कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

स्वर्गकाण्डः · परमात्मवर्गः

[1b] ॥ श्रीमन्मङ्गलमूर्त्तिर्जयति ॥

॥ श्रीगुरवे नारायणाय श्रीरुक्मिणीजानये नमः ॥ श्री ॥

कोषकल्पतरुः

श्रीपीताम्बरमालम्बे निरालम्बावलम्बदम् ।अजिष्णुमतयः शब्दब्रह्मरूपं वदन्ति यम् ॥ १ ॥
1.1.1 · p. 1
अनुष्टुप्
श्रीनारायणनामानमानम्य पितरं चिरम् ।कोषकल्पतरुं कुर्मः शर्मणे कविसंसदः ॥ २ ॥
1.1.2 · p. 1
अनुष्टुप्
रूपभेदात्साहचर्यात्समासाद्विधितस्तथा ।समुल्लसल्लिङ्गभेदैः श्लेषादौ संशयच्छिदे ॥ ३ ॥
1.1.3 · p. 1
अनुष्टुप्
स्वरव्यञ्जनवैचित्र्यात्पृथक्पृथगुदाहृतैः ।नामभिर्विलसद्वर्गशाखासर्गनिरर्गलः ॥ ५ ॥
1.1.5 · p. 1
अनुष्टुप्
अशेषकोषकृद्ग्रन्थशिष्टनामफलोचितः ।कोषकल्पतरुस्तोषं कवीनामेष धास्यति ॥ ६ ॥
1.1.6 · p. 1
अनुष्टुप्
शास्त्रानुशिष्टकविभाषितदृष्टमृष्ट-नानानवीनतरनामफलानि चिन्वन् ।श्रीविश्वनाथकृतकोषसुकल्पवृक्षा-न्न क्षोभमेति सुकविर्नवभव्यकाव्ये ॥ ७ ॥
1.1.7 · p. 1
वसन्ततिलका
रूढयौगिकमिश्रत्वैस्त्रिधा नामा[2a]नि निर्द्दिशेत् ।अव्युत्पन्नानि रूढानि यथा स्याद्गोमतल्लिका ॥ ८ ॥
1.1.8 · p. 1
अनुष्टुप्metre not read in every line
संबन्धगुणकर्माद्यैर्व्युत्पत्त्या यौगिकानि च ।परिवृत्तिसहान्येतान्युर्व्वीशो भूपतिर्यथा ॥ ९ ॥
1.1.9 · p. 1
अनुष्टुप्
न सहन्ते परावृत्तिमिश्राणि न उदाहृतिः ।प्राक्पदं वडवाग्न्यादौ वार्निध्यादौ तथोत्तरम् ॥ १० ॥
1.1.10 · p. 1
अनुष्टुप्
परिवृत्तिं न सहते गीर्वाणादौ पदद्वयम् ।तस्मात्कविपथं ज्ञात्वा नामानि परिवर्त्तयेत् ॥ ११ ॥
1.1.11 · p. 1
अनुष्टुप्
त्रितये त्रिषु सर्वस्मिन्निति लिङ्गत्रयात्मकम् ।द्वि द्वंद्वशब्दोपादाने पुंस्त्रीलिङ्गं समुन्नयेत् ॥ १२ ॥
1.1.12 · p. 2
अनुष्टुप्
पुंलिङ्गमादि पुंशब्दैः स्त्रीलिङ्गं वनितार्थकैः ।क्लीबं चरमषण्ढाद्यैः शिष्टं लिङ्गं निषेधनात् ॥ १३ ॥
1.1.13 · p. 2
अनुष्टुप्
काव्यादावप्रयोगेऽपि पुंस्त्वादेर्दैवतादिषु ।वदन्ति तद्विना काव्यं साधुतेत्यनुशासनम् ॥ १४ ॥
1.1.14 · p. 2
अनुष्टुप्
परात्मा भगवान् हंसः पुरुषः स्यादजोऽव्ययः ।स्यादौपनिषदस्तत्त्वं ब्रह्माऽद्वैतं तद[2b]क्षरम् ॥ १५ ॥
1.1.15 · p. 2
अनुष्टुप्metre not read in every line
ओमव्ययं तथाथ स्यान्मायाऽजा प्रकृतिः प्रसूः ।प्रधानं बीजमव्यक्तमीशोऽसौ मायया वृतः ॥ १६ ॥
1.1.16 · p. 2
अनुष्टुप्
अविद्यासंवृते स्वात्मा क्षेत्रज्ञः पुरुषोऽतसः ।इन्द्रश्च चेतनोऽध्यात्मं त्वव्ययं क्लीबमत्र तु ॥ १७ ॥
1.1.17 · p. 2
अनुष्टुप्
भवे त्रिष्वाध्यात्मिकं स्यादात्मनीनं तु यद्धितम् ।स्यादात्मनेऽथ क्षेत्रज्ञभिन्नोऽक्षेत्रज्ञ उच्यते ॥ १८ ॥
1.1.18 · p. 2
अनुष्टुप्
जीवजन्युं प्राणिनोऽस्मिन्नंशुमान्सत्त्वमस्त्रियाम् ।क्लीबे प्रकाशार्कसत्त्वं रजो ना रञ्जकं रजः ॥ १९ ॥
1.1.19 · p. 2
अनुष्टुप्
तमं तमः प्रमोहीति त्रयो मायोदिता गुणाः ।निमित्तं कारणं बीजमुपादानं निबन्धनम् ॥ २० ॥
1.1.20 · p. 2
अनुष्टुप्
हेतुर्नाऽथ द्वयोर्योनिर्निदानं त्वादिकारणम् ।जन्यं कार्यं जन्म-जनुर्-जननान्युद्भवो भवः ॥ २१ ॥
1.1.21 · p. 2
अनुष्टुप्
जनितासंभवौ जन्यौ तस्योत्पत्तिः जनिर्जनी ।आजन्ममव्ययं क्लीबे जन्माभिव्यापिनीह तु ॥ २२ ॥
1.1.22 · p. 3
अनुष्टुप्
आजन्मिकं भवेऽथान्तर्जन्मिकं मध्यजन्म[3a]जम् ।संसारोऽस्त्री गर्भवासोद्भवः संसरणं तथा ॥ २३ ॥
1.1.23 · p. 3
metre not recognised
पुंसि भूम्यसवो नित्यं प्राणा वातहृतौ पुनः ।जीवो जिगत्नुः स्त्री जीवा जीवः प्राणनजीवने ॥ २४ ॥
1.1.24 · p. 3
अनुष्टुप्
श्वसितं श्वसनं श्वासः सोऽन्तर्वदन आहरः ।अनोच्छ्वासौ बहिर्वक्त्रौ निःश्वासः पान एतनः ॥ २५ ॥
1.1.25 · p. 3
अनुष्टुप्
आयुः पुमानुकारान्तः सकारान्तं नपुंसकम् ।पुंसि जीवितकालश्च पूर्णं तत्पुरुषायुषम् ॥ २६ ॥
1.1.26 · p. 3
अनुष्टुप्
आयुर्द्वयसमाहारे द्व्यायुषं त्र्यायुषं पुनः ।आयुस्त्रयसमाहारेऽथायुष्यं तत्प्रयोजनम् ॥ २७ ॥
1.1.27 · p. 3
अनुष्टुप्
आयुर्वृद्धिकरो यज्ञ आयुष्टोमः प्रकीर्तितः ।आयुष्मान् जीवथो जैवातृकः स्याच्चिरजीवनः ॥जीवनीयं जीवहितं प्राणदं च रसायनम् ।जीव्यं त्रिष्वथ जीवातुरस्त्रियां जीवनौषधम् ॥ २८ ॥
1.1.28 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जी (wrong syllable)
जातिर्जातं च सामान्यं व्यक्तिः स्त्री पृथगात्मता ।जीवात्मनो मनोग्राहिधर्माधर्मादयो गुणाः ॥ २९ ॥
1.1.29 · p. 3
अनुष्टुप्
चित्तेऽन्तः[3b]करणं मनोऽपि हृदयं हृच्चेतसी मानसम्स्वान्तं गूढपथोच्चलेऽलिगु तथाऽतश्चान्तरस्थोऽव्यये ।संकल्पो नरि मानमानसकृती चित्तस्थिरत्वं समा-धानं स्यादवधानवन्नरि मनस्कारो हृतं भोगवत् ॥ ३० ॥
1.1.30 · p. 3
शार्दूलविक्रीडितम्metre not read in every line
प्रमादोऽनवधानत्वं पुंस्याधिः स्यान्मनोव्यथा ।अभिप्रायाशयच्छन्दा आकूतच्छन्दसी मतम् ॥ ३१ ॥
1.1.31 · p. 4
अनुष्टुप्
छन्दसा निर्मितं यत्स्यात् तच्छन्दस्यं विशेष्यवत् ।मनोवाचोः पुनर्द्वंद्वे प्रोक्तं वाङ्मनसे इति ॥ ३२ ॥
1.1.32 · p. 4
अनुष्टुप्
मोक्षः स्यादपुनर्भवोऽपि च महानन्दोऽपवर्गस्तथादुःखौघप्रलयो महोदयद्रहः स्त्री निर्वृतिः सिद्धिवत् ।मुक्तिर्ब्रह्म नपुंसकेऽमृतशिवश्रेयांसि निःश्रेयसम्निर्वाणं सुखमक्षरं च कथितं कैवल्यमुच्चैःपदम् ॥ ३३ ॥
1.1.33 · p. 4
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 10 य (wrong syllable)
मुमुक्षुः स्यान्मोक्षकामोऽपवृक्तस्तु स मुक्तिभाक् ।वैरङ्गिको विरागार्हो योगो मोक्षस्य साधनम् ।ब्रह्मभूयं ब्रह्मभावो ब्रह्मसायुज्यमित्यपि ॥ ३४ ॥
1.1.34 · p. 4
अनुष्टुप्metre not read in every line
[4a] चतुर्वर्गो मोक्षधर्मकामार्थैस्तैस्त्वमोक्षकैः ।त्रिवर्गोऽथ चतुर्भद्रं तुर्यमत्र बलं यदि ॥ ३५ ॥
1.1.35 · p. 4
अनुष्टुप्
श्रायसं श्रेयसि भवं विशेष्यवदुदीरितम् ।श्रेयः पुण्ये सूत्ततमं गोधर्मो न स्त्री पुंसि वृषः स्यात् ।धर्म्यं धर्मादनपेतं यच्चरति तु धर्मं धार्मिकमाहुः ॥ ३५ ॥
1.1.35 · p. 4
अनुष्टुप्metre not read in every line
मङ्गलधर्मा मङ्गलधर्मोपेतो धर्मी धर्मयुतः स्यात् ।धार्मिणमन्त्ये धर्मिसमूहे धार्मिक्यं स्याद्धार्मिकतायाम् ॥ ३६ ॥
1.1.36 · p. 4
metre not recognised
दुरितमशुभमंहः किल्बिषं पापमङ्घःकुकृत-कलुष-किण्वान्यत्र कृष्णैनसी स्तः ।अपि वृजिनतमोघं कल्मषं न्यङ्ककण्वा-णकमपि मलपङ्कौ पातकं कल्कमस्त्री ॥ ३७ ॥
1.1.37 · p. 5
मालिनी
पाप्म यज्ञाङ्गकौपीनं नृशंसं शमलाचमेतद्वति त्रिष्वप्यधर्म ।अधर्मं यश्च चरति कथ्यतेऽसावधार्मिकः ॥ ३८ ॥
1.1.38 · p. 5
अनुष्टुप्metre not read in every line
कुल्मलं कश्मलं पाप्माकष्टायमानो यः पापं कर्त्तुमुत्सहते स्वयम् ॥ ३९ ॥
1.1.39 · p. 5
अनुष्टुप्metre not read in every line
कष्टायमानो गहनाय[4b]मानः सत्रायमाणो दुरितं चिकीर्षुः ।कक्षायमाणश्च विशेष्यलिङ्गाः कृच्छ्रायमाणेन समार्थकाः स्युः ॥ ४० ॥
1.1.40 · p. 5
इन्द्रवज्राmetre not read in every line
विधिर्विपाकोऽपि च तत्र चित्रा-टीरः स्त्रियां स्यात्त्रिपतिर्नृकर्म ।अदृष्टदिष्टे अपि भागधेय-भाग्ये च दैवं भवितव्यता च ॥ ४१ ॥
1.1.41 · p. 5
उपजातिः
दैवं भवाद्येषु फलं तु दैवंसांदृष्टिकं तत्क्षणजं प्रदिष्टम् ।पुमानुदर्क्कः फलमुत्तरं स्याद्दिष्टं मतिर्यस्य स दैष्टिकः स्यात् ॥ ४१ ॥
1.1.41 · p. 5
उपजातिः
व्युष्टिः फलं तदादौ तु सहसोपनते त्रिषु ।भवेदजाकृपाणीयं काकतालीयमित्यपि ॥ ४२ ॥
1.1.42 · p. 5
अनुष्टुप्
ऋद्धिः संपत् संपदास्त्राब्धिभूति-र्भूतिर्लक्ष्मीर्वृद्धिसंपत्तिनन्दाः ।पुंलिङ्गोऽयं स्याद्विधिर्यः शुभार्थो-ऽथापत्तिः स्यादापदापद्विपत्तिः ॥ ४३ ॥
1.1.43 · p. 6
शालिनी
आनन्द आनन्दथु-हर्ष-तोषाःआमोद-मोदौ प्रमद-प्रमोदौ ।स्युः सम्मदाह्लादमनःप्रसादाःमुत्प्रीतिवन्निर्वृतिरेवमेव ॥ ४४ ॥
1.1.44 · p. 6
इन्द्रवज्रा
रिष्टं हितं शर्म सुखं प्रियं चजोषं च कं शं मतमव्ययाह्वम् ।त्रिष्वानु[5a]कूल्येन सुखादिकारीप्रियाकरोऽसौ च सुखाकरश्च ॥ ४५ ॥
1.1.45 · p. 6
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 प्रि (wrong syllable)
सुखप्रियाद्यास्तद्वत्सु कथिता मेघलिङ्गकाः ।सुखायमानो यः स्वस्य भवेत्सुखनिवेदकः ॥ ४६ ॥
1.1.46 · p. 6
अनुष्टुप्
क्षेमंकरः क्षेमकरः क्षेमकारः प्रियंकरः ।प्रियकारो मद्रकारो मद्रंकर इमे त्रिषु ॥ ४७ ॥
1.1.47 · p. 6
अनुष्टुप्
क्लीबे दुःखमकं कलाकल अमानस्याऽऽमनस्ये तथा-ऽऽभीलं स्याद्गहनं प्रगाधमुदितं कष्टं च कृच्छ्रं समम् ।तृप्रः सूतिजकक्षसत्रमसुखं पुंस्याधिरर्त्तिः स्त्रियाम्आबाधाऽपि च वेदना निगदिता पीडा च बाधा व्यथा ॥ ४८ ॥
1.1.48 · p. 6
शार्दूलविक्रीडितम्
प्रसूतिकालजा सा स्यादाविरावीः स्त्रियामुभे ।दुःखादयोऽपि तद्वत्सु कथिता मेघलिङ्गकाः ॥ ५० ॥
1.1.50 · p. 6
अनुष्टुप्
कल्याणं कुशलं कल्याणं गोजागरिकं भाविकं च शुभम् ।मद्रं भद्रं भन्दभन्दाके श्रेयो निःश्रेयसमपि भव्यम् ॥ ५१ ॥
1.1.51 · p. 7
metre not recognised
कल्याणिनेयः कल्याण्यः अपत्ये भवति द्वयोः ।सौनृतेयः सूनृताया भावे कल्याणको भ[5b]वेत् ॥ ५२ ॥
1.1.52 · p. 7
अनुष्टुप्metre not read in every line
मङ्गलसाधुनि मङ्गल्यं स्यान्माङ्गल्यं च स्याच्चरमे भावे ।सौवस्तिकमुक्तं स्वस्ति-हित-प्रभृतावर्थे लिङ्गत्रितये ॥ ५३ ॥
1.1.53 · p. 7
metre not recognised
क्लीबे तु भद्रंकरणं कृतिर्भद्रस्य या भवेत् ॥ ५४ ॥
1.1.54 · p. 7
कम्बः कम्भः कंय-कन्ति-कन्तु-कन्ताः सकंयवः ॥ ५५ ॥
1.1.55 · p. 7
शुभं घुशं च शंयवःसशं भशं तशं तवः ।सशं यशं तयो ह्यमीसुखिन्युदीरितास्त्रिषु ॥ ५६ ॥
1.1.56 · p. 7
पञ्चचामरम्
प्रकाण्डमस्त्री नरि तल्लजोघौमतल्लिका स्त्री च मचर्चिका च ।एते समासान्तगताः प्रशस्ता-वेकोऽपि चोद्यः सुदिनं वसु स्यात् ॥ ५७ ॥
1.1.57 · p. 7
उपजातिः