा बहुप्रजाः ॥ ७ ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.72 · p. 17
घोणी जलप्रियो वज्रदंष्ट्रो वाराहको हरिः ।कामरूपी स्तब्धरोमा पीनस्कन्धस्तलेक्षणः ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.193 · p. 76
क्रोडः किरः किरिः पोत्री घृष्टिर्दंष्ट्री बहुप्रजः ।स्तब्धरोमा तथा घोणी स्थूलनासो वराहकः ॥ १९३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.37 · p. 29
वराहे दन्तपाण्डित्यः स्तब्धरोमा किरिः किटिः ।दंष्ट्री पोत्री गरः क्रोडः कुभित्पुष्पप्रकोपनः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2326 · p. 376
किरः किटिः किरिः कोलः कुमुखश्च तलेक्षणः ।कामरूपी शिरोमर्मा स्तब्धरोमा बहुप्रजः ॥ २३२६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.5 · p. 82
अथ शूकरभूदारवराहाः स्थूलनासिकः ।दन्तायुधः स्तब्धरोमा घोणी कोलः किरिः किटिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.677 · p. 87
वराहः सूकरः क्रोडः कोलभूदारघोणिनः ।घृष्टिः किटिः किरिर्द्रंष्ट्री स्तब्धरोमा च पोत्रिणि ॥ ६७७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.5 · p. 65
वराहः सूकरो घोणी वक्रदंष्ट्रो जलप्रियः ।पीनस्कन्धः स्तब्धरोमा कामरूपी तलेक्षणः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.655 · p. 82
सहसानुर्मयूरे च सर्पे चेत्यपरे द्वयोः ।स्तब्धरोमा पुनर्द्वे स्याद् वराहे सादि पूर्ववत् ॥ ६५५ ॥
अनुष्टुप्
meaningsवराह

स्तब्धरोमन् as a meaning in nānārtha verses