कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धूपित

dhūpitaवि · adj.

In 10 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1493 · p. 56
तप्ते संतापितो दूनो धूपायितश्च धूपितः ॥ १४९३ ॥
अनुष्टुप्metre not read in every line
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.102
सन्तापितसन्तप्तौ धूपितधूपायितौ च दूनश्च ॥ १०२ ॥
उद्गीतिः
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.168 · p. 232
संतापितस्तु संतप्तो दूनो धूपायितोऽपि च ।धूपितोथ प्रमुदितः प्रह्लन्नस्तृप्त इत्यपि ॥ १६८ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.55 · p. 27
संतापितस्तु तप्तो धूपितमवमतमवहेलितं च परिभूतम् ।अवगणितमनादृतवच्चावज्ञातापहस्तिते चात्र ॥ ५५ ॥
metre not recognised
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.370 · p. 98
प्रथिते विश्रुतः ख्यातः प्रज्ञाते वित्त इत्यपि ।तप्तधूपायितौ दूनो धूपितस्तापितः स[54]मः ॥ ३७० ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2717 · p. 440
सन्तापितश्च सन्तप्तं धूपायितश्च धूपितः ।दूनस्तप्तश्च नामानि सन्तप्तस्य भवन्ति वै ॥ २७१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 यि (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.72 · p. 168
दूनः सन्तापितस्तप्तः धूपायितश्च धूपितः ।प्रीतः प्रमुदितस्तृप्तः प्रह्लन्नहृष्टमत्तवत् ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 यि (wrong syllable); pāda 4, syllable 3 न्न (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.78 · p. 255
क्लिन्ने कृन्नं सार्द्रमार्द्रं तिमितं स्तिमितं तथा ।दूते सन्तापितं तप्तं धूपायितं च धूपितम् ॥ ७८ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 यि (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1673 · p. 201
वेल्लितं प्रेङ्खितं धूतं रिङ्गितं त्वङ्गितं धुतम् ।प्रेङ्खोलितं च संतप्तो धूपितस्तापितो धुतः ॥ १६७३ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.98 · p. 209
सन्तापितं धूपायितं दूनं तप्तञ्च धूपिते ।मार्गिते मृगितान्विष्टावन्वेषितगवेषितौ ॥ ९८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पा (wrong syllable)
genderविadj.