All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
1,012 verses · 6,994 words tagged · 1,188 marked doubtful (dashed)
चतुर्थः काण्डः (4/4)
गोकिराटिका गोराटी स्यात् चर्मचटका पुनः ।जतुका च जतूका च, परोष्ठ्यां वल्गुली स्मृता ॥ ३६१ ॥
4.361 · p. 248
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
वल्गुलिका, कर्करटौ करेटुः कर्कराटुकः ।करटुः कर्करेटोऽथाटिराडिश्च शरातिवत् ॥ ३६२ ॥
4.362 · p. 248
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ल्गु (wrong syllable)
आतिः शरारिः शलालिः कृकण-क्रकरावुभौ ।कपिञ्जले, भास-भाषौ शकुम्भे, रक्तलोचने ॥ ३६३ ॥
4.363 · p. 248
अनुष्टुप्
पारापतः पारावतः पारपतः कपोतवत् ।कपोटः, गुन्द्राले जीवञ्जीवः स्याज्जीवजीववत् ॥ ३६४ ॥
4.364 · p. 248
metre not recognised
व्याघ्राटे तु भरद्वाजो भारद्वाजश्च, तित्तिरः ।तित्तिरिः खरकोणे द्वौ, गरुले कारण्ड इष्यते ॥ ३६५ ॥
4.365 · p. 248
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 गरु (syllable split)
कारण्डवः, मीने मच्छो मत्सो मत्स्यो विसारिणा ।वेसारिणो विसारश्च शक्लीव शकली मता ॥ ३६६ ॥
4.366 · p. 248
अनुष्टुप्
शम्बरो दन्त्यतालव्यो वादालश्च वदालवत् ।सहस्रदंष्ट्रे शिशुके चुलूपीव दुलूप्यपि ॥ ३६७ ॥
4.367 · p. 248
अनुष्टुप्
शफरे शफरी प्रोष्ठः प्रोष्ठी ठान्तौ चिलीचिमिः ।चिलिचीमश्चिलिचिमः, नलमीनेऽथ मत्स्यभित् ॥ ३६८ ॥
4.368 · p. 248
अनुष्टुप्
शालः सालश्च नक्रे तु कुम्भी कुम्भीर इत्यपि ।शङ्खमुखः शङ्कुमुखः, ग्राहे तु तन्तु-तन्तुणौ ॥ ३६९ ॥
4.369 · p. 248
अनुष्टुप्metre not read in every line
तन्तुनागश्च नागोऽपि, कर्कटे तु कुलीरवत् ।कुटीरश्च चन्द्राश्रयराशावऽपि च कच्छपी ॥ ३७० ॥
4.370 · p. 248
अनुष्टुप्metre not read in every line
दुलिर्दुली कुडिर्भेके प्लवगः सप्लवङ्गमः ।प्लवः सालूश्च सालूरो दन्त्यतालव्यपूर्वकः ॥ ३७१ ॥
4.371 · p. 248
अनुष्टुप्
शालस्तथैव भेक्यां तु वर्षाभूरिति कथ्यते ।वर्षाभ्व्युद्भिदि चोद्भिज्जमुद्भिदं चोद्भिजं तथा ॥ ३७२ ॥
4.372 · p. 249
अनुष्टुप्