कुट
kuṭaपुं · masc.In 19 kośas: 36 synonym verses, 10 as a nānārtha head word, 1 as a meaning of another word.
गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ ९८९ ॥मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः ।आलयो निलयः शाला सभोदवसितं कुलम् ॥ ९९० ॥धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः ।ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ ॥धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः ।
अनुष्टुप्
genderपुंmasc.
स्थाल्युखा पिठरं कुण्डं चरुः कुम्भी घटः पुनः ।कुटः कुम्भः करीरश्च कलशः कलसो निपः ॥ १०१९ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षो महीरुहः शाखी विटपी पादपस्तरुः ।अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंक्लीm. n.
आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयःशाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
कोशिका मल्लिका प्रोक्ता पिधानं स्यादुदञ्चनम् ।घटः करीरः कलशः कुटः कुम्भो निपः स्मृतः ॥ ३१६ ॥
अनुष्टुप्
genderपुंmasc.
अस्त्रियां कटकं चक्रमनीकं च चमुस्त्रियाम् ।गलोर्गलः कुटः कोटः कोटो दुर्गश्च पुंस्यमी ॥ २४९ ॥
अनुष्टुप्
genderपुंmasc.
कुम्भश्च कलसोऽपि स्यात्करीरोऽपि कुटोऽस्त्रियाम् ।निपोप्यथ स्त्रियां पारी दोहनी रोहणीति च ॥ १०३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अग्निव्याघ्राभिधश्चापि चित्रकः शंवरः कुटः ।कृष्णे व्यालः कालमूलो मार्जारोप्यतिदीप्यकः ॥ ३५३ ॥
अनुष्टुप्
genderपुंmasc.
अनोकहोऽगः शिखरी शाखी शालः पलाश्यपि ।द्रुर्द्रुमोऽद्रिः कुटो नागो नन्द्यावर्त्तो हरिद्वसुः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
विघसस्य वृत्तिकुटिवितस्तीनां कुटेरपि ।ऊमीशमीमेथिमेधिमसीनां पाटलेरपि ॥ १२२ ॥
metre not recognisednearly अनुष्टुप्
genderपुंस्त्रीm. f.
ज्योतिर्ज्वालः शठो व्यालो वल्ली(?)वह्निः कुटः शिखी ।चव्यं त्रिषु स्याच्चवनं चविका कोलवल्लरी ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
वार्द्धनी कारकोऽस्त्री स करङ्को नालिकेरजः ।* * * * * * * * कुम्भी कुम्भीरुखा कुला ।चरुर्ना पिठरस्त्रय्यां कलशः कलसस्त्रिषु ।घटः कुम्भः करीरो ना न स्त्री कुट-निपावुभौ ।घटः कुम्भश्च मिथुने करीरोऽस्त्री कुटो निपः ॥ ६४ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
रज्जुः समासेऽथ खनौ च गञ्जालाजा बहुत्वे च भुजो वराटः ।रज्जौ च शस्त्रे च गृहे कुटः स्या-त्कुटिस्तुटिः स्याच्च सटा घटा च ॥ २० ॥
उपजातिः
genderपुंस्त्रीm. f.
कव(वा)टं कपटं खेटं कर्पटं पिष्टकोष्टवत् ।चटु चाटु किरीटं च अगलःटं( ? )मकुटं कुटम् ॥ ४२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 अग (syllable split)
genderपुंक्लीm. n.
चित्रके वल्लरी व्यालः पाठीनो दारुणः कुटः ।ज्योतिष्को जरणोऽग्न्याख्यो वलिनद्विपिपाठिनः ॥ २४८ ॥
अनुष्टुप्
genderपुंmasc.
चुल्यधिश्रयिणी स्थाली पिठरोखे चरुस्तथा ।कुटो निपो कटः कुम्भः करीरकलसौ समौ ॥ २९७ ॥
अनुष्टुप्
genderपुंmasc.
शङ्कुश्चतुर्दशाङ्कार्थे पुंस्त्रीलिङ्ग उदीरितः ।दुर्गतिर्निरये कक्षो दोर्मूलेऽथ कुटो गृहे ॥ १०२ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
नटः किरीटः कुटकर्पटौ चकूटारकूटौ विटकोट्टकुष्ठाः ।खेटाट्टपिष्टानि कटश्च लोष्टःप्रोक्तौ तथा त्र्यङ्गटकालकूटौ ॥ १३५ ॥
उपजातिः
genderपुंक्लीm. n.
कुण्डे तु पिठरः स्थाली पिठरी चाप्युखा सुखा ।घटे तु कुमुदः कुण्डी निपातः(वः?) कुट इत्यपि ॥ ४४७ ॥
अनुष्टुप्
genderपुंmasc.
तरुर्महीरुहो वृक्षः पादपो विटपी कुटः ।पलाशी मूलपः शालो दुर्द्रुमो वल्लरीपतिः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षो द्रुमस्तरुः शाखी पादपश्च महीरुहः ।अनोकहोंऽह्रिपः सालः पलाशी विटपी कुटः ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
आगारं वेश्म वसतिर्निशान्तं शरणं क्षयः ।प्रासाद आलयः सौधं हर्म्यं गेहं कुटाश्रयौ ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
ओकश्च धाम धामञ्च शाला कुलं तथा कुटः ।नामान्येतानि कथ्यन्ते गृहस्य साक्षरैः किल ॥ १६९९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable); pāda 4, syllable 3 स्य (wrong syllable)
genderपुंmasc.
घटः कुम्भः करीरश्च कलशः कलसः कुटः ।निपश्चेत्यादिनामानि मन्यन्ते पण्डितै जनैः ॥ १७५३ ॥
अनुष्टुप्
genderपुंmasc.
आरोहकः कुटः कुठः कारस्करः करालिकः ।अगोऽगमो नगो गच्छः सीमिको हरितच्छदः ॥ १९५३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
द्वयोर्घटः कुटनिवापस्त्री तु कलशस्त्रिषु ।कलसश्च द्वयोः कुम्भः कुम्भी च कलसी घटी ॥
अनुष्टुप्
genderपुंक्लीm. n.
निरीषे तु कुट-कूटौ कुटकं, कुशिकं पुनः ।कृशिकश्च फलं फालः कुद्दालश्च कुदालवत् ॥ ३३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ट (wrong syllable)
genderपुंmasc.
गृहं गेहं धाम धामं मन्दिरं मन्दिरा कुटिः ।कुटः कुट्योकः सान्तं षण् पुंस्योकोऽदन्त उच्यते ॥ ३४ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 कः (wrong syllable)
genderपुंmasc.
उखः स्थालं स्थालिः स्थाली कुण्डकुण्डी च कुण्डिवत् ।कुण्डी कुम्भिः कुम्भी घटे घटी कुटोऽस्त्रियां कुडः ॥ ६० ॥
metre not recognised
genderपुंक्लीm. n.
हयमारे करवीरः कणवीरस्तथा मतः ।प्रतिहासः प्रतीहासः स्याद्गिरिमल्लिका कुटः ॥ १४९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable); pāda 4, syllable 3 रि (wrong syllable)
genderपुंmasc.
पादपवृक्षपलाशिद्रुमतरुकुटविटपिशाखिनगसालाः ।अगमो द्ररगो भूरुट् कुजोऽनोकह इत्यपि ॥ ४३९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अलिञ्जरो द्वयोः कुम्भघटौ पुंसि निपः कुटः ।कलशं त्रिषु वा क्लीबे करीरः कर्करी स्त्रियाम् ॥ ८९७ ॥
अनुष्टुप्
genderपुंmasc.
उग्रमूढा निषादी तु वेणुकं कुक्कुटी कुटम् ।तीवरी महिषं वेनी रट्टासं पुल्कसी बकम् ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
अब्धिजे लवणे खण्डं त्रिकूटं त्रिकुटं कुटम् ।भोजनीयं कटकटमणु प्रवरवारिजे ॥ ११९ ॥
अनुष्टुप्
genderक्लीneut.
भृङ्गारो हेमकरकः करंको नालिकेरजः ।निपो घटः कुटः कुंभः करीरः कलशी त्रयी ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्वाणपिप्पलौ वृक्षे नाभिर्वृन्ते तु वर्ष्मणः ।बलिरर्थविशेषेऽपि प्रधिर्नेमौ कुटो गृहे ॥ ११० ॥
अनुष्टुप्
meaningsगृह
घटः समाधौ कुटमौलिकूटयो-र्घटा[तु] गोष्ठ्यां गजसज्जनायाम् ।कुटस्तु कूटे च घटे च तद्व-द्वलाङ्गके प्रस्तरकुट्टके स्त्री ॥ ३ ॥
upajati mixed
कट्फलादेस्तु मूले च प्रसवे च नपुंसकम् ।यथाप्रयोगं बोद्धव्यं कुटस्तु कलशे पुमान् ॥ २२१ ॥
अनुष्टुप्
meaningsकलश
गृहे स्त्रीपुंसयोरेके कुटी कुट इति द्वयम् ।अन्ये त्वाहुः क्षुद्रगृहे पल्लीसंज्ञे कुटी स्त्रियाम् ॥ २२२ ॥
अनुष्टुप्
meaningsगृह
ज्योतिष्मत्यां काकमात्यामथ त्रिकटुके कटु ।कुटो हुतभुजि स्त्री तु गन्धकुट्यां कुटी कुटिः ॥ ११७ ॥
अनुष्टुप्
meaningsहुतभुज्
सुरायां स्त्री कीकटुस्तु निःस्वे देशे मितम्पचे ।खेटः सिङ्घाणके हीने गृष्टिर्धेन्वौषधीभिदोः ॥ ९५ ॥
अनुष्टुप्
meaningsसुरा
doubtful
कुट as a meaning in nānārtha verses
- धरणिकोश पाकलनिष्कलं निरज्जनं स्यान्निष्कला विगतार्तवा । पाकलं कुटमाख्यातं गजरोगश्च पाकलः ॥ Dharaṇikośa 27.2.31