कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दुली

dulīस्त्री · fem.

In 7 kośas: 7 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1353 · p. 51
कच्छपः कमठः कूर्मः क्रोडपादश्चतुर्गतिः ।पञ्चाङ्गगुप्तदौलेयौ जीवथः कच्छपी दुली ॥ १३५३ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.95 · p. 109
कमको(ठो?)ऽस्त्री कच्छपः स्याद्धालाङ्गो नरि जीवयः (?) ।दुलिर्दुली कच्छपी च कर्कटी माघमा भवेत् ॥ ९५ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.248 · p. 83
पञ्चाङ्गगुप्तदौलेयौ दुली स्यात्कमठी समे ।दर्दुरे भेकमण्डूकौ वर्षाभूः प्लवगः पुनः ॥ २४८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2457 · p. 396
स्त्रियां तु कच्छपी ज्ञेया कमठी च डुली दुली ॥ २४५७ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.97 · p. 42
अथ किञ्चुलुक स्त्री तु शिली गण्डूपदी मता ।तथा कमठभार्या स्यात् कमठी च दुलिर्दुली ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.371 · p. 248
दुलिर्दुली कुडिर्भेके प्लवगः सप्लवङ्गमः ।प्लवः सालूश्च सालूरो दन्त्यतालव्यपूर्वकः ॥ ३७१ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.51 · p. 152
दुली द्रुणी च तत्कान्ता मकरो मत्स्यराड्झषः ।खड्गनामा खड्गपुच्छस्तिमिशत्रुस्तिमिंगिलः ॥ ५१ ॥
अनुष्टुप्
genderस्त्रीfem.