कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अवदारण

avadāraṇaक्ली · neut.

In 10 kośas: 10 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.892 · p. 36
गोदारणं तु कुद्दालः खनित्रं त्ववदारणम् ॥ ८९२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.11 · p. 133
भूदारणं खनित्रं स्यादवदारणमित्यपि ।कुद्दालोप्यथ रम्भस्तु दण्डो दरकरोऽपि च ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.26 · p. 273
आखनिकाखनिकबकावाखर आखान आखनोऽप्याखः ।अवदारणं खनित्रं खात्रं क्लीबे च विख्यातम् ॥ २६ ॥
metre not recognised
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.10 · p. 94
स्त्री त्ववक्षेपणी घोट(रु ? कु)शायां भर्त्सने पुनः ।क्लीबेऽवक्षेपणं क्लीबं त्ववदारणमित्यदः ॥ १० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.417 · p. 153
सीरस्तु लाङ्गलं प्रोक्तं हलं गोदारणं समे ।दात्रं लवित्रमप्युक्तं खनित्रं त्ववदारणम् ॥ ४१७ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.423 · p. 79
श्रल्पशय्यायुक्तवेणुदण्डे चाथावदारणम् ।खनित्रं चापि कुद्दाले लवित्रे दात्रमिष्यते ॥ ४२३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1501 · p. 238
मत्यं ख्यातं कृषेः कर्म्महलकृष्टसमीकृतौ ।गोदारणञ्च कुद्दालः खनित्रं त्ववदारणम् ॥ १५०१ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.24 · p. 139
प्राजनं तोदनं तोत्रं तोत्रकं लगुडोऽस्त्रियाम् ।दात्रं लवित्रं खड्गीकं खनित्रमवदारणम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1413 · p. 171
मुष्टिः स्यात् कटकं बन्धः खनित्रमवदारणम् ।व्रीहयः स्तम्बकरयः शालयः सिततण्डुलाः ॥ १४१३ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.28 · p. 125
निरीषः कृषकः फालः शम्या तु युगकीलकम् ।योक्त्रं तु योत्रमाबन्धः खनित्रमवदारणम् ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.73 · p. 53
आङ्परश्छुर तिर्हासेऽथ निर्निभ्यां च कृन्ततिः ।अतिच्छेदे पापनाशे खनति त्ववदारणे ॥ ७३ ॥
अनुष्टुप्
meaningsखनति
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.74 · p. 53
खनतेऽप्यथ नेरेष न्यासोद्धरणयोर्भवेत् ।प्रलये त्विन्द्रियाणां स्यादृच्छत्यथ स संगमे ॥ ७४ ॥
अनुष्टुप्
meaningsखनते
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.11 · p. 94
खनित्रे भेदने तु स्यात् स्त्री च नप् चावदारणा ।अथाधिकरणं द्रव्य आधारेऽधिकृतौ च नप् ॥ ११ ॥
अनुष्टुप्

अवदारण as a meaning in nānārtha verses