कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भगवत्

bhagavatपुं · masc.

In 15 kośas: 20 synonym verses, 6 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.25 · p. 5
अर्हञ्जिनः पारगतस्त्रिकालवित्क्षीणाष्टकर्मा परमेष्ठ्यधीश्वरः ।शंभुः स्वयंभूर्भगवाज्जगत्प्रभुस्तीर्थंकरस्तीर्थकरो जिनेश्वरः ॥ २४ ॥स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ ।देवाधिदेवबोधिदपुरुषोत्तमवीतरागाप्ताः ॥ २५ ॥
इन्द्रवंशा
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.270 · p. 17
पूज्ये तत्रभवानत्रभवांश्च भगवानपि ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.34 · p. 3
बुद्धे तु भगवान् योगी बुधो विज्ञानदेशनः ॥ ७९ ॥महासत्त्वो लोकनाथो बोधिरर्हन्सुननिश्चितः ।गुणाब्धिर्विगतद्वन्द्वो वचने स्यात्तु जल्पितम् ॥ ८० ॥लपितोदितभणिताभिधानगदितानि च ।
metre not recognisednearly अनुष्टुप्nearly अनुष्टुप्: pāda 1, syllable 4 दि (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.15
सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः ।समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ॥ १३ ॥षडभिज्ञो दशबलोऽद्वयवादी विनायकः ।मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः ॥ १४ ॥स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ।गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.155 · p. 19
तत्रभवान् भगवानिति शब्दो वृद्धैः प्रयुज्यते पूज्ये ।पादा इति नामान्ते देवो भट्टारको वापि ॥ १५५ ॥
आर्या
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव जिनप्रकाण्डः Kalpadrukośa 1.18.5 · p. 368
समन्तभद्रो भगवान् धर्मकालः सुभाषितः ।षडभिज्ञो दशबलो व्योमाभस्तीर्थकृन्मुनिः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.89 · p. 427
अथ तत्रभवानत्रभवांश्च भगवानपि ।आर्यमिश्रागौरविताः पूज्ये योज्या अमी त्रिषु ॥ ८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गौ (wrong syllable)
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.15 · p. 2
परात्मा भगवान् हंसः पुरुषः स्यादजोऽव्ययः ।स्यादौपनिषदस्तत्त्वं ब्रह्माऽद्वैतं तद[2b]क्षरम् ॥ १५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.50 · p. 13
अद्वै[9b]तवादी भगवान् खजिद्विज्ञानमातृकः ।तायी गुणाकरो विश्वबोधः स्यात्कलिशासनः ॥ ५० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.44 · p. 80
तत्रभ[51a]वत्तत्र भवन्भगवन्नेवं च संबोध्याः ।तत्तन्नाम्नश्च परैः पादाद्यैर्यजनीया ये ॥ ४४ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.225 · p. 32
भगवद्भट्टारकौ पादात्रभवन्तौ विभाविभौ ।भूमिर्भूर्वसुधा विश्वा धरोर्वी जगती रसा ॥ २२५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त्रभ (syllable split)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.6 · p. 1
देवाधिदेवः सर्वज्ञो वीतरागो जिनेश्वरः ।तीर्थंकरो जगन्नाथो जिनोऽर्हन्भगवान्प्रभुः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.8 · p. 3
अर्हन् जिनस्त्रिकालज्ञः परमेष्ठी जगत्प्रभुः ।स्वयम्भूर्भगवान् शम्भुस्तीर्थङ्करो जिनेश्वरः ॥ ८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्क (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.333 · p. 44
पञ्चज्ञानो महामैत्रो मुनीन्द्रश्च विनायकः ।धर्मधातुर्दयाकूर्चो भगवान् दशभूमिगः ॥ ३३३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.493 · p. 61
भदन्ताश्चापि वै ज्ञेयाः सौगतप्रमुखाश्च ये ।पूज्यस्तत्रभवानत्रभवांश्च भगवानपि ॥ ४९३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.16 · p. 2
बृद्धो मुनीन्द्रो भगवान् श्रीघनः सुगतो मुनिः ।समन्तभद्रः सर्वज्ञो धर्मचक्रस्तथागतः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.91 · p. 169
क्षेपिष्ठादिः प्रकर्षार्थः साधिष्ठादिर्भृशार्थकः ।भट्टारकस्तु भट्टारो भगवान् पूज्य इत्यपि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.40 · p. 5
समन्तभद्रो भगवान्धर्मराजस्तथागतः ।अथ शौद्धोदनिः शाक्यसिंहः सर्वार्थसिद्धकः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव विशेष्यनिघ्नवर्गः Trikāṇḍaśeṣa 3.1.14 · p. 83
भट्टारो भगवान्पूज्यः शक्रप्रतिबलौ समौ ।पटुः पाटविको धूर्तः स्थगस्तीक्ष्णस्तु राजघः ॥ १४ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश लिङ्गसङ्ग्रहाध्यायः Vaijayantī 8.9.46 · p. 293
भट्टारको भट्टरको भट्टस्तत्रभवान् भवान् ।भगवान् पूज्यपादश्च देवाश्चार्चार्थिकास्तथा ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास तपादः Dharaṇikośa 15.1.27 · p. 65
गरुत्मान्विहगे तार्क्षे विवस्वांस्त्रिदशेश्वरे ।भगवांस्त्वागते पूज्ये संख्यावान्पण्डिते मिते ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ चतुरक्षरतान्ताः । Koṣakalpataru 6.17.69 · p. 227
बुधे रवौ विवस्वान्भगवान्पूज्ये च रुद्रे च ।स्याद्द्वीपवान्नदेऽब्धौ द्वीपवती त्वापगापृथ्व्योः ॥ ६९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 द्रे (wrong syllable); pāda 4, syllable 7 पृ (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1285 · p. 159
कपर्दे तु पुमान्ना तु भगवान् हरशार्ङ्गिणो ।बुद्धे च त्रि तु पूज्येऽथ पार्वत्यां भगवत्यसौ ॥ १२८५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.171 · p. 225
पारावती नदीगोपगीत्योश्च लवलीफले ।पारावतः कलरवे पुमान् मर्कटतिन्दुके ॥पुष्पदन्तो भवेद्विद्याधरे दिग्वारणान्तरे ।भगवान् त्रिषु पूज्ये स्याद् गौर्यां स्त्री तु जिने पुमान् ॥स्त्रियां भोगवती गङ्गा सर्पपुर्योरहौ पुमान् ।रङ्गमाता च कुट्टन्यां रोगवृक्षभिदोः(?) स्त्रियाम् ॥लक्ष्मीपतिर्नरपतौ वासुदेवे भवेत्पुमान् ।व्यतिपातो योगभेदे महोत्पातापमानयोः ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.174 · p. 150
रामानुजे नाट्यशास्त्रे दौष्मन्तौ भरतो नटे ।जिने पूज्ये च भगवान्भोगवानाढ्यनागयोः ॥ १७४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.31 · p. 279
भगवत्युमा भगवान् बुद्धे पूज्ये हरे हरौ ।भोगी ग्रामाद्यधिकृते सर्पे सुखिमहीभुजोः ॥ ३१ ॥
अनुष्टुप्metre not read in every line