कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

किरि

kiriपुं · masc.

In 14 kośas: 14 synonym verses, 2 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1288 · p. 49
खड्गी वाध्रीणसः खड्गो गण्डकोऽथ किरः किरिः ।भूदारः सूकरः कोलो वराहः क्रोडपोत्रिणौ ॥ १२८७ ॥घोणी घृष्टिः स्तब्धरोमा दंष्ट्री किट्यास्यलाङ्गलौ ।आखनिकः शिरोमर्मा स्थूलनासो बहुप्रजः ॥ १२८८ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 नि (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.2
वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः ।दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.226 · p. 28
कोलः क्रोडः शूकरः स्याद्वराहः,पोत्री दंष्ट्री घृष्टिरुक्तः किरिश्च ।व्याघ्रो द्वीपी पुण्डरीकस्तरक्षुः,शार्दूलः स्याच्चित्रकायो मृगारिः ॥ २२६ ॥
शालिनी
genderपुंmasc.
केशरी केसरी च स्यात् शूकरः शुकरस्तथा ।किरिः किरः स्यात् प्लवगः प्लवङ्गश्च प्लवङ्गमे ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.25 · p. 320
सूकरो रोमशो दंष्ट्री बहुसत्त्वः किरिः किटिः ।रदपोत्रायुधः कोलः शूरो बहुतरस्वरः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.6 · p. 189
सूकरः सूचिरोमा च भूमिदारः किरः किरिः ।स्थूलनासो वक्रदंष्ट्रो घृष्टिर्गृष्टिश्च घोषिलः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.193 · p. 76
क्रोडः किरः किरिः पोत्री घृष्टिर्दंष्ट्री बहुप्रजः ।स्तब्धरोमा तथा घोणी स्थूलनासो वराहकः ॥ १९३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.37 · p. 29
वराहे दन्तपाण्डित्यः स्तब्धरोमा किरिः किटिः ।दंष्ट्री पोत्री गरः क्रोडः कुभित्पुष्पप्रकोपनः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2326 · p. 376
किरः किटिः किरिः कोलः कुमुखश्च तलेक्षणः ।कामरूपी शिरोमर्मा स्तब्धरोमा बहुप्रजः ॥ २३२६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.5 · p. 82
अथ शूकरभूदारवराहाः स्थूलनासिकः ।दन्तायुधः स्तब्धरोमा घोणी कोलः किरिः किटिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.321 · p. 244
दन्त्यतालव्यान्तः कोले शूकरः सूकरः किरिः ।किरः ऋक्षे तु भल्लूको भाल्लूको भल्लुकस्तथा ॥ ३२१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.677 · p. 87
वराहः सूकरः क्रोडः कोलभूदारघोणिनः ।घृष्टिः किटिः किरिर्द्रंष्ट्री स्तब्धरोमा च पोत्रिणि ॥ ६७७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.6 · p. 65
भूदारः कुमुखो घृष्टिः स्थूलनासो बहुप्रजः ।पंकक्रीडनकः पोत्री किटिराखनिकः किरिः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.178 · p. 118
अर्तिरार्तिः किरिः कोटी ज्या जीवा मौर्विका द्रुणा ।तूणी तूण उपासंगतूणीरौ विशिखाश्रयः ॥ १७८ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.209 · p. 61
ऊर्णनाभे करण्यां च जाते वैदेहकात् तथा ।मनुष्यजातिभेदेऽथ किरिर्द्वे सूकरेऽथ ना ॥ २०९ ॥
अनुष्टुप्
meaningsसूकर
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.210 · p. 61
धातुप्रभेदे किरतौ काले कश्चिदवोचत ।किष्कुः प्रमाणभेदे स्याद् द्वादशाङ्गुलसम्मिते ॥ २१० ॥
अनुष्टुप्

किरि as a meaning in nānārtha verses

  • कोषकल्पतरु आखनिकलालाटिकः स्यात्प्रभुभावदर्शि- न्याश्लेषभेदेऽप्यलसेंऽसदुःखे । कर्कोटकः सर्पविशेषबिल्वे- ऽथाखौ किरौ चाखनिकश्च चौरे ॥ ४८ ॥ Koṣakalpataru 6.1.48
  • कोषकल्पतरु घृष्टिव्युष्टिः समृद्धौ च फले व्रतादेः स्तुतौ च भृष्टिस्तु विवृक्षवाट्याम् । *********** स्याद्भर्जने पुंसि किरौ च घृष्टिः ॥ १८ ॥ Koṣakalpataru 6.10.18
  • कोषकल्पतरु मार्तण्डथो हालाहलदर्शने मरकते क्लीबे भवेद्गारुडम् । कर्चूरे विषयान्तरे च गणनासूक्तो बुधैर्द्राविडो मार्तण्डस्तु रवौ किरौ च गदितः स्यात्तु प्रचण्डोऽन्यवत् ॥ ८२ ॥ Koṣakalpataru 6.12.82