परात्मन्
parātmanपुं · masc.In 3 kośas: 1 synonym verse, 12 as a meaning of another word.
परात्मा भगवान् हंसः पुरुषः स्यादजोऽव्ययः ।स्यादौपनिषदस्तत्त्वं ब्रह्माऽद्वैतं तद[2b]क्षरम् ॥ १५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परात्मन् as a meaning in nānārtha verses
- कोषकल्पतरु सिद्धार्थस्यात्सर्षपेऽच्छेऽ परात्मनि[3b]स्या- त्कायस्थ उक्तो नरजातिभेदे । स्त्री त्वामलक्यां च तथाभयायां वयःस्थ उक्तस्तरुणोऽन्यलिङ्गः ॥ ९ ॥ Koṣakalpataru 6.18.9
- कोषकल्पतरु योजनन्यासे लिपेर्वाद्यगतं च तद्व- त्स्याद्योजनं क्रोशचतुष्टयेऽपि । योगे परात्मन्यथ गर्जनं स्या- त्कोपे च हस्त्यम्बुदवाद्यशब्दे ॥ ५९ ॥ Koṣakalpataru 6.21.59
- कोषकल्पतरु प्रधानप्रज्ञामहामात्रपरात्मसु स्या- त्प्रधानमैक्ये तु सदोत्तमे तत् । स्याद्राधनं तोषणसाधनाभिः समार्थकं संघटनाभिषुत्योः ॥ ६८ ॥ Koṣakalpataru 6.21.68
- कोषकल्पतरु ब्रह्मन्योगान्तरेऽप्यृत्विजि भास्वतीन्दौ स्त्रियां तु नाध्यात्मतपःसु तत्त्वे । ज्ञाने परात्मन्यपि तद्वदाहुः शर्मान्तिमे नाम्नि सुखे द्विजे नो ॥ ८७ ॥ Koṣakalpataru 6.21.87
- कोषकल्पतरु महालयवार्ते तथा वीतगदे विशेष्ये समाह्वयो द्यूतविधौ हयाद्यैः । रणे, विहारे तु महालयः स्या- त्तीर्थे[43a]परात्मन्यपि संप्रदिष्टः ॥ ८४ ॥ Koṣakalpataru 6.26.84
- कोषकल्पतरु तत्त्वविल्वं फले श्रीफलवाचकं च तत्त्वं परात्मन्यपि वाद्यभेदे । तथा स्वरूपे त्रितये तु खर्वे ह्रस्वे न्यगर्थेऽपि च खर्व एवम् ॥ २ ॥ Koṣakalpataru 6.29.2
- कोषकल्पतरु हंसत्रासो भये स्यान्मणिदोषकेऽथ हंसः परात्माच्युतभास्करेषु । निर्लोभभूपे तुरगप्रभे[दे] विहंगभेदेऽपि च योगिभेदे ॥ ८० ॥ Koṣakalpataru 6.31.80
- शब्दरत्नावली प्रधानतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नावली योजनमार्जनो लोध्रवृक्षे स्यात्क्लीबं मार्ष्टौ तु मार्जनम् । मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु ॥ मैथुनं सङ्गते क्लीबं सुरते च नपुंसकम् । यमनो ना यमे क्लीबं बन्धे चोपरतावपि ॥ यवनो जातिभिद्देशभिदोर्वेगाश्वयोरपि । यवन्योषधिभेदे स्त्री वेगिनि त्वभिधेयवत् ॥ यापनं स्यान्निरसने कालक्षेपे च वर्त्तने । युवा श्रेष्ठे च तरुणे निसर्गबलसंयुते ॥ योजनं स्याच्चतुष्क्रोश्यां योगमाने परात्मनि । रसनं स्वादने शब्दे स्याद्रास्नाजिह्वयोः स्त्रियाम् ॥ Śabdaratnāvalī 7.20.68
- शब्दरत्नावली अन्तरअमरस्त्रिदशे वज्रद्रुमेनेन्द्रपुरि स्त्रियाम् ॥ गुडुच्यामपि दूर्वायां जरायुस्थूनयोरपि । अपरा च जरायौ स्याद्गज(?)पश्चार्द्धके स्त्रियाम् ॥ अर्वाचीने वाच्यलिङ्गमितरस्मिन्नपि त्रिषु । अछरो वसुभेदे स्यात्सावधाने क्रतौ पुमान् ॥ अन्तरे परिधाने स्यादवकाशे परात्मनि । छिद्रतादर्थ्यभेदेषु तुल्येऽवसरमध्ययोः ॥ Śabdaratnāvalī 7.27.52
- शब्दरत्नावली कलहंसकलहंसश्च कादम्बे राजहंसे परात्मनि । कनीयाननुजेऽत्यल्पे तरुणेऽपि च वाच्यवत् ॥ Śabdaratnāvalī 7.32.43
- तन्त्राभिधान क्षपरात्मा क्रोध-संहारौ वनान्तो मेरुवाचकः । सर्वाङ्गं सागरः कामः संयोगान्तस्त्रिपूरकः ॥ १७१ ॥ Tantrābhidhāna 2.52.171