कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तप्त

taptaवि · adj.

In 9 kośas: 9 synonym verses, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1493 · p. 56
तप्ते संतापितो दूनो धूपायितश्च धूपितः ॥ १४९३ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.55 · p. 27
संतापितस्तु तप्तो धूपितमवमतमवहेलितं च परिभूतम् ।अवगणितमनादृतवच्चावज्ञातापहस्तिते चात्र ॥ ५५ ॥
metre not recognised
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.370 · p. 98
प्रथिते विश्रुतः ख्यातः प्रज्ञाते वित्त इत्यपि ।तप्तधूपायितौ दूनो धूपितस्तापितः स[54]मः ॥ ३७० ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.129 · p. 42
असृग्धरा त्वचि प्रोक्ता मांसे वल्लूरमिष्यते ।वल्लुरं तरसं क्रव्यमुत्तप्तं तप्तमिष्यते ॥ १२९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2717 · p. 440
सन्तापितश्च सन्तप्तं धूपायितश्च धूपितः ।दूनस्तप्तश्च नामानि सन्तप्तस्य भवन्ति वै ॥ २७१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 यि (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.72 · p. 168
दूनः सन्तापितस्तप्तः धूपायितश्च धूपितः ।प्रीतः प्रमुदितस्तृप्तः प्रह्लन्नहृष्टमत्तवत् ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 यि (wrong syllable); pāda 4, syllable 3 न्न (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.78 · p. 255
क्लिन्ने कृन्नं सार्द्रमार्द्रं तिमितं स्तिमितं तथा ।दूते सन्तापितं तप्तं धूपायितं च धूपितम् ॥ ७८ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 यि (wrong syllable)
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.8 · p. 196
सोमलोऽवह्निको व्यक्तस्तालको जलशीनकः ।अङ्गारो दहनस्तप्तः प्रुष्वो धूम्रः प्रतापनः ॥ ८ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.98 · p. 209
सन्तापितं धूपायितं दूनं तप्तञ्च धूपिते ।मार्गिते मृगितान्विष्टावन्वेषितगवेषितौ ॥ ९८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पा (wrong syllable)
genderविadj.

तप्त as a meaning in nānārtha verses

  • कोषकल्पतरु उत्तप्तशुष्कामिषोपप्लवयोश्च तप्ते- ऽप्युत्तप्तमभ्यस्तमितेषु तु स्यात् । ज्ञातेऽपि युक्तेऽप्युचितं, त्रिषु स्या- दुद्धूतमप्युत्कलितेऽङ्कितेऽपि ॥ ७७ ॥ Koṣakalpataru 6.16.77
  • नानार्थार्णवसंक्षेप उत्तप्तखनकात् क्षत्त्रियाजाते द्वे उत्तप्तं तु नप्यदः । शुष्कमांसे त्रिषु पुनस्तप्ते दीप्तेऽप्यथो पुमान् ॥ २७५ ॥ Nānārthārṇavasaṃkṣepa 4.275
  • नानार्थार्णवसंक्षेप तातलमनोजवे तु त्रि स्याच्च तप्तेऽथो तातगुः पुमान् । क्षुद्रताते त्रि तु हिते तातायाथास्त्रियां भवेत् ॥ ८५४ ॥ Nānārthārṇavasaṃkṣepa 4.854
  • शब्दरत्नावली उत्तप्तदयात्यागादिसम्पन्ने काव्यालङ्कारहृदययोः । उत्तप्तं शुष्कमांसे स्यात्तप्ते परिप्लुते त्रिषु ॥ Śabdaratnāvalī 7.16.90
  • शब्दरत्नावली उपधूपितगिरिकर्णी जया दुर्गाशनपर्ण्यपराजिता । विधूपितासन्नमृत्योस्तप्ते स्यादुपधूपितः ॥ शङ्करेऽपिच हेरम्बे गणाधिपतिरित्यपि । पतनेच्छौ विहङ्गे च भवेत्पिपतिषन्निति ॥ ऋषभौषधिभेदे स्यान्नृपतौ पृथिवीपतिः । भूपाले मन्त्रिणि क्षत्रे मूर्धाभिषिक्त इत्यपि ॥ अम्भोनिधौ च वरुणे स्यात्पुमान् यादसांपतिः । रागभेदपिकाम्रेषु वसन्तदूत इत्यपि ॥ पाटलीमाधवीवल्ल्योर्वसन्तदूत्यपि स्त्रियाम् । Śabdaratnāvalī 7.16.178
  • वैजयन्ती तातलतातलो लोहकूटे ना त्रिषु तप्ते मनोजवे । तरलो भास्वरे हारे चञ्चलेऽप्यथ तारका ॥ ४४ ॥ Vaijayantī 7.5.44