कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अक्षर

akṣaraक्ली · neut.

In 18 kośas: 24 synonym verses, 10 as a nānārtha head word, 18 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.76 · p. 6
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.62 · p. 6
नाराचो लोहनालोऽस्त्रसायकोऽसिस्तु सायकः ॥ १४२ ॥श्रीगर्भो विजयः शास्ता व्यवहारः प्रजाकरः ।धर्मपालोऽक्षरो देवस्तीक्ष्णकर्मा दुरासदः ॥प्रसङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः ।करपालो विशसनस्तीक्ष्णधारो विषाग्रजः ॥धर्मप्रचारो धाराङ्गो धाराधरकरालिकौ ॥ १४३ ॥चन्द्रभासश्च शस्त्रोऽथ क्षुर्यस्त्री कोशशायिका ।पत्त्रं च धेनुका पत्त्रपाले तु हुलमातृका ॥ १४४ ॥कुट्टन्ती पत्त्रफलाथ शक्तिः कासूर्महाफला ।अष्टतालायता सा च पट्टिसस्तु खुरोपमः ॥ १४५ ॥लोहदण्डस्तीक्ष्णधारो दुःस्फोटाराफलौ समौ ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 फ (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.124 · p. 15
कैवल्यं निर्वाणं निःश्रेयसममृतमक्षरं ब्रह्म ।अपुनर्भवोऽपवर्गो मुक्तिर्मोक्षो महानन्दः ॥ १२४ ॥
आर्या
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.94 · p. 416
क्षेत्रज्ञ आत्मा पुरुषः पूरुषश्चाक्षरः कविः ।अन्तर्यामीश्वरो देही जीवोऽजो बहुलोऽतनुः ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.95 · p. 416
ब्रह्मास्त्रियां कः स एष पुमर्थः प्रकृतिः स्त्रियाम् ।स्वः षण् प्रधानमव्यक्तमक्षरं बहुधातुकम् ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.155 · p. 434
निर्वाणमपि कैवल्यमक्षरं च महासुखम् ।अथ स्युः पञ्च भूतानि व्योमेराग्न्यम्बुभूमयः ॥ १५५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.48 · p. 444
क्लीबेऽक्षरं तु वर्णोर्णो ग्रन्थो द्वात्रिंशदक्षरी ।अपि प्रबन्धः सन्दर्भः सूत्रं सूचनकारि यत् ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.15 · p. 2
परात्मा भगवान् हंसः पुरुषः स्यादजोऽव्ययः ।स्यादौपनिषदस्तत्त्वं ब्रह्माऽद्वैतं तद[2b]क्षरम् ॥ १५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.33 · p. 4
मोक्षः स्यादपुनर्भवोऽपि च महानन्दोऽपवर्गस्तथादुःखौघप्रलयो महोदयद्रहः स्त्री निर्वृतिः सिद्धिवत् ।मुक्तिर्ब्रह्म नपुंसकेऽमृतशिवश्रेयांसि निःश्रेयसम्निर्वाणं सुखमक्षरं च कथितं कैवल्यमुच्चैःपदम् ॥ ३३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 10 य (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.61 · p. 60
त्रिष्वार्थिकं तथार्थ्यं च भवेदर्थान्वितं हि यत् ।* * * * * * * * वर्णोऽस्त्र्यक्षरमन्तिमे ।अचः स्वरा व्यञ्जनं हल् वर्गाः स्पर्शास्तथोहितः ॥ ६१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.8 · p. 107
अक्षरमजिरमुशीरंचीवर-चीरे तथैव काश्मीरम् ।जर्जर-कुटीर-वल्लरकर्बुर-कादम्बरोशीरम् ॥ ८ ॥
metre not recognised
genderक्लीneut.
एते शब्दाः स्त्रियांभवन्ति । इयमीर्ष्याऽसूया । रुचिर्दीप्तिः अभिलाषो वा । स्फुलिङ्गा अग्निकणाः । शय्या शयनीयम् । निःश्रेणी अधिरोहणी । कोटिः सङ्ख्या । कुटी गृहम् । वाणी वाक् । पेशी मांसपिण्डी । वरूथिनी सेना । कुथा उर्णाकृता । नाडिका कालपरिमाणम् । कन्था जीर्णवासःप्रावरणम् ।नाड्युपपदं व्रणं पुंसि वृक्षजनपांसुकन्दुककलशाश्च ।पञ्जरपलितद्वन्द्वाक्षराणि विद्यादितरजातौ ॥ ६२ ॥
metre not recognised
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.97 · p. 223
उशीरमक्षरं चैव सिन्दूरशिबिरोदरम् ।यवसं तरसं मत्सं विसमर्पिशकिल्बिषे ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.12 · p. 3
स्यात्परेष्टिः शतधृतिर्हेमाङ्गो द्रुघणोऽपि च ।अक्षरः करणं प्राणो विराड्गोपतिगोमुखौ ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.50 · p. 7
बभ्रुर्दक्षः शुचिः प्राणः प्रलम्बो भृगुरित्यपि ।वृषाङ्कः शम्बरः शङ्कुः केदारोऽक्षर एव च ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.25 · p. 2
अर्णःशब्दोऽक्षरं वर्णः श्लोकः पद्यं सुभाषितम् ।मसीधेनुर्मषीपात्रं लेखनी वर्णतूलिका ॥ २५ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.49 · p. 8
निर्वाणं निर्वृतिः शान्तिः सर्वदुःखक्षयः शिवः ।निर्याणमपवर्गश्चाऽक्षरं चेति शिवाभिधाः ॥ ४९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1284 · p. 201
श्रीगर्भस्तीक्ष्णकर्मा च शस्त्रः कौक्षेयकोऽक्षरः ।व्यवहारश्च देवोऽसिः विजयश्च विषाग्रजः ॥ १२८४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.169 · p. 12
नाक-विष्णुपद-व्योम-नभं पुस्करमक्षरम् ।विहायसमनङ्गञ्च खमनन्तत्रिपिष्टपम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1242 · p. 152
बद्धदर्भा देवयष्टिश्चर्या त्वीर्यापथे स्थितिः ।व्रज्याटाट्याटनं क्लीबे त्वक्षरं वर्णमस्त्रियाम् ॥ १२४२ ॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात ॐ Tantrābhidhāna 2.1.4 · p. 5
गायत्री-बीजपञ्चांशौ मन्त्रविद्याप्रसूः प्रभुः ।अक्षरं मातृकासूश्चानादिरद्वैत-मोक्षदौ ॥ ४ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव व्योमवर्गः Trikāṇḍaśeṣa 1.2.1 · p. 15
कुनाभिः स्याद्विहायस्तु खं भरुन्मेघवर्त्म च ।अक्षरं चाथ
अनुष्टुप्metre not read in every line
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.6 · p. 271
क्लीबे कलत्रविषबीजकुटुम्बरत्नतल्पोक्थकुङ्कुमप्रवीणतृणाक्षराणि ।शृङ्गादपीठगृहभेषजपृष्ठकिण्वदैवाण्डभाण्डचिवुकोडुपसाहसानि ॥ ६ ॥
वसन्ततिलकाmetre not read in every line
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.162 · p. 96
असदक्षरमव्यक्तं तमः सदसदात्मकम् ।अलिंगं गुणसामान्यं गुणाः सत्त्वं रजस्तमः ॥ १६२ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.182
चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च ॥ १८२ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास रपादः Dharaṇikośa 26.1.21 · p. 165
प्रवरं संततौ श्रेष्ठे चाक्षरं ब्रह्मवर्णयोः ।प्रतीहारो द्वारि द्वाःस्थे संप्रहारः सृते हतौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वा (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.87 · p. 315
अस्त्यक्षरं ब्रह्मणि वर्णमुक्त्यो-रन्त्ये ध्रुवेऽन्योपममृक्षरो ना ।स्यात्कण्टकेऽप्यृत्विजि वारिधारा-वाची तु षण्ढे प्रवरस्तु न स्त्री ॥ ८७ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.5 · p. 47
त्रिस्त्वप्र(ती?मी)त एकान्तसुन्दरे स्वादुनित्ययोः ।हृद्ये चाथाक्षरः पुंसि विरिञ्चे विष्णुखड्गयोः ॥ ५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 त्रि (syllables merged)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.6 · p. 47
क्ली तु वाचि विधौ धर्मे वर्णेऽम्बुतमसो क्रतौ ।अक्षराख्ये सामभेदे खे मोक्षे मूलकारणे ॥ ६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.7 · p. 47
परमाणौ ब्रह्माणि च प्रणवे तु नृशण्डयोः ।त्रिस्त्वक्षरितरि स्याच्चाविद्यमानक्षरे तथा ॥ ७ ॥
अनुष्टुप्metre not read in every line
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.21 · p. 163
अनन्तस्तु हरौ शेषबलयोरक्षरं शिवे ।परब्रह्मणि धर्मे चाध्वरवर्णनभःस्वपि ॥ २१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.55 · p. 269
अजिरं प्राङ्गने देहे दर्द्दूरे विषयेऽनिले ।अक्षरं न द्वयोर्ब्रह्मवर्णयोर्ना हरे हरौ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2043 · p. 248
अक्षरः पुरुषे ब्रह्मवर्णनिःश्रेयसेऽक्षरम् ।आलोकौ दर्शनद्योतावाहवौ समराध्वरौ ॥ २०४३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.3 · p. 257
अक्षरोऽसौ हरौ धातर्यक्षरं प्रणवे विधौ ।धर्मे वर्णे तपःक्रत्वोः खे मोक्षे मूलकारणे ॥ ३ ॥
अनुष्टुप्

अक्षर as a meaning in nānārtha verses